सूक्तिसंग्रहः (कविराक्षसकृतः)

सूक्तिसंग्रहः (कविराक्षसकृतः)
[[लेखकः :|]]


॥ श्रीः ॥

कविराक्षसकृतः

सूक्तिसंग्रहः

काशीनाथ पाण्डुरङ्ग परब

इत्यनेन संस्कृतः ।


स च

मुम्बय्याम्

तुकाराम जावजी इत्येतेषां निर्णयसागरमुद्रणयन्त्रालया-
धिपेन पाण्डुरङ्ग जावजी इत्यनेन मुद्रयित्वा
प्रकाशितः ।





ख्रिस्ताब्दाः १९३०.




Published by Pandurung Jawuji, and Printed by
Ramachandra Yesu Shedge, at the “Nirnaya-
Sagar Press, 26-28, Kolbhat Lane,
Bombay.

॥ श्रीः ॥

कविराक्षसकृतः ।

सूक्तिसंग्रहः ।

प्रथमा पद्धतिः ।

त्रयीयुवतिसीमन्तसीमासिन्दूरबिन्दवः ।
संसाराब्धिं तरेयुर्वः कंसारेः पादपासवः ॥ १ ॥
सुपार्थिवैश्च पद्मैश्च सर्वतोमुखभूतिभिः ।
प्रसारिते मित्रकरे त्यज्यन्ते कोशसंपदः ॥ २ ॥
हतकामं चिरं लोकं प्रभोरुग्रस्य वीक्षणात् ।
कुर्याद्यो निजया लक्ष्म्या सकामं परमः पुमान् ॥ ३ ॥
विशिष्टं सर्वभूतेभ्यः श्रोतव्यं गुणवत्तया ।
न त्यजेद्विभुता नित्यमाकाशमिव भूमिपम् ॥ ४ ॥
काले मृदुश्च तीक्ष्णश्च नृपः स्याद्यदि सूर्यवत् ।
उदयः क्रियते तस्य मण्डलेनानुरागिणा ॥ ५ ॥
नलिनानां नृपाणां च श्रियं हि महतामपि ।
मित्रप्रतापो भूयोऽपि वर्धयत्यनिशोज्ज्वलाम् ॥ ६ ॥
यशोदयाशीलरूपमाधुर्यैरपि सर्वतः ।
स बालोऽपि पुमान्वृद्धः साधुवृन्दावने रतः ॥ ७ ॥
आरभ्यते महत्कार्यं यैः क्षुद्रैरपि पार्थिवैः ।
ते चक्रवर्तिनो भूत्वा जायन्ते भद्रभाजनम् ॥ ८ ॥

वशीकरोति पुरुषः समस्तानपि दानवान् ।
स्वमहिम्ना तथा हन्ति समस्तानपि दानवान् ॥ ९ ॥
नित्यमुत्कटदानानां भद्राणां स्तम्भमुज्झताम् ।
नृपाणां च द्विपानां च पुरः स्तोत्रं नहि प्रियम् ॥ १० ॥
इनः स एव सेव्यो यः स्वालोकेन सुधामुचा ।
द्विजेन्द्रमण्डलं क्षीणं समग्रयति संपदा ॥ ११ ॥
विलक्षणतया राजा बाल एव भृशोज्ज्वलः ।
लब्ध्वा वृद्धिं प्रतिकलं भात्यखण्डितमण्डलः ॥ १२ ॥
मन्त्रप्रभावसंपन्ना ये नरेन्द्राः समाहिताः ।
तुदन्त्यहिभयं नित्यं विना दण्डोद्यमेन ते ॥ १३ ॥
यः क्षये वर्तमानः सन्पाति पुण्यजनान्धनी ।
लोके मनुष्यधर्माणं किंनरं कथयन्ति तम् ॥ १४ ॥
परमस्येव पुंसोऽस्य नित्यं श्रीरनपायिनी ।
सारं सदाशयेनेह साधुचक्रं बिभर्ति यः ॥ १५ ॥
भूपालः करवालश्च योगे क्षेमे च स प्रभुः ।
यः प्रसन्नो मुक्तकोशः प्रत्यर्थिजनदानवान् ॥ १६ ॥
निशातमसिमूढं च करेणोल्लासयन्रिपोः ।
कबन्धोत्पातको राजा राजते जलधेरिव ॥ १७ ॥
अमन्दतरवार्युग्रधाराहतमहीभृतः ।
चित्रचापधरा वीरा विद्योतन्ते घना इव ॥ १८ ॥
भुङ्क्ते यस्य सदा भूरि जीवनं वाडवः शुचिः ।
स नदीनः प्रभुर्नित्यं दुर्लङ्घ्यामश्नुते दशाम् ॥ १९ ॥
महान्स एव पुरुषो यस्य सत्यानुरोधिनः ।
आक्षिप्तपारिजातेन बाहुना रक्ष्यते जगत् ॥ २० ॥
अजन्यकम्पाः शूरा ये नित्यमप्यपराङ्मुखाः ।
दर्शयन्त्यपरागेण परेभ्यश्चित्ररूपवत् ॥ २१ ॥

यत्र स्मृतेऽपि नारीणां निर्वृतिं लभते मनः ।
स दर्पकोपमानानां सीमापुरुष उच्यते ॥ २२ ॥
स एव केवलः कर्णः श्रेयानङ्गेषु शस्यते ।
यः कुण्डलस्य वहनात्यागेनैव प्रकाशते ॥ २३ ॥
गम्भीरं यत्प्रसन्नं च धनिनां मानसं महत् ।
द्विजानामुंपकाराय शुचिना केन निर्मितम् ॥ २४ ॥
कर्णलङ्घिगुणोत्कर्षा वदान्या धन्विनो यथा ।
निष्फलान्न विमुञ्चन्ति मार्गणान्समितौ स्थिताः ॥ २५ ॥
शक्तः शब्द इवैकः स्यात्साधुश्रुतिपदे स्थितः ।
सदध्याहारपूर्णस्य स्वार्थस्य प्रतिपादने ॥ २६ ॥

इत्ति कविराक्षसकृतौ सूक्तिसंग्रहे सुराजपद्धतिः प्रथमा समाप्ता॥१॥


द्वितीया पद्धतिः ।

उदयं प्राप्य तीक्ष्णत्वाद्दुःप्रेक्ष्यत्वमुपेयुषः ।
पादान्तिके वसुमतो नहि मानी निषीदति ॥ १ ॥
अनुवेलं निहन्यन्ते यस्य सिन्धोरिवोद्यमाः ।
तं प्रमथ्य श्रियं कोऽपि विपक्षो भूभृदुद्धरेत् ॥ २ ॥
आक्रम्य यस्य दोर्दण्डमरिचक्रं प्रकाशते ।
प्राप्नोति पुरुषो लोके स वैकुण्ठ इति प्रथाम् ॥ ३ ॥
अभावमीश्वरस्यापि कोदण्डेन निवारयेत् ।
प्राप्नोति विजयश्लाघां नरः पौरुषमाश्रितः ॥ ४ ॥
बलिना विद्विषे पुंसे पदं दीयेत चेद्भुवि ।
महत्त्वं प्राप्य स्वल्पोऽपि विक्रमेण श्रियं हरेत् ॥ ५ ॥
स्वस्थानादवरोप्येत बलात्पुंसा परेण यः ।
अपारिजातं न प्राहुः पार्थिवं पादपं च तम् ॥ ६ ॥
विरसप्रकृतिर्भूपः सत्त्ववानपि सिन्धुवत् ।
राज्ञा स्वान्तसमुत्थेन क्षोभ्यते मृदुनापि सः ॥ ७ ॥

यस्य राज्ञो नवसुधा सेव्या सुमनसां गणैः ।
ध्रुवं बहुलदोषोत्थः क्षयः स्यात्तस्य मण्डले ॥८॥
अधः कुर्वन्प्रजाः सर्वा बहुधा महिमोल्बणाः ।,
राजा पर्वणि कस्मिंश्चिद्भवेदहिभयाकुलः ॥ ९॥ :
महता करतापेन सर्वं वसु सतां हुरन् ।...
संपूर्णोऽप्यनुते राजा कलया क्षयमन्चहम् ।। १० ।।
यो हीनस्य प्रभावेण राजा सन्परिभूयते ।
. स तु न क्षत्रगोष्ठीषु तेजखीत प्रकीर्यते ।। ११ ॥
दत्वा वारं जनाय खं दिक्षु गर्जन्ति ये मुहुः ।
तानुत्सेकवतः प्राप्य नन्दन्ति न वनोपकाः ॥ १२ ॥
कुमुदैश्च कुभूपैश्च चनसंकुचितैरपि ।
प्राप्यते सुविकासश्रीराभिमुख्य गते विधौ ॥ १३ ॥
भूभुजामम्बुजानां च पत्रकोशवतामपि । '
दोषान्चयाव्यसनिनां संकुचन्ति ध्रुवं श्रियः ॥ १४ ||
भिक्षाशनो विषादी च सुहृद्यश्च धनेशितुः ।
न स्तूयते किंपुरुषैरपदानकरः सदा ॥ १५ ॥
क्षिपन्तं मार्गणान्रोषात्कृत्रिमं लुब्धमीश्वरम् ।
प्रपद्य न फलस्यात्यै कल्पते कोऽप्यफाल्गुनः ॥ १६ ॥
एकक्षितिभृदुत्पन्नाः सच्छिद्राः कण्टकोल्बणाः ।
मिथः संघर्षणाद्वंशा दह्यन्ते साधुशाखिभिः ।। १७ ।
दण्डे च कण्टकाक्रान्ते कोशे च प्रथितो नृपः ।।
नालं जेतुं कुवलयं मित्रेऽप्यसति पद्मवत् ।। १८ ॥
वृताः सर्वासुहृद्भिर्ये द्विजिह्वर्जिह्मगामिभिः ।।
दुर्भूभृतो न खेड्यास्ते जनैर्जीवनकाञ्चिभिः ॥ १९ ॥
जडेन राज्ञा लब्धेऽपि सकले निजमण्डले ।
विरोध्याक्रम्य गृह्णीयात्तं कदापि महत्तमः ॥ २० ॥

द्विपाश्च दुरमायाश्च प्रवृद्धा यन्न भूभृति ।
तस्यैव शृङ्गभङ्गाय मदात्परिणमन्ति हि ॥ २१ ॥

इति कविराक्षसकृतौ सुक्तिसंग्रहे कुराजपद्धतिद्वितीया समासा ॥२॥

तृतीया पद्धतिः ।

गुणदोषौ बुध गृह्णनिन्दुक्ष्वेडाविवेश्वरः ।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥ १ ॥
गुणिनो वृत्तविमला महावंशप्रसूतयः । ।
मुक्तामयाः प्रकाशन्ते नरा हारा इवोज्वलाः ।। २ ।।
साधुसंतानभाजो ये सन्तः संश्रितनन्दनाः ।
न ते मुञ्चन्ति पञ्चत्वेऽप्यौदार्यं स्वईमा इव ।। ३ ।।
स्वयं क्षोभमुपेत्यापि परानामोदयन्ति ये ।
भद्रश्रियस्ते जायन्ते खगोत्रस्यं प्रसिद्धये ॥ ४ ॥
मुञ्चन्तश्चापलरुचिं ये स्थिताः पावने पथि ।
घना इवाईहृद्याः प्रयतन्ते दिगन्तरम् ॥ ५ ॥
प्रकृष्टजातरूपश्रीर्मानेन च महत्तरः ।
एक एव महार्भेषु भवेत्सर्वोत्तरो भुवि ।। ६ ।।
मणयः सुधियश्चापि निसर्गादग्रतेजसः । ।
अन्तस्त्रासेन निर्मुक्ता राज्ञां स्युर्हदयंगमाः ।। ७ ।।
मुक्तामृणालसुधियां निर्मलानां निसर्गतः ।
क्षुद्र यदि स्याद्यच्छिद्रं तद् गैरपिधीयते ॥ ८ ॥
विवृण्वन्ती पुरस्तैक्ष्ण्यं पृष्ठतः कुर्वती गुणान् ।
कर्णान्विध्यति लोकस्य सूची वा सूचकस्य वाक् ।। ९ ।।
महागोत्रेषु संजाता मृदवो येऽपि ते घनाः ।
खजीवनव्ययेनापि बहुधान्योपकारिणः ।। १० ।।
भुवनोत्तरकल्पाना भोगेष्वव्यभिचारिणाम् ।
केदाराणां प्रकृष्टानां न तृप्यन्ति कुटुम्बिनः ॥ ११ ॥

प्रासादातिशयेनाशु विस्फुरत्सर्वसंपदः ।
नदीनां संङ्गवन्तोऽपि साधवः सिन्धवो यथा ॥ १२ ॥
पार्थे वसन्तं कामेषु साधकं सहचारिणम् ।।
दृष्ट्वापि कः पुमान्हुष्यन्नालपेन्मधुरां गिरम् ॥ १३ ॥
अशेषचक्षुःश्रवणं प्रतिकूलो भवन्नपि ।
विनतानन्दहेतुर्यः स पुमानासनन्दनः ॥ १४ ॥
शब्दशक्त्यैव कुर्वाणा सर्वदानवनिर्वृतिम् ।
काव्यविद्या श्रुतिगता स्यान्मृतस्यापि जीविनी ।। १५ ।।
अनेकवर्णपदतां वाग्विद्युदिव बिभ्रती । ।
अभ्रान्तेषु सदा सारसङ्गिषु स्यात्स्फुरदुणा ॥ १६ ॥
गूढभावास्पदत्वेन यदनादेयवद्भवेत् ।
न जानते तत्कवयो गूढं सारखतामृतम् ॥ १७ ॥
क्षीणनेहो निशान्तेषु मुञ्चन्खां जनसंहतिम् । ।
आत्मन्याप्तरुचिर्योगी निर्वाणं याति दीपवत् ॥ १८ ॥
निर्मुक्तभोगशुचिता क्षमया मूर्ध्नि संगतिः ।
महिम्ना चाप्यहीनत्वं न ह्यशेषस्य विद्यते ।। १९ ॥
पश्यन्मध्यस्थया दृष्ट्या कामं द्रुह्यन्तमप्यरिम् । ।
अनङ्गीकृत्य यः शाम्येत्सत्यमीश्वर एव सः ॥ २० ॥
योगिधीरर्कदीप्तिश्च प्राचीनतमसः क्षयात् ।।
क्रमाद्दीत्या परां काष्ठां याति कामं विहायसा ।। २१ ॥

इति कविराक्षसकृतौ सूक्तिसंग्रहे सुजनपद्धतिस्तृतीया समासा ॥३॥


चतुर्थी पद्धतिः ।

अलकाश्च खलाश्चैव मूर्ध्नि भीरुजनैताः ।।
उपर्युपरि सत्कारेऽप्याविष्कुर्वन्ति वक्रताम् ॥ १ ॥
गुणानार्तिपरात्रीत्वा घनिनो धन्विनो यथा ।
निम्नन्ति हृदयं दृप्ता विदुषां विद्विषामिव ॥ २ ॥

महाप्रभञ्जनं प्राप्य स्वान्तेषु कलुषीकृताः ।
प्रतिकूलं विचेष्टन्ते नीचाः केऽपि जडाशयाः ॥ ३ ॥
प्रियार्थतृष्णामापाद्य विप्रलम्भेन खेदयन् ।...
विनापि विग्रहं लोकान्कामवद्वाधते खलः ॥ ४ ॥
पुरुषा विवरं प्राप्य केऽप्यलक्षितसंभवाः ।
शोषयन्ति महावंशन्मुिखे तीक्ष्णा घुणा इव ।। ५ ।।
अदाक्षिण्यादतीवोग्राः पवना इव दुर्जनाः । ।
गुरूनपि प्रतिक्षेप्नु प्रयतन्ते क्षमाभृतः ॥ ६ ॥
मूर्खाश्च मुकुराश्चैव भृशं भूल्यवलेपिनः ।।
परेषामनुरूपाणि विपर्यासेन गृह्यते ॥ ७ ॥
मधुव्रताश्च मूर्खाश्च रजसा रूक्षतां गताः ।
नित्यमाक्रम्य गृह्णन्ति सारं सुमनसा मुखात् ॥ ८ ॥
आसाद्य मन्दरागोऽपि भुजंगेनातिसंगतिम् ।
तद्भोगात्तु भ्रमन्कष्टं प्राप्नोति विषमन्ततः ॥ ९ ॥
दुर्भूत्यो दुरुपानच्च प्राप्यापि स्नेहसक्रियाम् ।
स्वामिनः पदभङ्गाय खकाठिन्येन कल्पते ॥ १० ॥
अपथेनैव यो मोहादधः सारायते स्वयम् ।
नीचोपसर्पणवशात्स पतेद्वंशवानपि ॥ ११ ॥
मन्दतीक्ष्णरुचिः पापः कुजन्मा यच्च देहिनाम् ।।
दुःखाय जन्म भजते निधनं चेति विस्मयः ॥ १२ ॥
जनित्वाप्युनते वंशे वक्राः केचन कण्टकाः ।।
कुर्युर्जनपदक्केशं साधुमार्गस्य दूषकाः ॥ १३ ॥
स्वपक्षमवधुन्वन्तः परानाशु विशन्ति ये । ।
गुणोज्झितत्वात्तेभ्योऽपि च्यवन्तेऽत्र रारा इव ॥ १४ ॥
नित्यमक्षिगतस्यापि दुर्जनस्याञ्जनस्य च ।
न लक्षयितुमाकारः शक्यः स्यात्स प्रवेशतः ॥ १५ ॥

नौश्च दुर्जन जिह्वा च प्रतिकूलं विसर्पिणी ।
प्रतारणाय लोकानां दारुणा केन निर्मिता ।। १६ ॥
लक्षयित्वैव लुब्धैशाः किंचिद्रूपं भयानकम् ।
मार्गणानां प्रबर्तन्ते क्षयायानपराधिनाम् ॥ १७ ॥
नीतोऽप्यभ्यन्तरत्वेन जनैः प्राणसमानताम् ।
खलो वायुरिवारूपो दुर्ग्रहः स्पर्शनं विना ॥ १८ ॥
मुदवोऽपि सदामोदहेतवोऽप्यमला अपि ।
नातिश्लाघ्याः समनसो जनैतिविवर्जिताः ॥ १९ ॥
कृपणेन कथंकारं कृपाणः सह गण्यते ।
परेषां दानसमये यः स्वकोश विमुञ्चन्ति ॥ २० ॥
जडाशयस्य हृदये कामः सोम इवोत्थितः ।
बहीरपि क्षपाः प्राप्य क्षयं याति नभोगतः ॥ २१ ॥
भ्रमेण महितं नीचैत्वादाय तु जीवनम् ।।
क्षेत्रे दत्ते घटीयन्त्रमक्षेत्रे बालिशो जनः ॥ २२ ॥

इति कविराक्षसकृतौ सूक्तिसंग्रहे कुजनपद्धतिश्चतुर्थ समाप्त ॥ ४॥


पञ्चमी पद्धतिः ।

बाल्ये कामप्रवृद्धस्तु वृद्धः स्यादधिको जडः ।
खान्ते च कृष्णरूपश्चैत्पूज्यो राजा द्विजन्मिनाम् ॥ १ ॥
शुचेर्यस्य द्विजेन्द्रस्य हृदयं हरिणाश्रितम् ।
विराजति पदे विष्णोरतिक्रम्याशुभानि सः ॥ २ ॥
क्षुद्रान्हिला सवयोऽप्यप्रसन्नाञ्जलाशयान् ।।
विप्रस्थितो हंस इव प्रामुयान्मानसं शुभम् ॥ ३ ॥
वसनप्यवदातानां द्विजानां सविधे सदा । ।
रामानुबन्धमधरो न कदाचिद्विमुञ्चति ॥ ४ ॥

द्विजेन्द्रोऽपि कलाढ्योऽपि कामचारी भवेत्सदा ।
नित्यं निमज्जनप्यब्धौ नान्त:शुद्धो भवत्यलम् ॥ ५ ॥
वेदत्रयमयो यः स्यात्सोऽपि हीनः क्षणाद्भवेत् ।
खस्यैव रुच्या पीतायां वारुण्यां सत्पथाच्युतः ।। ६ ।।
देवाश्च भूमिदेवाश्च नित्यमप्यमृताशनाः ।।
हीयन्ते खाधिकारात्ते ये सेवन्ते नवासवम् ॥ ७ ॥
दृष्ट्वाग्रे भूभृतः कन्यां शमस्थोऽपि विकारवान् ।
अतनु काममातन्वनष्टात्मेत्युच्यते बुधैः ॥ ८ ॥
द्विजः सुमनसो हित्वा भृङ्गवद्दानलिप्सया ।
आश्रयन्नृपमातङ्गान्सीदेच्छ्रतिनिषेधतः ॥ ९ ॥
अधिगभ्याशु गोलक्षमेकः शाम्यति मार्गणः ।
अनुरोधस्थिरतया न च शक्यप्रतारणा ॥ १० ॥
साध्वी सरिच्च पथौ स्याद्विरसेऽप्यपराङ्मुखी ।
पितृपयभिगुप्तापि या लङ्का धवगामिनी ।
सर्वदैव क्रियानह सा स्त्री दिगिय दक्षिणा ॥ ११ ॥
कविविद्यादुराधर्षो यो राक्षस इवापरः ।
दक्षिणस्थो लब्धवणे विख्यातः कविराक्षसः ॥ १२ ॥
प्रसादार्थं सुमनसां संतोषार्थं सभासदाम् ।
पाण्डित्यं ख्यापर्यंस्तेन कृतोऽयं सूक्तिसंग्रहः ॥ १३ ॥

इति कविराक्षसकृतौ सूक्तिसंग्रहे प्रकीर्णपद्धतिः पञ्चमी समासा ॥५॥

समाप्तोऽयं ग्रन्थः ॥