सुक्ष्मागम
त्१०१३
प्. १)

श्री ॥

शुभमस्तु ॥

अविघ्नमस्तु

गुरवे नमः । गंनपते नमः । इष्टदेवताय नमः ॥

सूक्ष्मागम - आर्चनविधिः ।

आसुवाहमखिलस्य नायकं
कारणात्कलभवक्त्रसंस्थितम् ।
प्रातरेव सततं नमाम्यहं
पारिजातमिव पार्वतीसुतम् ॥

अथातः संप्रवक्ष्यामि शिवपूजाविधिक्रमम् ।
आत्मार्थं च परार्थं च द्विविधं यजनं मतम् ॥ १ ॥

शिवव्रत द्विजातीनामात्मार्थं तु प्र * यते ।
दीपान्तं च हविष्यान्तं द्विविधो विधिरुच्यते ॥ २ ॥

आर्यदेशोद्भवस्योक्तं शिवद्विजपरार्थकम् ।
प्रधानं सर्वदीक्षासु शिवदीक्षा विशिष्यते ॥ ३ ॥

तस्माच्छिव द्विजाश्चास्मिन् सर्वान् देवान् प्रपूजयेत् ।
चतुर्विधं समाख्यतं दीपान्तं हविरन्तकम् ॥ ४ ॥

बलयन्तमथ नृत्तान्तं यथाविभवविस्तरम् ।
शौचमाचमनं स्नानं भस्मस्नानं च तर्पणम् ॥ ५ ॥

कवाटोद्घाटनं पश्चाद् रेचकादि त्रयं तथा ।
अङ्गन्यासकरन्यासं महातत्त्वादिलक्षणं ॥ ६ ॥

तेषां तु मण्डलं वर्णं धि देवोच्चारणाक्षरम् ।
ग्रन्थिनश्छेदनं पश्चाद् भूतशुद्धौ तु संभवम् ॥ ७ ॥

प्. २)

आत्मशुद्धिं कलान्यासं पुष्पभेदं शुभाशुभम् ।
द्वारपूजां तथा पश्चात् स्थान शुद्धिमतः परम् ॥ ८ ॥

द्रव्याणां पात्रशुद्धिं च अभिषेकस्य लक्षणं ।
पाद्यमाचमनं चार्घ्यं गन्धद्रव्यस्य लक्षणं ॥ ९ ॥

Vईशीतारिं चार्घ्य कालं च त्रिगन्धं चाष्टपुष्पकम् ।
सप्तवायुर्पाचारयत् महाघण्टाप्रताडनम् ॥ १० ॥

प्रच्छन्नपटकालं यल्लिङ्गशुद्धिमतः परम् ।
मुखं पादं च पृष्ठं च पीठशुद्धिमतः परम् ॥ ११ ॥

आसनं तस्य कालं च मुद्रा कालमतः परम् ।
पञ्चावरणपूजां च तेषां वर्णाकृतिं ततः ॥ १२ ॥

पीथपूजां तदन्ते तु जाति भेदेन संयुताम् ।
कवाटो दुम्बर विधिं धूपधीपविधिं ततः ॥ १३ ॥

नीराजन विधिं चैव नैवेद्यं चाग्नि कार्यकम् ।
परिवारार्चनं चैव सर्वदेवार्चनं ततः ॥ १४ ॥

तेषां तु लक्षणं वर्णा भक्तपूजां च लक्षणं ।
नित्योत्सवं ततः पश्चात् पादुकाभ्यर्चनं तथा ॥ १५ ॥

घटिकालक्षणं चैव पूजाफलमतः परम् ।
इत्येवमादिकाः सर्वा यो विन्दति स पूजकः ॥ १६ ॥

शिवं स्मरन्नुषः काले दण्डपाणिः शिवाग्रजः ।
गत्वाग्रामाद्बहिः पश्चात् विण्मूत्रादि विसर्जयेत् ॥ १७ ॥

प्. ३)

कर्णमूले करे वाथ उपवीतं न्यसेद् बुधः ।
रविं दक्षणतः कृत्वा दक्षिणाभिमुखो निशि ॥ १८ ॥

भूतले तृणमादाय ऋजुकायो न वाचयन् ।
प्रत्यादित्यजलाग्नीनां चन्द्र गो ब्राह्मणान् प्रति ॥ १९ ॥

देवालय समीपे च कूपे कोष्ठे च भस्मनि ।
क्षेत्रेषु वृक्षच्छायायां नद्यामन्तः सरस्सु च ॥ २० ॥

चैत्ये वृक्षसमीपे वा वेलायां वा महोदधः ।
नक्षत्रे चन्द्रमये चैव न कुर्यादुभयं नरः ॥ २१ ॥

मृत्पिण्डं दक्षिणे हस्ते गृहीत्वा शिश्नमध्यतः ।
जलतीरे समागम्य शौचं पश्चात् समाचरेत् ॥ २२ ॥

अक्षमात्र मृदाशिश्नं पश्चाधा गुदशोधनम् ।
पञ्चधापादहस्तौ च त्रिधा चैव प्रशोधयेत् ॥ २३ ॥

विसर्ज्य तीरमन्यत्र चरेदाचमनं बुधः ।
सपवित्रकरः कुर्यात् त्रिभिर्दर्भैस्तु पञ्चभिः ॥ २४ ॥

दक्षिणवर्तग्रथितं पवित्रं चतुरङ्गुलम् ।
स्थले तु दक्षिणं पादं कृत्वा वामां जले स्थितम् ॥ २५ ॥

गोकर्णाकृतिहस्तेन माषमग्नजलं पिबेत् ।
यथा त्रिवारं पीत्वा तु ऋग्यजुःसाममन्त्रकैः ॥ २६ ॥

अङ्गुष्ठेन स्पृशेदास्यं मुखं हस्तेन संस्पृशेत् ।
श्रोत्रेङ्गुष्ठे कनिष्ठाभ्यां बाह्याङ्गुष्ठेन संस्पृशेत् ॥ २७ ॥

प्. ४)

स्पृष्ट्वा नाभिं कनिष्ठेन चाङ्गुष्ठेन स्पृशेद्धृदि ।
मूर्ध्नि सर्वाङ्गुलिभिस्तु पञ्चप्रह्यषडङ्गकैः ॥ २८ ॥

शौचमाचमनं प्रोक्तं पश्चात् स्नानं समाचरेत् ।
स्नानाद्धि मृदमादाय विन्यसे दक्षिणाधिकम् ॥ २९ ॥

अस्त्रेण प्रोक्षयेत् पश्चात् त्रिधा कृत्वाभिमन्त्रयेत् ।
कवचेन ब्रह्म तीर्थाभि मन्त्र क्रमेण तु ॥ ३० ॥

उत्तरेण मृदा पूर्वमष्टदिक्षु क्रमेण तु ।
दक्षिणेन मृदा चास्सु शिवतीर्थं प्रकल्पयेत् ॥ ३१ ॥

मूध्नादि वक्त्रपादान्तं संस्पृशेन्मध्यमं हृदा ।
पश्चात् स्नानं प्रकुर्वीत चरेदाचमनं बुधः ॥ ३२ ॥

कलशमुद्रां बध्वा तु स्नापयेन् मन्त्रसंहितैः ।
माषमग्नं तु यद्वारि तत् तन् मन्त्रैः पिबेद् बुधः ॥ ३३ ॥

दधिक्रामन्त्रमनुस्मृत्य प्रोक्षयेच्छिरसि क्रमात् ।
द्विजानां दक्षिणे हस्ते पञ्चतीर्थं प्रचोदितम् ॥ ३४ ॥

सूर्यस्य चोदकं दद्यात् प्राणायामं तु धारयेत् ।
सावित्र्याष्टशतं जप्त्वा उपस्थानं समाचरेत् ॥ ३५ ॥

देव ऋषि पितॄणां च पश्चतर्पणमाचरेत् ।
कनिष्ठमध्यरेखाभिः तर्पयेत् सुरतृप्तये ॥ ३६ ॥

अङ्गुल्यग्रे ऋषीणां च तत् तन् मन्त्रमनुस्मरन् ।
अङ्गुष्ठतर्जनीमध्ये पितृतर्पण माचरेत् ॥ ३७ ॥

प्. ५)

ब्राह्ममङ्गुष्ठमूले तु अग्नितीर्थं तथा तले ।
पाद प्रक्षालनं कृत्वा पश्चादाचमनं चरेत् ॥ ३८ ॥

पालाशपद्मपत्रे वा गोशालां संप्रविश्य च ।
सद्येन गोमयं ग्राह्यं पिण्डं वामेन कारयेत् ॥ ३९ ॥

अघोरेण दहेत् सर्वं वक्त्रमन्त्रेण सङ्ग्रहेत् ।
भस्मं तु ब्रह्मविद्याङ्गैः पत्रामत्रैश्च विन्यसेत् ॥ ४० ॥

मन्त्रैश्च संस्कृतं भस्म श्रोत्र्याङ्गाराजतं तु या ।
प्रविशेदालयं पश्चादाचार्यस्तु समाहितः ॥ ४१ ॥

कवाटे मृदमभ्यर्च्य तन्मध्ये च स्वनामतः ।
अघोरास्त्रं समुच्चार्य कवाटोद् घाटनं क्रियात् ॥ ४२ ॥

पूजान्ते रुद्रमभ्यर्च्य कवचेन तु बन्धयेत् ।
उत्तराभिमुखो भूत्वा रुचिरासनसंस्थितः ॥ ४३ ॥

भस्म स्ववामपाणौ तु निक्षिप्यास्त्रेण शोधयेत् ।
शिवमन्त्रशतं जप्त्वा भस्मना स्नानमाचरेत् ॥ ४४ ॥

भस्मेति कीर्तितं नॄणां पापसंभाषणात् सदा ।
दशदिग्बन्धनं कृत्वा अस्त्रेणैव तु देशिकः ॥ ४५ ॥

करपूजा प्रकर्तव्या गन्धपुष्पादिना पुरा ।
पूरकं कुम्भकं चैव रेचकं पूर्वमभ्यसेत् ॥ ४६ ॥

औदर्यं वायुमङ्गुल्या नासिकां पीड्य रेचयेत् ।
द्रुतिवत् पूरयेत् संम्यक् जठरं बाह्यवायुना ॥ ४७ ॥

प्. ६)

पूरकं तु समाख्यातं पश्चात् कुम्भकमभ्यसेत् ।
अन्तर्बहिस्थितं वायुं न गृह्णानि न मुञ्चति ॥ ४८ ॥

पूर्णकुम्भमयं यस्मात् तस्मात् कुम्भकमुच्यते ।
द्वादशेन तु मात्रेण रेचकादीन् तथाभ्यसेत् ॥ ४९ ॥

अङ्गन्यासं करन्यासं त्रिविधं समुदाहृतम् ।
ब्रह्मचारि गृहस्थानां सृष्टिश्च स्थितिरेव च ॥ ५० ॥

वानप्रस्थ यतिनां च संहारं तत्प्रशस्यते ।
दक्षिणादि कनिष्ठान्तमङ्गुष्ठान्तं तु वामतः ॥ ५१ ॥

दशबीजं न्यसेत् सृष्टि स्थिति न्यासं समाचरेत् ।
दक्षिणाङ्गुष्ठमादि स्यात् कनिष्ठादि तथोतरे ॥ ५२ ॥

पञ्चब्रह्मं न्यसेत् पश्चात् संहारन्यासमाचरेत् ।
वामाङ्गुष्ठमथादि स्याद् दक्षिणाङ्गुष्ठमन्ततः ॥ ५३ ॥

शिवाङ्गं विन्यसेत् पश्चादस्त्रं हस्ततले न्यसेत् ।
करन्यासमिदं प्रोक्तमङ्गन्यासं ततः परम् ॥ ५४ ॥

मूर्ध्नादि पादपर्यन्तं सृष्टिन्यासमुदाहृदम् ।
मूर्ध्नि वक्त्रे च हृदये गुह्ये पादे यथाक्रमम् ॥ ५५ ॥

ईशानादिनि सद्यान्तं पादादि संहृदि भवेत् ।
पादे गुह्ये च हृदये वक्त्रे मुर्ध्नि च विन्यसेत् ॥ ५६ ॥

सद्यादीशानपर्यन्तं हृदयादि स्थितिर्भवेत् ।
हृदये हृदयं न्यासं शिरः शिरसि विन्यसेत् ॥ ५७ ॥

प्. ७)

शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः ।
अस्त्रं हस्त प्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् ॥ ५८ ॥

स्थितिन्यासमिदं प्रोक्तं पृथिव्यादि न्यसेद् बुधः ।
पृथिव्यादि महातत्वे स्थितं तत्त्वं समासतः ॥ ५९ ॥

पृथिव्याय मण्डलं पण्यं धिदेवोच्चारणाक्षरम् ।
वक्ष्ये पृथक् पृथक् न्यासं अङ्गुष्ठादि यथाक्रमम् ॥ ६० ॥

चतुरश्रमण्डलं हेमं पृथ्वि ब्रह्माधिदेवतम् ।
अङ्गुष्ठादि च जान्वन्तं पञ्चोच्चार्यं तु ह्यान्यसेत् ॥ ६१ ॥

धनराकृत् सितं वण्यं विष्णुश्चाधिपतिः स्मृतः ।
जान्वादिनाभिपर्यन्तं ह्विं चेति चतुरस्ततः ॥ ६२ ॥

त्रिकोणं सप्तशिख्युक्तं रक्तं रुद्राधिदेवतम् ।
नाभ्यादि चैव कण्ठान्तं हौं चेति त्रिसमुच्चरेत् ॥

षट्कोणवायुदैवत्यं कृष्णमीश्वरकारणम् ।
वायुमण्डलमेवोक्तं ह्यैं चेति द्विसमुच्चरेत् ॥ ६४ ॥

कण्ठादि च ललाटान्तं विन्यसेत् तु विशेषतः ।
धूम्रं वृत्तं तथाकाशं मण्डलं तु सदाशिवम् ॥ ६५ ॥

ललाटादि शिखाग्रान्तमेकोच्चार्यं शिवोत्तरम् ।
पृथिव्या लक्षणं प्रोक्तं पञ्चग्रन्थिस्तु छेदयेत् ॥ ६६ ॥

मेढ्रग्रन्थिस्तु पूर्वं स्यात् नाभिग्रन्थि द्वितीयकम् ।
त्रितीयम् उदरग्रन्थि गलग्रन्थि चतुर्थकम् ॥ ६७ ॥

प्. ८)

पञ्चमं तु शिरोग्रन्थि शिवास्त्रेणैव छेदयेत् ।
ग्रन्थिच्छेदमिदं प्रोक्तमात्मशुद्धिं तु कारयेत् ॥ ६८ ॥

योजयेत् पूर्वमात्मानं हंसेन हृदयेन च ।
शिखाग्रे द्वादशाङ्गुल्या शुद्धस्फटिकसन्निभे ॥ ६९ ॥

संहारमुद्रया पश्चाद् ध्यात्वा तच्छुष्कदारुवत् ।
अग्निमण्डलसंयुक्तं अग्निबीजेन दाहयेत् ॥ ७० ॥

पादाङ्गुष्ठादिकान्तं च ज्वलादि परिवेष्टितम् ।
भस्माकारमिदं ध्यात्वा अमृते प्लावयेत् ततः ॥ ७१ ॥

चन्द्रमूध्निह्यधस्तात्तु प्रणवाब्जमधोमुखम् ।
अमृतं चिन्तयेद् भिन्ने सौषुम्ने मस्तके शुभे ॥ ७२ ॥

आत्मानमानयेत् तत्र हंसे नैव तु मन्त्रयेत् ।
सर्वज्ञानमयं देवं सर्वदेवमयं शुभम् ॥ ७३ ॥

एवं संयोज्य विधिवत् सर्वमृत्युविनाशनम् ।
अङ्गन्यासं ततः कुर्यात् मूर्ध्नादीशानपूर्वकम् ॥ ७४ ॥

अष्टत्रिंशत्कलान्यासं मूर्ध्नादि परिकल्पयेत् ।
ईशानं पञ्चमूर्ध्नि स्यात् पुरुषं वदनेषु च ॥ ७५ ॥

प्रणवञ्चोर्ध्व वक्त्रे तु न्यसेत् पूर्वादितः क्रमात् ।
हृग्रीवयोस्तथाचासे जठरे नाभिपृष्ठयोः ॥ ७६ ॥

उरसि स्यादघोरेण पश्चाद्गुदे तथैव च ।
लिङ्गे चोर्वोस्तथा जान्वोः जङ्घयोः स्फिक्प्रदेशतः ॥ ७७ ॥

प्. ९)

कटिपार्श्वेष्वथ न्यासं वामदेवेन वै बुधः ।
पादौ पाण्यौस्तथा घ्राणे शिरो बाहू तु सद्यतः ॥ ७८ ॥

शिवोऽहमिति संभाव्यमन्तर्यागं ततः शृणु ।
हृदयाब्जे न्यसेद् देवं प्रणवाकारमीश्वरम् ॥ ७९ ॥

अर्चयेत् तु विधानेन अष्टत्रिंशत् कलैर्युतम् ।
अङ्गुष्ठमात्रमचलं शिवविद्याङ्गसंयुतम् ॥ ८० ॥

नाभौ होमं प्रकुर्वीत ललाटे सर्वतोमुखम् ।
ध्यायेत् तत्रेश्वरं सम्यगन्तर्यागमिदं क्रमात् ॥ ८१ ॥

पञ्चावरणकं वापि त्रिकमेकमथापि वा ।
श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुर्विधम् ॥ ८२ ॥

द्रोणमन्दारपुन्नागा श्वेतार्कश्वेतपत्रकम् ।
नन्द्यावर्त्तं श्रियावर्तं महाद्रोणं च सात्विकम् ॥ ८३ ॥

करवीरं रक्तपद्मं पाटली बृहती तथा ।
रक्तोत्पलानि पुष्पाणि राजसानि विनिर्दिशेत् ॥ ८४ ॥

चम्पकारग्वधे चैव कर्णिकाद् धूधूमेव च ।
मिश्रकानि समाख्यातं विष्णुक्रान्त्युपलानि च ॥ ८५ ॥

तामसानि समाख्यातं वकुलं शीर्षकेतकी ।
करं च बन्धूकः करमुदः डाडिमी किंशुकादयः ॥ ८६ ॥

लाङ्गली चैव बृहती जपापुष्पाणि वर्जयेत् ।
अपक्वादीनि मुकुलं लूतसूत्रवृतानि च ॥ ८७ ॥

प्. १०)

स्वयं पतितपुष्पाणि सञ्चितान्यपि वस्त्रके ।
एकाहोषितपुष्पाणि वर्जयेत् तु प्रयत्नतः ॥ ८८ ॥

पुष्पशुद्धिः समाख्याता द्वारपूजां समारभेत् ।
वृषभगायत्रिमन्त्रेण शिवाग्रे वृषभं यजेत् ॥ ८९ ॥

द्वारोर्ध्वे दक्षिणे भागे गणेशं संप्रपूजयेत् ।
द्वारोर्ध्वे वामपार्श्वे तु सरस्वतीं प्रपूजयेत् ॥ ९० ॥

द्वारोर्ध्वे मध्यमे चैव श्रीदेवीं संप्रपूजयेत् ।
द्वारस्य दक्षिणे पार्श्वे गङ्गानन्दिनमर्चयेत् ॥ ९१ ॥

द्वारस्य वामे यमुनां महाकालं प्रपूजयेत् ।
तत्तत् स्वनाममन्त्रेण गन्धपुष्पादिभिर्यजेत् ॥ ९२ ॥

स्थानशुद्धिं ततः कुर्याद् गोमयेनानुलेपयेत् ।
चतुरश्रमण्डलं कृत्वा त्रितलं च हृदा बुधः ॥ ९३ ॥

क्षितिं पूज्य विधानेन दिग्बन्धं चास्त्रमन्त्रतः ।
स्थानशुद्धिरिति ख्यातः पाद्याचमनपात्रकम् ॥ ९४ ॥

अर्घ्यपात्रं शरावं च शङ्खभाण्डं विशोधयेत् ।
कलशं हृदये नैव कवचेनावकुण्ठयेत् ॥ ९५ ॥

वस्त्रपूतेन तोयेन वर्धनीं च प्रपूरयेत् ।
पञ्चब्रह्मषडङ्गैश्च पात्रे मन्त्रैश्च तज्जलैः ॥ ९६ ॥

सुरभिमुद्रां बध्वा तु शिवाम्भश्चेति भावयेत् ।
अष्टद्रोणजलैश्चापि तदर्धार्धजलै क्रमात् ॥ ९७ ॥

प्. ११)

सर्वगन्धसमायुक्तमभिषेकं समाचरेत् ।
प्रोक्षयेत् सर्वपात्राणि हृन्मन्त्रेण शिवाम्भसा ॥ ९८ ॥

पाद्यादिसर्वपात्राणि साधयेत् तु विशेषतः ।
यवसिद्धार्थदूर्वाश्च चन्दनोशीरसंयुताः ॥ ९९ ॥

पाद्यद्रव्यं भवेदेतन्निम्बुजातिफलैर्युतम् ।
एलालवङ्गकर्पूरं षङ्गाचमनं भवेत् ॥ १०० ॥

तिलैः पुष्पकुशाग्रैश्च अद्भिः क्षीरयवैस्तथा ।
तण्डुलैः सर्षपोपेतमर्घ्यमेतत् प्रकीर्तितम् ॥ १०१ ॥

मयेयरूपसन्त्यागादाक्तशक्तिस्वरूपतः ।
शिवयोग्यं भवेद् द्रव्यं सा क्रिया द्रव्यशोधिनी ॥ १०२ ॥

कुङ्कुमं चन्दनं कुष्ठं कर्पूरागरुमिश्रितम् ।
गन्धद्रव्यमिदं प्रोक्तं शीतारि चाधुनोच्यते ॥ १०३ ॥

त्रिगुणं चन्दनं प्रोक्तं निर्यासं द्विगुणं भवेत् ।
अगुरुं चैकभागं स्यात् किञ्चित् कर्पूरमिश्रितम् ॥ १०४ ॥

शीतारिद्रव्यमेवोक्तमधुना प्लावितं तु वै ।
आवाहने च पूजान्ते विसर्जनान्ते योजयेत् ॥ १०५ ॥

अर्घ्ये विलेपने स्नाने त्रिषु गन्धं सुयोजयेत् ।
आवाहने तथा चार्घ्येन स्नाने धूपे विलेपने ॥ १०६ ॥

निवेदने विसर्जे च पुष्पमष्टसुयोजयेत् ।
आवाहने तथा चार्घ्ये पाद्ये स्नाने तथैव च ॥ १०७ ॥

प्. १२)

आचमने च नैवेद्ये विसर्जे सप्तवारि च ।
आवाहनं पुराप्रोक्तं स्थापनार्घ्ये तथैव च ॥ १०८ ॥

गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ।
विसर्गाचमीये च उपचारा दश स्मृताः ॥ १०९ ॥

गन्धपुष्पेण संयोज्य पुष्पं गन्धेन योजयेत् ।
धूपदीपेन संयोज्य दीपं धूपेन योजयेत् ॥ ११० ॥

द्रव्यशुद्धिः समाख्याता मन्त्रशुद्धिरतः परम् ।
नमः स्वाहा वषड्वौषट् स्वाहान्तं प्रणवादिकम् ॥ १११ ॥

उपांशूच्चार्य चाभ्यर्च्येत् वाचकीं होमकर्मणि ।
मनसान्तरजप्ये तु सर्वमन्त्रमुदाहृतम् ॥ ११२ ॥

मन्त्रशुद्धिः समाख्यातो लिङ्गशुद्धिरतः परम् ।
अभिषेके च धूपे च नैवेद्ये लिङ्गकर्मणि ॥ ११३ ॥

विसर्जने समाप्तौ तु महाघण्ठां प्रताडयेत् ।
पापिष्ठकुष्ठरोगार्तनास्तिकनामदर्शयेत् ॥ ११४ ॥

तत्काले तु प्रयोक्तव्यं प्रच्छन्नपटमुत्तमम् ।
पूजापर्युषितं पुष्पं हृदयेन विसर्जयेत् ॥ ११५ ॥

तत्पुष्पं संगृहीत्वा तु चण्डेशं चार्चयेद् बुधः ।
लिङ्गपीठस्थलं सर्वं शुद्धं कृत्वा शिवाम्भसा ॥ ११६ ॥

अस्त्रेण शोधयेत् सर्वं मूर्ध्निपुष्पं सदा भवेत् ।
गन्धपुष्पादिना पूज्य लिङ्गे सर्वाङ्गमुद्धरेत् ॥ ११७ ॥

प्. १३)

सूत्राग्रे मुखमेवं स्याद्वक्त्रमन्त्रेण संस्पृशेत् ।
सूत्रपार्श्वे तु पार्श्वं स्यादघोरेण तु संस्पृशेत् ॥ ११८ ॥

संस्पृशेल्लिङ्गमानर्च्य लिङ्गशुद्धिर्यथा क्रमम् ।
महापट्टिद्विपादान्तं देव्यङ्गानि तु संस्पृशेत् ॥ ११९ ॥

पीठशुद्धिरियं प्रोक्ता कल्पयेदासनत्रयम् ।
आग्नेयादिषु कोणेषु धर्मज्ञानानि विन्यसेत् ॥ १२० ॥

स्वनामाद्यक्षरेणैव सिंहरूपं त्रिणेत्रकम् ।
शुक्लं रक्तं तथा पीतं कृष्णं सिंहस्य रूपकम् ॥ १२१ ॥

अधर्मादि चतुर्दिक्षु विन्यसेत् तु विशेषतः ।
तन्मध्ये चन्द्रमाच्छाद्य समगात्रैरुपस्थितम् ॥ १२२ ॥

एवं सिंहासनं कल्प्य स्वनामन्त्रेण पूजयेत् ।
अव्यक्तो नियतः कालः कलाश्चेति चतुष्टयम् ॥ १२३ ॥

चतुष्कोणेषु सर्वेषु विन्यसेद् वृत्तयेद् बुधः ।
एवं योगासनं कल्प्य पद्मासनमतः परम् ॥ १२४ ॥

मूलं नालाष्टपत्रं च कर्णिका केसरान्वितम् ।
पार्थिवं तस्य मूलं स्याद्विष्णुबीजं स्वनालकम् ॥ १२५ ॥

नवशक्त्याष्टकदलं कर्णिकासूर्यमण्डलम् ।
बीजं शंखनिभं नालं वैडूर्यं मणिसन्निभम् ॥ १२६ ॥

दलानि सर्वरत्नानि शातकुम्भं तु कर्णिका ।
तत् तद् बीजेन संयोज्य पद्मासनमिदं क्रमात् ॥ १२७ ॥

प्. १४)

स्नाने चावाहने काले कल्पयेत् सिंहमासनम् ।
नैवेद्यार्चनकाले तु कल्पयेत् पद्ममासनम् ॥ १२८ ॥

पश्चाद्योगासनं कल्प्य विसर्जन विशेषतः ।
काष्ठादिचयने वह्नि तथावाहनमुच्यते ॥ १२९ ॥

विमुखीकरणं तस्य ततोद्वासनमुच्यते ।
आवाहनोद्वासने च शिवलिङ्गे न कारयेत् ॥ १३० ॥

आवाहनाख्यमुद्रेण शान्तमुद्रेण विन्यसेत् ।
सान्निध्यं ध्वजमुद्रेण पञ्चमुद्रां प्रकल्पयेत् ॥ १३१ ॥

पूजयेल्लिङ्गमुद्रेण निष्ठुरेण निरोधयेत् ।
सद्येनावाह्य वामेन स्थापयेत् तु निरोधनम् ॥ १३२ ॥

अघोरेण तु सान्निध्यं पुरुषेण विचक्षणम् ।
एवं सङ्कल्प्य विधिना पूजयेत् परमेश्वरम् ॥ १३३ ॥

अक्षपञ्चदशोपेतं पञ्चवक्त्रं सदाशिवम् ।
दशबाहुधरं दिव्यं दशायुधधरं शुभम् ॥ १३४ ॥

शुद्धचन्द्रनिभं देवं सर्वाभरणभूषितम् ।
दिव्याम्बरधरं सौम्यं दिव्यगन्धानुलेपनम् ॥ १३५ ॥

उमया सहितं देवं सर्वावयवसुन्दरम् ।
शूलं वज्रं च खड्गं च शक्त्याभीती च दक्षिणे ॥ १३६ ॥

पाशाङ्कुशौ च नागं च घण्टां वह्निं च वामके ।
एवं ध्यात्वा तु मनसा पादयोः पाद्यमादिशेत् ॥ १३७ ॥

प्. १५)

मुखेष्वाचमनं दद्याच्छिरस्यार्घ्यं निवेदयेत् ।
पूर्वमीशानमूर्तिः स्यात् ऐश्वरी दक्षिणे तथा ॥ १३८ ॥

ब्रह्ममूर्तिस्तु वारुण्यां शिवमूर्तिस्तथोत्तरे ।
सदाशिवा तदूर्ध्वे तु पञ्चमूर्तिरिति स्मृता ॥ १३९ ॥

पूर्वोक्तशिवतोयैश्च स्नापयेत् परमेश्वरम् ।
ईशानेन तु मन्त्रेण त्रियम्बकेनाभिषेचनम् ॥ १४० ॥

अभिषेकान्तरे कुर्यात् पञ्चगव्यं तु देशिकः ।
कुडुबाज्य दधिप्रोक्तं द्विगुणं त्रिगुणं पयः ॥ १४१ ॥

चतुर्गुणं गोमयं च गोमूत्रं षड्गुणं भवेत् ।
प्रत्येकमाढकं वाथ पाद्यादि स्नपयेत् क्रमात् ॥ १४२ ॥

गन्धपुष्पहिरण्यादि दद्याद्रत्नोदकं तथा ।
वस्त्रोत्तरीयोपवीतानि गन्धं पुष्पं सुधूपकम् ॥ १४३ ॥

दीपनैवेद्यताम्बूले सक्षीरेणैव दापयेत् ।
मकुटं कुण्डलं हारं केयुरं कटिसूत्रकम् ॥ १४४ ॥

सर्वमाभरणं चैव दर्पणं च हृदा बुधः ।
एवं पूज्यविधानेन पश्चादावरणे यजेत् ॥ १४५ ॥

गर्भवरणयज्~आन्ते विद्येशावरणं यजेत् ।
आसनावरणं स्थायि विधिना चैव पूजयेत् ॥ १४६ ॥

कर्णिकायाश्च मूले तु गर्भावरणमर्चयेत् ।
कुङ्कुमद्युति संङ्काशं वक्त्रमन्त्रेण पूजयेत् ॥ १४७ ॥

प्. १६)

हृदयं शङ्खनिभं विद्यादञ्जनाभमघोरकम् ।
श्यामवर्णशिखां पश्चात् सद्यं श्वेताकृतिं ततः ॥ १४८ ॥

क्षृणाभं कवचं विद्यात् रक्ताभं वाममेव च ।
धूम्रभासं शिरोविद्याद् इशानेनैव पूजयेत् ॥ १४९ ॥

शुद्धस्फटिक संकाशम् इशानं कर्णिके तथा ।
इशाने पूजयेन्नेत्रं तरुणादित्य सन्निभम् ॥ १५० ॥

दिक्षु संपूजयेदस्त्रं विद्युत्सदृशविग्रहम् ।
त्रिणेत्राश्चतुर्भुजा सर्वे षडङ्गं पञ्चमूर्तयः ॥ १५१ ॥

जटामकुटसंयुक्तसर्वाभरण भूषिताः ।
तत्तद्वर्णनिभैर्वस्त्रैस्त्रिशूलपरशूज्वलाः ॥ १५२ ॥

एवमेव क्रमेणैव भावयित्वा प्रपूजयेत् ।
माहेशं स्ताशिवं मध्ये हृदयेन तु कर्णिकाम् ॥ १५३ ॥

मध्यमे शिवतत्त्वं तु आत्मतत्त्वं तु दक्षिणे ।
इष्टोत्तरे तथा विद्याद्धृदयेन तु मन्त्रवित् ॥ १५४ ॥

गर्भावरणमेवोक्तं विद्येशावरणं यजेत् ।
जपापुष्पनिभोऽनन्तः पूजयेद्गन्धपुष्पकैः ॥ १५५ ॥

त्रिमूर्तिं रक्तशोभं च सूक्ष्मं वै ह्यरुणप्रभम् ।
श्रीकण्ठमुत्पलाभासं शिवोक्तं चैन्दुसन्निभम् ॥ १५६ ॥

शिखण्डिपुष्परागं स्यादेकनेत्रारुणप्रभम् ।
कुन्दपुष्पनिभाकारम् एकरुद्रं यथाक्रमम् ॥ १५७ ॥

प्. १७)

एवं विद्येश्वराः सर्वे त्रिणेत्राश्च चतुर्भुजाः ।
सर्वाभरणसंयुक्ता जटामकुटभूषिताः ॥ १५८ ॥

परश्शूलधराः सर्वे तत् तन् मन्त्रेण पूजयेत् ।
नन्दिनं त्वञ्जनाभासं दण्डहस्तं त्रिलोचनम् ॥ १५९ ॥

चतुर्भुजधरं पश्चान्महाकालं रक्तवर्णकम् ।
त्रिणेत्रं चतुर्भुजं चैव शूलहस्तं महाबलम् ॥ १६० ॥

वृषभं नीलवर्णं च विघ्नेशं धूम्रवर्णकम् ।
त्रिणेत्रं चतुर्भुजं शूलं दन्तपाशाङ्कुशैर्युतम् ॥ १६१ ॥

भृङ्गीशं कुन्दवर्णाभं चतुर्बाहुं त्रिलोचनम् ।
रक्तवर्णं कुमारं स्याच्छक्तिहस्तं तु षण्मुखम् ॥ १६२ ॥

द्वादशाक्षं चतुर्बाहुं सर्वाभरणसुन्दरम् ।
उमा जाम्बूनदाभासा हस्ते कुसुमधारिणि ॥ १६३ ॥

द्विनेत्रा सुन्दराकारा पीनोन्नत पयोधराम् ।
वैडूर्यद्युति संकाशं चण्डेशं शूलहस्तकम् ॥ १६४ ॥

एवं ध्यात्वा विधानेन गणेशांश्चैव पूजयेत् ।
श्यामं तु पिङ्गलं धूम्रं कृष्णं श्वेतं च पीतकम् ॥ १६५ ॥

श्वेतं चैवे दृकोपं स्यात् पावकं कृष्णसन्निभम् ।
ब्रह्माणं मूध्यतः पश्चात् म्यरितिर्वारुणाध्यमे ॥ १६६ ॥

इन्द्रेशानकयोर्मध्ये विष्णुं चैव प्रपूजयेत् ।
चतुर्भुजं त्रिणेत्रं च ईशानं च प्रकीर्तितम् ॥ १६७ ॥

प्. १८)

सप्तहस्तं त्रिणेत्रं च द्विमुखं चाग्निमेव च ।
चतुर्वक्त्रोऽष्टनेत्रं च ब्रह्मा चैव चतुर्भुजः ॥ १६८ ॥

विष्णुश्चतुर्भुजः साक्षाद् द्विलोचनसमन्वितम् ।
एवमेतत् क्रमेणैव भावयित्वाथ पूजयेत् ॥ १६९ ॥

नानावर्णमहाविद्युन्नील जीमूतसन्निभम् ।
नीलाग्निपद्मरागं च तुषारं चैन्द्रनीलकम् ॥ १७० ॥

शाबलं रक्तवर्णं स्यादस्त्राणां वर्ण मुच्यते ।
पद्ममिष्ट्वाथ पार्श्वे तु विष्णोश्चक्रं तु पार्श्वतः ॥ १७१ ॥

जायां शक्तिगदा विद्यात् पाशपद्मे नपुंसके ।
शेषाः पुमांसो विख्याता दशायुध त्रिधोच्यते ॥ १७२ ॥

तत् तन् मन्त्रैः समभ्यर्च्य प्रणवादि नमोन्तकम् ।
एवमावरणं पूज्य क्षेत्रपालं तु शाङ्करे ॥ १७३ ॥

गन्धपुष्पादिभिः पूज्य पीठपूजां समारभेत् ।
फलकं चतुरश्रं तु पीठोत्सेधं तु मानतः ॥ १७४ ॥

आर्द्रोन्मेषं च श्रीकण्ठं बीजं वा सप्तमृत्तु वा ।
चतुर्भुजां त्रिभेदैश्च पृथक् प्राच्छेदनां प्रति ॥ १७५ ॥

फलकं सममारोप्य यावद्विभवविस्तरम् ।
नन्दी चानी च बल्लि च प्रकुणीं च प्रणालके ॥ १७६ ॥

गौरिमन्त्रादि देवत्यं प्रोक्षयेत् तु कुशाम्भसा ।
गौरिगायत्र्या संपूज्य वटोदुम्बरमाचरेत् ॥ १७७ ॥

प्. ११९)

सौवर्णं रजतं ताम्रं काम्स्यं वा पात्रमुच्यते ।
अलाभे कांस्यपात्रे तु पिष्टं भस्म तु कौसुमम् ॥ १७८ ॥

तत्पिष्टं पञ्चधा दीपपिष्टेनैव तु योजयेत् ।
प्रदोषे प्रतिदिनं कुर्यात् स्वस्तिमङ्गलवाचकैः ॥ १७९ ॥

आचार्यस्तु स्वहस्ताभ्यां त्रिभिः परिवृतो नयेत् ।
पश्चाल्लिङ्गं तु पुष्पेण त्रिभिः परिवृतो नयेत् ॥ १८० ॥

तत्पुष्पाणि क्षिपेञ्चाप्सु चास्त्रमन्त्रेण देशिकः ।
गन्धमेकावृतं नीत्वा दीपपात्रे हृदा बुधः ॥ १८१ ॥

तद्भस्मना च वक्त्रे तु वक्त्रमन्त्रेण संस्पृशेत् ।
मूर्ध्निपुष्पं न्यसित्वा तु सर्वत्र हृदयेन वै ॥ १८२ ॥

पात्रमुद्धृत्य बाह्ये तु पीठे चैव विसर्जयेत् ।
पश्चादाचमनं कुर्यान्नैवेद्यं तु प्रदापयेत् ॥ १८३ ॥

अभिन्नतण्डुलं शुद्धं शालितण्डुलमुत्तमम् ।
तण्डुलं वेणुनीवारं मध्यमं समुदाहृतम् ॥ १८४ ॥

कृष्णाश्च प्रहयस्मिन्ध अधमं तण्डुलं भवेत् ।
उत्तमं तु शतद्रोणं तदर्धं मध्यमं भवेत् ॥ १८५ ॥

अधमं तु तदर्धार्धं तदर्धमधमाधमम् ।
द्वादशद्रोणमेवं वा चाष्टद्रोणमथापि वा ॥ १८६ ॥

चतुर्द्रोणमथा चैव उत्तमोत्तममुत्तमम् ।
एवं नैमित्तिकं कुर्यात् तदर्धं नित्यमेव च ॥ १८७ ॥

प्. २०)

नैवेद्यं दापयेद् विद्वान् खारिं वा द्रोणमेव वा ।
द्रोणार्धं वा तदर्धं वा तथान्यत् परिवर्जयेत् ॥ १८८ ॥

पञ्चवर्णं हविर्दद्यात् गुलखण्डफलैर्युतम् ।
नानाविधोपदंशैश्च कपिलाज्यदधि प्लुतम् ॥ १८९ ॥

अथवा कृष्णगोसर्पिदधि चैव प्रचोदितम् ।
निर्माल्यं च निवेद्यं च लङ्घने दानकर्मणि ॥ १९० ॥

चान्द्रायणं चरेत् तत्र गोनागानाह विक्षिपेत् ।
नित्याग्निकार्यं कुर्वीत पचनालयात् पावके ॥ १९१ ॥

चतुरश्रकुण्डमित्युक्तं मेखलाद्युपशोभितम् ।
अरत्निमात्रविस्तारं बिलं तन्मानमुच्यते ॥ १९२ ॥

स्थापयेत् स्थापको वाग्निमविच्छिन्नं तु रक्षयेत् ।
यावन्मूलोपचारेण तावदग्निं सुपूजयेत् ॥ १९३ ॥

अघोरास्त्रेण संशोध्य पूजयेद् गन्धपुष्पकैः ।
परितो दर्भैराच्छाद्य स्थापयेत् परिषेचनम् ॥ १९४ ॥

आज्यसंस्कारमेवं स्यात्पश्चादाधारमेव हि ।
आज्याहु दृक्षमन्त्रेण हविं हुत्वा विशेषतः ॥ १९५ ॥

इद्ध हुत्वा स्वाहेति षोडशं विधिपूर्वकम् ।
प्रणवं हुं पुरोद्धे तु हुत्वा चान्नं हुनेत् क्रमात् ॥ १९६ ॥

व्याहृतिभिर्हुनेत् पश्चाद् ब्रह्माङ्गानि ततो हुनेत् ।
कूश्माण्डं च हुनेत् पश्चात् स्विष्टमग्नौ समाचरेत् ॥ १९७ ॥

प्. २१)

चरुहोमं पुरुषेण कारयेत् तु सदा बुधः ।
एकभागं तु नैवेद्यं एकभागं हुतं भवेत् ॥ १९८ ॥

एकभागं बलिं कुर्यात् शेषमाचार्य भोजनम् ।
प्रमादाभिन्नकाले तु अघोरेण शताहुतिः ॥ १९९ ॥

पश्चान्मूलोपचारेण कुर्याद् वै देशिकोत्तमः ।
परिवाराष्टकमभ्यर्च्य पुरुषादीशमाश्रितम् ॥ २०० ॥

वृषभं पावकं चैव सप्तमातृगणास्तथा ।
विघ्नं गुहं च ज्येष्ठां च दुर्गां सूर्यमिति क्रमात् ॥ २०१ ॥

प्रतिमायां तु पीठे वा चैष्ट वा च प्रपूजयेत् ।
मूर्ध्नि चाभ्यर्च्य पीठं चेन्मध्यमेखलमध्यमे ॥ २०२ ॥

कुक्कुटाण्डप्रमाणेन स्वाहान्तं बलिमाक्षिपेत् ।
लिङ्गार्चनं पुरा प्रोक्तं सकलाद्यर्चनं क्रमात् ॥ २०३ ॥

तदहं संप्रवक्ष्यामि पूर्वोक्तविधिनाचरेत् ।
सुखासनं तथा नन्दिवाहनं पुरशासनम् ॥ २०४ ॥

नृत्तरूपं तथा चैव चन्द्रार्धकृतशेखरम् ।
अर्धनारीश्वरं चैव शङ्करार्धं हरिं तथा ॥ २०५ ॥

चण्डेश्वरप्रसादं च कामनाशनमेव च ।
कालनाशं तथा चैव लिङ्गद्वादशमेव च ॥ २०६ ॥

कल्याणसुन्दरं चैव पुराणे संप्रकीर्तितम् ।
हयर्धनारीशं श्यामम् अन्येषां रक्तवर्णकम् ॥ २०७ ॥

प्. २२)

नृत्तरूपं तु कङ्कालं दक्षिणामूर्तिमेव च ।
विद्यादेवमिमे सर्वे श्वेतवर्णाः प्रकीर्तिताः ॥ २०८ ॥

क्षेत्रपालं तथा धूम्रं चतुर्भुजत्रियक्षकम् ।
त्रिणेत्राश्चतुर्भुजाः सर्वे सर्वाभरणभूषिताः ॥ २०९ ॥

एवं ध्यात्वा तु मनसा पूजयित्वा शिवद्विजः ।
पञ्चशुद्धिं ततः कृत्वा पश्चाद्यजनमारभेत् ॥ २१० ॥

मृन्मयं लोहजा सर्वे कुर्यान्नार्द्र कृतार्चनम् ।
शिवाम्भः प्रोक्षयेन्मन्त्री ईशानेन कुशैस्तथा ॥ २११ ॥

पाद्यं दद्यात् तु सद्येन वामेनाचमनं तथा ।
अघोरेणार्घ्यमुद्दिष्टं गन्धं पुरुषमन्त्रतः ॥ २१२ ॥

पुष्पमीशानमन्त्रेण धूपदीपं तु वक्त्रतः ।
नैवेद्यं चैव ताम्बूलं हृन्मन्त्रेण प्रदापयेत् ॥ २१३ ॥

वक्त्रं तु शिरसा दद्यात् उपवित्कवचेन तु ।
मकुटं कुण्डलं चैव हारं केयूरमेव च ॥ २१४ ॥

इत्येवमादयाः सर्वे हृन्मन्त्रेण प्रदापयेत् ।
तस्मादावाहनं पूर्वं तथैवोद् वासनं सदा ॥ २१५ ॥

आसनावरणं नास्ति चण्डेशस्य निवेदनम् ।
सूर्यकामोथ नागेन्द्रो गुहो लक्ष्मीश्च रक्तकाः ॥ २१६ ॥

द्विभुजाश्च द्विनेत्राश्च चतुर्भुजगुहस्तथा ।
शास्तादुर्गामहामोटी ज्येष्ठाकालिसुराधिपाः ॥ २१७ ॥

एतेः श्यामप्रभा प्रोक्ताः द्विभूजाश्च द्विलोचनाः ।
एवमेव समाख्यातं भावयित्वाथ पूजयेत् ॥ २१८ ॥

तत् तद् बीजैः प्रकूर्वीत प्रोक्षयेच्चाभिषेचनम् ।
तत्त स्वनाम मन्त्रेषु शोधनदेकपञ्चकम् ॥ २१९ ॥

प्. २३)

प्रणवादिनमोन्ताश्च पूजाकाले तु योजयेत् ।
दद्यात्सद्येन पाद्यं तु वामेनाचमनं तथा ॥ २२० ॥

अघोरेणार्घ्यमाख्यातं पुष्पमीशेन मन्त्रतः ।
पुरुषेण तथा धूपं दीपान्ते नैव पूजयेत् ॥ २२१ ॥

नैवेद्यं हृदयेनैव ताम्बूलं शिरसा ददेत् ।
वस्त्राभरणाञ्जनानि कवचेनात्रदापयेत् ॥ २२२ ॥

पीठे वा हृदये वापि जले वा भित्तिचित्रके ।
मृन्मये लोहजे वाथ शैलजैश्चैव पूजयेत् ॥ २२३ ॥

मृन्मये भित्तिचित्रे वा पादपीठं प्रपूजयेत् ।
अष्टादशगणानां तु स्वनामाद्यक्षरैर्यजेत् ॥ २२४ ॥

शिवप्रसादयुक्तानां शिवसायुज्यदेहिनाम् ।
स्त्रीणां चैव नरेन्द्राणां शिवभक्त स्वनामतः ॥ २२५ ॥

पूजाश्चैव प्रतिष्ठा च भक्त्या होमेन योजयेत् ।
नित्योत्सवं प्रकुर्वीत शास्त्र दृष्टेन कर्मणा ॥ २२६ ॥

सौवर्णं रजतं ताम्रं कांस्यं वा पात्रमुच्यते ।
तस्य मध्ये त्रिभागैकं कर्णिकामाचरेद् बुधः ॥ २२७ ॥

शिवाग्रे मण्डलं कृत्वा तत्र दत्वा हृदां बुधः ।
नमः शक्तिः समोपेतं पद्मगन्धादिभिर्यजेत् ॥ २२८ ॥

तन्मध्ये विन्यसेत् पात्रं बलिलिङ्गं तु कारयेत् ।
सायं प्रातः प्रकुर्वीत पुष्पलिङ्गं प्रपूजयेत् ॥ २२९ ॥

प्. २४)

मध्याह्ने चान्नलिङ्गं तु द्वादशाङ्गुलमायतम् ।
प्रस्थं वा द्विगुणं मूमग्रेकाङ्गुलनाहकम् ॥ २३० ॥

चतुर्भुजक्षत्रवं रौद्रं वरदाभयहस्तकम् ।
शिखाकोटिप्रतीकाशं शूलदण्डधरं सदा ॥ २३१ ॥

अस्त्ररारानमेवं च ध्यात्वा चावाहयेद्धृदा ।
ईशानाद्यैः सुगन्धाद्यैरर्चनं क्रमशः पुनः ॥ २३२ ॥

विद्येशान् परितोभ्यर्च्य कौतुकं पादुकं यजेत् ।
गन्धपुष्पैरलङ्कृत्य सोष्णीषं सोत्तसायकम् ॥ २३३ ॥

धारयेच्छिरसा धीमान् सर्वदेवमनुस्मरन् ।
प्रदक्षिणत्रयं कृत्वा तत्र गेहं समाविशेत् ॥ २३४ ॥

पादप्रक्षालनं कृत्वा शिवाग्रेऽभिमुखं स्थितः ।
दक्षिणे चास्त्रराजानमुत्तरे चन्द्रशेखरम् ॥ २३५ ॥

पादुकाराधनं कुर्यात् सद्यमन्त्रमनुस्मरन् ।
लोकपालान् समभ्यर्च्य पादुकावृतमेव हि ॥ २३६ ॥

अर्घ्यं शिरसि विन्यस्य मुखेष्वाचमनं तथा ।
गन्धपुष्पादिना पूज्य पश्चाद्गर्भगृहं विशेत् ॥ २३७ ॥

विसर्जेदस्त्रराजानं हृन्मन्त्रेणैव देशिकः ।
बलिवाद्यध्वनी कृत्वा पिशाचाराक्षसासुराः ॥ २३८ ॥

ग्रामबाह्यं ततो क्षिप्रं गच्छन्ति च यथा बुधः ।
एवं नित्योत्सवं कुर्यादिष्टसंपत्करं नृणाम् ॥ २३९ ॥

प्. २५)

तत्काले दीपविच्छेदे दीपद्वयं समाचरेत् ।
घडिके द्वे भवे स्नानं घटिकैकार्चनं भवेत् ॥ २४० ॥

त्रिपादं तु निवेद्यं स्यात् त्रिपादं चाग्निकार्यकम् ।
घटिका घटिकार्धं यत् नित्योत्सवमुदाहृतम् ॥ २४१ ॥

घटिकाशेषनृत्तं स्यात् सन्ध्याकाले दिने दिने ।
स्वगुरुं पूजयेत् पूर्वं गणेशे संप्रपूजयेत् ॥ २४२ ॥

स्वात्मानं पादमूले तु तर्पयेच्चुलुकोदकेः ।
पादप्रक्षालनं कृत्वा आचम्य विधिना बुधः ॥ २४३ ॥

धीमान् प्रदक्षिणं कृत्वा स्वगृहं तु निवेशयेत् ।
एवं यः कुरुते मर्धः आत्मार्थेव परार्थके ॥ २४४ ॥

परार्धं कृत्विमानीयात् एव नित्यावुभौ भुवि ।
रुद्रलोकात् परिभ्रष्टा नररूपेण भूगता ॥ २४५ ॥

पाश्चारुद्रुद्रपदं प्रप्य मोदते सहरुद्रवत् ।
एकलक्षं भवं भक्त्या यो दद्यात् परमेश्वरे ॥ २४६ ॥

तत्फलं कोटिगुणितं भक्त्यारागगुणार्चनात् ।
ग्रहणे विषुसंक्रान्तौ यः शिवं पूजयेत् सकृत् ॥ २४७ ॥

लभते षण्मासि पुण्यं पृथक् प्राक्शिवमादरात् ।
पूर्णमास्याममवास्यामर्चयेत् पूजयेच्छिवम् ॥ २४८ ॥

चतुर्मास्यकृतं पुण्यं लभते नात्र संशयः ।
न किंच नत्वमषका मनोवाक्कायकर्मभिः ॥ २४९ ॥

प्. २६)

पापपाशे बद्ध्वा तु सो क्षयं नरकं व्रजेत् ।
तस्मात् सर्वप्रयत्नेन शिवं भक्त्या प्रपूजयेत् ॥ २५० ॥

इति सूक्ष्मतन्त्रे शास्त्रे प्रतिष्ठातन्त्रे अर्चनविधिपटलः ॥
सुब्रह्मण्याय नमः । शिवाय नमः ॥

परमगुरुवे नमः ।

माघमासे तु कर्तव्यं घृतकम्बलमेव च ।
घृतकम्बलमित्युक्तं विष्णुप्रीतिकरं भवेत् ॥ १ ॥

संवत्सरादिपूजायां सर्व पूजाफलप्रदम् ।
दिनं प्रति विशेषेण पूजाहीनं तथैव च ॥ २ ॥

शिवरात्रिपूज्यात् तस्मिन् सर्वपूजाफलप्रदम् ।
फाल्गुने दधिसंपूज्य धनपुत्रविवर्धनम् ॥ ३ ॥

दधि संपूजयेद् वह्नि पुरुहृत् प्रीतिरुच्यते ।
विषुवं प्रोक्तमेवं हि मध्याह्ने पूजयेत् तथा ॥ ४ ॥

चैत्रे दमनकं प्रोक्तम् ऋषिणां प्रीतिरुच्यते ।
वैशाखे त्रिफलं पूज्य विघ्नेशं प्रीतिरुच्यते ॥ ५ ॥

प्. २७)

ज्येष्ठमासे तु कर्तव्यमं क्षीराभिषेचनं तथा ।
क्षीराभिषेकमित्युक्तं वत्सगोवर्धनं भवेत् ॥ ६ ॥

सायाह्नपूजनं तस्मादयनेषु विधीयते ।
आषाढे भस्म सम्पूज्य रुद्रप्रीतिकरं भवेत् ॥ ७ ॥

शर्करा श्रवणे पूज्य चन्द्रमाप्रीतिरुच्यते ।
प्रोष्ठे अपूपैः संपूज्य स्कन्दप्रीतिकरं भवेत् ॥ ८ ॥

विषु संप्रोक्तमेवं हि अर्धयामे तु पूजयेत् ।
आश्विनि चान्नसंपूज्य ब्रह्मणः प्रीतिरुच्यते ॥ ९ ॥

शिवशक्तिसमुत्पन्नं लोकस्योत्पत्तिकारणम् ।
ओषधिनां विपद्यर्थं बीजदानमिहोच्यते ॥ १० ॥

आत्मसृष्टिकरं प्रोक्तं सौख्यं लवणदापनम् ।
कन्यानां वस्त्रदानं स्यात् स्वर्णदानं तु कन्यकाम् ॥ ११ ॥

सुवर्णं लोकरक्षार्थं वस्त्रपुत्रविवर्धनम् ।
गौरियानं भवेत् तस्मात् सर्वप्राणिहितावहम् ॥ १२ ॥

कृत्तिकामासमेवोक्तं दीपपूजनमेव च ।
भूसुरे तु प्रसादं हि महाज्वालाधरं हरम् ॥ १३ ॥

लाजोपचारमेवोक्तं कृत्तिकादीपमेव च ।
घृतस्नानं भवेत् तस्मान्मार्ग मासे तु कथ्यते ॥ १४ ॥

घृतस्नानमिदं प्रोक्तं सर्वपापनिकृन्तनम् ।
डोलारोहणमेवोक्तं गौरीलीलाविधिक्रमम् ॥ १५ ॥

प्. २८)

शिवशक्तिसमोपेतं डोलारोहणमेव च ।
पुष्यमासादि पूजा या माघमासान्तमेव च ॥ १६ ॥

इति सूक्ष्मतन्त्रे नैमित्तिकाण्डे घृतकम्बक पूजाविधिपटलः ॥

अथातः संप्रवक्ष्यामि निशिपूजाविधिं शृणु ।
संध्यादौ कृतनृत्तं स्यात् संध्यानृत्तमथारभेत् ॥ १ ॥

दारुजं पृथिवी जातं शङ्खचारुछजमुच्यते ।
आग्नेयं लोहजं प्रोक्तं वायव्यं वंशजं भवेत् ॥ २ ॥

गेयं गगनजातं स्यात् तस्माद् भूतात्मिकं मतम् ।
एतानि पञ्चशब्दानि घोषयेत् प्रथमं ततः ॥ ३ ॥

लिङ्गोद्भवादिमूर्तिनां सायरक्षाविधिं शृणु ।
सायरक्षविहीनं च बालानां नाशनं भवेत् ॥ ४ ॥

राजा दुर्जयमाप्नोति शान्तिहोमं ततः कुरु ।
सायं काले प्रयोक्तव्यं नटेशं पूजयेत् ततः ॥ ५ ॥

मूलबेरविधिस्नात्वा प्र * * ह * षं ददेत् ।
श्वेतपुष्पैरलङ्कृत्य श्वेतचन्दनलेपितम् ॥ ६ ॥

श्वेतवस्त्रैरलङ्कृत्य सर्वाभरणभूषितम् ।
एतत्कालं समभ्यर्च्य पूर्वोक्तविधिना सह ॥ ७ ॥

प्. २९)

नित्योत्सवविधिं कुर्याद् अर्धयामे तु पूजनम् ।
दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाविभूषणम् ॥ ८ ॥

चित्रवस्त्रैरलङ्कृत्य सर्वाभरणभूषितम् ।
पूजयेत् चिरशक्तिं स्यात् अर्चनोक्तपदं चरेत् ॥ ९ ॥

पादुकां प्रतिमां वापि पुजयेत् तु विशेषतः ।
पूजयेत् शक्तिमन्त्रेण शिबिकां रोचयेत् ततः ॥ १० ॥

शिबिकान्ते ततः कुर्यात् प्राकारे तु प्रदक्षिणम् ।
नृत्तं च रत्नसंख्या तु नवतालं समाचरेत् ॥ ११ ॥

इन्द्रादीशानपर्यन्तं शुद्धनृत्तं तु मध्यमे ।
इन्द्रादीशानरागं स्यद्रत्नाक नृत्तमेव च ॥ १२ ॥

लिङ्गस्योत्तरभागे तु पद्मपीठे तु विन्यसेत् ।
धूपदीपं हृदा दत्वा आचमनं ददेद् बुधः ॥ १३ ॥

अपूपमुद्गपिण्डं च पायसं गुलखण्डकम् ।
नालिकेरादि क्षीरं च कदलीपनसं क्रमात् ॥ १४ ॥

मुद्गान्नं च गुलान्नं च शुद्धान्नं पायसान्नकम् ।
कृसरान्ननिवेद्यं स्यादेतैः पञ्चान्नमेव च ॥ १५ ॥

गन्धमिश्रेण पानीयं हस्तोद्वर्त्तनमेव च ।
कर्पूरमुखवासं च ताम्बूलं च निवेदयेत् ॥ १६ ॥

धूपदीपादिकं सर्वम् आरात्रिभस्ममेव च ।
द्वारशुद्धिं ततः कृत्वा महालिङ्गं प्रपूजयेत् ॥ १७ ॥

प्. ३०)

द्वारमध्ये तु संपूज्य प्रासादेन तु मन्त्रतः ।
दूर्वाक्षत पवित्रेण दर्पणच्छत्रचामरैः ॥ १८ ॥

यथाशक्ति जपं कुर्याद्धस्तं प्रक्षालयेत् सदा ।
भस्मानि दापयेत् शंभो नृपभक्तजनाय च ॥ १९ ॥

चण्डेशं क्षेत्रपालं च पूजयेत् तु विशेषतः ।
पश्चिमे सोमदिग्भागे शय्यास्थानं प्रकल्पयेत् ॥ २० ॥

शयनयन्त्रं समारोप्य शिवं शक्तिं प्रपूजयेत् ।
पादुका प्रतिमा वापि शयनोपरि विन्यसेत् ॥ २१ ॥

सोमेशमूर्तिं संपूज्य सन्निधौ पादुकद्वयम् ।
त्रिणेत्रं एकवक्त्रं च मृगिपरशुधारणम् ॥ २२ ॥

वामदक्षिणहस्तौ च अभयं वरदं न्यसेत् ।
व्याघ्रचर्माम्बरधरं सर्वाभरणभूषितम् ॥ २३ ॥

स्फटिकं शुद्धतञ्चैव श्वेतपद्मासनस्थितम् ।
गौरीं संपूज्य विधिवत् ताम्बूलं तु निवेदयेत् ॥ २४ ॥

राजवदुपचारं हि पुत्रवत्स्नेहमेव च ।
गुरुवद्भक्तिमेवोक्तं सर्पवद्भीतिरुच्यते ॥ २५ ॥

एवं नित्यक्रमेणैव रुद्रनाट्यसपादके ।
एवं नित्य क्रमेणैव स्वगुरुं पूजयेत् ततः ॥ २६ ॥

स्वात्मानं पादमूले तु तर्पयेञ्चुलुकोदकैः ।
विजयं ललितं सूक्ष्मं शिवोत्सवविधि शृणु ॥ २७ ॥

इति सूक्ष्मतन्त्रे निशिपूजाविधिपटलः ॥
प्. ३१)

अतः परं प्रवक्ष्यामि शिवोत्सवविधिक्रमम् ।
सूचनं सर्वलोकानां शिववक्त्राद्विनिर्गतम् ॥ १ ॥

संवत्सरोत्सवं पूर्वं द्वितीयं मासि चोत्सवम् ।
मार्गशीर्षमासादि षाण्मासं सप्तरात्रिकम् ॥ २ ॥

शेषमासे तु ज्येष्ठादावुत्सवञ्चेत् त्रिरात्रकम् ।
सर्वभूतहितं शान्तं सर्वदोषनिवारणम् ॥ ३ ॥

स्थापने प्रोक्षणे यागे दीक्षान्ते च विशेषतः ।
अयनाद्यस्तु सङ्क्रान्त्यो व्यतिपातेषु जन्मनि ॥ ४ ॥

अतिवृष्टिरानवृष्टौ राष्ट्रक्षोभं तथैव च ।
राजाभिषेके ऋक्षान्ते उत्सवं कारयेद् बुधः ॥ ५ ॥

सवो दुखस्समाख्यातं उत्सवस्य निवारणम् ।
उद्गतस्तु सवो यस्मात् तस्मादुत्सवमुच्यते ॥ ६ ॥

मार्गशीर्षमासे तु शिवान्तस्यात् शिवोत्सवः ।
पुष्यमासे तु पुष्यान्तं माघमासे मघान्तकम् ॥ ७ ॥

पितॄन्नुद्दिश्य कुर्वन्ति सर्वे गच्छन्ति चोद्धृताः ।
फल्गुने चोत्तरान्तं तु भवाद्भोगार्थमुच्यते ॥ ८ ॥

चैत्रे शत्रुक्षयं कुर्याद् वैशाखेऽपि तथैव च ।
अन्येषु सर्वमासेषु तत् तन् नक्षत्रके बुधः ॥ ९ ॥

शैवं गौणं प्रभूतं च भावनं दैविकं तथा ।
पैतृकं चैव कौमारं सावित्र्यमिति चाष्टकम् ॥ १० ॥

प्. ३२)

एकाहं शैवनामं स्याद्गौणं त्रियाहमुच्यते ।
पञ्चाहं भावनं प्रोक्तं सप्ताहं च प्रभृतिकम् ॥ ११ ॥

नवाहं दैविकं प्रोक्तं सावित्र्यं पक्षकं विदुः ।
मासोत्सवं भवेन्नाम पैतृकं तत्प्रकीर्त्तितम् ॥ १२ ॥

षाण्मासेन तु कर्तव्यं कौमारमिति कथ्यते ।
उत्सवानां प्रभेदं च नामानि कथितानि वै ॥ १३ ॥

किञ्चिद्विशेषं वक्ष्यामि तीर्थकालं विशेषतः ।
उत्सवं चैव वाद्यं स्यात्प्रमादात्सङ्गतिर्यदि ॥ १४ ॥

दिनमेकं प्रवृद्धं च हीनं चैव न कारयेत् ।
रात्राधिवासनं तीर्थं सामान्यमिति विद्यते ॥ १५ ॥

चूर्णोत्सवादितीर्थान्तं प्रधानं सम्यगीरितम् ।
तस्मिन्काले तु तीर्थर्क्षे युक्तं चैव विशेषतः ॥ १६ ॥

तेन तीर्थं शुभं विद्यात्सर्वेषां च शिवं भवेत् ।
रात्राधिवासनातीर्थे तीर्थर्क्षेचन संभवेत् ॥ १७ ॥

तेन तीर्थेषु दोषाय महातीर्थं न दोषकम् ।
तस्मात् सर्वप्रयत्नेन महातीर्थं विशेषतः ॥ १८ ॥

तीर्थसङ्ग्रहणे काले नक्षत्रेऽपि च संभवेत् ।
तस्मिन्काले तु तीर्थं स्यात् सर्वसंपत् समृद्धये ॥ १९ ॥

महातीर्थे तु काले तु तीर्थर्क्षन्न भवेद् यदि ।
तस्मिन् पर्वणि संबन्धे तीर्थं कुर्याद् विशेषतः ॥ २० ॥

प्. ३३)

पर्वसामर्थ्यं रूपेण सर्वदोषविनाशनम् ।
पर्वण्यसंभवे तीर्थं पूर्वेद्युः कारयेद् बुधः ॥ २१ ॥

उत्सवं कृत्तिकादीपं मार्गमासेन कारयेत् ।
तीर्थान्तान्यस्तमे चात्र वनयात्रां समाचरेत् ॥ २२ ॥

बलिहोमौ विना तस्मिन् अन्यत्सर्वं तु पूर्वकम् ।
ध्वजादि तीर्थपर्यन्तम् एकमासे तु मध्यमे ॥ २३ ॥

केतोरारोहणं पूर्वं तस्या नैवोत्सवं यदा ।
अधमन्तं च विख्याति तस्मिन् तीर्थमेव च ॥ २४ ॥

उत्सवस्य च मासे तु तस्मिन्मासे तु तीर्थकम् ।
एवं विधाने कर्तव्यं कारयेद् देशिकोत्तमः ॥ २५ ॥

तदनं त्रिगुणान्ये च द्विगुणान्ये तदाद्यके ।
ध्वजमारोपयेत् पूर्वं उत्तमं मध्यमाधमम् ॥ २६ ॥

ध्वजोत्थापनपूर्वे तु सप्तमे नवमे निशि ।
अङ्कुरानर्पयेद् विद्वान् शास्त्रदृष्टेन कर्मणा ॥ २७ ॥

अष्टाविंशद् दिने चैव अष्टादशस्य चोत्तरे ।
तद्दिनं च समारम्भे दशमे दिवसे भवेत् ॥ २८ ॥

दैविके चोत्सवे काले विंशदेकोन्नके दिने ।
अङ्कुरार्पणकं कुर्यात् तीर्थस्य तु विशेषतः ॥ २९ ॥

एतद् दिशदिने काले अङ्कुरानर्पयेद् बुधः ।
भौतिके चोत्सवे काले दशपञ्चाहके दिने ॥ ३० ॥

प्. ३४)

अङ्कुरानर्पयेद् विद्वान् द्विगुणे चाष्टमे दिने ।
तद्दिने च समारम्भे अङ्कुरस्यापि चाङ्कुरम् ॥ ३१ ॥

अन्येषु चोत्सवारम्भे कारयेद् देशिकोत्तमः ।
तस्मिन् मासे तु यदृक्षं उत्सवं कारयेद् यति ॥ ३२ ॥

तस्मिन् मासे तु तदृक्षे उत्सवं कारयेत् सदा ।
अन्यथा कारयेद् यस्तु राजाराष्ट्रं विनश्यति ॥ ३३ ॥

तस्मात् सर्वप्रयत्नेन पूर्वारम्भे तु कारयेत् ।
ध्वजाङ्कुरं बलिं चैव भोजनञ्चाधिवासनम् ॥ ३४ ॥

तीर्थस्नपनचण्डेशयागं चाष्टाङ्गमुत्सवम् ।
भरवञ्चैपताका वा अङ्कुरं बलिरेव च ॥ ३५ ॥

अधिवासनचूर्णादितीर्थस्नपनमुत्तमम् ।
प्रथमं रोपयेत् केतुं द्वितीयं चाङ्कुरार्पणं ॥ ३६ ॥

यागमण्डपसंस्कारं चतुर्थं वेदिकाणिया ।
पञ्चमं कुण्डसंस्कारं षष्ठं चास्त्रपरिग्रहम् ॥ ३७ ॥

सप्तमं चास्त्रयागं तु अष्टमं चाधिवासनम् ।
चूर्णोत्सवं तु नवमं दशमं चाभिषेचनम् ॥ ३८ ॥

एकादशं स्यात्स्नपनं द्वादशं मूर्तिपूजनम् ।
त्रयोदशं गणयागं चण्डयागं चतुर्दशम् ॥ ३९ ॥

आरोहणं पञ्चदशत्तो यागं परिकीर्तितम् ।
भक्तोत्सवमथ पश्चात् पुष्पयागमतः परम् ॥ ४० ॥

इति सूक्ष्मतन्त्रे उत्सवसूचनपटलः ॥
प्. ३५)

अतः परं प्रवक्ष्यामि तीर्थकालस्य लक्षणम् ।
सर्वलोकहितार्थाय सर्वभूतहिताय च ॥ १ ॥

अनावृष्टि विनाशाय सस्यानमपि वृद्धये ।
मसूरिकाविनाशाय राजाराष्ट्र सुखाय च ॥ २ ॥

तस्मिन् सर्वप्रयत्नेन उत्सवं कारयेद् बुधः ।
नृपस्य जन्मनक्षत्रे राष्ट्रजन्मर्क्षकेऽपि च ॥ ३ ॥

ग्रामे तु ग्रामजन्मर्क्षे नगरादौ च जन्मभे ।
यजमानस्य जन्मर्क्षे तेषामन्तेऽपि वा पुनः ॥ ४ ॥

ग्रहणे चैव सङ्क्रान्त्यावथचेनार्चयेत् ततः ।
अथवा मासनक्षत्रे उत्सवं कारयेद् बुधः ॥ ५ ॥

कार्त्तिक्यां कृत्तिकायां तु सर्वसिद्धिप्रदायकम् ।
मार्गशीर्षमासे तु रुद्रान्तं हि धनप्रदम् ॥ ६ ॥

पुष्यमासे तु पुष्यान्तं पुत्रपौत्रविवर्धनम् ।
माघमासे तु माघान्तं पितॄन्स्वर्गं नयेत् सदा ॥ ७ ॥

फाल्गुने चोत्तरायां तु विजयाद्धिदि विशेषतः ।
चैत्रमासे तु चित्रान्तं रिपोनोशनकारणम् ॥ ८ ॥

वैशाखे तु विशाखान्तं कुलत्रयविवर्धनम् ।
ज्येष्ठमासे तु मूलानां राज्ञां कामं दिने दिने ॥ ९ ॥

आषाढमासे वैश्वान्तं भोगाद्धि विजयं भवेत् ।
श्रावणेषु श्रविष्ठान्तं ब्रह्मणः पदमाप्नुयात् ॥ १० ॥

प्. ३६)

प्रोष्ठान्तं भाद्रमासि स्याद् भोगजातिविवर्धनम् ।
अश्विन्यान्तं हि याश्वैजा सर्वरोग विनाशकृत् ॥ ११ ॥

सर्वमासेषु कर्तव्यं आद्रान्तं व शिवोत्सवम् ।
यस्मिन् संवत्सरे मासि तस्मिन् रक्षे तु कारयेत् ॥ १२ ॥

किञ्चिद्विशेषं वक्ष्यामि तीर्थकालविशेषतः ।
चित्रास्वाति च मेषे तु विशाखामैत्रभं वृषे ॥ १३ ॥

ऐन्द्रमूलर्क्षकन्दे च आषाढे व्याप्यवैष्णवौ ।
श्रावणे विष्णुवस्वर्क्षे भाद्रमासेत्वजैकपात् ॥ १४ ॥

तुलायां भास्करे याते चाश्विन्यां याम्यमेव च ।
कृत्तिका रोहणी चैव कृर्त्तिक्यां तु विशेषतः ॥ १५ ॥

सौम्यं चैव तथा दृचामार्गशीर्षमासके ।
आदित्यपूषौ पुष्ये च सर्पपित्रे च माघके ॥ १६ ॥

फल्गुने चोत्तराहस्ते तीर्थं कुर्यात् तु तेषु वै ।
पौर्णमासि कुहूश्चैव त्रयोदशिचतुर्दशी ॥ १७ ॥

उक्तश्च त्रिथवश्चैव तीर्थभेन युता यदि ।
यस्मिन् काले तु सबन्धे कुर्याद् वै देशिकोत्तमः ॥ १८ ॥

पूर्ववत्सरतीर्थर्क्षं तस्मिन् न हनि तीर्थकम् ।
विनाशेदवभृतं कुर्याश्चेदन्य ऋक्षक ॥ १९ ॥

रात्रौ पर्वर्क्षकं कुर्याद् दिवा ऋक्षं न दोषभाक् ।
योगयुक्ते तथैव स्याद् उपरागं तथैव च ॥ २० ॥

यस्मिन् दिनावा रात्रौ तु अमृत्यद्या भवन्ति चेत् ।
दिवा योगयुते यद्यात् तीर्थं कुर्यात् तु तीर्थभे ॥ २१ ॥

प्. ३७)

न दिवा योगयुक्तोऽपि रात्रौ योगयुतेऽपि वा ।
यस्मिन्नाहनि तीर्थं तु कुर्यादस्तमयात्पुनः ॥ २२ ॥

अपरे भिन्नयोगा स्यात् तीर्थर्क्षेण युतं यदि ।
तस्मिन् दिने ह्यवभृतं कारयेन् न तु बुद्धिमान् ॥ २३ ॥

योगसामर्थ्यरूपेण पूर्वसामर्थ्यकेन वा ।
पूर्वेद्युरेव कर्तव्यं कर्तव्यं चैव योगतः ॥ २४ ॥

एवमेव प्रकारेण योगकाले तु कारयेत् ।
पूर्वोक्ततिथिनक्षत्रे स्वस्वयागा भवन्ति हि ॥ २५ ॥

तेषु कालेषु तीर्थं हि कुर्वैश्च देशिकोत्तमाः ।
तेषु चैकोपि हीनं चेत् तीर्थं चैव न कारयेत् ॥ २६ ॥

उत्सवं च तथा योगं प्रकारेणसमानतः ।
योगयुक्ते दिने काले तीर्थं कुर्याच्छिवोत्सवम् ॥ २७ ॥

अमृते वा सिद्धयोगेष्वेकर्क्षोऽपि गतं यदि ।
अन्येषूत्पातकालेषु कारयेद् देशिकोत्तमः ॥ २८ ॥

कारणं किं विशेषोऽस्ति योगसामर्थ्यस्पतः ।
मधुवा घृतसंयुक्तं यथा विषममाप्नुयात् ॥ २९ ॥

तदेवाह्यमृते नैव योगयुक्तेन निर्मलम् ।
भवन्तीति न सन्देहमिति शास्त्रस्य निश्चयः ॥ ३० ॥

एवमेव विधानेन पूर्वमेव तु लक्षयेत् ।
यस्मात्तज्जन्मनक्षत्रं योगेन सहितं यदि ॥ ३१ ॥

प्. ३८)

तेन तीर्थं महाभद्रमनन्तं फलमश्नुते ।
नाशयोगादिभिर्युक्ते पूर्वारम्भदिने यदि ॥ ३२ ॥

तस्मिन् दिने न कर्तव्यं कर्तव्यं चेतु निष्फलम् ।
पूर्वेणारम्भतीर्थर्क्षे कारयेत् तीर्थमुत्तमम् ॥ ३३ ॥

एवं परीक्ष्य बहुधा कारयेद् देशिकोत्तमः ।
सुमुहूर्ते सुलग्ने तु स्थिराख्ये शुभविक्ष्यते (ऋक्षके) ॥ ३४ ॥

प्रथमारम्भकाले तु एवमेव तु लक्षयेत् ।
उत्तमं देवताभिश्च सहैवाप्यवगाहनम् ॥ ३५ ॥

मध्यमं तद्धृदाद्भिश्च संमार्जनमथापरम् ।
तस्मिन् काले जले ग्राह्य गजाश्वादिषु सेचयेत् ॥ ३६ ॥

ध्वजाङ्कुरकृतात्कालादातीर्थान्तं हि बुद्धिमान् ।
तयोरन्तर ऋक्षेषु नृकल्याणं न कारयेत् ॥ ३७ ॥

तेषु यात्रा न कर्तव्या कर्तॄणां क्लेशकृद् भवेत् ।
अवश्यं भवति चेद्यात्रा तीर्थस्याभ्यन्तरे विशेत् ॥ ३८ ॥

विशेषेण प्रवक्ष्यामि ब्राह्मणादेस्तु तीर्थकम् ।
माघफाल्गुनचैत्रेषु वैशाखे ब्राह्मणस्य तु ॥ ३९ ॥

आषाढे श्रावणे चैव तथा वै ज्येष्ठमासिके ।
पुष्यमासे नृपस्यैव ब्राह्मणस्य च तेऽपि च ॥ ४० ॥

आश्वयुक् कृत्तिकामासेर्वैश्यजातेर्विधीयते ।
मार्गश्रीर्षे च हैमन्ते शूद्रस्यैव विधीयते ॥ ४१ ॥

प्. ३९)

एवमुक्तप्रकारेण कारयेद् देशिकोत्तमः ।
माघे चोत्तरनक्षत्रे प्रोष्ठे चैन्द्राग्निकेऽपि च ॥ ४२ ॥

ब्राह्मणस्य प्रकर्तव्यं त्रिष्यश्रवणकेऽपि च ।
मूलपुष्यनृपस्योक्तकार्तिकामश्विनि परे ॥ ४३ ॥

आर्द्रायां पूर्वभाद्रर्क्षे शूद्रस्य च विधीयते ।
सर्वेषामेव जातीनामार्द्रान्तं स्याच्छिवोत्सवम् ॥ ४४ ॥

वैष्णवे च पुनर्वस्वो हस्तेऽपि च तथैव च ।
सप्तम्यां च त्रयोदश्यां द्वादश्यां ब्राह्मणस्य च ॥ ४५ ॥

बुधवारे गुरोर्वारे ब्राह्मणस्य विधीयते ।
अङ्गारके नृपस्योक्तं भास्करे सितवारके ॥ ४६ ॥

वैश्यश्चैव प्रकर्तव्यं शूद्रस्यैव तथापरे ।
पौर्णमास्याममावास्यामष्टम्यां पर्वजातिषु ॥ ४७ ॥

एवमेव विधानेन कारयेत् प्रथमेऽपि च ।
एतेषूक्तेषु कालेषु युगयुक्ते विशेषतः ॥ ४८ ॥

एवमेव विधानेन कारयेदवभृतं पुनः ।
अवभृतस्य तु काले तु राष्ट्रक्षोभादि संभवेत् ॥ ४९ ॥

अति वृष्ट्यादिभिवृष्टे तीर्थयात्रा न विद्यते ।
तस्मिन् स्थाने जलं ग्राह्यं महाकुम्भेषु पूरयेत् ॥ ५० ॥

स्नपनोक्त विधानेन तीर्थं कुर्याद् विधानतः ।
होमं बलिं विना कुर्याद् ध्वजारोहणकालके ॥ ५१ ॥

प्. ४०)

तीर्थर्क्षौ द्वौ तु संप्राप्ते एकमासे परं वरम् ।
तीर्थर्क्षे द्वे च वारे स्याद् दैविके चैवार्षके तथा ॥ ५२ ॥

ब्राह्मिकं तु तथेव स्यादुक्तमेवं विधिं मतम् ।
अष्टाविंशद् दिनेनैव अष्टादशस्य चोत्तरे ॥ ५३ ॥

तस्मिन्नेव समारम्भे दशमे दिवसे भवेत् ।
प्रोक्ते तु चोत्सवे काले विंशदेकोनके दिने ॥ ५४ ॥

अङ्कुरार्पणकं कुर्यात् तीर्थस्य तु विशेषतः ।
दैवे दशदिने काले अङ्कुरानर्पयेद् बुधः ॥ ५५ ॥

आर्षे चोत्सवे काले दशपञ्चाहके दिने ।
अङ्कुरानर्पयेद् धीमान् द्विगुणे चाष्टमे दिने ॥ ५६ ॥

तद्दिने च समारम्भे अङ्कुरस्यापि चाङ्कुरम् ।
पूर्वोक्तेन तु कालेन अङ्कुरान् सद्यरोपयेत् ॥ ५७ ॥

ब्रह्मिके तु तथैवं स्यादन्यत् सर्वं तथैव च ।
तद्दिनं त्रिगुणं चैव उत्तमं तु प्रकीर्तितम् ॥ ५८ ॥

द्विगुणं मध्यमं चैव तद्दिनं चाधमं भवेत् ।
शान्तिकं त्रिगुणे काले पौष्टिके द्विगुणे दिने ॥ ५९ ॥

तद्दिने कामदं चैव त्रिविधं भेदमुच्यते ।
तद्दिने त्रिगुणे काले अष्टादशदिने तथा ॥ ६० ॥

चतुर्दशदिनै चैव दशमे दिवसे तथा ।
मध्यमस्य तु काले तु दशमे चाष्टमे र * ॥ ६१ ॥

प्. ४१)

तद्दिने च समारम्भे ध्वजाङ्कुरं तु वर्द्धितम् ।
एवमेव प्रकारेण कारयेद् देशिकोत्तमः ॥ ६२ ॥

शैवे शैवं प्रकर्तव्यमन्यत् सर्वं न कारयेत् ॥ ६२½ ॥

इति सूक्ष्मतन्त्रे तीर्थकालनिर्णयपटलः ॥

दीपावलिं प्रवक्ष्यामि यथाविधि पुरःसरम् ।
कृत्तिकामासि कर्तव्यं तथा पर्वदिनं शुभम् ॥ १ ॥

सर्वशान्तिकरं पुण्यं मासपूजाविधिं तथा ।
पर्वयुक्तमयुक्तं वा दिनयुक्तमथापि वा ॥ २ ॥

दिनं च पर्वयुक्तं तु उत्तमं तु प्रशस्यते ।
पर्वं प्रधानमेवोक्तं उत्तमोत्तममुच्यते ॥ ३ ॥

कृत्तिका भरणी मिश्रं तद्दिनं तु चतुर्दशी ।
अल्पवृष्टिं च रोगं च राष्ट्रक्षोभं भविष्यति ॥ ४ ॥

तद्दिनस्य पुरा रात्रौ अधिवासनमारभेत् ।
मण्डपस्यैशदिग्भागे पावके वा विशेषतः ॥ ५ ॥

तन्मध्ये स्थण्डिलं कृत्वा हस्तमात्रेण देशिकः ।
स्थलिकां तण्डुलैः पूर्य तन्मध्ये नलिनं लिखेत् ॥ ६ ॥

तन्मध्ये त्रिपदीं कृत्वा दीपाधरं ततः कुरु ।
सकलीकरणं कृत्वा पुण्याहं तत्र वाचयेत् ॥ ७ ॥

प्. ४२)

कुण्डं वा स्थण्डिलं वापि वह्निकार्यं तदुच्यते ।
अग्न्याधानादिकं सर्वं यथाविधि पुरःसरम् ॥ ८ ॥

महेशं तु विशेषेण रक्षाबन्धं तु कर्मसु ।
सर्वालङ्कारसंयुक्तं सर्वमङ्गलशोभितम् ॥ ९ ॥

शङ्खदुन्दुभिनिर्घोषैस्ततो मङ्गलवाचकैः ।
अग्नेरुपसमाधाय पूर्णाहुत्यन्तमाचरेत् ॥ १० ॥

रुद्रसङ्ख्या नवसंख्या पञ्चविंशतिसङ्ख्यया ।
षट्त्रिंश तत्त्व सङ्ख्या व अष्टोत्तरशत सङ्ख्यया ॥ ११ ॥

पञ्चावरणकं वापि यथाविभवविस्तरैः ।
पोट्टलीं बन्धयेत् तत्र पात्रं प्रति नियोजयेत् ॥ १२ ॥

शिवाग्निं च प्रकर्तव्यं दीपमारोपयेत् ततः ।
धूपदीपं हृदा दत्त्वा अविच्छिन्नं तु रक्षयेत् ॥ १३ ॥

रात्रौ सायमिति प्रोक्तं दिवा प्रात इति स्मृतम् ।
मध्याह्नान्तं समारभ्य यावत् तु दशनाडिका ॥ १४ ॥

विशेषस्नपनं कृत्वा मूलबिम्बाग्रकैस्ततः ।
पञ्चगव्यं ततः कृत्वा पश्चाद्यजनमारभेत् ॥ १५ ॥

वस्त्रोपवीते माला च मकुटं कुण्डलं तथा ।
सर्वगन्धानुलिप्ताङ्गैः सर्वमाल्योपशोभितैः ॥ १६ ॥

पञ्चावरणमार्गेण पूजयित्वा विशेषतः ।
धूपदीपं हृदा दत्वा पश्चाद्धोमं समाचरेत् ॥ १७ ॥

प्. ४३)

पूर्णाहुतिं तथा कृत्वा पश्चाद् दीपं प्रपूजयेत् ।
अस्तमान्तं समारभ्य दीपमादापयेत् ततः ॥ १८ ॥

परिचारान् समाहूय सुस्नातान् शुक्लवस्त्रकान् ।
सोष्णीषमुत्तरीयं च पवित्रं पणयः शुचिः ॥ १९ ॥

तन्मूर्ध्नि विन्यसेद् दीपं प्रासादं तु प्रदक्षिणं ।
स्तोत्रध्वनिसमायुक्तं शङ्खघोषसमन्वितम् ॥ २० ॥

प्रविशेदालयं पश्चान्मूलबिंबाग्रके ततः ।
देवदेवं नमस्कृत्वा अष्टपुष्पं सुयोजयेत् ॥ २१ ॥

धूपदीपं हृदा दत्वा देवदेवं नियोजयेत् ।
गर्भावरणक्रमं ह्येवं मन्त्रदीपं निवेदयेत् ॥ २२ ॥

शेषदीपं समादाय दण्डमूलं प्रवेशयेत् ।
दण्डशुद्धिं ततः कृत्वा पुण्याहं तत्र वाचयेत् ॥ २३ ॥

निरीक्षणं महेशान दीपमारोपयेत् ततः ।
उपानात् स्वपि(?) पर्यन्तं दीपमारोपयेत् पुनः ॥ २४ ॥

शक्तिदीपानि सर्वाणि पचनालयदापयेत् ।
प्राकारे गोपुरे चैव मण्डपं तु नयेत्पुनः ॥ २५ ॥

ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति ।
धूपदीपं हृदा दत्वा भस्मानि तु प्रदापयेत् ॥ २६ ॥

इक्षुखण्डसमायुक्तं मरिचूर्णं तु मिश्रकम् ।
लाजापूपफलं चैव देवदेवस्य दापयेत् ॥ २७ ॥

प्. ४४)

प्रभूतहविषं दत्वा ताम्बूलं तु निवेदयेत् ।
आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः ॥ २८ ॥

एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ २८½ ॥

इति सूक्ष्मतन्त्रे दीपावलिपटलः ॥

देवदेवजगन्नाथमुमाय परमेश्वरम् ।
द्वारं तु पश्चिमं श्रेष्ठं इन्द्रं वचनमब्रवीत् ॥ १ ॥

ईश्वर उवाच ।

अथ संक्षेपतो वक्ष्ये अर्चनविधिमुत्तमम् ।
विजयं सूक्ष्मतन्त्रं च किरणं परमेश्वरम् ॥ २ ॥

रौरवं कामिकं चैव पश्चिमाभिमुखोद्भवम् ।
तस्मात्संहिता तन्त्रज्ञः सर्वकर्माणि कारयेत् ॥ ३ ॥

अन्येषां संहिता मिश्रं देवान् प्रति न गच्छति ।
पश्चिमद्वारसर्वेषां सृष्टिपूजा इहोच्यते ॥ ४ ॥

द्वाराधिदेवतं ब्रह्मा पूजयेत् परमेश्वरं ।
दक्षिणतः शास्त्रकुशलः शुचिर्मात्रस्तु पूजयेत् ॥ ५ ॥

देवेशं पूजयेन्नित्यं पञ्चाचार्यसमन्वितं ।
पूजयेत् सकलानां तु पञ्चकालकृतस्तथा ॥ ६ ॥

तदाचरमिदं प्रोक्तं पञ्चाचार्या प्रकीर्तिताः ।
पूजकं पूजयेन् नित्यं साधकं द्रव्यसाधकम् ॥ ७ ॥

प्. ४५)

स्थलशुद्धिरलङ्कारं सर्वालङ्कारसंयुतम् ।
पात्रशुद्धिस्तु सर्वेषां पञ्चशोधनमाचरेत् ॥ ८ ॥

आचार्यः कृत्यनैमित्यपरार्थकर्म कारयेत् ।
अर्चनादिषु मेधा च पश्चिमद्वारसाधकः ॥ ९ ॥

देहशुद्धिं पुराकृत्वा द्वितीयं स्थलशुद्धिकम् ।
तृतीयं पात्रशुद्धिस्तु चतुर्थं लिङ्गशुद्धिकम् ॥ १० ॥

पञ्चमं मन्त्रशुद्धिं स्यात् पञ्चशुद्धिः प्रकीर्तिता ।
पूजकः पूर्वरात्रौ तु ब्रह्मचर्य समन्वितः ॥ ११ ॥

ब्राह्मे मुहूर्ते संप्राप्ते मन्त्रध्यानपरायणः ।
शिवपञ्चाक्षरं मन्त्रं सर्वपापप्रणाशनम् ॥ १२ ॥

ग्रामान्ते तु बहिर्गत्वा शौचं कृत्वा यथाविधि ।
आचम्य विधिवत् स्नात्वा देहन्यासं तु कारयेत् ॥ १३ ॥

प्रदक्षिणत्रयं कृत्वा शिवालयप्रवेशनम् ।
प्रणम्य दण्डवद्भूमौ प्रार्थयेन्मनसा शिवम् ॥ १४ ॥

ध्यात्वा दृष्टिस्तु नासाग्रे निर्मले द्वादशाङ्गुले ।
आणावादीन् शरीरेण दहेद्यावच्छिरोन्तकम् ॥ १५ ॥

हृत्कमलं शिवं प्राप्य दक्षिणे पुनरर्चितम् ।
वामनास्ये तदुद्वास्य तथा भूतं दहेत् पुनः ॥ १६ ॥

कलेवरं दहेद् विद्वान् भस्मकूटव्यवस्थितः ।
चन्द्रबिम्बं स्मरेत् तत्र श्वेतपद्मोपरि स्थितम् ॥ १७ ॥

प्. ४६)

अमृताप्लावनं देहे कुर्याद्वामपुटे स्थितम् ।
दक्षिणे रेचकं कार्यात् शरीरोत्पत्तिकारणम् ॥ १८ ॥

सदाशिव तनुं सत्य प्राणस्थापनमेव च ।
आत्मानं योजयेद् विद्वान् कुम्भकं तत्र पिण्डितः ॥ १९ ॥

मलपिण्डं परित्यज्य मन्त्रपिण्डं यथाक्रमम् ।
ततोपरिस्थितं न्यासं मन्त्रपिण्डं यथाक्रमम् ॥ २० ॥

स्थितिन्यासं पुरा कृत्वा सृष्टिन्यासमतः परम् ।
संहारं तु परित्यज्य स पूजां कर्तुमर्हसि ॥ २१ ॥

करन्यासं पुरा कृत्वा अङ्गन्यासमतः परम् ।
शिवाङ्गं दक्षिणे हस्ते विद्याङ्गं वामहस्तके ॥ २२ ॥

मणिबन्धे द्वयं वापि शिवे तु ब्रह्मदेवता ।
श्रीर्या सरस्वति चैव तलमध्ये प्रकीर्तिताः ॥ २३ ॥

उमादुर्गां तले बाहौ दक्षिणाङ्गुष्ठमिन्दवत् ।
वामाङ्गुष्ठं तु विन्यस्य संपिता च महोच्यते ॥ २४ ॥

इन्द्रादिब्रह्मपर्यन्तं करन्यासं प्रकीर्तितम् ।
नाभ्यादिपादपर्यन्तं विद्याङ्गं विन्यसेत् क्रमात् ॥ २५ ॥

प्रणवादिप्रणातं च अकारादिक्षकान्तकम् ।
अक्षरन्यासमित्याहुः सृष्टिन्यासमिहोच्यते ॥ २६ ॥

कलाभेदेन संयुक्तं ईशानादीनि विन्यसेत् ।
षडङ्गं विन्यसेत् पश्चाद् देहशुद्धिं तु कारयेत् ॥ २७ ॥

प्. ४७)

देहं तु शोधयेत् पश्चात् स्थलशुद्धिं प्रकल्पयेत् ।
एतेषां परितः क्षाल्य गोमयेनानुलेपयेत् ॥ २८ ॥

प्रोक्षयेन्मन्त्रतोयेन स्थलशुद्धिं प्रकल्पयेत् ।
षडङ्गानि शरावाणि घटानि विविधानि च ॥ २९ ॥

अन्यानि जलभाण्डानि सौवर्णानि विशेषतः ।
अस्त्रेण क्षालयेद् धीमान् हुङ्कारेण तु मन्त्रतः ॥ ३० ॥

पात्रशुद्धिरिदं प्रोक्तं द्रव्यशुद्धिं ततः शृणु ।
पाद्यमाचमनं चार्घ्यं गन्धपुष्पं तथैव च ॥ ३१ ॥

नैवेद्यं धूपदीपादि जलद्रव्याणि शोधयेत् ।
पूजको देहशुद्धिं तु लिङ्गशुद्धिं च कारयेत् ॥ ३२ ॥

प्रविशे गर्भदेशे तु द्वारपालान् समर्चयेत् ।
दण्डिनं मुण्डिनं चैव स्वनामाद्यश्च पूजयेत् ॥ ३३ ॥

प्रविश्याभ्यन्तरं पश्चाल्लिङ्गशुद्धिर्भवेदिह ।
विसर्ज्येत् सर्वपुष्पाणि चण्डेशाय प्रकल्पयेत् ॥ ३४ ॥

प्रक्षाल्य शिवलिङ्गं तु मन्त्रपूतेन वारिण ।
अष्टमृत्पूरयेल्लिङ्गं सादित्वा दर्भरज्जुना ॥ ३५ ॥

क्षालयेत् पञ्चगव्येन लिङ्गशुद्धिर्भवेदिह ।
आसनं कल्पयेद् विद्वान् उत्तराभिमुखस्थितः ॥ ३६ ॥

योगं च विमलं चैव पद्मम् अनन्तमेव च ।
सिंहासनमिदं प्रोक्तं चतुरश्रं च भावयेत् ॥ ३७ ॥

प्. ४८)

बाह्ये द्वादशसूत्रं तु पार्श्वे पार्श्वे तु तद् द्वयम् ।
कोणमेकैकसूत्रं तु पञ्चचन्द्रं वेष्टयेत् ॥ ३८ ॥

तद् बाह्ये पद्ममालोक्यं योगं चन्द्रस्य शोभितम् ।
कुर्यादवन्दितो रम्यं कारयेद् देशिकोत्तमः ॥ ३९ ॥

परार्थं पूजयेन्नित्यं उत्तराभिमुखस्थितः ।
तद् बाह्येन तु पद्मं स्याद् द्वादशायुधं विन्यसेत् ॥ ४० ॥

वज्रं शक्तिं च दण्डं च खड्गं पाशं तथैव च ।
अङ्कुशं च गदाश्रं च पद्मचक्रं तथैव च ॥ ४१ ॥

सुवज्रं हंसमूली च अण्डतुण्डस्तथैव च ।
पश्चिमादिषु रत्नान्तं सर्वदावरणान् न्यसेत् ॥ ४२ ॥

पृथिव्या सप्तधा तेजो वायुराकाशमेव च ।
लवणक्षीर घृतं चैव दधि च मधु एव च ॥ ४३ ॥

इक्षुस्वादूदकं चैव पश्चिमादि प्रदक्षिणं ।
भूतमावरणं कृत्वा स्वनामाद्येन पूजयेत् ॥ ४४ ॥

सोमाङ्गारबुधं चैव राहुकेतुस्तथैव च ।
आदित्यशनिशुक्रश्च मेरुसन्यो बृहस्पतिः ॥ ४५ ॥

एवमावरणं चैव पश्चिमादिषु पूजयेत् ।
मेषादिमीनपर्यन्तं कलावण्यमिहोच्यते ॥ ४६ ॥

द्वित्रिवेदभिद्विद्वौ तु पञ्चपञ्चक वेदकान् ।
षष्ठं भगणमेधावि पूर्वादारभ्य पूजयेत् ॥ ४७ ॥

प्. ४९)

दक्षिणाश्रयवामे तु व्योकारं तत्र विन्यसेत् ।
मकारं च कनिस्थाने व्योकारं पश्चिमेन तु ॥ ४८ ॥

विकारं पश्चिमाश्रित्य नेकारं वायुगोचरे ।
शिकारं सोमविन्यस्य वाकारं तस्य पार्श्ववत् ॥ ४९ ॥

लकारे चं मीशाने न कारं पूर्वविन्यसेत् ।
माकारं इन्द्रमाश्रित्य प्रणवाग्नि दिशिस्तथा ॥ ५० ॥

दक्षिणे पद्मपुष्पं च आश्रयादि प्रदक्षिणं ।
व्योमावरणमित्येषां सिंहावारणकं शृणु ॥ ५१ ॥

धर्मज्ञानं च वैराग्यमैश्वर्यं च तथैलिका ।
सिंहावरणमित्येषां * * मानथ पूजयेत् ॥ ५२ ॥

अनन्तं पूर्वतः स्थाप्य त्रिमूर्तिमग्निमेव च ।
दक्षिणे सूक्ष्मं विन्यस्य श्रीकण्ठं निर्-ऋतौ तथा ॥ ५३ ॥

शिवोत्तमं पश्चिमे न्यस्य शिखण्डीं वायुगोचरे ।
एकनेत्रं तथा सोमे ईशाने एकरुद्रकम् ॥ ५४ ॥

अनन्तवरणं त्येषां पूर्वादीनि प्रदक्षिणम् ।
वामां पश्चिमतो न्यस्य ज्येष्ठे चैव तु चोत्तरे ॥ ५५ ॥

रौद्रीं च दक्षिणे भागे कलिं चेन्द्रदिशि न्यसेत् ।
कलविकरणं विन्यस्य आग्नेर्य्यां दिक्षु गोचरे ॥ ५६ ॥

बलविकरणं नैर्-ऋत्यां बलप्रमथं वायवे ।
सर्वभूतमनि चैव ऐशान्यां दिशि विन्यसेत् ॥ ५७ ॥

प्. ५०)

मध्ये मनोन्मनी देवी पद्मासनमिहोच्यते ।
प्रणवं पूर्वतः स्थाप्य आकारं वह्निगोचरे ॥ ५८ ॥

ईशाने दक्षिणे भागे ऊकारं राक्षसे दिशि ।
व्योकारं पश्चिमाश्रित्य षकारं वायुगोचरे ॥ ५९ ॥

व्योकारं सोमदिग्भागे विकारं शाङ्करे दिशि ।
तन्मध्ये चैव नेकारं योगासनमिहोच्यते ॥ ६० ॥

पश्चिमद्वारहर्म्ये तु किङ्चिद्वारं शिवार्चनम् ॥ ६१ ॥

पश्चिमद्वारलिङ्गं तु दक्षिणादिश्च भारत ।
सर्वपापहरं पुण्यं सर्वारिष्टविनाशनम् ॥ ६२ ॥

सर्वसौभाग्यसंपत्तिः सर्वलोकप्रियार्थकम् ।
वामहस्तेन गौर्यास्तु पुत्रपौत्रविवर्धनम् ॥ ६३ ॥

कुलालचक्रमृद्भिस्तु नानारूपेण दृश्यते ।
यत्र रूपेण सङ्कल्प्य आचार्यमनसा तथा ॥ ६४ ॥

शिवं दक्षिणहस्ते तु गौरि दक्षिण हस्तकम् ।
देवेशं वाम हस्ते तु शिवद्विजस्य स्थानकम् ॥ ६५ ॥

आचार्यहस्तदेशं तु दक्षिणाङ्गुलि पृष्ठतः ।
सर्वप्रियाय हस्तं च दक्षिणे हस्तपृष्ठतः ॥ ६६ ॥

शिवप्रसन्नमित्युक्तम् आचार्यमनसा तथा ।
गौरिस्थानमिदं प्रोक्तं नैवेद्यं च शृणुष्वह ॥ ६७ ॥

कपित्थस्य फलं चैव यथा कुञ्जरभक्षणम् ।
अन्तःसारं तु सङ्ग्राह्य ग्राहते परमेश्वरः ॥ ६८ ॥

प्. ५१)

अविदद्याविशेषेणन्तदन्ते भूतसंबलिः ।
इन्द्रादिबाह्यपीठान्त दिग्बलिं तत्र कारयेत् ॥ ६९ ॥

असुराराक्षसाश्चैव पिशाचा ब्रह्मराक्षसाः ।
उच्छिष्ठान्नं तथा चैव बलिं दद्याद्धविस्तथा ॥ ७० ॥

पूर्वादीशानपर्यन्तं महापीठे बलिं क्षिपेत् ।
गन्धपुष्पं च धूपं च नैवेद्यं च बलिं क्षिपेत् ॥ ७१ ॥

गन्धं च घोरमन्त्रेण पुष्पमीशेन दापयेत् ।
धूपं च अस्त्रमन्त्रेण दीपं नेत्रेण दापयेत् ॥ ७२ ॥

पुरुषेण हविर्दद्यात्पाद्यं सद्येन मन्त्रतः ।
अर्घ्यं पुरुषमन्त्रेण वामेनाचमनं भवेत् ॥ ७३ ॥

सर्वामन्त्राभिधानेन हृदयेनैव मन्त्रतः ।
पश्चिमार्चनमेतेषामुत्तरद्वारमाशृणु ॥ ७४ ॥


इति सूक्ष्मशास्त्रे पश्चिमद्वारार्चनं नाम नवमपटलः ॥ ९ ॥

करकृतमपराधः क्षतुमर्हन्ति सन्तः ॥


अतः परं प्रवक्ष्यामि अङ्कुरार्पणमुत्तमम् ।
उत्सवे स्नपने चैव स्थापने प्रोक्षणे तथा ॥ १ ॥

सर्वमङ्गलकार्यादौ अङ्कुरानर्पयेत् क्रमात् ।
प्रथमम् अङ्कुरं चैव द्वितीयं चोत्सवाङ्कुरम् ॥ २ ॥

तीर्थाङ्कुरं तृतीयं तु तुरीयं चोत्सवाङ्कुरे ।
मानुषादिपिशाचान्तं मन्यानं तु प्रकीर्तितम् ॥ ३ ॥

प्. ५२)

नवाहे प्रथमं कुर्यात् सप्ताहे च द्वितीयकम् ।
तद्दिने च तृतीयं स्याद्वापयेदङ्कुरं बुधः ॥ ४ ॥

प्रथमं च द्वितीयं च मङ्गलाङ्कुरमुच्यते ।
तृतीयमुत्सवाङ्गं स्यादुत्सवेषु च योग्यकम् ॥ ५ ॥

उत्सवादिषु कार्येषु प्रथमाङ्कुरमारभेत् ।
तस्मात्सर्वप्रयत्नेन तीर्थाङ्कुरमथारभेत् ॥ ६ ॥

सप्ताहे चैव पञ्चाहे त्रियाहे सद्य एव च ।
मङ्गलाङ्कुरकं कुर्यात् सर्वकार्येषु योग्यकम् ॥ ७ ॥

अस्त्रं च सोमकुम्भं च प्रदक्षिणविशेषतः ।
मङ्गलाङ्कुरकं कुर्यात् तीर्थाङ्कुरं तु वापयेत् ॥ ८ ॥

पालिका घटिका चैव शरावं च त्रिभेदकम् ।
पालिका रत्नमात्रोच्चां मात्राङ्गुलेन कारयेत् ॥ ९ ॥

पालिका मुखविस्तारं मायार्थं न प्रकल्पयेत् ।
तत् तत्रिगुणतन्नाहं पालिकापादमानकम् ॥ १० ॥

घटिकाघटविस्तारं षडङ्गुलमुदाहृतम् ।
शरावमुखविस्तारं द्वादशाङ्गुलमुच्यते ॥ ११ ॥

कालं भिन्नं च सुषिरं भेदं चलनभिञ्चकम् ।
वर्जयेत् तु प्रयत्नेन साधयेल्लक्षणान्वितम् ॥ १२ ॥

प्. ५३)

सौवर्णे रजते ताम्रे कांस्ये वा मृन्मये तु वा ।
यथालाभप्रमाणेन कारयेद् देशिकोत्तमः ॥ १३ ॥

दर्भार्ग्रैवा कुशाग्रैर्वा निच्छिद्रं सुषिरं नयेत् ।
वालुकैर्गोमयेर्मृद्भिः पालिकादि प्रपूजयेत् ॥ १४ ॥

प्रासादस्याग्रतः कुर्यात् स्थण्डिलं चतुरश्रकम् ।
गन्धपुष्पादिभिः पूज्य तिलैर्दर्भ परिस्तरैः ॥ १५ ॥

पालिकां विन्यसेत् तत्र हृन्मन्त्रेणैव देशिकः ।
अश्वत्थ पत्र दर्भास्तु पालिका पादके न्यसेत् ॥ १६ ॥

तिलमुद्गं च माषं च कुलत्थाप्यंगुमेव च ।
पयसा क्षालयित्वा तु वापयेद् दशबीजकैः ॥ १७ ॥

पायसान्नं ददेत् पश्चात् सोमबीजेन बुद्धिमान् ।
ताम्बूलं दापयेत् तत्र स्वनुगुप्ते निधापयेत् ॥ १८ ॥

अहन्यहनि संपूज्य प्रासादेनैव मन्त्रतः ।
पश्चाच्छुभाशुभं वीक्ष्य शुभं सङ्गृह्य बुद्धिमान् ॥ १९ ॥

अशुभानि भवेत् तत्र प्रायश्चित्तादि कारयेत् ॥ १९½ ॥

इति सूक्ष्मशास्त्रे क्रियापादे महोत्सवे अङ्कुरार्पणं नाम दशमः पटलः ॥
प्. ५४)

अतः परं प्रवक्ष्यामि ध्वजारोहणमुत्तमम् ।
आचार्यो यजमानश्च चिन्तयेद् दिनसङ्ख्यया ॥ १ ॥

पश्चाद्ध्वजं समुत्थाअप्य त्रिगुणं द्विगुणं तु वा ।
तद्दिने वापि कर्तव्यमुत्तमं मध्यामाधमम् ॥ २ ॥

पूर्वाह्ने रोपयेत् केतुं ब्राह्मणानां हिताय वै ।
क्षत्रियस्य तु मध्याह्ने वैश्यानामपराह्नके ॥ ३ ॥

अर्द्धरात्रे तु शूद्राणां सायं शूद्रस्तु वा भवेत् ।
ध्वजारोहणपूर्वं तु ब्राह्मणानां हिताय वै ॥ ४ ॥

भेरीताडनपूर्वं तु क्षत्रियाणां प्रवृद्धये ।
अङ्कुरार्पणपूर्वं तु नगरे पुण्यदेशके ॥ ५ ॥

भेरीताडनपूर्वं तु कुर्याद् ग्रामं विशेषतः ॥ ६ ॥

ध्वजारोहणपूर्वं तु नगरे पुण्यदेशके ।
अङ्कुरार्पणपूर्वं तु भक्तानां दिक्षु कारयेत् ॥ ७ ॥

यः क्रियामारभेत् पूर्वं पूर्वं तां च कुर्यात् सदा बुधः ।
अन्यथा कारयेद् यस्तु क्रियासङ्करमुच्यते ॥ ८ ॥

तस्मात्सर्वप्रयत्नेन प्रथमारम्भणं शुभम् ।
सरलं चन्दनं चैव धातकी चम्पकं तथा ॥ ९ ॥

क्रमुकं नालिकेरं च बिल्वं वैणवमुच्यते ।
उत्तमं शतहस्तं स्यान्मध्यमं तु तदर्धकम् ॥ १० ॥

प्. ५५)

पञ्चविंशति हस्तेन अधमं कारयेद् बुधः ।
अथवाष्टदशं हस्तं द्वादशाङ्गुलविस्तरम् ॥ ११ ॥

अथ प्रासादमानेन कारयेद्ध्वजताण्डकम् ।
अवक्रं निर्वृणं चैव कृमिकोटरवर्जितम् ॥ १२ ॥

यथामनोरमं कुर्याद्ध्वजदण्डं हि देशिकाः ।
षोडशाङ्गुलनाहं स्याद्दण्डाग्रे चतुरङ्गुलम् ॥ १३ ॥

पञ्चषट्सप्तपर्वाणि दशपर्वाणि वा पुनः ।
आधारफलकास्तिस्रो हस्तमात्रप्रमाणतः ॥ १४ ॥

वेतालसदृशाकारा अथवा योनिमार्गतः ।
एवमेव विधानेन कारयेद् देशिकोत्तमः ॥ १५ ॥

बाह्यपीठस्य चाग्रे वा गोपुरस्याग्रतोऽपि वा ।
व्रषालयाग्रे पृष्ठे वा शूलस्याग्रे च वा पुनः ॥ १६ ॥

प्रासादपुरतो वापि ऐशान्यां वाथ कारयेत् ।
ब्रह्मणस्य ध्वजं श्वेतं क्षत्रियस्य तु रक्तकम् ॥ १७ ॥

वैश्यस्य पीतवर्णं तु शूद्राणां श्याममेव च ।
दुकूलं पट्टवस्त्रं वा पटं कार्पासमेव च ॥ १८ ॥

द्वादशं दशहस्तं वा नवहस्ताष्टहस्तकम् ।
पञ्चभागैकविस्तारं षड्भागैकमथापि वा ॥ १९ ॥

त्रिंशदङ्गुलमानं वा कारयेद्ध्वजतारकम् ।
विस्तारस्य समं पुच्छं तस्यार्धं शिखरं भवेत् ॥ २० ॥

प्. ५६)

अथवा पुच्छतुल्यं वा पार्श्वयोरङ्गुलीकृतम् ।
अच्छिन्नमुत्तमं प्रोक्तं सच्छिन्नं लक्षणान्वितम् ॥ २१ ॥

महाध्वजं शतं हस्तं तदर्धार्धं तु षोडशम् ।
द्वादशं वा प्रकूर्वीत अष्टहस्तायतं शुभम् ॥ २२ ॥

यथालाभं गृहीत्वा तु देशकालानुरूपतः ।
उत्सवार्थं तु सङ्गृह्य तन्मध्ये वृषभं लिखेत् ॥ २३ ॥

उत्सवस्य त्रिरात्रौ तु बलिभूतं व्रजेन्नरः ।
पश्चाद्यागेशशलायां पूजयेत् तु शिवद्विजः ॥ २४ ॥

ध्वजं पटस्त्रिभागं स्यात् तन्मध्ये वृषभं लिखेत् ।
दर्पणं पूर्णकुम्भं च चामरं वा द्वयोर्न्यसेत् ॥ २५ ॥

दीपं च मङ्गलं चैव कारयेल्लक्षणान्वितम् ।
एवमेव विधानेन कारयेद् देशिकोत्तमः ॥ २६ ॥

ध्वजं पटस्य शुध्यर्थं * * मानेन प्रोक्षयेत् ।
पश्चाद्ध्वजं पञ्चगव्ये प्रोक्षयेच्छिवमन्त्रतः ॥ २७ ॥

वृषगायत्रिमन्त्रेण कुशाद्भिः प्रोक्षयेद् बुधः ।
दण्डं च पूर्वरत्रौ तु स्थापयेत् तु शिवद्विजः ॥ २८ ॥

बाहुमात्रं खनित्वा तु श्वभ्रं प्रोक्ष्य कुशाम्भसा ।
वृषभं कूर्मकं वापि हैमं श्वभ्रं विनिक्षिपेत् ॥ २९ ॥

दण्डमुत्थापयेत् पश्चाच्छिवमन्त्रेण देशिकः ।
सकूर्चदर्भमालं च वेष्टयेद् ध्वजदण्डके ॥ ३० ॥

प्. ५७)

सप्तषट्पञ्चतालैर्वापि चतुस्तालैश्च वेदिकाः ।
ब्राह्मणादि क्रमेणैव कारयेत् तु विशेषतः ॥ ३१ ॥

विस्तारद्विगुणोत्सेधं पादोनं वा तदर्धकम् ।
इष्टिकाभिश्च मृद्भिर्वा सुधया वाथ कारयेत् ॥ ३२ ॥

चतुरश्रमथाष्टाश्रं वृत्तं वा कारयेद् बुधः ।
तदूर्ध्वे पद्ममालिख्य दलाष्टकसमन्वितम् ॥ ३३ ॥

त्रिमेखलानि वा कुर्यात् पादवर्गे सुशोभितम् ।
यथा मनोरमं कुर्यादथवा देशिकोत्तमः ॥ ३४ ॥

गन्धपुष्पादिना पूज्य वृषमन्त्रेण देशिकः ।
अस्त्रं चैव पटं चैव बिम्बाग्रे वा शिवाग्रके ॥ ३५ ॥

अर्चयेन्नवमन्त्रेण हविस्तत्र निवेदयेत् ।
त्रिशूलं च पटं चैव बिम्बं चैव विशेषतः ॥ ३६ ॥

ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कारसंयुतम् ।
होमं कृत्वा तदाग्रामे नगरादिषु कारयेत् ॥ ३७ ॥

पश्चात्प्रासादमावेश्य जलेन प्रोक्षयेत् पटम् ।
गन्धपुष्पादिभिः पूज्या पुष्पं गायत्रिमन्त्रतः ॥ ३८ ॥

विमानप्रदक्षिणं कृत्वा यन्त्ररूपेण रोपयेत् ।
अथवा बन्धमार्गेण सर्वालङ्कारसंयुतम् ॥ ३९ ॥

ध्वजमारोपयेद् विद्वान् उत्सवार्थं विशेषतः ।
स्नपनं कारयेत् तत्र पुण्याहं वाचयेद् बुधः ॥ ४० ॥

प्. ५८)

पञ्चवर्णं हविर्दद्यात् ताम्बूलं दापयेद् बुधः ।
ब्राह्मणान् भोजयेत् पश्चादाचार्यं पूजयेत् सदा ॥ ४१ ॥


इति सूक्ष्मतन्त्रे ध्वजारोहणं नाम एकादशपटलः ॥

अतः परं प्रवक्ष्यामि भेरीताडनमुत्तमम् ।
ध्वजारोहणपूर्वेयु रात्रौ भेर्यास्तु ताडनम् ॥ १ ॥

नैवेद्यद्रव्यसर्वाणि देशिकाय प्रदापयेत् ।
तण्डुलस्याष्टभागं च व्यजनं षोडशांशकम् ॥ २ ॥

अपूपाष्टांशमित्युक्तं ताम्बूलं च तथैव च ।
फलादि भक्षणद्रव्यैर्दशांशं दापयेत् क्रमात् ॥ ३ ॥

इत्थं नैमित्तिके नित्ये काम्ये चैव प्रदापयेत् ।

इति सूक्ष्मतन्त्रे शिवागमे एकादशपटलः ॥

भेरीताडनपूर्वं तु दिवारात्रौ च ताडयेत् ।
अङ्कुरार्पणपूर्वे तु रात्रावेव प्रताडयेत् ॥ १ ॥

भेरीलक्षणमार्गेण भेरिकां कारयेद् बुधः ।
प्रोक्षयेत् पञ्चगव्येन नन्दिगायत्रिमन्त्रतः ॥ २ ॥

प्. ५९)

स्नपनं कारयेत् तत्र पञ्चविंशतिसङ्ख्यया ।
मण्डपस्य तु मध्ये तु परिवेषस्य मध्यमे ॥ ३ ॥

गोमयालेपनं कृत्वा पञ्चचूर्णैरलङ्कृतम् ।
आपोहिष्ठेति मन्त्रेण प्रोक्षयेत् तु कुशाम्भसा ॥ ४ ॥

स्थण्डिलं तत्र कुर्वीत द्विहस्तेन विशेषतः ।
त्रिहस्तं चैव विस्तारं शालिभिश्चतुरङ्गुलम् ॥ ५ ॥

मध्येचाष्टदलोपेतं तिलदण्डुलसम्मितम् ।
धर्मेण संस्मरेद्धीमान् गन्धपुष्पादिनार्चयेत् ॥ ६ ॥

वामादिशक्तिविन्यस्य पूर्वरात्रेण विन्यसेत् ।
कर्णिकायां न्यसेत् शूलं भेरिं चान्ये तु कारयेत् ॥ ७ ॥

स्थण्डिलं पूर्ववत् कृत्वा मध्ये भेरिं तु विन्यसेत् ।
वस्त्रयुग्मपरिच्छिन्नं कुशदर्भेन वेष्टितम् ॥ ८ ॥

गन्धपुष्पादिना धीमान् शूलादीनि प्रपूजयेत् ।
क्रमेणाराध्ययत्नेन हविस्तत्र प्रदापयेत् ॥ ९ ॥

आचार्य ताडयेद् भेरिं वाद्यकस्ततनन्तरं ।
तस्मिन्देशे बलिं दद्यान्नन्दिगायत्रि मन्त्रतः ॥ १० ॥

ग्रामप्रदक्षिणं कृत्वा सर्वालङ्कारसंयुतम् ।
त्रिशूलेन समायुक्तं सन्ध्यां सन्ध्या हि ताडयेत् ॥ ११ ॥

तदन्ते देवता ह्वानं कारयेत् तु विशेषतः ।
रात्र्यमेवं प्रकर्तव्यं नवरात्रं विशेषतः ॥ १२ ॥

प्. ६०)

दिवा रात्रं विशेषतः ।

इति सूक्ष्मतन्त्रे भेरीताडनं नाम् द्वादशः पटलः ॥

अतः परं प्रवक्ष्यामि यागमण्डपलक्षणं ।
गेहस्य पुरतः कुर्यादीशान्ये पावकेऽथवा ॥ १ ॥

दक्षिणे पश्चिमे वापि उत्तरे वापि कारयेत् ।
भूमिशुद्धिं पुराकृत्वा प्रोक्षयेत् पञ्चगव्यकैः ॥ २ ॥

उत्तमं षोडशैर्हस्तैर्मध्यमं द्वादशैस्तथा ।
अधमं दशहस्तैश्च नव हस्तं च सप्तकैः ॥ ३ ॥

ब्राह्मणादि क्रमेणैव सर्वेषां सप्तहस्तकैः ।
चतुरङ्गुलमुत्सेधं निम्नोनतविवर्जितम् ॥ ४ ॥

युग्मस्तम्भसमायुक्तं याज्ञिकैस्तरुभि शुभैः ।
कूटं वा मण्डपं वापि कारयेल्लक्षणान्वितम् ॥ ५ ॥

चतुर्द्वारविमानेन चतुर्द्वारं प्रकल्पयेत् ।
रत्निमात्रसमुत्सेधं दर्पणोदरसन्निभम् ॥ ६ ॥

सप्तषट्पञ्चतालैर्वा चतुस्तालैः क्रमेण तु ।
ब्राह्मणाद्यैश्च कर्तव्यमुत्सेधं षोडशाङ्गुलम् ॥ ७ ॥

एवं हि कल्पयेद्धीमान् पञ्चचूर्णैरलङ्कृतम् ।
वेदिबाह्ये तु परितो नवकुण्डानि कारयेत् ॥ ८ ॥

प्. ६१)

कुण्डवृत्तनमार्गेण तत्तद्भागेषु कारयेत् ।
अथवा हस्तमात्रेण कुण्डं विस्तारखातकम् ॥ ९ ॥

त्रिमेखलैरलङ्कृत्य चतुस्त्रिद्व्यङ्गुलायतैः ।
दिक्षु वै चतुराश्राणि वृत्तानि च विदिक्षु वै ॥ १० ॥

इन्द्रेशानकयोर्मध्ये अष्टाश्रं कल्पयेद् बुधः ।
नवहोमक्रमं प्रोक्तं पञ्चहोमक्रमं शृणु ॥ ११ ॥

इन्द्रादि किं चतुर्दिक्षु वृत्तं कुण्डं प्रकल्पयेत् ।
इन्द्रेशानकयोर्मध्ये अष्टाश्रं कल्पयेद् बुदः ॥ १२ ॥

पूर्वे वा पश्चिमे चैव ऐशान्यादि प्रकल्पयेत् ।
वृत्तं वा चतुरश्रं वा कल्पयेद्देशिकोत्तमः ॥ १३ ॥

ऐशान्यां दिशि सङ्कल्प्य एकहोमं विशेषतः ।
वृत्तं वा चतुरश्रं वा लक्षणोक्तेन कारयेत् ॥ १४ ॥

किञ्चिद्विशेषं वक्ष्यामि होमं चैव शिवोत्सवे ।
नवाहे नवहोमं स्यात् सप्ताहे सप्तहोमकम् ॥ १५ ॥

पञ्चहोमं तु पञ्चाहे त्रियाहे त्रियहोमकम् ।
एकाहे चैकहोमं स्याद्धोमं कृत्वा विचक्षणः ॥ १६ ॥

परितो ऋत्विजानां च प्रधाने देशिकं हुनेत् ।
अथवा चैकहोमेन कारयेद्देशिको बुधः ॥ १७ ॥

गोमयालेपनं कृत्वा मण्डपं च विशेषतः ।
चतुस्तोरणसंयुक्तमष्टमङ्गलभूषणम् ॥ १८ ॥

प्. ६२)

द्वारकुम्भादि संकल्प्य वितानध्वजशोभितम् ।
लाजैश्च विविधैः पुष्पैमण्डपं पूजयेद् बुधः ॥ १९ ॥

पुण्याहं वाचयेत् पश्चाच्छिल्पकर्मावसानके ॥ १९½ ॥


इति सूक्ष्मशास्त्रे शिवागमे प्रतिष्ठातन्त्रे क्रियापादे यागमण्डपलक्षणं
नाम त्रयोदशपटलः ॥

अतः परं प्रवक्ष्यामि अधिवासनमुत्तमम् ।
उत्सवारम्भपूर्वे तु रथादीन् कारयेत् क्रमात् ॥ १ ॥

देवालयमलङ्कृत्य प्राकारं परिवारकम् ।
नानाध्वजादि पिंच्छानि नानाचामरकानि च ॥ २ ॥

तानि सर्वाणि सङ्कल्प्य प्रोक्षयेच्छिववारिणां ।
उत्सवस्यादिरात्रौ तु अङ्कुरार्पणमारभेत् ॥ ३ ॥

प्रासादस्याग्रतो वापि प्रतिमा च ततोऽपि वा ।
अस्तमादपरे काले पञ्चनाड्यां सुलग्नके ॥ ४० ॥

अथवा सप्तनाड्यां वा कारयेदङ्कुरार्पणं ।
लिङ्गं च कौतुकं चैव त्रिशूलं च विशेषतः ॥ ५ ॥

कौतुकं बन्धयेद्रात्रौ शास्त्रदृष्टेन कर्मणा ।
मण्डपं मार्जयित्वा तु गोमयेनानुलेपयेत् ॥ ६ ॥

प्. ६३)

आचार्यश्च शुचिर्भूत्वा शिष्यश्चैव तथैव च ।
स्नानं कृत्वा यथान्यासं विधिदृष्टेन कर्मणा ॥ ७ ॥

ततो यागं गृहं गत्वा पादौ हस्तौ च क्षालयेत् ।
नासमार्ग क्रमं कुर्यात् स्थितिन्यासं विशेषतः ॥ ८ ॥

नववस्त्रेण उष्णीष हेमाङ्गुलिविभूषणः ।
सर्वाभरणसंपूर्णः सर्वलक्षणसंयुतः ॥ ९ ॥

अस्त्रराजेति मन्त्रेण जपेदष्टशतं क्रमात् ।
स्थण्डिलं कारयेद् वेद्यामष्टो द्रोणेन शालिना ॥ १० ॥

स्थण्डिलं तत्र कुर्वीत कर्णिकाकेसरैर्युतम् ।
तिलतण्डुलमिश्रं तु केसराग्रेण विन्यसेत् ॥ ११ ॥

दर्भैपरिस्तरं कुर्याद् गन्धपुष्पादिनार्चयेत् ।
कुट्टिमस्येशदिग्भागे शालिभिश्चतुरश्रकम् ॥ १२ ॥

त्रितालविस्तृतं कुर्यात् देष्टपत्रं सकर्णिकम् ।
धर्मज्ञानादि विन्यस्य आसनार्चनकर्मणि ॥ १३ ॥

राजतं हेमताम्रं वा मृण्मयं वापि कारयेत् ।
कुम्भं च वर्धनीं चैव कलशं च विचक्षणः ॥ १४ ॥

अधिवास्य च रात्रौ तु यागं कुर्याद्विशेषतः ।
वस्त्रपूतेन तोयेन पूर्णं कुर्याद् यथेप्सितम् ॥ १५ ॥

गन्धचन्दनतोयेन गन्धद्रव्यं विनिक्षिपेत् ।
कूर्चादि निक्षिपेत् तत्र पञ्चरत्नादि निक्षिपेत् ॥ १६ ॥

वस्त्रयुग्मेन संवेष्ट्य पट्टिकोपरि शोभितम् ।
तथा देव्या सहासीनं यागेशं चार्चयेत् क्रमात् ॥ १७ ॥

त्रिणेत्रं च चतुर्बाहुं सर्वाभरणभूषितम् ।
एवं ध्यात्वा तु मनसा कल्पयेदीशगोचरे ॥ १८ ॥

प्. ६४)

स्थण्डिलोपरि विन्यस्य पुष्पमाल्योपशोभितम् ।
वद्धनीं हेमसंयुक्तां कलशेषुत्तरे क्रमात् प्रभोः ॥ १९ ॥

शिवाङ्गानि न्यसेत् तत्र उमायां विन्यसेत् ततः ।
गन्धैः पुष्पैश्च धूपैश्च दीपैरारात्रिकैस्ततः ॥ २० ॥

वेदिकोपरिमध्ये तु अथवा पूर्वपश्चिमे ।
सर्वालङ्कारसंयुक्तं स्तोत्रमङ्गलवाचकैः ॥ २१ ॥

घण्टानादसमायुक्तं शूलं कृत्वा प्रदक्षिणम् ।
यागमण्डपमध्ये वा स्थापयेत्पूर्वदेशके ॥ २२ ॥

अर्चयेद् गन्धपुष्पाद्यैर्नववस्त्रेण वेष्टयेत् ।
अस्त्रं तत्रैव संस्थाप्य कौतुकं बन्धयेद्धृदा ॥ २३ ॥

अष्टौ कुम्भानि संस्थाप्य पूर्वादीनि प्रदक्षिणम् ।
पृथग्वस्त्रेण संवेष्ट्य प्रधं हेमं निक्षिपेत् ॥ २४ ॥

अनन्तादींश्च देवांश्च तेषु कुम्भेषु पूजयेत् ।
दशायुधानि परितः कल्पयेद्देशिकोत्तमः ॥ २५ ॥

मङ्गलानि च संपूज्य स्वैस्वैर्मन्त्रैश्च पूजयेत् ।
द्वारादि देवताभ्यर्च्य सर्वान् देवान् प्रपूजयेत् ॥ २६ ॥

पुण्याहं वाचयेत् तत्र पवमानेन प्रोक्षयेत् ।
होमस्य दक्षिणे भागे यागेशं पूजयेद् बुधः ॥ २७ ॥

कुम्भं च स्थपयेत् तत्र वस्त्रकूर्चसमन्वितम् ।
समिधाज्य चरून् लाजान् तिलसर्षपमुद्गकैः ॥ २८ ॥

प्. ६५)

अपूपेनाक्षतगुलैः क्षीरनिष्पावसक्तुकैः ।
पञ्चब्रह्मषडङ्गैश्च व्योमव्यापि दशाक्षरैः ॥ २९ ॥

क्षुरिकाबीजमुख्यैश्च प्रासादेन विशेषतः ।
यथाक्रमेण होतव्यमष्टाविंशतिरेव च ॥ ३० ॥

जयादिकाभ्यातानैश्च खिष्टान्तं होममाचरेत् ।
शिवाग्नेरग्निं संग्राह्य सर्वकुण्डेषु निक्षिपेत् ॥ ३१ ॥

होमादौ तु बलिं दद्याद् ग्रामादिषु विशेषतः ।
होमान्ते वाथ कर्तव्यम् अथवा मध्यमेऽपि वा ॥ ३२ ॥

ब्रह्मादीशानपर्यन्तं इन्द्रादीशानमेव च ।
शुद्धान्नं दधिसंयुक्तं बलिं दद्याच्छिवद्विजः ॥ ३३ ॥

प्रथमं गणरात्रं तु द्वितीयं भूतरात्रकम् ।
ब्रह्मरात्रं तृतीयं स्याद्गान्धर्वं तु चतुर्थकम् ॥ ३४ ॥

पञ्चमम् इन्द्ररात्रं स्यात् षष्ठं तु ऋषिरात्रकम् ।
सप्तमं वैष्णवं प्रोक्तमष्टमं राक्षसं तथा ॥ ३५ ॥

नवमं शैवमित्युक्तं रात्रिदेवाः प्रकीर्तिताः ।
सप्ताहे ब्रह्मरात्रादि इन्द्ररात्रादि पञ्चमे ॥ ३६ ॥

त्रियाहे वैष्णवादि स्यादेकाहे शैवरात्रकम् ।
पक्षोत्सवे तु तिथयः रात्रिदेवाः प्रकीर्तिताः ॥ ३७ ॥

द्वात्रिंशद्देवतामासे षण्मासे पूर्ववत् पृथक् ।
आप्तोत्सवे तु तत्स्याद् देवं वै रात्रिदेवताः ॥ ३८ ॥

प्. ६६)

शुद्धान्नं दधिसंयुक्तं प्रथमेऽहनि दापयेत् ।
पद्मपुष्पं सरजनी लाजसक्तुसमन्वितम् ॥ ३९ ॥

द्वितीये च प्रदातव्यं तृतीये पायसं ददेत् ।
हरिद्रान्नं ससर्पि च नालिकेरफलैर्युतम् ॥ ४० ॥

चतुर्थेऽहनि दातव्यं पञ्चमे घृतमिश्रकम् ।
गुलोदनं घृतं मिश्रं कदलीफलसंयुतम् ॥ ४१ ॥

षष्ठेऽहनि प्रदातव्यं सप्तमे तु रसान्नकम् ।
माषान्नं घृतसंयुक्तम् अष्टमेहऽनि दापयेत् ॥ ४२ ॥

शुद्धान्नं दधिसंयुक्तं नवमेहऽनि दापयेत् ।
स्वस्वैर्नामादिभिर्मन्त्रैर्ध्वजादिषु बलिं ददेत् ॥ ४३ ॥

शूलासनादिबिम्बेषु स्वस्वैः सङ्ग्राह्य बुद्धिमान् ।
संहारेषु न कर्तव्यं कर्तव्यं चेन्महद्भयम् ॥ ४४ ॥

यज्ञार्थं दीक्षितं बिम्बमासमुद्रान्तकारयेत् ।
अन्यबिम्बेन कर्तव्यं कर्तव्यं चेन्महद्भयम् ॥ ४५ ॥

शैवोत्सवेषु कालेषु अन्यदेवोत्सवं न च ।
कारयेद् यदिं मोहेन राजराष्ट्रं विनश्यति ॥ ४६ ॥

तस्मात् सर्वप्रयत्नेन शैवे शैवं तु कारयेत् ।
वैष्णवे वैष्णवं कुर्याद् बौद्धादिषु तथैव च ॥ ४७ ॥

एकस्मिन्नगरेऽनेकस्थानानि च भवन्ति चेत् ।
तेषां हि चोत्सवे स * त्गे कर्क्षे संभवेद्यदि ॥ ४८ ॥

प्. ६७)

तेषां हि चोत्सवं कुर्यात् प्रथग् वीथीषु बुद्धिमान् ।
चतुष्पथे त्रिपाथे च ब्रह्मस्थानं प्रकल्पयेत् ॥ ४९ ॥

तस्योपपरितो वीथ्यां बलिं कुर्यात् तु देशिकः ।
तस्मिन् वीथ्यां प्रकर्तव्यमुत्सवं विधिपूर्वकम् ॥ ५० ॥

कारयेद् यदि मोहेन नान्यवीथीषु चोत्सवम् ।
तस्य देशाधिपत्यस्य भूनाशं तु न संशयः ॥ ५१ ॥

तस्मात्सर्वप्रयत्नेन बलिर्वीथ्यां तु कारयेत् ।
उत्सवस्य तु काले तु अतिवृष्टिस्तु संभवेत् ॥ ५२ ॥

पूर्वे तु कारयेद्धोमं प्रभाते च बलिं ददेत् ।
तस्मिञ्चैवोत्सवं कुर्यात्सर्वालङ्कारसंयुतम् ॥ ५३ ॥

त्रिशूलं बलिलिङ्गेन उत्तमं कारयेद्बलिम् ।
शूलाभावे तु बिम्बं स्यात् तदभावे तु गोलका ॥ ५४ ॥

तेषां च संभवं काले ह्यञ्जलिङ्गेषु कारयेत् ।
बलिं कुर्याद् द्विकाले तु उत्सवान्त हि दैविकम् ॥ ४५ ॥

अथवा चैककाले तु बलिहोमौ तथोत्सवम् ।
तस्मात्सर्वप्रयत्नेन कारयेद्बलिमुत्तमम् ॥ ५६ ॥

अन्नलिङ्गं प्रकर्तव्यं पूर्ववत् कारयेद्बुधः ।
बल्यर्थं स्थलिकायां तु विन्यसेद्धृदयेन तु ॥ ५७ ॥

चतुर्भुजं त्रिणेत्रं च दक्षिणे शूलदृग्भवेत् ।
पाशं वामकरे चैवमभयं दक्षिणे तथा ॥ ५८ ॥

प्. ६८)

वरदं वामहस्तेन रौद्रदृष्टिसमन्वितम् ।
एवं पाशुपतं ध्यात्वा बलिलिङ्गे तु पूजयेत् ॥ ५९ ॥

बलिपात्रे न्यसेदन्नं सर्वद्रव्यसमन्वितम् ।
प्रथमे तु पताकाश्च द्वितीये वाद्यकस्तथा ॥ ६० ॥

तदन्ये देशिको गच्छेच्चतुर्थे शूलमुच्यते ।
पञ्चमे चान्नलिङ्गं तु षष्ठके कौतुकं व्रजेत् ॥ ६१ ॥

सर्वालङ्कारसंयुक्तमायुधं चाष्टमङ्गलम् ।
सभास्थाने राजगृहे देशिकस्यालये तथा ॥ ६२ ॥

अन्येषु शुभदेशेषु बलिं दद्याद् विशेषतः ।
प्रणवादि नमोन्तं तु स्वनामपदमध्यगम् ॥ ६३ ॥

बलिं दद्याद् विशेषेण सर्वलोकशुभावहम् ।
एवं बलिभ्रमं कुर्याद् बलिपीठे बलिं क्षिपेत् ॥ ६४ ॥

बलिपीठे बलिं सम्यग् विसर्जेद्धृदयेन तु ॥ ६४½ ॥

इति सूक्ष्मशास्त्रे अधिवासनविधिर्नाम चतुर्दशपटलः ॥

अतः परं प्रवक्ष्यामि कौतुकस्योत्सवं क्रमात् ।
कौतुकं बलिदानान्ते कुर्याद् ग्रामप्रदक्षिणं ॥ १ ॥

प्. ६९)

रथे वा शिबिकायां वा सुखासीनादि विन्यसेत् ।
यन्त्ररङ्गैः समायुक्तं नानाभिन्नैरनेकशः ॥ २ ॥

नानाजनपदैर्युक्तं नानाध्वजसमायुतम् ।
नानाविधसमायुक्तं नानापिञ्छैः समायुतम् ॥ ३ ॥

नानाखड्गसमायुक्तं नानाश्वेतपताकया ।
एकं वापि त्रयं वापि चतुर्थं पञ्चधा पुरा ॥ ४ ॥

अग्रतो यजमानश्च आचार्यस्तदनु व्रजेत् ।
नानागेयसमायुक्तं नानानृत्तसमायुतम् ॥ ५ ॥

नास्तोत्रसमायुक्तं नानामङ्गलवाचकैः ।
एवमेव प्रकारेण कारयेत् उत्सवं शुभम् ॥ ६ ॥

ग्रामान्तरं न कर्तव्यं बिम्बं चैव तु बुद्धिमान् ।
ग्रामैके चैव कर्तव्यं उत्सवार्थं हि वर्त्मनि ॥ ७ ॥

आस्थानमण्डपे चैव देवतां स्थपयेत् क्रमात् ।
यथावाचकबिम्बेन कारयेदुत्सवं बुधः ॥ ८ ॥

देवस्य पादशुध्यर्थं पादौ पाद्यं प्रदापयेत् ।
रक्षादीपं शिवं दद्याद् बलिपीठे विसर्जयेत् ॥ ९ ॥

दृरवास्ते विमाने तु दिवा वास्तुप्रदक्षिणं ।
यज्ञादि दीक्षितं बिम्बं अङ्कुरस्यादि रात्रकैः ॥ १० ॥

ग्रामे मनोरमे देशे तीर्थान्तं स्थापयेद् बुधः ।
नवयात्रा परे चाह्नि आलये संप्रवेशयेत् ॥ ११ ॥

प्. ७०)

एवमेव विधानेन कारयेद् देशिकोत्तमः ।
अवभृतस्य पूर्वेद्युः नृत्तबिम्बं समाचरेत् ॥ १२ ॥

कौतुकं पूर्वरात्रौ तु बन्धयेद् देशिकोत्तमः ।
ग्रामप्रदक्षिणं कुर्यात् कौतुकं मन्दिरेऽपि वा ॥ १३ ॥

देवं देवीं स्वमन्त्रेण दक्षिणे चापरे करे ॥
पुण्याहं वाचयेत् तत्र ब्राह्मणान् भोजयेत् ततः ॥ १४ ॥

रक्षाबन्धविधानेन कारयेद् देशिकोत्तमः ।
देवस्य दक्षिणे हस्ते कुर्यात् सूत्रादिभिर्बुधः ॥ १५ ॥

आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः ।
प्रातःकाले समभ्यर्च्य आनीया मण्डपे शुभे ॥ १६ ॥

यथाशक्ति विधानेन स्नपनं कारयेद्बुधः ।
त्रियम्बकेन मन्त्रेण अर्चयेन्नृत्तबिम्बकम् ॥ १७ ॥

सौवर्णं च घृतं चैव दृष्ट्या चैव महेश्वरम् ।
पश्चाद् देव्यास्तथा दृष्ट्या आचार्याय प्रदापयेत् ॥ १८ ॥

पश्चाद्दानादि सर्वाणि कारयेच्छक्तितः क्रमात् ।
पुण्याहं वाचयेत् तत्र ब्राह्मणान् भोजयेत् ततः ॥ १९ ॥

पञ्चवर्णं हविर्दद्यात् प्रासादेनैव मन्त्रतः ।
गन्धयुक्तिविधानेन कारयेद्गन्धमुत्तमम् ॥ २० ॥

अथवा शुद्धदेशे तु गन्धं सङ्ग्राह्य बुद्धिमान् ।
हृदयेनैव मन्त्रेण प्रोक्षयेद् गन्धवारिणा ॥ २१ ॥

प्. ७१)

पश्चाद् देवं तथा देवीं तत् तन् मूलेन लेपयेत् ।
अस्त्रस्य दीक्षितस्यैव मूललिङ्गस्य दापयेत् ॥ २२ ॥

पश्चाच्चण्डेश्वरस्यैव भक्तानां चैव दापयेत् ।
सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् ॥ २३ ॥

नानागेयसमायुक्तं नानानृत्तसमन्वितम् ।
शनैः प्रदक्षिणं कुर्यान्नदूरं न समीपतः ॥ २४ ॥

ग्रामस्याभिमुखं चैव तेनैव च निवर्तनम् ।
संहिते संहितं कुर्याद् भिन्ने भिन्नं समाचरेत् ॥ २५ ॥

मध्याह्नात् पुरतो नास्ति अथवा विंशते क्रमात् ।
पश्चाद्धोमं बलिं कुर्यादुत्सवं तदनु व्रजेत् ॥ २६ ॥

यज्ञार्थदीक्षितं बिम्बं दिवाकाले तथा भवेत् ।
रात्रावेवं प्रकर्तव्यमुदयादपरेन हि ॥ २७ ॥

पश्चाद् भक्तजनैः सार्धमभिषेकोदकं नयेत् ।
देवस्य विसृजेदृक्षां गन्धं चैव तु वर्जयेत् ॥ २८ ॥

स्नपयेद् देवदेवेशं महाव्योमेति मन्त्रतः ।
देव्यां च कारयेत् तद्वच्छक्तिमन्त्रेण बुद्धिमान् ॥ २९ ॥

पावमानेन संप्रोक्ष्य गन्धपुष्पादिभिर्यजेत् ।
पश्चान्निरञ्जनं कुर्याच्छास्त्रदृष्टेन कर्मणा ॥ ३० ॥

अपूपादि तदा दद्याद्यथाविभवविस्तरैः ।
प्रभूतं च हविर्दद्यात् सहसर्वोपदंशकैः ॥ ३१ ॥

प्. ७२)

नृत्तं हि कारयेत् पश्चात् सर्वालङ्कारसंयुतम् ।
परिवेषक्रमं कुर्यात् साये चैव विशेषतः ॥ ३२ ॥

यागेशं पूर्वतो गत्वा पश्चान्नृत्तेशकं व्रजेत् ।
पश्चाच्छण्डेशकं कुर्यात् सर्वालङ्कारसंयुतम् ॥ ३३ ॥

ग्रामप्रदक्षिणं कुर्यात् सन्ध्यां सन्ध्यां हि नृत्तकः ।
आलयं प्रविशेद्धीमान् ब्राह्मै चैव मुहूर्तके ॥ ३४ ॥

परिवेष्मण्डपे स्थाप्य पादौ पाद्यं हि कारयेत् ।
पश्चाद्विसृज्य निर्माल्यम् अभिषेकं हि कारयेत् ॥ ३५ ॥

गन्धपुष्पादिभिः पूज्य देवं देवं विशेषतः ।
पश्चानिरञ्जनं कुर्यात् प्रभूतं हविषन्ददेत् ॥ ३६ ॥

पश्चाद्भक्तजनानां तु भोजयेद् देशिकोत्तमः ।
एवमेव विधानेन कारयेद् देशिकोत्तमः ॥ ३७ ॥

सर्वालङ्कारसंयुक्तं प्रासादे स्थापयेद् बुधः ।
मूलबिम्बं विशेषेण पूजयेत् पूर्वमार्गतः ॥ ३८ ॥

आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ३८½ ॥

इति सूक्ष्मशास्त्रे कौतुकोत्सवं नाम पञ्चदशः पटलः ॥

अतः परं प्रवक्ष्यामि तीर्थारम्भाधिवासनम् ।
तीर्थादि पूर्वरात्रौ तु कौतुकं बन्धयेद्धृदा ॥ १४ ॥

प्. ७३)

विसृज्य कौतुकं पूर्वं कौतुकं च विशेषतः ।
हैमैर्वा रजतैर्वापि क्षौमकार्पासकेन वा ॥ २ ॥

आलयस्याग्रतः कुर्याद्गोमयेनानुलेपयेत् ।
स्थण्डिलं कारयेत् तत्र शालिभिश्चतुरङ्गुलम् ॥ ३ ॥

तण्डुलैः पूरयेत् पात्रं तन्मध्ये कौतुकं न्यसेत् ।
विमानप्रदक्षिणं कृत्वा पुण्याहं वाचयेद् बुधः ॥ ४ ॥

शिवगायत्रिमन्त्रेण अस्त्रबिम्बं च बन्धयेत् ।
आधिवासनं ततः कुर्याद् ब्राह्मी चैव विशेषतः ॥ ५ ॥

मण्डपं मार्जयित्वा तु गोमयालेपनं कुरु ।
वितानोपरि संपाद्य मुक्तादामैरलङ्कृतम् ॥ ६ ॥

अङ्कुरैः धूपदीपैश्च अष्टमङ्गलकैर्युतम् ।
तण्डुलैस्तिलदर्भैश्च सम्यगष्टदलं लिखेत् ॥ ७ ॥

तन्मध्ये विन्यसेत् कुम्भं शूलं तत्रैव विन्यसेत् ।
अष्टौ घटानि परितः स्थापयेदष्टमूर्तिकान् ॥ ८ ॥

गन्धपुष्पादिभिः पूज्य वस्त्रगन्धसमायुतम् ।
पश्चाद्बिम्बं तु संस्थाप्य मूलबिम्बं विशेषतः ॥ ९ ॥

त्रिशूलेन समायुक्तं नद्यां वापि तटाकके ।
गच्छेत् समतले सम्यक् स्थण्डिलं कारयेद्बुधः ॥ १० ॥

अस्त्रं चैव तु संपूज्य तस्याग्रे कलशं न्यसेत् ।
अस्त्रगन्धसमायुक्तान् सकूर्चान् सपिधानकान् ॥ ११ ॥

प्. ७४)

सप्तगङ्गादिकान् पूज्य अस्त्रप्रतिममानयेत् ।
गन्धपुष्पादिभिः पूज्य शूलगायत्रिमन्त्रतः ॥ १२ ॥

सर्वालङ्कारसंयुक्तं शूलं यागे तु वेशयेत् ॥ १२½ ॥

इति सूक्ष्मतन्त्रे तीर्थसङ्ग्रहं नाम षोडशः पटलः ॥

अतः परं प्रवक्ष्यामि चूर्णोत्सवविधिक्रमम् ।
पूर्वोक्तेन विधानेन होमं बिम्बं च कारयेत् ॥ १ ॥

पश्चाच्छिवोत्सवं कुर्यात् सर्वालङ्कारसंयुतम् ।
रजनीचूर्णस्यारम्भमुत्सवान्ते विशेषतः ॥ २ ॥

प्रासादस्याग्रतो वापि कौतुकस्याग्रतोऽपि वा ।
स्थण्डिलं चतुरश्रं तु अष्टद्रोणेन शालिना ॥ ३ ॥

तिलदर्भैस्समाकीर्य स्थण्डिलं त्रीणि विन्यसेत् ।
एकस्मिन्नस्त्रसंस्थाप्य मध्ये तालं च विन्यसेत् ॥ ४ ॥

अपरे रजनिं स्थाप्य तस्मिन् च मुसलूखले ।
अर्चयेत् तु क्रमेणैव तत् तन् मन्त्रेण देशिकः ॥ ५ ॥

अस्त्रेण वेष्टयित्वा तु लूखलं मुसलं तथा ।
अर्चयेद्गन्धपुष्पाद्यै बिम्बं चास्रं विशेषतः ॥ ६ ॥

घृतं शिरोर्पणं कुर्यात् कौतुकानां विशेषतः ।
हृदा निक्षिप्य रजनिं चूर्णयेद्धृदयेन तु ॥ ७ ॥

प्. ७५)

त्रिद्वित्रियं मुसलादाया गणिकाभिश्च चूर्णयेत् ।
पशाद्भक्तजनैश्चैव कारयेत् सुमुहुर्मुहुः ॥ ८ ॥

पुनश्चूर्णं समादाय त्रिषु पात्रेषु निक्षिपेत् ।
गन्धपुष्पादिभिः पूज्य प्रासादेन तु मन्त्रतः ॥ ९ ॥

पश्चाल्लिङ्गे प्रदातव्यं तदेकं प्रतिमादिषु ।
यागमूर्तेस्तथा चैव चूर्णं तैलं च दापयेत् ॥ १० ॥

परिवारेषु कुर्यात् तु तत् तन्नामादिभिर्बुधः ।
पश्चाद् भक्तजनानां तु चूर्णं तैलं च दापयेत् ॥ ११ ॥

ग्रामप्रदक्षिणं शीघ्रं त्रिशूलेन समायुतम् ।
बलिमादिक्रमेणैव चूर्णं तैलं च दापयेत् ॥ १२ ॥

पश्चात्प्रासादमावेश्य गन्धपुष्पादिभिर्यजेत् ॥ १२½ ॥


इति सूक्ष्मतन्त्रे चूर्णोत्सवं नामा सप्तदशपटलः ॥

अतः परं प्रवक्ष्यामि समुद्रस्नानमुत्तमम् ।
सर्वपापहरं चैव सर्वतीर्थफलप्रदम् ॥ १ ॥

नवकुम्भान् समादाय सूत्रेण परिवेष्टयेत् ।
पूरयेद्गन्धतोयेन कूर्चं तत्र विनिक्षिपेत् ॥ २ ॥

सर्वेषु कलशेष्वेवं चूतपल्लवशोभितम् ।
वज्रादीनायुधान् ग्राह्य कलशानभिगद्यते ॥ ३ ॥

प्. ७६)

ततः शङ्खादिनादैश्च गीतनृत्तसमाकुरु ।
भेरिमर्दलपटहं तालघोषसमायुतम् ॥ ४ ॥

ग्रामप्रदक्षिणं कुर्याच्छूलबिम्बं विशेषतः ।
समुद्रेऽपि च नद्यां वा तटाके वा नयेद्बुधः ॥ ५ ॥

जलतीरे समागम्य प्रपां कुर्याद् विशेषतः ।
पूर्वाभिमुखमास्थाप्य कौतुकं च विशेषतः ॥ ६ ॥

त्रिशूलं तस्य पुतः स्तथाग्रे कलशान् न्यसेत् ।
स्थण्डिलं कारयेत् तत्र तिलदर्भैस्समन्वितम् ॥ ७ ॥

कलशान् स्थापयेत् तस्मिन् आयुधानि च विन्यसेत् ।
अर्चये गन्धपुष्पाद्यै कलशादीन् पृथक् पृथक् ॥ ८ ॥

पुण्याहं वाचयेत् तत्र पावमानेन प्रोक्षयेत् ।
आहूय देवतां सर्वां सभृया च समाप्यध ॥ ९ ॥

मनसा पूजयेत् सर्वान् हृदयेन तु देशिकः ।
घटाभिषेकं कुर्वीत बिम्बं शूलं विशेषतः ॥ १० ॥

पश्चाज्जलान्ते शूलं तु आचार्येण सहैव तु ।
स्नानं लोकहितार्थाय तीर्थे संस्थाप्य शूलिनम् ॥ ११ ॥

रात्राधिवासितान् कुम्भान् त्रिशूले स्थापयेद् बुधः ।
चक्रवत्युपचारेण कौतुकं स्नापयेद् बुधः ॥ १२ ॥

आयुधानि जले क्षिप्त्वा अष्टमङ्गलमेव च ।
पश्चात् संपूज्य देवेशं मन्त्रं चैव विशेषतः ॥ १३ ॥

प्. ७७)

दूकूलपट्टदेवाङ्गैः वेष्टयेद्वस्त्रमुत्तमम् ।
त्रिशूलस्य तथैव स्यादाचार्यस्य तथैव च ॥ १४ ॥

आचार्य पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ।
ब्रह्मघोषसमायुक्तं सर्वालङ्कारसंयुतम् ॥ १५ ॥

ग्रामप्रदक्षिणे नैव यागस्थान निवेशयेत् ।
परिवेष्मण्डपे चैव यागार्थं कौतुकं न्यसेत् ॥ १६ ॥

स्विष्टान्तं होमयेद्यागे स्वस्वमन्त्रैश्च देशिकः ।
प्रभूतं च हविर्दद्या यागादीनां विशेषतः ॥ १७ ॥

पश्चाच्छूलं च कुम्भानि सर्वालङ्कारसंयुतम् ।
विमानप्रदक्षिणं कृत्वा लिङ्गाग्रे स्थापयेद्बुधः ॥ १८ ॥

शिवमाराध्य यत्नेन कारयेदेशिकोत्तमः ।
अपरे दिवसे चैव * व यात्रां समारभेत् ॥ १९ ॥

तीर्थार्थं कौतुकं मक्त्यवनयात्रार्थ कौतुकम् ।
कारये तु विशेषेण कौतुकं बन्धयेद्धृदा ॥ २० ॥

पूर्वं दिव चतुर्दिक्षु गन्तव्यं वनयत्रकम् ।
स्थानान् स्थानान्तरं वापि अन्यथा च मनोरमम् ॥ २१ ॥

पूर्वेद्युर्वा प्रकर्तव्यं वनयात्रां च देशिकः ।
यागार्थदिक्षितं बिम्बं पूर्वस्मिन् दिवसेन च ॥ २२ ॥

अदिक्षितानां बिम्बानां कारये तीर्थपूर्वके ।
यज्ञार्थदीक्षितं बिम्बं ग्रामबाह्ये निवेशयेत् ॥ २३ ॥

प्. ७८)

वेशयेद् यदि मोहेन राक्षसाद्या विशन्ति हि ।
तस्मात्सर्वप्रयत्नेन यागबिम्बं च पूर्वकम् ॥ २४ ॥

युद्धारम्भप्रभावेन सर्वायुधवराञ्जनान् ।
देवदेवं विशेषेण दिव्यगन्धेन लेपयेत् ॥ २५ ॥

नानावद्यसमायुक्तं नानागेयसमन्वितम् ।
नानामृदङ्गसंयुक्तं नानावाहनसंयुतम् ॥ २६ ॥

एवं प्रदक्षिणं देवं कुर्याद् ग्रामादिकं ततः ।
जलाक्रिय वने कुर्यान् मृगकुम्भमलिलया ॥ २७ ॥

एवमेव विधानेन कारये तु वने बुधः ।
यात्रामण्डपमध्ये तु यात्राहोमं प्रतापयेत् ॥ २८ ।

समिदाज्यचरुन्लाजान् होमयेद्राक्षद्राक्ष सप्रयम् ।
राक्षसायेति मन्त्रेण अष्टाविंशति सङ्ख्यया ॥ २९ ॥

सकलानि च मांषानि वने चैव बलिं क्षिपेत् ।
पश्चाद् देवेशसंपूज्य प्रभूतं च हविर्ददेत् ॥ ३० ॥

ब्राह्मणान् भोजयेत् तत्र यथाविभवविस्तरैः ।
ततो भक्तजनान् सर्वान् भोजयेद्भक्तिमान्नरः ॥ ३१ ॥

पश्चाद् देवं च देवीं च भूषयन्तु विशेषतः ।
अश्वत्पृष्ठसमास्थाय यन्त्ररूपेण निर्मितम् ॥ ३२ ॥

ग्रामप्रदक्षिणं कृत्वा सर्वालङ्कारसंयुतम् ।
प्रासादस्य समीपे तु शम्भुशक्त्या निवारितः ॥ ३३ ॥

प्. ७९)

पश्चात् तु देव्यारूपेण प्रासादं संप्रवेशयेत् ।
विना ग्रामबलिं तस्मिन् होमं चैव न कारयेत् ॥ ३४ ॥

विधिं विसर्जयेत् तत्र मूलस्थाने निवेशयेत् ॥ ३४½ ॥


इति सूक्ष्मशास्त्रे समुद्रस्नानं नाम अष्टादशपटलः ॥

अवभृतानन्त्रियेषु पञ्चमे सप्तमेऽपि वा ।
ध्वजावारोहणं कुर्याच्चण्डयागसमन्वितम् ॥ १ ॥

वनयात्रा परं चैव स्नपनं तत्र कारयेत् ।
चण्डयागस्य पूर्वेद्युः कारयेन्मण्डपं शुभम् ॥ २ ॥

नवाष्टसप्तहस्ते च कारयेत् तु विशेषतः ।
तन्मध्ये कुट्टिमं कुर्यात् पञ्चतालप्रमाणतः ॥ ३ ॥

षोडशाङ्गुलमुत्सेधं दर्पणोदरसन्निभम् ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ ४ ॥

अलङ्कारादिभिर्भूष्य शालिपिष्टैर्विचित्रयेत् ।
स्थण्डिलं कारयेत् तत्र तिलदर्भै परिस्तरैः ॥ ५ ॥

स्थापयेत् कलशान् मन्त्रि चण्डमन्त्रमनुस्मरन् ।
कूर्चानिक्षिपेत् तत्र वस्त्रैराच्छादयेद् बुधः ॥ ६ ॥

गन्धपुष्पादिभिः पूज्य अष्टविद्येश्वरैर्युतम् ।
चण्डेशं स्थापयेत् तत्र चण्डमन्त्रमनुस्मरन् ॥ ७ ॥

प्. ८०)

अविर्निवेदयेत् पश्चात् ताम्बूलं तत्र दापयेत् ।
ब्रह्मचारि शुचिर्भूत्वा चण्डवत्साधको चरेत् ॥ ८ ॥

ग्रामप्रदक्षिणं कृत्वा बलिं दत्व विशेषतः ।
देवतोद्वासं कुर्याद् ध्वजं तत्र विसर्जयेत् ॥ ९ ॥

रज्जुध्वजपटं चैव देशिकायां प्रदापयेत् ।
टङ्केन छेदयेद् दण्डं चतुर्दिक्षु विशेषतः ॥ १० ॥

अन्त * * * दण्डं च गृहीयाद् देशिकोत्तमः ।
पञ्चगव्येन संप्रोक्ष्य पश्चात् तेनैव रोपयेत् ॥ ११ ॥

एकाहे वापि कुर्याश्चे ग्रामे बलिंस्तु कारयेत् ।
पश्चाद्ध्वजं विसृज्याथ चण्डेशं पूजयेत् ततः ॥ १२ ॥

आचार्यं पूजयेत् पुर्वं पश्चाद् यागं विसर्जयेत् ।
यागोपकरणं सर्वम् आचार्याय प्रदापयेत् ॥ १३ ॥

इति सूक्ष्मतन्त्रे ध्वजारोहणं नाम एकोनविंशतिपटलः ॥

अतः परं प्रवक्ष्यामि भक्तोत्सवविधिं शुभम् ।
ध्वजारोहणं ते तु त्रिदिने पञ्चमे दिने ॥ १ ॥

पञ्चमे दशमे चैव द्वादशे पञ्चत् शह्निके ।
उत्सवार्थं च बिम्बं च त्रिशूलं च विशेषतः ॥ २ ॥

प्. ८१)

तद्दिष दिवसात्पूर्वे रक्षाबन्धं तु कारयेत् ।
प्रातःकालं तु संस्थाप्य स्नपनं पञ्चविंशति ॥ ३ ॥

स्नपनाभावे तु संप्रोक्ष्य बिम्बशूलं विशेषतः ।
हविर्णिवेदयेत् तत्र प्रासादेन तु मन्त्रतः ॥ ४ ॥

मूलबिम्बे तथैवं स्यात् प्रासादेन दशाष्टकम् ।
समिदाज्यचरूलाजान् प्रत्येकं च विशेषतः ॥ ५ ॥

तस्यान्तेव बलिं दद्यात् द्विमाने वापि कारयेत् ।
तस्यान्ते चेत्सवं कुर्यात् सर्वालङ्कारसंयुतम् ॥ ६ ॥

भक्तानां परिचाराणां भोजयेद्भक्तिमार्गतः ।
सायंकालेऽपि कर्तव्यं प्रातःकालेऽथवा भवेत् ॥ ७ ॥

प्रासादं संप्रविश्याध उक्तमार्गेण चार्चयेत् ।
पश्चात् तु कारयेन्नक्तं सर्वालङ्कारसंयुतम् ॥ ८ ॥

होमं बलिं विना वाथ सामान्येनापि कारयेत् ।
एवमेव विधानेन कारयेदुत्सवान्तके ॥ ९ ॥

एवं यत् कुरुते मर्त्यः अनन्तफलमश्नुते ।
हिहैव धनवान् श्रीमान् शिवलोके महीयते ॥ १० ॥

इति सूक्ष्मतन्त्रे भक्तोत्सवं नाम विंशतिपटलः ॥
प्. ८२)

पुष्पचूर्णविधि ।

अतः परं प्रवक्ष्यामि पुष्पचूर्णविधिक्रमम् ।
भक्तोत्सवान्तकर्तव्यं मादावपि च कारयेत् ॥ १ ॥

प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ।
यागमण्डपमार्गेण कारयेत् पूर्वमार्गतः ॥ २ ॥

मध्यमे वेदिकां कुर्यात् पञ्चतालप्रमाणतः ।
द्वादशाङ्गुलमुत्सेधं दर्पणोदरसन्निभम् ॥ ३ ॥

तत्पूर्वे चतुरश्रं तु कुण्डं तत्रैव कारयेत् ।
अस्त्रं च कौतुकं चैव पश्चिमे स्थापयेद् बुधः ॥ ४ ॥

श्वेतपुष्पाणि सर्वाणि स्थापयेद् देशिकोत्तमः ।
पञ्चगव्येन संप्रोक्ष्य पावमानेन प्रोक्षयेत् ॥ ५ ॥

पश्चात् पुष्पाणि संग्राह्य नवपात्रे विशेषतः ।
स्थण्डिलं कारयेद् वेद्यां नवकुम्भानि स्थापयेत् ॥ ६ ॥

सकूर्चान् सवस्त्रसंयुक्तान् सहैमान् वारिपूरितान् ।
गन्धपुष्पादिना पूज्य दशायुधानि विन्यसेत् ॥ ७ ॥

तोरणानि च संकल्प्य द्वारकुम्भैरलङ्कृतम् ।
एवमेव विधानेन कारयेद् देशिकोत्तमः ॥ ८ ॥

पश्चाद्धोमं प्रकर्तव्यं उत्सवस्यैकहोमतः ।
रात्रौ हेवं प्रकर्तव्यं प्रातःकाले शिवं यजेत् ॥ ९ ॥

पश्चात् पुष्पाणि संपूज्य शिवस्योपरिविन्यसेत् ।
अस्त्रं च कौतुकं चैव यथालाभं प्रमाणतः ॥ १० ॥

प्. ८३)

पुष्पाणि दापयेद् विद्वान् प्रासादेन तु मन्त्रतः ।
प्रभूतहविषं दद्याद् भक्तानां दापयेत् क्रमात् ॥ ११ ॥

अपरे दिवसे प्राप्ते पुष्पाणि च विसर्जयेत् ।
सध्यालोपं न कर्तव्यं पुष्पाह्योपरि पूजयेत् ॥ १२ ॥

पश्चात् कुम्भानि संस्थाप्य मूलं कौतुकमेव वा ।
पूर्णाहुतिं ततो दद्यात् प्रासादेन तु मन्त्रतः ॥ १३ ॥

भूपतं च हविर्दद्यात् प्रसादेन तु मन्त्रतः ।
नवाहे चैव सप्ताहे पञ्चाहे त्रियहेऽध वा ॥ १४ ॥

एकाहे कारयेद्धीमान् पुष्पचूर्णं सलक्षणं ॥ १४½ ॥

इति सूक्ष्मतन्त्रे पुष्पचूर्णविधिं नाम एकविंशतिपटलः ॥

प्रायश्चित्तम् ।

अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।
प्रायप्रहिणमित्युक्तं चित्तं मुद्भवमुच्यते ॥ १ ॥

प्रहीणस्य तु सन्धानात् प्रायश्चित्तमिति स्मृतम् ।
आचार्यादि चतुर्णां तु प्रायश्चित्तं विधीयते ॥ २ ॥

नित्यस्नानादि हीने तु कुण्डे वा स्थण्डिले बुधः ।
आघोरास्त्रेण मन्त्रेण त्रिंशत्याहुतिर्भवेत् ॥ ३ ॥

प्. ८४)

सन्ध्यावन्दनहीने तु सूर्यमन्त्रं शतं जपेत् ।
ब्रह्मणान् भोजयेत् तत्र ततः कर्म समारभेत् ॥ ४ ॥

अग्निकार्यविहीने तु शिवमन्त्रशतं जपेत् ।
देशिकः शिवमन्त्रेण अष्टोत्तरशताहुतिः ॥ ५ ॥

पश्चादग्निसमभ्यर्च्य नित्यकर्मसमाचरेत् ।
निर्माल्यं लङ्घने दाने पतिते दूषिते स्वयम् ॥ ६ ॥

महाव्योमेन मन्त्रेण सहस्रवरणं जपेत् ।
निर्माल्यभक्षणं चे तु हृदयेन् शताहुतिः ॥ ७ ॥

पश्चात् संपूजयेत् सन्ध्यां प्रासादेन शतं जपेत् ।
पर्युषितैश्च पुष्पैश्च प्रासादात्पूजयेद्धरम् ॥ ८ ॥

तत्पुष्पं वर्जयेद्धीमान् षडङ्गैश्च विशेषतः ।
नवकुम्भानि संस्थाप्य पुनः पूजां समारभेत् ॥ ९ ॥

बीजमुख्येन मन्त्रेण अष्टोत्तरशताहुतिः ।
हीनाङ्गं चाधिकां च वर्जये देशिकं सदा ॥ १० ॥

अङ्गहीनो दुराचारो दीक्षाहीनो मदान्धकः ।
वृषलीदोषभाग् विप्रो स्पर्शनं त्वध वर्जयेत् ॥ ११ ॥

आत्मार्थं पूजयेत् तेन परार्थं न कदाचन ।
प्रमादाद्यज्ञकाले तु अङ्गहीना भवेद् यदि ॥ १२ ॥

स्नानं तत्र प्रकुर्यात् तु सहस्रकलशै क्रमात् ।
महाव्योमेन मन्त्रेण अङ्गस्य तु सर्वधा च न कारयेत् ॥ १३ ॥

प्. ८५)

अधिकायाङ्गहीने तु पुनर्योज्यं विशेषतः ।
अङ्गदोषो न दोषाया आत्मदोषं च वर्जयेत् ॥ १४ ॥

एकपादेन सदा ।
प्रमादाद्यज्ञकाले तु सुरापानं तु संभवेत् ।
मरणान्ताद्विशेषेण कृच्छ्रचान्द्रायणं चरेत् ॥ १५ ॥

प्रमादाद्वृषलीयोगादेकरात्रं विशेषतः ।
पञ्चगव्यं पिबेत् तत्र ब्रह्मकूर्चं विशेषतः ॥ १६ ॥

पश्चाच्छूद्रत्वमायाति प्रयश्चित्तं न विद्यते ॥ १७ ॥

सकामाद्विषलियोगादेकरात्रं विशेषतः ।
अघोरेणैव मन्त्रेण जपेत् कोष्ठे सदा व्रजेत् ॥ १८ ॥

एवं विधिप्रकारेण कारयेद् वत्सरत्रयात् ।
कृच्छ्रचान्द्रायणं कृत्वा पश्चाव्योमेन मन्त्रतः ॥ १९ ॥

तिलाक्षं तु भवेत् तत्र व्योमेन चरुणा सह ।
ब्राह्मणान् भोजयेत् तत्र पश्चादन्नम् च निष्ककम् ॥ २० ॥

एवं कुर्याद्विशेषेण ब्रह्मघ्नं चैव तत्समम् ।
महात्राह पितृहा चैव तद्वद् देवस्वहारिणम् ॥ २१ ॥

त्रिगुणं द्विगुणं दत्वा हरणद्रव्यमुत्तमम् ।
शिवदानं ततः कृत्वा देवदेवं क्षमापयेत् ॥ २२ ॥

गरुद्रव्यस्य हरणे त्रिगुणं तु ददेत् गुरौः ।
गुरोः पितृकरं कुर्यात् गुरौ नामं सदा जपेत् ॥ २३ ॥

प्. ८६)

आचार्ययाचनाद्धेतो अघोरेणैव मन्त्रतः ।
घृतेन हविषा चैव सहस्रं च हुनेत् क्रमात् ॥ २४ ॥

पश्चाज्जपं प्रकुर्वीत ब्रह्मकूर्चेन शुध्यति ।
तस्करैम्मृयते याने स्वशस्त्रेण मृदं यदि ॥ २५ ॥

परस्परविरोधेन उभयोर्त्मरणं यदि ।
गोभिर्वा मरणं यस्यात् प्रमादेनैव संभवेत् ॥ २६ ॥

गोदानं भूमिदानं वा अथवा स्वर्णदानकम् ।
निष्करूपेण तं कृत्वा शिवाय विनिवेदयेत् ॥ २७ ॥

महाव्योमेन मन्त्रेण दशवारम् क्रमाद्धुनेत् ।
समिधाचरुण तद्वद्धोमं चैव प्रकारयेत् ॥ २८ ॥

अष्टोत्तरशतैः कुम्भैः स्नपनं कारयेच्छिवम् ।
पश्चाद् दहन् क्रिया कुर्याच्छिवशास्त्रोक्तमानयेत् ॥ २९ ॥

मोहद्वा दहनं येन द्विगुणं कारयेत् ततः ।
तेषां पृष्ठे यथा गच्छेद् देशिकोऽपि विशेषतः ॥ ३० ॥

सचेलस्नानं कृत्वा तु त्रिरात्रं ह्युपवासयेत् ।
पञ्चगव्यं पिबेत् पश्चात् प्रासादेनैव मन्त्रतः ॥ ३१ ॥

महाव्योमेन मन्त्रेण अष्टोत्तरशतं हुनेत् ।
ब्रह्मणान् भोजयेत् पश्चाद् अष्टोत्तरशतं क्रमात् ॥ ३२ ॥

तस्य द्विगुणमार्गेण भारकादेवधीर्यते ।
गोब्राह्मणनृपस्थाय मरणं संभवेद्यदि ॥ ३३ ॥

प्. ८७)

तस्य पूर्वोक्त कृत्यायां कारयेद् देशिकोत्तमः ।
कामाद्वै * * * * प * * श्चात् प्रेतक्रियां कुरु ॥ ३४ ॥

दृष्टोप्येव समाख्यातं अदृष्टे कुशया कृतम् ।
नारायणबलिं कृत्वा प्रतिरूपं हि कारयेत् ॥ ३५ ॥

दर्शनोक्तेन मार्गेण कारये ज्ञातिभिः क्रमात् ।
पाषाणे नैव पाशेन कोपाद् भीत्या मृतियति ॥ ३६ ॥

ते * * पातकं विद्यात् त्रिष्णीं बाह्ये तु खानयेत् ।
नारायणबलिं कृत्वा वत्सरं चाक्रयां चरेत् ॥ ३७ ॥

मोहेन दहनं कुर्यात् प्रायश्चित्तं च कारयेत् ।
सशीघ्रं वपनं कृत्वा कृच्छ्रं चान्द्रायणं चरेत् ॥ ३८ ॥

अघोरास्त्रेण मन्त्रेण दशसाहस्रकं जपेत् ।
पश्चाच्छुद्धित्वमाये च देशिकः कर्मकारयेत् ॥ ३९ ॥

अनुगमृन्तयोस्सोऽपि प्रमादात् स गतितं यदि ।
सचेलस्नानकं कृत्वा गोष्ठे त्रिरात्रकं वसेत् ॥ ४० ॥

पश्चाच्चान्द्रायणं कुर्यात् अघोरास्त्रेण मन्त्रतः ।
दशसाहस्रकं जप्त्वा सकामाद्विगुणं चरेत् ॥ ४१ ॥

भारकादेस्तदर्थं स्याद्रोदनस्यार्थमार्गतः ।
यस्मिन् कर्मणि संयुक्ते स्नेहलोपात् समन्वितम् ॥ ४२ ॥

तेनैव तु न कर्तव्यं कर्तव्यं चेन्महद्भयम् ।
तच्चेष सहगोत्रेण कारयेत् सहजां क्रियाम् ॥ ४३ ॥

प्. ८८)

पृथक् द्वे तमानायां तस्मिन्कालेऽन्यदेशिकः ।
करणि येन मन्त्रेण कारयेदवसानकात् ॥ ४४ ॥

अर्द्धोत्तरक्रियाकाले प्रमादासङ्गतं यदि ।
कयिकैबहुलैरर्थैः पुत्रभातृसबान्धवः ॥ ४५ ॥

तस्मिन्नाहनि कुर्याञ्चेत् तेन शेषं समारेत् ।
पापामरणसंबन्धमोहात् कर्मकरोति चेत् ॥ ४६ ॥

स्थान नाशनमाप्नोति ग्रामादिनां च नाशनम् ।
तद्दोषगमनार्थाय महाव्योमेन मन्त्रतः ॥ ४७ ॥

शतपस्थघृतेनैव अभिषेक हि कारयेत् ।
सहस्रकलशैस्नानः कुर्याद्वे परमेश्वरे ॥ ४८ ॥

शान्तिहोमं ततः कृत्वा पुनः कर्म समाचरेत् ।
एवमेव विधानेन कारयेद् बुद्धिपूर्वके ॥ ४९ ॥

अज्ञानविषये शान्तिं कारयेद् देशिकोत्तमः ।
अगम्यगमने काले वपनं हि विशेषतः ॥ ५० ॥

चान्द्रायणं चरित्वा तु कृच्छ्रसन्तापनं चरेत् ।
अघोरास्त्रेण मन्त्रेण विंशत्सहस्रकं जपेत् ॥ ५१ ॥

निर्माल्य भक्षणं यात्तु ज्ञानतोऽज्ञानतोऽपि वा ।
सशिखं वपनं कृत्वा मांसगोष्ठे वसे निशि ॥ ५२ ॥

दिवानुगमनं गोष्ठ आमीषं च गवां ददेत् ।
पश्चाच्चान्द्रायणं कृत्वा महाव्योमेति मन्त्रतः ॥ ५३ ॥

प्. ८९)

हविषा च घृते चैव होमं कुर्यात् सहस्रकम् ।
चण्डेश्वरस्य यागान्तु कुर्यात् तस्य विशुध्यति ॥ ५४ ॥

अकालभक्षणं यस्यात् स्नपनं वै शङ्करस्य तु ।
व्योमेन घोरमन्त्रेण दशसाहस्रकं जपेत् ॥ ५५ ॥

होमं तत्र प्रकुर्यात् तु पक्षं गव्येन भक्षयेत् ।
पश्चात् शुचित् द्वमायाति देशिकः कर्ममाचरेत् ॥ ५६ ॥

श्वनशूतकमार्जालै कुक्कुटो गृद्ध्र एव वा ।
प्रमादाद्वायसं प्राप्ते त्रिरात्रमुपवासयेत् ॥ ५७ ॥

पञ्चगव्यं पिबेत् तत्र ब्राह्मणान् भोजयेच्छुचिः ।
व्यधवा गमने चैव समानेप्यसमानके ॥ ५८ ॥

तत्पातकं तु कृच्छ्रादि कृच्छ्रचान्द्रायणं चरेत् ।
अघोरास्त्रेण मन्त्रेण विंशत्सहस्रकं जपेत् ॥ ५९ ॥

होमं तत्र प्रकुर्यात् तु ब्राह्मणान् भोजयेत् शुचि ।
असमे द्विगुणं कुर्यात् शिवदानं तु कारयेत् ॥ ६० ॥

कन्यकागमने तस्मात् तदर्धं चैव कारयेत् ।
एकगोत्रे च संयोगे प्रायश्चित्तं न विद्यते ॥ ६१ ॥

प्रमादात् सम्भवे काले स्नानं कुर्यात्रिकालके ।
चान्द्रायणं चरित्वा तु कृच्छ्रसन्तापनं चरेत् ॥ ६२ ॥

लक्षं प्रसादमन्त्रेण होमं जपं च कारयेत् ।
आदिशैवादि पञ्चानां एवं कुर्याद् विशेषतः ॥ ६३ ॥

प्. ९०)

न भेदो नरनार्याणां समानं दोषयुक् तदा ।
एवमेव प्रकारेण कारयेद् देशिकोत्तमः ॥ ६४ ॥

इति सूक्ष्मशास्त्रे देशिकप्रायश्चित्तं नाम द्वाविंशतिपटलः ॥

देशिकप्रायश्चित्तम् ।

प्रायश्चित्तं प्रवक्ष्यामि देशिकस्य विशेषतः ।
प्रायप्रविणमित्युक्तं चित्तं मुद्भवमुच्यते ॥ १ ॥

प्रविणस्य तु सन्धानं प्रायश्चित्तमिति स्मृतम् ।
पापशुद्धिर्यादा सम्यक् ज्ञानमुत्पद्यते यदा ॥ २ ॥

पापशुद्धिं न चेत् पुंसः क्रियास्सर्वा च निष्फला ।
तस्मात्सर्वप्रयत्नेन कर्तव्यं पापशोधनम् ॥ ३ ॥

आत्मार्थयजने हीने द्विगुणं चान्यहीनके ।
प्रासादेनैव मन्त्रेण द्विगुणं तु यजेद् बुधः ॥ ४ ॥

रोगे पुष्पाञ्जलीं कुर्यात् प्रासादेन तु मन्त्रतः ।
अवगाहनहीने तु घटस्नानं हि कारयेत् ॥ ५ ॥

घटस्नानमशक्तश्चेद्भस्मस्नानं तु कारयेत् ।
आद्रवस्त्रेण हृदिना मार्जनं तदभावतः ॥ ६ ॥

तेषामभावतो मन्त्रि भस्मस्नानं तु कारयेत् ।
तेष्वशक्तश्च रोगोऽपि तूष्णी पुष्पाञ्जलिं ददेत् ॥ ७ ॥

प्. ९१)

तस्याभावे तु तं दृष्ट्वा अथवा गुन्मदर्शनम् ।
रोगमुक्तस्य काले तु स्नपनं कारये महत् ॥ ८ ॥

अयुतं तु भवेन्मूलं होमं तु तद्वदेव हि ।
एवमेव विधानेन कारयेद् देशिकोत्तमः ॥ ९ ॥

शिवदीक्षनियुक्ता ये ते सर्वे तेन मार्गतः ।
कारयेत् तु चतुर्वर्णप्रतिलोमस्तधाचरेत् ॥ १० ॥

स्वजात्यदूषितं स्पृष्ट्वा भस्मस्नानं तु कारयेत् ।
पश्चाद्वै मूलमन्त्रेण पञ्चाशत्तु जपेच्छुचि ॥ ११ ॥

स्वजात्यदीक्षितानां तु भूत्वा कामेन वै बुधः ।
दशाक्षरेण मन्त्रेण पञ्चाशत्तु जपेच्छुचि ॥ १२ ॥

शूद्रान्नं भुञ्जते कामान् कृच्छ्रचान्द्रायणं चरेत् ।
तेषां कामे विशुध्यन्तु पूर्वोक्तस्य विधानतः ॥ १३ ॥

प्रतिलोमानुकं भुक्त्वा कामाद्राकमतोऽपि वा ।
उपवासं चरेद्विद्वान् महान् व्योमन् जपेच्छतम् ॥ १४ ॥

पञ्चाङ्गैश्च षडङ्गैश्च सहस्रं कामतो जपेत् ।
निर्माल्यलशुनं मांसं मत्स्यं चैव विसर्जयेत् ॥ १५ ॥

अकामान् भक्षयित्वा तु ईशानेन शतं जपेत् ।
स्नेहेन यदि भुञ्जीत कृछ्रं सन्तापनं चरेत् ॥ १६ ॥

निर्माल्यं लङ्घने दाने स्नानद्वयं तु कारयेत् ।
चण्डालस्पर्शने काले शिवमन्त्रशतं जपेत् ॥ १७ ॥

प्. ९२)

प्रमादास्पर्शने काले सचेलस्नानमाचरेत् ।
महाव्योमेन मन्त्रेण पञ्चगव्यं पिबेच्छुचि ॥ १८ ॥

शिवाग्निगुरुनिन्द्यानां यदि निन्द्या शृणोति यः ।
हृदिना कर्णमाबध्य सचेल स्नानमाचरेत् ॥ १९ ॥

उपवासं चरेत् तत्र प्रासादेन शतं जपेत् ।
कृच्छ्रं सन्तापनं कुर्याद् द्विगुणं पूजयेत् तदा ॥ २० ॥

स्वजात्यदीक्षितशवं स्पृष्ट्वा कामदकामदः ।
सचेलस्नानकं कुर्याद् घृतं प्राश्य हृदा ततः ॥ २१ ॥

अघोरेण शिखा चैव सहस्रं तु जपेच्छुचि ।
स्नानद्वयं प्रकुर्यात् तु शिवमन्त्रशतं जपेत् ॥ २२ ॥

अकामादेव * * * त् त्रिंशत्साहस्रकं हृदा ।
अदीक्षितस्य विप्रस्य शवं स्पृष्ट्वा प्रमादतः ॥ २३ ॥

स्नानं तन्त्र प्रकुर्यात् तु प्रासादेन शतं जपेत् ।
स्नानं तु पूर्ववत् कृत्वा कामात् सहस्रकं जपेत् ॥ २४ ॥

दर्शनाद्भस्मना शुद्धिं कामात् सद्यशतं जपेत् ।
अदीक्षिताश्शवाद्धेतो अनुगमनं यदा भवेत् ॥ २५ ॥

स्नानं पूर्वोक्तवत् कृत्वा व्योमव्यापिशतं जपेत् ।
अकामाच्छिवमन्त्रेण सहस्रं तु जपेच्छुचि ॥ २६ ॥

तयोरर्धविधानेन दीक्षितस्य शवं प्रति ।
दीक्षितस्य शवं स्पृष्ट्वा भस्मस्नानेन शुध्यति ॥ २७ ॥

प्. ९३)

दीक्षितस्य नृपस्यैव शवं स्पृष्ट्वा प्रमादतः ।
समुद्रस्नानकं कृत्वा एकरात्रोपवासयेत् ॥ २८ ॥

प्रातर्गव्यं पिबेमन्त्रि प्रासादेन सहस्रकम् ।
अघोरास्त्रेण मन्त्रेण त्रिस्सहस्रं जपेच्छुचि ॥ २९ ॥

क्रमात् स्नानद्वयं कुर्याद् अघोरेण सहस्रकम् ।
गोत्रासं तु ददेन्मन्त्रि सामान्यादि गुणं चरेत् ॥ ३० ॥

अनुगमनं तयोर्यद्यत् सचेलस्नानमाचरेत् ।
गोमयालेपनं कृत्वा जपं पूर्वोक्तमार्गतः ॥ ३१ ॥

कामान् स्नानं चरित्वा तु त्रिरात्रमुपवासयेत् ।
प्रासादेनैव मन्त्रेण शतं चैव जपेच्छुचि ॥ ३२ ॥

तयोदर्शनमस्ति स्यात् स्नानं पूर्ववदाचरेत् ।
हृदयेन तु मन्त्रेण द्विगुणं त्रिगुणं चरेत् ॥ ३३ ॥

अदीक्षितनृपस्याध शवं स्पृष्ट्वा प्रमादतः ।
स्नानं च पूर्ववत् कृत्वा त्रिरात्रं चोपवासयेत् ॥ ३४ ॥

पञ्चगव्य पिबेन् मन्त्रि प्रासादेन शतं जपेत् ।
अकामद्विगुणं कृत्वा गोग्रासं च ददेच्छुचि ॥ ३५ ॥

अकामात् कामतो वापि अनुगमनं तु संभवेत् ।
स्नानद्वयं प्रकुर्वित घृतं प्राश्यं हृदां बुधः ॥ ३६ ॥

अघोरास्त्रेण मन्त्रेण अयुतं तु जपेच्छुचि ।
स्नानं तु पूर्ववत् कृत्वा गोमयेन तु लिप्य च ॥ ३७ ॥

प्. ९४)

पुनः स्नानं प्रकुर्यात् तु सहस्रं तु जपेच्छुचि ।
अदीक्षितस्य वैश्यस्य शवं स्पृष्ट्वा तु कामदः ॥ ३८ ॥

समुद्रस्नानकं कुर्याद् गोमयलेपनं हृदा ।
अघोरास्त्रेण मन्त्रेण सहस्रं तु जपेच्छुचि ॥ ३९ ॥

अदीक्षितस्य वैश्यस्य क्रमादेवं विधीयते ।
दीक्षितस्य च वैश्यस्य शवानुगमनं यदि ॥ ४० ॥

स्नानं तु पूर्ववत् कृत्वा त्रिगुणं तु जपेच्छुचि ।
प्रमादादर्शनं कृत्वा स्नानद्वयं च कारयेत् ॥ ४१ ॥

अदीक्षितस्य वैश्यस्य शवं स्पृष्ट्वा तु कामतः ।
स्नानं कुर्याद् विशेषेण घृतं वै प्रशयेच्छुचि ॥ ४२ ॥

एकरात्रोपवासस्य गव्यं वै प्राशयेद्धृदा ।
तप्तकृच्छ्रं चरित्वा तु सावित्रं तु जपेत् सदा ॥ ४३ ॥

अघोरास्त्रेण मन्त्रेण त्रिसहस्रं जपेच्छुचि ।
ब्राह्मणान् भोजयेत् तत्र स्नपनं कारयेच्छिवम् ॥ ४४ ॥

पश्चाद् वै देहशुद्धिं स्यानियमं कारयेत् तदा ।
अन्तराणां च शैवानां शवं स्पृष्ट्वा तु कामतः ॥ ४५ ॥

समुद्रस्नानकं कुर्याद् घृतं प्राश्य हृदा पुनः ।
गोमयेन तु सर्वाङ्गं मूलमन्त्रेण लेपयेत् ॥ ४६ ॥

पश्चात् स्नानं प्रकुर्यात् तु ईशानेन जपेच्छतम् ।
अघोरास्त्रेण मन्त्रेण शतं सम्यग् जपेच्छुचि ॥ ४७ ॥

प्. ९५)

अदीक्षितस्य शूद्रस्य शवं स्पृष्ट्वा प्रमादतः ।
स्नानद्वयं प्रकुर्यात् तु घृतं प्राश्य हृदा पुनः ॥ ४८ ॥

एकाहमुपवासस्यात् गव्यं वै प्राशयेद्धृदा ।
सद्योजातेन मन्त्रेण सहसं तु जपेच्छुचि ॥ ४९ ॥

अदीक्षितस्य शवं स्पृष्ट्वा प्रमादास्नानकद्वयम् ।
गोग्रासं तु ददेत् पश्चाद् ग्रामान्तर चसेतच्छुचि ॥ ५० ॥

अनूगमनं तयो स्याच्चेत् क्रमाद् वै देशिकोत्तमः ।
स्नानं तु पूर्ववत् कृत्वा कृच्छ्रं सन्तापनं चरेत् ॥ ५१ ॥

ब्राह्मणान् भोजयेत् तत्र यथाविभवविस्तरैः ।
अघोरेण शिवास्त्रेण प्रत्येकं तु जपेच्छतम् ॥ ५२ ॥

कामादेव समाख्यातम् अकामात् कृच्छ्रकापिना ।
अदीक्षितप्रकारोऽयं तयोरर्धप्रकारतः ॥ ५३ ॥

अकामात् कमतो दृष्ट्वा दीक्षितस्य शवं यदि ।
स्नानं तत्र प्रकुर्यात् तु मूलमन्त्रं जपेच्छुचि ॥ ५४ ॥

कामा स्नानद्वयं कुर्यात् प्रासादे शतमन्त्रतः ।
दीक्षितस्य शवं स्पृष्ट्वा तयो द्विगुणमाचरेत् ॥ ५५ ॥

शिवदीक्षाभियुक्तं तु शूद्रः शूद्रशवं स्पृशेत् ।
सचेलस्नानकं कुर्यात् प्रासादेन शतं जपेत् ॥ ५६ ॥

अनुगमनं तथा कुर्याद् द्विगुणं तु जपेच्छुचि ।
प्रतिलोमं शवं स्पृष्ट्वा कामाद्वाकामतोपि वा ॥ ५७ ॥

प्. ९६)

स्नानद्वयं प्रकुर्यात् तु प्रासादेन तु मन्त्रतः ।
घृतं प्राश्य हृदा कुर्यात् कृच्छ्रचान्द्रायणं चरेत् ॥ ५८ ॥

ब्राह्मणान् भोजयेद् विद्वान् यथाविभवविस्तरैः ।
अरोणे च मन्त्रेण अयुतं तु जपेच्छुचि ॥ ५९ ॥

अनुगमनं द्यथा तेषाम् अधिकस्नपनं शिवे ।
कामदेवं समाख्यातं अकाम स्नानकद्वयम् ॥ ६० ॥

कुर्याद् वै हृदयेनैव तप्तकृच्छ्रं चरेच्छुचि ।
अनुगमनं तथा तेषां अधिकं स्नपं शिवे ॥ ६१ ॥

कामदेवं समाख्यातं कामान् सन्तापनं चरेत् ।
वामदेवेन मन्त्रेण त्रिसहस्रं जपेच्छुचि ॥ ६२ ॥

तेषां तु दीक्षितानां तु शवं स्पृष्ट्वा तु कामतः ।
स्नपनं पूर्ववत् कृत्वा गव्यं वै प्राशयेद्ध्रुवम् ॥ ६३ ॥

एकरात्रमुपोषित्वा प्रभाते स्नानमाचरेत् ।
अघोरास्त्रेण मन्त्रेण त्रिसहस्रं जपेच्छुचि ॥ ६४ ॥

अनुगमनं तदेवं स्यात् अधिकं जपमाचरेत् ।
प्रमादगमनं यद्यात् स्नानं पूर्वोक्तवच्चरेत् ॥ ६५ ॥

प्रासादेन तु मन्त्रेण विंशत् सहस्रकं जपेत् ।
प्रतिलोमे नराणां च शवं स्पृष्ट्वा प्रमादतः ॥ ६६ ॥

पूर्वोक्तेन विधानेन द्विगुणं कारयेच्छुचि ।
कामानुपूर्ववत् ख्यातम् अनुगच्छन्ति योर्यदा ॥ ६७ ॥

प्. ९७)

स्नानं तु पूर्ववत् कृत्वा द्विगुणत्रिगुणं चरेत् ।
सपुत्रस्य शवं स्पृष्ट्वा शिवमन्त्रशतं जपेत् ॥ ६८ ॥

पश्चात् स्नानं प्रकुर्यात् तु घृतं प्राश्या विशुध्यति ।
दीक्षापुत्रं शवं स्पृष्ट्वा सचेलस्नानमाचरेत् ॥ ६९ ॥

प्राणायमं शतं जप्त्वा प्रासादेन तु तं जपेत् ।
शिव संन्धीनं पश्चाद् ये पुत्रा संभवन्ति हि ॥ ७० ॥

तेषां शवादिकं सर्वं चीतावत् संस्थिता भवेत् ।
शिवसंस्कार तत्पूर्वं यो जातावंशवच्चरेत् ॥ ७१ ॥

नैष्टिकाचारयुक्तस्तु सद्यः शौचं समाचरेत् ।
स्नानं तु पूर्ववत् कृत्वा प्रासादेन शतं जपेत् ॥ ७२ ॥

आदिशैवो महाशैवस्त्रियाहं शौचमाचरेत् ।
अनुशैवस्तथा षट् च अपरक्षैव रन्ध्रकः ॥ ७३ ॥

भानवो चान्तरं शैवं इतरे चञ्चत्शन्द्रिका ।
एवमेव क्रमेणैव कारयेद् देशिकोत्तमः ॥ ७४ ॥

सूतकेषु तथा कुर्याद् गृहस्था एव कारयेत् ।
तेषु काले शिवं दृष्ट्वा गुणां पूजयेच्छिवम् ॥ ७५ ॥

अन्यथा यदि भुञ्जीता महादोषमवाप्नुयात् ।
तस्मात् सर्वप्रयत्नेन शिवदृष्ट्वा तु भोजयेत् ॥ ७६ ॥

देशिकाचारयुक्तस्तु नित्यपूजासमन्वितम् ।
सोऽपि पूर्वोक्त नक्षत्रे सूतकं प्रेतकं चरेत् ॥ ७७ ॥

प्. ९८)

अनाचर्यकुले जाता शिवशास्त्र न बोधकः ।
नित्यपूजाविहीनञ्च दशाहं संम्यगाचरेत् ॥ ७८ ॥

शैवसम्बन्धहीना ये ते सर्वे चोत्तरान्निके ।
दशाहे पश्चत् शाहे विंशत् त्रिंशदिनेऽपि च ॥ ७९ ॥

एतेषु दिवसेष्वेव ब्राह्मणाद्या क्रमाचरेत् ।
प्रेतयुक्तगृहे वास प्रातस्नानं समाचरेत् ॥ ८० ॥

पञ्चगव्य पिबेन्मन्त्रि प्रासादेन तु मन्त्रतः ।
नृपवैश्य च शूद्रे च प्रेतयुक्तो गृहो वसेत् ॥ ८१ ॥

स्नानं तु पूर्ववत् कृत्वा व्योमव्यापि शतं जपेत् ।
द्वयोर्वै तेन मन्त्रेण द्विगुणं त्रिगुणं चरेत् ॥ ८२ ॥

सूतकं च यदा स्पृष्ट्वा विप्रस्य स्नानमाचरेत् ।
नृपस्य सूतकं स्पृष्ट्वा स्नानाद्वै च समाचरेत् ॥ ८३ ॥

महाव्योमेन मन्त्रेण वैश्यस्य सूतकं स्पृशेत् ।
शूद्रस्य सूतकं स्पृष्ट्वा द्विगुणं तेन मन्त्रतः ॥ ८४ ॥

शूद्रेतराणामाशौचं स्पृष्ट्वा स्नानं तु पूर्ववत् ।
कुर्याद् वै तेन मन्त्रेण द्विगुणं तु जपेच्छुचि ॥ ८५ ॥

रजस्वलां च या नारीं देशिको संस्पृशेद् यदि ।
सद्यस्नानं प्रकुर्यात् तु अघोरेण शतं जपेत् ॥ ८६ ॥

रजस्वला द्वितीयां च तृतीयां च चतुर्थका ।
स्पृशेद्वै देशिको धीमान् स्नानं गव्यं च कारयेत् ॥ ८७ ॥

प्. ९९)

क्रमा च द्विगुणं जप्त्वा तु अघोरास्त्रेण मन्त्रतः ।
देशिको भोजने काले आर्तवान् सम्यग् दर्शयेत् ॥ ८८ ॥

भुक्तशेषं त्यजित्वा तु स्नानं पूर्वोक्तवच्चरेत् ।
उपवासं चरेदेकं प्रतगव्यं पिबेद्धृदा ॥ ८९ ॥

अघोरास्त्रेण मन्त्रेण सहस्रं तु जपेच्छुचि ।
तस्य भोजनकाले तु तासां वसं शृणोति चेत् ॥ ९० ॥

अन्नशेषं त्यजेन्मन्त्रि भस्मस्नानं समाचरेत् ।
प्रासादेनैव मन्त्रेण शतं चैव जपेच्छुचि ॥ ९१ ॥

द्विगुणस्य तु जातेस्तु प्रासादेन जपेद् बुधः ।
लोषाद्यां संभवे ह्यन्ते भुक्तशेषं त्यजेद्बुधः ॥ ९२ ॥

आचमनं ततः कुर्याद् घृतं प्रश्य हृदां बुधः ।
पश्चात् तु भोजनं कुर्यात् दिच्छ चे देशिकोत्तमः ॥ ९३ ॥

भाजनस्य तु काले तु सूतका दर्शयेद् यदि ।
अन्नशेषं त्यजित्वा तु स्नानं कुर्यात् तु देशिकः ॥ ९४ ॥

प्रासादेन तु मन्त्रेण शतं चैव जपेच्छुचि ।
प्रातःकाले तया कुर्यात् तयोर्वाक्यं शृणोति यः ॥ ९५ ॥

स्नानं तु पूर्ववत् कृत्वा गव्यं वै प्राशयेच्छुचि ।
चण्डाले भेरिका शाब्दं य शृणोति च भोजयेत् ॥ ९६ ॥

अन्नशेषं त्यजित्वा तु भस्मस्नानं तु कारयेत् ।
अथवा कर्णमाबध्वा शब्दान्ते भोजयेद् बुधः ॥ ९७ ॥

प्. १००)

प्रमादभोजनस्याचेदघोरास्त्रं शतं जपेत् ।
आशौचद्रव्यसंबन्धौ यो देवान् अर्चयेत् तदा ॥ ९८ ॥

भक्त्या तु पूजयेत् सोऽपि दहनाप्लावनादिभिः ।
पूजान्ते शुद्धिमाप्नोति निसंपर्के यदा शुचि ॥ ९९ ॥

द्रव्याणारेण भोक्तव्यं तस्मिन् काले विशेषतः ।
अन्यथा कारयेद् दोषं न दैवस्तत्र तिष्ठति ॥ १०० ॥

जज्ञानां दोषदस्तस्मान्महादेवार्चनाय च ।
तस्मात् सर्व प्रयत्नेन नि * हा * न्न कारयेत् ॥ १०१ ॥

नित्यार्चनाभियुक्तानामेवमेवं हि कारयेत् ।
खद्योदस्तु यथा भान्वोस्तथा पाल्पस्य दोषभाक् ॥ १०२ ॥

शवयुक्तस्य पुरुषः द्रव्याणि न च सेचयेत् ।
प्रमादात् सेचन्न यद्यत् स्नानद्वयं समाचरेत् ॥ १०३ ॥

प्रणायामसहस्रं तु अघोरास्त्रं तदेव तु ।
येवमेव विधानेन कारयेद् देशिकोत्तमः ॥ १०४ ॥

आत्मार्थयजने काले भृत्यर्थं देशिकस्य तु ।
शावन्ध्या संभवे काले उत्तर्क्षं वर्जयेत् क्रमात् ॥ १०५ ॥

देशिकान्तरमार्गेण नित्यपूजां करोति हि ।
प्रायश्चितं विधिं प्रोक्तं स्नपनस्य विधि शृणु ॥ १०६ ॥

इति सूक्ष्मशास्त्रे प्रतिष्ठातन्त्रे देशिकप्रायश्चितं नाम त्रयोविंशति पटलः

प्. १०१)

सकलस्नानम् ।

स्नानं सकललिङ्गस्य प्रवक्ष्यामि समासतः ।
सर्वपापहरं चैव सर्वदोषहराणि च ॥ १ ॥

सर्वदानफलं चैव मलशुध्यर्थमेव च ।
उत्सवे च प्रतिष्ठायां ग्रहणे सङ्क्रमेऽपि च ॥ २ ॥

नृपजन्मर्क्षभे युक्ते अभिषेकदिनेऽपि च ।
अन्यत्पुण्यदिने कुर्याद् दोषयुक्ते विशेषतः ॥ ३ ॥

शैलजानां तु सर्वेषां तैलेनाभ्यञ्जने कुरु ।
तिलतैलं तु कर्तव्यं मन्यतैलं तु वर्जयेत् ॥ ४ ॥

अभ्यञ्जनात्ये मलकंमगोपाङ्गानि लेपयेत् ।
मद्देयेदृक्तचूर्णैस्तु स्नापयेत् शुद्धवारिणा ॥ ५ ॥

तदन्तकृष्णचूर्णैस्तु लेपयेत् तु विशेषतः ।
पुनर्गन्धोदकेनैव स्नापये तु महेश्वरम् ॥ ६ ॥

वस्त्रेण मार्जनं कुर्यात् शनैः शनैः विशेषतः ।
ततो वस्त्रादिभिर्भूष्या सर्वालङ्कारसंयुतम् ॥ ७ ॥

सौवर्णादेसमाख्यातं मृण्मयस्य विधि शृणु ।
अभिषेकं न कर्तव्यं प्रोक्षणं चैव तद्धृदा ॥ ८ ॥

अभिचित्रे पटे चैव प्रोक्षणं तु समाचरेत् ।
स्थापयेद्युक्तमार्गेण सर्वसंपत्कराय च ॥ ९ ॥

प्. १०२)

अन्यथा स्थापयेत् तत्र अभिचाराय चैव हि ।
स्नानान्ते चार्चनं कुर्याद् गन्धपुष्पादिभिः क्रमात् ॥ १० ॥

हविर्निवेदयेत् पश्चात् द्यथ विभवविस्तरैः ॥ १०½ ॥

इति सूक्ष्मशास्त्रे सकलस्नानं नाम चतुर्विंशतिपटलः ॥

लिङ्गस्थापनम् ।

अतः परं प्रवक्ष्यामि लिङ्गस्थापनमुत्तमम् ।
नगरादिविमानेषु किञ्चिदीशानमाश्रितम् ॥ १ ॥

तन्मध्ये स्थापयेत् स्थाणुनैवर्गस्यत् प्रचारयेत् ।
मध्याप्रचलितं लिङ्गं सर्वत्र चलितं नयेत् ॥ २ ॥

गर्भं तु नवधा कृत्वा एकैकस्य विधानतः ।
द्वारमानेन वा कुर्याद्धस्तमानेन वा पुनः ॥ ३ ॥

अस्तमानेन वा कुर्यान्नवहस्तान्तमेव च ।
त्रयत्रिंशाङ्गुलदैर्घ्यं मुत्तमं मानमुच्यते ॥ ४ ॥

एकैकत्र्यङ्गुलं हीनं मध्यमं चाधमं भवेत् ।
एकैकत्र्यङ्गुलं हीनं नवधा मानमिष्यते ॥ ५ ॥

नाहस्य त्र्यङ्गुलं हीनं कर्णमानेन वा पुनः ।
आयव्ययसमायुक्तं सर्वं कुर्याद् विशेषतः ॥ ६ ॥

प्. १०३)

व्ययहीनाधिकं चैव आयाधिक्यं विशेषतः ।
शिल्पशास्त्रेण संयुक्तामाचर्यस्य विशेषतः ॥ ७ ॥

यवहीनाधिकं चैव यजमानाय नाशकृत् ।
तस्मात् सर्वप्रयत्नेन हीनाधिक्यं न कारयेत् ॥ ८ ॥

उत्तरायणकाले तु देवानां तु दिवास्मृताः ।
आषाढादि च षाण्मासं देवानां निचि चोच्यते ॥ ९ ॥

दिवाकाले प्रकर्तव्यं लिङ्गस्थापनकर्मणि ।
पुष्ये च माघमासे च लिङ्गस्थापनमुत्तमम् ॥ १० ॥

फाल्गुने चैत्रमासे च मध्यमं कालमिष्यते ।
वैशाखे च तथा ज्येष्ठे अधमं कालमिष्यते ॥ ११ ॥

ब्राह्मणाना तु पुष्यर्थं पुष्यमासे कृतं भवेत् ।
नृपाणामभिवृद्ध्यर्थं माघमासे तु कारयेत् ॥ १२ ॥

फाल्गुने वैश्यजातीनां शूद्राणां चैत्रमासके ।
वैशाखे पशुजातीनां अन्येषां ज्येष्ठमासके ॥ १३ ॥

एवं मासफलं प्रोक्तं लिङ्गस्थापनकर्मणि ।
दिवाकाले तु संप्राप्ते तदा काले तु स्थापयेत् ॥ १४ ॥

अकाले तु यदा सम्यक् दृश्यते गरुभार्गवौ ।
मघस्वाति च सौमे दृश्रवणे अश्वयुग्भवेत् ॥ १५ ॥

पुनर्वसूश्च तिष्यश्च उत्तरत्रिणिरेव च ।
मैत्रे च रोहिणी चैव एषु ऋक्षेषु स्थापयेत् ॥ १६ ॥

प्. १०४)

जीवशुक्रबुधसोम अर्कवाराः शुभास्मृताः ।
पूर्वपक्षे तृतीये च द्वितीये पञ्चमि तथा ॥ १७ ॥

षष्ठा च सप्तमि चैव दशम्येकादशि तथा ।
त्रयोदशि तथा चैव उभयोः पक्षयोरपि ॥ १८ ॥

कृष्णपक्षे तृतीये च प्रतिपत् पञ्चमि तथा ।
षष्टि चा सप्तमि चैव दशमी च विशेषतः ॥ १९ ॥

अमृतयोगे सिद्धियोगे परयोगे विशेषतः ।
वृषभे मिथुने चैव मीने सिंहे तथैव च ॥ २० ॥

वृश्चिके च घटे चैव कन्याराशि तथैव च ।
प्रतिष्ठारम्भविधिना यजमानानुकूलकम् ॥ २१ ॥

चतुर्थे सप्तमे चैव पञ्चमे च तृतीयके ।
एषु स्थानेषु चन्द्रं स्यात् जीवशुक्रबुधोदये ॥ २२ ॥

द्वादशे च तृतीये च दशम्येकादशि तथा ।
एषु स्थानेषु शास्त्रं हि बुधस्यानुविशेषतः ॥ २३ ॥

द्वितीये पञ्चमे चैव दशमे सप्तमे तथा ।
एषु स्थानेषु शास्त्रं हि बृहस्पतिः स्थिते सति ॥ २४ ॥

षट्सप्तदशमस्थेयं भार्गवो वुभयोऽब्रवीत् ।
त्रिषडायगताः पापाः सर्वान् एकादशेऽपि च ॥ २५ ॥

सर्वे ग्रहाष्टमस्थैश्चेत् कर्तॄणां तु स्थितिं कुरु ।
तस्मात् सर्वप्रयत्नेनाशुभं चैव तु वर्जयेत् ॥ २६ ॥

प्. १०५)

स्वात्रिरोहणि संयुक्ते तृतीये शनिवारके ।
बुधद्वियुक्तो द्वितीये च अनुराध तथा युता ॥ २७ ॥

पूष्णे तु पञ्चमियुक्तगुरुवारे विशेषतः ।
एवमादिषु योगेषु अन्येषु शुभयोगकृत् ॥ २८ ॥

याथा योगेषु संप्राप्तेः सर्वदोषा विनिश्यति ।
एवं परिक्ष्य यत्नेन प्रतिष्ठां गुरुरारभेत् ॥ २९ ॥

लिङ्गस्थापनकाले तु कालाति क्रमणं न च ।
एकाहं पूजयेत् तत्र सर्वदोषहरं नृणाम् ॥ ३० ॥

तस्मात् सर्वप्रयत्नेन लिङ्गस्थाप्य विशेषतः ।
जङ्गमादीनि लिङ्गानां कालकालपरिक्षयेत् ॥ ३१ ॥

प्रासादमण्डपं चैव प्राकारं गोपुरं तथा ।
अन्येषां देवकार्येषु यजमानेच्छया सहा ॥ ३२ ॥

नवाहे चैव सप्ताहे पञ्चाहे वा कुरार्पणम् ।
अकुरानर्पयित्वा तु प्रतिष्ठां सम्यगाचरेत् ॥ ३३ ॥

अङ्कुरार्पणप्रथमं द्वितीयं लिङ्गशोधनम् ।
तृतीयं ब्रह्मसूत्रं तु चातुत् ग्रामप्रदक्षिणम् ॥ ३४ ॥

पञ्चमं जलमध्ये तु जलकृत्या विधानतः ।
षष्ठे मण्डपसंस्कारं सप्तमे शयनक्रय ॥ ३५ ॥

अष्टमे कुम्भसंस्कारं नवमे होमकर्मणि ।
दशमे दक्षिणाप्रोक्ता मत्रन्यासमतः परम् ॥ ३६ ॥

प्. १०६)

द्वादशं चार्चनं प्रोक्तं स्नपनं तु त्रयोदश ।
एषां क्रमेण वक्ष्यामि यथा वा मुनिपुङ्गवाः ॥ ३७ ॥

इति सूक्ष्मशास्त्रे लिङ्गस्थापनं नाम पञ्चविंशति पटलः ॥

अथातः संप्रवक्ष्यामि नित्यबलिविधिक्रमम् ।
यस्मिन् ग्रामे बलिः शब्दस्तस्मिन् स्त्राराक्षसादयः ॥ १ ॥

श्रुत्वा गमन्ति सहसा ग्रामं वृद्धिकरं भवेत् ।
तस्मात्सर्वप्रयत्नेन कुर्यान्नित्यबलिं क्रमम् ॥ २ ॥

शिवस्य भोजनान्ते तु अन्तै नित्याग्निकर्मणि ।
नित्यं बलिं क्रमं कुर्याद्राजाविजयमिछति ॥ ३ ॥

उत्तमं मणिलिङ्गं स्यान्मध्यमं प्रतिमा भवेत् ।
अधमं गोलकं ज्ञेयम् अथवा पुष्पान्नतण्डुलैः ॥ ४ ॥

प्रतिमा भावयेल्लिङ्गं तस्याभावे तु गोलकम् ।
तेषामभावे मन्नादीन् कुर्यासम्यक् सदा बुधः ॥ ५ ॥

पूर्वान्ने पुष्पलिङ्गेन प्रतिमा ब्राह्मणप्रियम् ।
मध्यान्ने चान्नलिङ्गेन मणिलिङ्गशिवप्रयम् ॥ ६ ॥

साये तण्डुललिङ्गेन गोलका केशवप्रयम् ।
सौवर्णं रजतं ताम्रं कांस्यपात्रचतुर्विधम् ॥ ७ ॥

प्. १०७)

अष्टाङ्गुलं तु विस्तारं चतुरङ्गुलमुच्छ्रयम् ।
पात्रस्य मध्यमे पद्मं कल्पयेत् तु दलाष्टकम् ॥ ८ ॥

मण्डपं दक्षिणे भागे मण्डलं चतुरश्रकम् ।
गोमयेनोपलिप्याथ पात्रं संस्थाप्य तत्र तु ॥ ९ ॥

शिवमन्त्रं समुच्चार्य शिवस्तं शिवमावहेत् ।
ईशानमन्त्रमुच्चार्य बलिलिङ्गे शिवं न्यसेत् ॥ १० ॥

सर्वगन्धैस्तथा पुष्पै धूपैर्दीपैस्तथार्घ्यकैः ।
हृदयाद्यस्त्रपर्यन्तैः मन्त्रैरभ्यर्चयेत् क्रमात् ॥ ११ ॥

ब्रह्मचारिगृहस्थो वा भस्मोद्धुलितविग्रहः ।
सहोष्णीषोत्तरीयेण लिङ्गं शिरसि धारयेत् ॥ १२ ॥

सद्योजातं समुच्चार्य प्रतिमाद्यैः सह व्रजेत् ।
पाशुपदास्त्रमूत्तिर्वा चन्द्रशेखरमेव च ॥ १३ ॥

सर्वेषां पुरतो गच्छेन्मणिभिः स्तदनुव्रजेत् ।
पुष्पान्नं तण्डुलं लिङ्गं तस्य लिङ्गं तनुव्रजेत् ॥ १४ ॥

वितानध्वजसंयुक्तं च्छत्रचामरसंयुतम् ।
वाद्यध्वनिसमायुक्तं गणिकाद्यैरलङ्कृतम् ॥ १५ ॥

प्रथमप्रदक्षिणं कुर्यात् प्रासादपीठिका सहा ।
गोपुरात्पुरतो गच्छेच्छङ्खध्वनिसमन्वितम् ॥ १६ ॥

चितीर्या द्वारपाश्वाभ्यां पादुकास्थानमिष्यते ।
तस्य पश्चिमभागे तु प्रतिमास्थानमुच्यते ॥ १७ ॥

प्. १०८)

पश्चिमे प्रतिमायास्तु मग्रेण स्थानमुच्यते ।
मणिलिङ्गस्य पश्चाभ्यां गोलकास्थानमिष्यते ॥ १८ ॥

त्रयाणां पृष्ठभागे तु अन्तादे स्थानमिष्यते ।
प्रदक्षिणक्रमेणैव प्रतिमादीनि स्थापयेत् ॥ १९ ॥

प्रतिष्ठा प्रतिमादीनां बलिलिङ्गं तु स्थापयेत् ।
प्रतिमाद्य इति प्रोक्ता प्रति च मणिगोलका ॥ २० ॥

पुष्पान्नत्तण्डुलं लिङ्गं बलिलिङ्गमिति स्मृतम् ।
पूर्वाभिमुखमास्थाप्य प्रतिमाग्रस्य पादुकम् ॥ २१ ॥

स्थलिकोपरि संस्थाप्य पादुकद्वयमर्चयेत् ।
पात्रगन्धैः स्तथा पुष्पैः धूपदीपैरधोर्घ्यकै ॥ २२ ॥

षडङ्गैः क्रमशोऽभ्यर्च्य अर्घ्यं दत्वा यथाक्रमम् ।
चतुर्णप्रथमादीनांमर्घ्यं शिरसि विन्यसेत् ॥ २३ ॥

पादप्रक्षालनं कृत्वा प्रासादं संप्रवेशयेत् ।
स्वस्थाने स्थाप्य वाराद्यै पूजयेद्ब्रह्मपञ्चभिः ॥ २४ ॥

पूर्वस्मिन् मण्डले स्थाप्य बलिलिङ्गं तु देशिकः ।
द्वारादिभिसमभ्यर्च्य पञ्चभिः ब्रह्मभि क्रमात् ॥ २५ ॥

शिवमन्त्रसमुच्चार्य बलिलिङ्गस्थमीश्वरम् ।
मूललिङ्गे तु संस्थाप्य शिमन्त्रे समुच्चरेत् ॥ २६ ॥

बलिलिङ्गादिकान् सर्वान् गर्भगेहे तु स्थापयेत् ।
बलिलिङ्गविसृज्याथ पादुकानर्चयेद्बुधः ॥ २७ ॥

प्. १०९)

पादप्रक्षालनं कृत्वा प्रासादाभ्यन्तरं विशेत् ।
पूर्वोक्तविधिना सर्वं कारयेद्देशिकोत्तमः ॥ २८ ॥

संस्थानं च पाशुपदं मूर्तिर्वा चन्द्रशेखरम् ।
योरभावे मणिशिवं गोलकां हि विशेषतः ॥ २९ ॥

तेषां वा चान्नलिङ्गं तु पुष्पमर्घ्यं हि वा पुनः ।
तस्मात्सर्वप्रयत्नेन नित्यं कुर्यात् फलेच्छुता ॥ ३० ॥

षडङ्गमूर्तिमभ्यर्च्य षड्भिर्वादिभिं क्रमात् ।
एवमभ्यर्च्य विधिना स्वस्थाने च प्रवेशयेत् ॥ ३१ ॥

हृदयेन चरुं दद्यात् ताम्बूलं दापयेत् ततः ।
पश्चान्नीराजनं कुर्यात् प्रासादेन तु मन्त्रतः ॥ ३२ ॥

प्रभूतहविष दद्यात् भक्तान् सर्वान् प्रपूजयेत् ।
द्रोणहीनं न कर्तव्यं कर्तव्यं मन्दिरे क्रमात् ॥ ३३ ॥

नित्यहोमवसाने तु बल्यर्थं होमयेद्धृदा ।
पञ्चाशत् पञ्चविंशद्भिः घृताक्ते नवकं हुनेत् ॥ ३४ ॥

एवं स्याद् बुधवारे तु मन्दवारे तथैव च ।
तैलाभ्यङ्गं हृदा कुर्यात् च्छेषं पूर्ववदाचरेत् ॥ ३५ ॥

पूर्वरात्राधिवासञ्च गन्धतैल विशेषतः ।
प्रातःकाले च मभ्यङ्गं मूलं च बलि बिम्बके ॥ ३६ ॥

स्नात्वा राजोपचारेण सुगन्धामलकादिभिः ।
पश्चात् चरुं प्रदद्यात् तु प्रत्येकं हृदिना बुधः ॥ ३७ ॥

प्. ११०)

पश्चाद्वारोत्सं कुर्यात् सर्वालङ्कारशोभितम् ।
अन्यथा कारयेद् यस्तु तत्कलं न्निष्फलं भवेत् ॥ ३८ ॥

वारोत्सवमिदं प्रोक्त तस्मिन् मन्त्रे विशेषतः ॥ ३८½ ॥

इति सूक्ष्मशास्त्रे प्रतिष्ठातन्त्रे वारोत्सवं नामा षड्विंशतिपटलः ॥

आचार्यलक्षणम् ।

अतः परं प्रवक्ष्यामि आचार्यो लक्षणं परम् ।
गोचर सत्यवादि च पूर्वाचारप्रयोगवित् ॥ १ ॥

शास्त्रज्ञः शिवमन्त्रज्ञः शिवदीक्षाभिषेचकः ।
मन्त्रज्ञः शब्दभेदज्ञः गुरुदेवाग्निपूजकः ॥ २ ॥

सिद्धान्ति निपुणो दक्षः श्रीमान् भक्तजनप्रियः ।
नक्तभोजि जितेन्द्रज्ञश्च व्यक्ताचार प्रियंवदः ॥ ३ ॥

नहीनगोहिशुद्धात्मदीक्षतः प्रतिपातकः ।
पञ्चयज्ञपरो नित्यं शूद्रान्नं परिवर्जयेत् ॥ ४ ॥

ऋग्यजुस्सामथर्वज्ञ शिवशास्त्रज्ञ सूक्ष्मवान् ।
निष्कलात्सकलो जात तद्वदाचार्यपुत्रकः ॥ ५ ॥

आचार्यपुत्रो पौत्रो वा दौहित्रो वा विशेषतः ।
तेषामभावेणाचार्यपुत्रेणैव कृतं यदि ॥ ६ ॥

प्. १११)

पुष्पे नष्टे फलं नास्ति उषरे सस्यवत्फलम् ।
परद्रव्यं न गृह्नीयात् भक्तानुग्राहकारणः ॥ ७ ॥

परशास्त्रमविज्ञेयं परदीक्षाविवर्जयेत् ।
चातुर्णामपि वर्णानां ब्राह्मणेभ्यो विशिष्यते ॥ ८ ॥

ब्राह्मणानामलाभे तु क्षत्रियाणां विशेषतः ।
ब्रह्मणक्षत्र्यकन्यायाः जातो वै क्षत्रियोत्तराः ॥ ९ ॥

ब्रह्मणात् किञ्चिदूनश्च क्षत्रियान्किञ्चिदुत्तमम् ।
ब्राह्मणान् क्षत्रियाणामलाभे तु वैश्यानां तु विशेषतः ॥ १० ॥

एवमेव क्रमं प्रोक्तं शैवार्चस्य व्यवस्थिति ।
आनुलोमस्तथाचार्य प्रतिलोमस्तु वर्जिता ॥ ११ ॥

वैश्यकान्यायां जातो वै वैश्यशूद्रस्तथोत्तमः ।
क्षत्रियस्य प्रसूतोऽपि वैश्यात्किञ्चिदिवोत्तमः ॥ १२ ॥

प्रतिष्ठाशिवदीक्षायां सर्वलक्षणलक्षितः ।
क्षत्र्यासु वैश्यकन्यायां जातो वैश्योत्तमो भवेत् ॥ १३ ॥

वैश्यस्तु शूद्रकन्यायां जातः शूद्रस्य चोत्तमः ।
सर्वलक्षणसंपन्ना दीक्षितः शिवगोचरः ॥ १४ ॥

एवमेव गुणेनैव शैवसन्तानमुख्यवान् ।
शैवं पाशुपतं सोमं त्रयस्सिद्धान्तभेदिने ॥ १५ ॥

केवलं शैवसिद्धान्तं शिवलीलात् प्रसङ्गगात् ।
अष्टप्रदानामुख्येत अष्टसंदर्शनप्रिये ॥ १६ ॥

प्. ११२)

मुख्यवान् परवीरज्ञः सर्वशास्त्रस्य पाठकः ।
स्मिंग्धाङ्गो ललिताङ्गश्च सर्वावयवशोभितः ॥ १७ ॥

शिखि वा बन्धसंयुक्तो भस्मरुद्राक्षधारकः ।
सूत्रत्यागि शिखात्यागि मन्त्रसाध्यादिभिः शुभः ॥ १८ ॥

सर्वागमेषु निपुणः सर्वसङ्गविवर्जितः ।
सोऽपि वै नैष्टिको नाम आचार्य श्रेष्ठ उच्यते ॥ १९ ॥

तस्य पुत्रेण शास्त्रज्ञः सोऽपि कर्मार्हको भवेत् ।
इत्येवाकृतिसंयुतो वस्त्राभरणशोभितः ॥ २० ॥

शुद्धरूपमिदं शैवं आचार्यस्य विधीयते ।
दीर्घाङ्गि चैव ह्रस्वाङ्गि शठो दधि गुणं सरम् ॥ २१ ॥

विमलं कृपणश्चैव अहनाकुलोद्भवः ।
विटपद्वैव धूर्तश्च दृतोमत्तप्रमत्तवान् ॥ २२ ॥

गुल्मश्च रोगिकुष्टश्च शिपिविष्टश्च मुष्टिवान् ।
अन्धकं तनुकाश्चैव अङ्गहीनोऽपि कोपवान् ॥ २३ ॥

मुचकि वेदविक्रितो मुस्थितोन्मुञ्चभस्मया ।
अष्टाशौचो व्रतहीनो नामधारक विप्रकः ॥ २८ ॥

परप्रेष्यरभोनित्यं देवाग्निगुरुनिन्दकः ।
अनाचार्यस्य पुत्रो वा मुग्धस्य हृदहार्यते ॥ २५ ॥

धातुक्षयविकाराङ्गि सत्वनष्टो ह्यबुद्धिमान् ।
व्यपारि देवविक्रीत विद्यानष्टश्च नष्टवान् ॥ २६ ॥

प्. ११३)

दुर्जनो दोषसंयुक्तो मण्डितः पतितस्तथा ।
स्वकर्मणि फलं तत स्यात् प्रतिष्ठादिषु यस्तु सः ॥ २७ ॥

एवमेव समायुक्त स्थापनाद्यां विसर्जयेत् ।
आदिशैवेन कर्तव्यं प्रतिष्ठापनादिकम् ॥ २८ ॥

अनुशैवादयः सर्वे आत्मार्थविषयेत् क्रमात् ।
सकलः सर्वदेशेषु गतागतविनिश्चियः ॥ २९ ॥

आचार्यलक्षणं प्रोक्तं शिष्यादेर्लक्षणं शृणु ॥ २९½ ॥

इति सूक्ष्मतन्त्रे आचार्यलक्षणं नाम सप्तविंशतिपटलः ॥

शिष्यादेर्लक्षणम् ।

अतः परं प्रवक्ष्यामि शिष्यादे लक्षणं शृणु ।
स्वमूर्तिमूर्तिधारश्च पर्यष्टिपरिचारकः ॥ १ ॥

होदको बोधकश्चैव होताचाध्वर्युरेव च ।
आदिशैवकुलोत्पन्नो शिवदीक्षाभिषिक्तकः ॥ २ ॥

सर्वलक्षणसंपन्नो शिवभक्तो महायशः ।
शैवागमेषु संपन्नो सर्वशास्त्रार्थ तत्वगः ॥ ३ ॥

वेदवेदाङ्गपठज्ञो सर्वकर्मसुयोग्यता ।
महाशैवस्तु विख्यातास्तदाभावे नृपस्तथा ॥ ४ ॥

प्. ११४)

तेषामभावे वैश्यस्तु क्रमाद्वै चाहिकस्तथा ।
समयि पुत्रकश्चैव साधको मूर्तिधारकः ॥ ५ ॥

गुरोराज्ञावशं कुर्याद् देशान्तरस्थितो यदि ।
एवमेव विधानेना प्रतिष्ठादीन्न्तु कारयेत् ॥ ६ ॥

प्रथमं येननिर्वाह तेनैव सकलं नयेत् ।
कर्षणादिप्रतिष्ठान्तमेकसन्तानमार्गतः ॥ ७ ॥

भिन्नाभिन्नं क्रियायां च एवमेव विधीयते ।
प्रासादकरणं यस्यात् तथा लिङ्गदयस्तथा ॥ ८ ॥

जीर्णोद्धारविहीनं यद् वास्तुकर्मादयस्तथा ।
अन्यं वा चिरकालं तु प्रतिसंवत्सरोत्सवम् ॥ ९ ॥

येतानि सर्वकर्माणि भिन्नं सम्यक् प्रकीर्तितम् ।
अर्चनं चाग्निकार्यं च स्नपनं वास्तुकर्मकम् ॥ १० ॥

दीक्षाविधानमार्गं च शीतकुम्भादयस्तथा ।
दिनसङ्ख्याविधानं यदभिन्नमिति कीर्तितम् ॥ ११ ॥

सर्वं भिन्नक्रियाकाले न यावान्देशिके * हि ।
अवश्यगन्तुमिच्छाचेतन्नरात्रवसते धृवम् ॥ १२ ॥

दिनक्रियावसाने तु देशिकं सर्वतो व्रजेत् ।
अभिन्नकविधानेन सङ्ख्यादि विधे पुरा ॥ १३ ॥

बहिर्गतं न कर्तव्यं कर्तव्यं चेत्तु दोषकम् ।
आचार्यादिचतुर्णां तु एवमेव विधीयते ॥ १४ ॥

प्. ११५)

सायम्भुवादि लिङ्गानांन्धामानि सकलानि च ।
परिवाराणि चान्या च यः करोति पुरो ततः ॥ १५ ॥

तेषां जीर्णेषु कालेषु तस्य सन्तानमार्गतः ।
कुर्यादिहि विशेषोऽस्ति रूपान्तरकृतं यदि ॥ १६ ॥

गोत्रान्तरेण वा कुर्यात् पूर्वसन्तान हेतु वा ।
कारणं किं विशेषोऽस्ति मन्त्रसंबन्धकारणात् ॥ १७ ॥

तस्मात्सर्वप्रयत्नेन पुरातनकृताज्ञया ।
कुर्यां तु स्थापनादीनां येवमेव विधीयते ॥ १८ ॥

अनभिज्ञतगोत्रस्तु सदाख्यं वस्त्रके लिखेत् ।
तस्यै चानुग्रहेणैव कुर्यागोत्रान्तरेण वा ॥ १९ ॥

यद्या शिरोऽपि तन्मन्त्रै कुर्यात् द्वा पूर्वमार्गतः ।
पितॄस्य करणं सस्यात् तस्य पुत्रेण तत्कृतम् ॥ २० ॥

पुत्राभावे तु दौहित्रः स्तदाभावे तु मातुलः ।
तस्य भावे तु तत्पुत्रो कुर्याद् भिन्नक्रियाश्छिरोत् ॥ २१ ॥

स्पष्टकाले च एवं स्यात् विस्पष्टे देवताज्ञया ।
एवमेव प्रकारेण सर्वं वै चार्य कारयेत् ॥ २२ ॥

अन्यथा कारणियं चेत् राजाराष्ट्रं विनाशनम् ।
ग्रामादीनां विनाशाय शत्रुनाशं न संशयः ॥ २३ ॥

शिष्यादे लक्षणं प्रोक्तं गर्भन्यासंविधि शृणु ॥ २३½ ॥

इति सूक्ष्मशास्त्रे शिष्यादेर्लक्षणं नाम अष्टाविंशतिपटलः ॥
प्. ११६)

प्रतिमालक्षणम् ।

अतः परं प्रवक्ष्यामि प्रत्रिमालक्षणं * * ।
सर्वलोकहितार्थाय सर्वशान्तिकराय च ॥ १ ॥

देवतानां पृथग्रूपं तस्मात् प्रतिममुच्यते ।
सकलं निष्कलं चैव द्विविधं प्रतिमुच्यते ॥ २ ॥

निष्कलं तु निराकारं सकलं तु स्वरूपकम् ।
द्वात्रिंशदङ्गसंपूर्णं सकलं तु प्रभेदतः ॥ ३ ॥

प्रतिमा कारये पश्चाद् यथाविभवविस्तरैः ।
सौवर्णं राज्यकामीनां राजितं वैश्यवृद्धिदम् ॥ ४ ॥

त्राम्रं विप्रसमृध्यर्थं शूद्राणां विभवं भवेत् ।
यथा न * * द्रव्येण प्रतिमा कारयेद् बुधः ॥ ५ ॥

उत्तमं मध्यमं चैव अधमं त्रिविधं भवेत् ।
एकैकं त्रित्रिभेदुनि नवदा भेदमुच्यते ॥ ६ ॥

उत्सवं प्रतिमां चैव उमास्कन्दमहेश्वरः ।
एकविंशत्प्रभेदं तु षोडशैव प्रभेदतः ॥ ७ ॥

द्वादशैव प्रभेदं तु त्रिविधं भेदमुच्यते ।
ईशमानं प्रकर्तव्यं उत्तमोत्तममुच्यते ॥ ८ ॥

गर्भगृहं तदेव स्यात् स्तम्भमानं तमेव च ।
रशितिरङ्गुलं मानं उत्तमं तु विधीयते ॥ ९ ॥

तन्मानं नवधा कृत्वा एकैकं तु प्रभेदतः ।
एवं मानप्रभेदं तु शिल्पिशास्त्रोक्तमाचरेत् ॥ १० ॥

प्. ११७)

प्रथमं सुखासनं प्रोक्तं वैवाह्यं तु द्वितीयकम् ।
तृतीयं मुमययुक्तं वृषारूढं चतुर्थकम् ॥ ११ ॥

पञ्चमं त्रिपुरान्तं तु नृत्तरूपं तु षष्ठकम् ।
चन्द्रशेखरमेवोक्तं सप्तमं तु विशेषतः ॥ १२ ॥

अष्टमं चार्धनारिशं नवमं हरिरर्धकम् ।
चण्डेश्वरप्रसादं तु दशमं परिकीर्तितम् ॥ १३ ॥

कामार्येकादशं प्रोक्तं द्वादशं कालनाशनम् ।
त्रयोदशं दक्षाणमूर्तिं भिक्षाटनमतः परम् ॥ ११४ ॥

सदाशिवं पञ्चदशं लिङ्गोत्पत्तिस्तु षोडशा ।
एवं षोडशमूर्तिनां भेदं वैवक्ष्यतेऽधुना ॥ १५ ॥

सुखासनं महाशान्तं कल्याणं सोमधारिणम् ।
गङ्गाधरं च पञ्चैते सृष्टिमूर्तिरिहोच्यते ॥ १६ ॥

अर्धनारि त्रिरात्रं च विरेशं वृषवाहनम् ।
भिक्षाटनं च पञ्चैते स्थितिमूर्तिरुदाहृदम् ॥ १७ ॥

कालहाकामदाहश्च महात्रिपुरनाशनम् ।
गजोद्भवं मन्वहारि जलन्धरवधस्तथा ॥ १८ ॥

चण्डेशं चैव चाष्टौ तु संहारमूर्तिरुच्यते ।
त्रिणेत्राश्च चतुर्बाहुं बालेन्दुकृतशेखरः ॥ १९ ॥

व्याघ्रचर्माम्बरश्चैव हारकेयूरभूषिताः ।
यज्ञोपवीतसंयुक्ता कुण्डलाभ्यमलङ्कृतम् ॥ २० ॥

प्. ११८)

जटामकुटसंयुक्ता सर्वपुष्पैरलङ्कृताः ।
वरदाभयहस्ताभ्यां कृष्णापरशुधारिणः ॥ २१ ॥

एवं षोडशमूर्तिनां सामान्यमिदमीरितम् ।
विशेषं तु प्रवक्ष्यामि उमास्कन्दमहेश्वरे ॥ २२ ॥

सौम्यं रौद्रं तथा मिश्रं त्रिविधं भेदमुच्यते ।
पूर्वोक्तेन प्रमाणेन पञ्चासन समायुतम् ॥ २३ ॥

आयव्ययर्क्षवारांश योनिनां तु विशेषतः ।
शुभाशुभं निरीक्षन्तु सम्यक्कृत्वं तु बुद्धिमान् ॥ २४ ॥

ईशस्य बाहमानेन मुमायमानमुच्यते ।
मुमाय बाहुमानेन स्कन्दमानं प्रचक्षते ॥ २५ ॥

उमाशङ्करयोर्मध्ये स्कन्द वै बालरूपिणम् ।
देवस्याद्यप्रमाणेन आसनं तु विशेषतः ॥ २६ ॥

पञ्चभागं त्रिभागं तु मध्यक्षं चैव कारयेत् ।
त्रिभागेरधमं विद्यात् त्रिविधमासनस्मृतम् ॥ २७ ॥

एकासनसमायुक्तं पूर्वोक्तेन प्रमाणतः ।
मुखभागं विनिश्चित्य चतुर्विंशच्छताङ्गुलैः ॥ २८ ॥

मध्यमं दशतालेन देवीरूपं तु कारयेत् ।
नुवाद्धकालमानेन स्कन्दरूपं तु कारयेत् ॥ २९ ॥

देवीनां तु तथैवं स्यात् दसने सह योजयेत् ।
एकवक्त्रं महाबाहु निलशिव महद्युतिः ॥ ३० ॥

प्. ११९)

जटामकुटसंयुक्तं पाश्वेन्दकृतसंयुतम् ।
त्रियक्षं चतुर्भुजं सौम्यं व्याघ्रचर्म ---- बरप्रभुम् ॥
३१ ॥

वरदाभयहस्तं च कृष्णं परशुधारिणम् ।
दक्षिणे लम्बितं पदं वामपादं समासनम् ॥ ३२ ॥

सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ।
सपुष्पवरदं हस्तं गौरिसम्यग्विशेषतः ॥ ३३ ॥

स्कन्ददेवनमेवोक्तम् एवमेवं विशेषतः ।
इदं सौम्यप्रकारेण सर्वसिद्धिकरं शुभम् ॥ ३४ ॥

कृष्णापरशुसंयुक्तंमभयं कटकं भवेत् ।
नानालङ्कारसंयुक्तं नानाभरणभूषितम् ॥ ३५ ॥

रौद्रं कटकहस्तं स्यात् स्कन्दं वा पुष्पहस्तकम् ।
रौद्रमेवासमाख्यातं पाशुपतादिमूर्तिना ॥ ३६ ॥

मिश्रं तु कटकं हीनं वामपाद प्रलम्बितम् ।
दक्षिणं पादमासिनं मुमादेवीं तथैव च ॥ ३७ ॥

षण्मुखं पर्वमेवोक्तं वरदाभयहस्तकम् ।
एवमिश्रं समाख्यातं लाकुले नैव कारयेत् ॥ ३८ ॥

सौम्यं तु शूलशैवं स्यादष्टाविंशत् त्रिभेदतः ।
ततः शास्त्रोक्तमार्गेण पशुपदादि कारयेत् ॥ ३९ ॥

एकैकसङ्करं कुर्यात् कर्ताभर्ता विनश्यति ।
तस्मात्सर्वप्रयत्नेन कारयेल्लक्षणान्वितम् ॥ ४० ॥

प्. १२०)

एवं त्रिविधभेदं तु तत्र मार्गेण कारयेत् ।
प्रतिमालक्षणं प्रोक्तं मनोन्मनि विधि शृणु ॥ ४१ ॥

इति सूक्ष्मशास्त्रे प्रतिष्ठातन्त्रे प्रतिमालक्षणं नाम एकोन्नत्रिंशत् पटलः ॥

अतः परं प्रवक्ष्यामि सालानां लक्षणं परम् ।
प्रथमं भूतसाला च द्वितीयं मूर्तिसालकम् ॥ १ ॥

तृतीयं गणसाला च चतुर्थं लोकपालकम् ।
पञ्चमं शास्त्रसाला च षष्ठं पन्नकसालका ॥ २ ॥

सप्तगङ्गा सप्तस्तालनो मधिदेवताः ।
तासां हि पूजनार्थाय प्राकारं कल्पयेद् बुधः ॥ ३ ॥

प्रासादरक्षणार्थाय मङ्गलार्थाय बुद्धिमान् ।
प्रासादस्य तु विस्तारं चतुरंशैर्विभावयेत् ॥ ४ ॥

एकांशैनैव परितः प्रथमं सालकान्वितम् ।
तद्व्यंशेन समस्तेन कारये द्वे पृथक् पृथक् ॥ ५ ॥

एवं तु त्रप्रकारेण का कारयेत् प्रथमं बुधः ।
सार्धद्वित्रिक्रमेणैव कारयेत्रिविधं परम् ॥ ६ ॥

सार्धद्वित्रिगुणेनैव चतुर्गुणेन वा पुनः ।
दिग्भाघा च गुणेनैव चतुर्गुणं त्रिगुणितेन वा ॥ ७ ॥

प्. १२१)

पञ्चभिर्गुणितेनैव कारयेद्गणिकाक्रमात् ।
तात्परम् ॥ ८ ॥

अर्चारोमण्डपं शुद्धं दिव्यपञ्चवसन्तकम् ॥ ९ ॥

महेन्द्रं स्वस्तिवृत्तं च मायं बाहु विकारकम् ।
उत्पलं पङ्कलग्नं च श्रीस्वस्ति च निवेशनम् ॥ १० ॥

वापिब्रह्मसभा चैव तथैवोत्पलपत्रकम् ।
महापद्मं महाच्छन्दं देववृत्तं तथैव च ॥ ११ ॥

चन्द्रेणैतद्विमानानि निमित्तानि सुखार्तिना ।
सोमच्छन्दं सोमवृत्तं बहुपत्रं सुवेष्टिकम् ॥ १२ ॥

श्रीवत्साकृतिकं घोणच्छन्दवृत्तं च वेदिकम् ।
सिद्धयोगं चतुर्वृत्तं कूटाकारं विलोकनम् ॥ १३ ॥

कूटाकारं च गान्धारं स्वस्तिकं तिलकं तथा ।
शशिवृत्तिं विशालं च तथा कुलेन्दुकं पुनः ॥ १४ ॥

एतान्यपि विमानानि शशिना निर्मितानि वै ।
वेदिकं वेदिवृत्तं च सोमवेणुं चतुर्मुखम् ॥ १५ ॥

आहिकं कीञ्चिकं यान अग्निच्छन्दोरक यथा ।
हस्तिपृष्ठं च नेवृत्तं प्रमदालत्रिबेकं त्रिवित् ॥ १६ ॥

वृषभं माधूवृत्तं च त्रिकूटं शिल्पवृत्तकम् ।
गोयागमण्डुकं चापि परिप्रादकमुत्तमम् ॥ १७ ॥

प्. १२२)

पाशिकं पङ्कलग्नं च तथैवा गगनेश्वरम् ।
शाभिकारसवृत्तं च निवुषं परिब्रह्मकम् ॥ १८ ॥

मस्यकं गगनं चैव परिच्छन्दनान्तकम् ।
चण्डेशस्य विमानं तु भूताकारसमन्वितम् ॥ १९ ॥

एतानि कनकाद्यैश्च मुनिभि निर्मितानि वै ।
षण्णवातिविमानानि कथितानि पुरातनैः ॥ २० ॥

वह्नीपत्रंन्तथा चूर्णं चूलिकाञ्चेति तानि च ।
नवभेदानि सर्वाणि विमानानि पृथक् पृथक् ॥ २१ ॥

आयव्ययसमायुक्तं प्राकारं कारयेद् बुधः ।
लिङ्गादिरूपप्रसारे आयादींश्च न कारयेत् ॥ २२ ॥

स्वायम्भुवादि लिङ्गानां कर्णमानं तु वक्ष्यते ।
यस्य लिङ्गस्य पूजाशं अष्टाशं भजयेत् समम् ॥ २३ ॥

तेषु भागेषु लिङ्गस्य शिरसादीनि बुद्धिमान् ।
चतुर्विंशत्च्छताङ्गुल्यैरथवा कारयेद् बुधः ॥ २४ ॥

तस्माद्भागे मुखादीनि कारयेद्देशिकोत्तमः ॥ २४½ ॥

इति सूक्ष्मशास्त्रे षण्णवति प्रासादं नाम त्रिंशत् पटलः ॥
प्. १२३)

अथातं संप्रवक्ष्यामि घृतकम्बललक्षणम् ।
सर्वलोकहितार्थाय सर्वभूतहिताय च ॥ १ ॥

गोब्राह्मणनृपादीनां शिताकुर्वन्ति घर्मके ।
माघमासे मघर्क्षे तु पौर्णमास्यां विशेषतः ॥ २ ॥

घृतकम्बलकं कुर्यादर्के वा चान्द्रमासके ।
दिवा पर्वणि संबन्धे रात्रौ नक्षत्रसंयुते ॥ ३ ॥

तस्मिन्दिवैव कर्तव्यं पर्वसंबन्धकारणात् ।
सर्वपापक्षयं पुंसां सर्वकार्मार्थसाधनम् ॥ ४ ॥

स्नेहद्रव्यादि पोषार्थं माघामासे यजेत् क्रमात् ।
शिवप्रतीकरं साक्षादपमृत्युविनाशनम् ॥ ५ ॥

पादादिमूर्ध्निपर्यन्तं लेपयेद्गोघृतेन तु ।
श्वेतादीनां गवांश्चैव घृतं सङ्गृह्य बुद्धिमान् ॥ ६ ॥

लिङ्गे द्वे कम्बलं न्यस्य गन्धपुष्पादिभिर्यजेत् ।
आत्मार्थेषु परार्थेषु गोलकन्यस्य विन्यसेत् ॥ ७ ॥

निरोपाग्नियुतं शुद्धं कृमिकोटरवर्जितम् ।
ब्रह्मचारि चतुवण्यां गोक्षीरा हि च सङ्ग्रहेत् ॥ ८ ॥

सौवर्णादिषु पात्रेषु वस्त्रपूतेन बुद्धिमान् ।
हृदयेनैव मन्त्रेण अग्निकर्मादि कारयेत् ॥ ९ ॥

आर्द्रेणैव समायुक्तं यावद्वै घनतां व्रजेत् ।
तावत् पात्रेषु संपूज्य प्रासादेनैव मन्त्रतः ॥ १० ॥

प्. १२४)

पचनालयदेशे तु अन्यस्मिन् वा मनोरमे ।
आत्मार्थे चैशदिग्भागे पूजास्थानं तु पूर्वके ॥ ११ ॥

मण्डलं कारयेत् तत्र वृत्तं वा चतुरश्रकम् ।
तस्य मध्ये न्यसेत् पात्रं हृदयेनैव मन्त्रतः ॥ १२ ॥

तस्मादन्येषु पात्रेषु दधिसङ्ग्राह्य देशिकः ।
हृदयेन तु मन्त्रेण शिवाम्भसा तु पूरयेत् ॥ १३ ॥

वस्त्रेणैव तु हस्ताभ्यां मर्दयेत् पुरुषेण तु ।
यावद्वै भिन्नतां याति तावद्वै मथनक्रिया ॥ १४ ॥

अन्यपात्रेषु मतिमान् आनीय्य नवनीतकम् ।
पचनालयदेशे तु अग्निमन्त्रेण कारयेत् ॥ १५ ॥

शुद्धपात्रे तु मतिमान् सङ्ग्रहेद्धृदयेन तु ।
सहस्रप्रस्थकं मुख्यं शतप्रस्थान्तकं क्रमात् ॥ १६ ॥

प्रत्येकं नवधा मानं कारयेद् विभवानुगम् ।
अथवा हीनमानं तु दशप्रस्थान्तकं क्रमात् ॥ १७ ॥

तदा भावे दशप्रस्थं प्रस्थान्त व क्रमेण तु ।
एवं बहुप्रकारेण आत्मार्थे वा परार्थके ॥ १८ ॥

आत्मार्थेषु दृमार्गं स्यात् प्रभूतं स्थापने बुधः ।
गन्धपुष्पादिभिः पूज्य प्रासादेन पृथक् पृथक् ॥ १९ ॥

सर्वालङ्कारसंयुक्तं शङ्खध्वनिसमन्वितम् ।
नानावाद्यसमायुक्तं नानागेयसमन्वितम् ॥ २० ॥

प्. १२५)

ग्रामप्रदक्षिणं वापि प्रासादं वा प्रदक्षिणम् ।
सुगुप्ते मण्डपे स्थाप्य प्रासादेन तु मन्त्रतः ॥ २१ ॥

प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ।
द्वादशहस्तं वा नवहस्ताषहस्तकम् ॥ २२ ॥

ब्राह्मणादिक्रमेणैव प्रपां वा कारयेद् बुधः ।
चतुद्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ २३ ॥

दर्भमालाभिरावेष्ट्य वितानध्वजशोभितम् ।
मण्डपस्य त्रिभागेकं मध्ये वेदिं प्रकल्पयेत् ॥ २४ ॥

उत्सेथं रत्निमात्रं स्यात् तालमात्रमथापि वा ।
वेदिकापूर्वदिग्भागे होमकुण्डं हि कारयेत् ॥ २५ ॥

वृत्तं वा चतुरश्रं वा त्रिमेखलारलङ्कृतम् ।
स्थावरे तु चतुर्दिक्षु होमं कुर्यात् तु देशिकः ॥ २६ ॥

आत्मार्थे चैकहोमं स्याद् ब्रह्मणादि क्रमेण तु ।
पुण्याहं वाचयेत् तत्र पावमानेन प्रोक्षयेत् ॥ २७ ॥

घृतकम्बलकात्पूर्वे नवके सप्तपञ्चमे ।
अङ्कुरानर्पयेद्विद्वान् शास्त्रदृष्टेनकर्मणा ॥ २८ ॥

अङ्कुरस्यार्पणं पूर्वे घृतं सङ्ग्राह्य देशिकः ।
अधिवासनरात्रौ तु पात्राणि पूरयेज्जलैः ॥ २९ ॥

सर्वगन्धसमायुक्तं पञ्चब्रह्मषडङ्गकैः ।
अथवा च जलद्रोणाघटे वा पूरयेत् क्रमात् ॥ ३० ॥

प्. १२६)

दशपात्रं पञ्चपात्रं त्रीणिपात्रमथापि वा ।
एकपात्रं हि चाल्पे तु आत्मार्थे त्रीणि चैकतः ॥ ३१ ॥

दशपात्रे दशं मूर्तिं पञ्चमूर्तिश्च पञ्चमे ।
त्रिमूर्तिश्च त्रिपात्रेषु एकपात्रे शिवस्तथा ॥ ३२ ॥

तन्तुकूर्चसमायुक्तान् सवस्त्रान्नेयसंयुतान् ।
एवमेव क्रमेणैव स्थापयेद्वेदिकाबहि ॥ ३३ ॥

नववस्त्रेण संवेष्ट्य पात्राणमस्य देशिके ।
तं जले शिववत् कृत्वा तज्जले तु घृतं क्षिपेत् ॥ ३४ ॥

कुङ्कुमागरुकर्पूरैः अरिदै चूर्णसंयुतम् ।
कर्षयेदीशमन्त्रेण देशिको तत्र बुद्धिमान् ॥ ३५ ॥

पश्चात् पिर्णत्वमायादि प्रासादेनोद्धृतः क्रमात् ।
सौवर्णेषु च पात्रेषु प्रत्येकं सङ्ग्रहेद् बुधः ॥ ३६ ॥

स्थण्डिलक्रममार्गेण वेदिकां कारयेद् बुधः ।
दशायुधानि परितः अष्टमङ्गलसंयुतम् ॥ ३७ ॥

पूर्ववत् संस्कृतान् कुम्भान्वेदिकोपरिविन्यसेत् ।
अष्टलोकाधिपान् कुम्भान् कुम्भेषु चार्चयेत् क्रमात् ॥ ३८ ॥

तेषां मध्यमदेश तु घृतपिण्डानि विन्यसेत् ।
नववस्त्रेणसंवेष्ट्या प्रासादेनर्चयेद्बुधः ॥ ३९ ॥

पुण्याहं वाचयेत् तत्र ब्रह्मघोषसमन्वितम् ।
होमं कृत्वा तदन्ते तु पञ्चब्रह्मषडङ्गकैः ॥ ४० ॥

प्. १२७)

समिधाज्यचरुलाजान् गुलक्षीरदधिर्यवम् ।
सर्षपं मुद्गमाषौ च होमद्रव्यं क्रमेण तु ॥ ४१ ॥

प्रभूतैः कबलेयद्यत्स्थावरेषु चतुष्वपि ।
देशिकस्यानुसारेण प्रत्येकं होममाचरेत् ॥ ४२ ॥

एभि होमेरशक्तश्चेद्देक एव विधियते ।
आत्मार्थे तद्वदेवोक्तं शूद्राणमेकहोमकम् ॥ ४३ ॥

एवं विधिप्रकारेण अच्चितेनैव कारयेत् ।
बलिं तत्र तु कुर्यात् तु वेदिबाह्ये बलिं क्षिपेत् ॥ ४४ ॥

पाश्चाद्देवं च देवीं च अर्चनोक्तं क्रमाद्यजेत् ।
घृतं शिरोर्पणं कुर्यात् प्रासादेन तु मन्त्रतः ॥ ४५ ॥

हविर्न्निवेदयेत् तत्र उपदंशैस्समन्वितम् ।
ताम्बूलं दापयेत् तत्र ब्राह्मणान्भोजयेत् ततः ॥ ४६ ॥

रात्रावधिवसेत् तत्र पञ्चगव्यामृतेस्सह ।
प्रभाते देशिकं स्नात्वा पश्चाद्यजनमारभेत् ॥ ४७ ॥

अलङ्कृत्यार्चयित्वा तु व्योमव्यापि दशाक्षरैः ।
एवं विधिप्रकारेण कारयेद्देशिकोत्तमः ॥ ४८ ॥

हृदयेन तु मन्त्रेण घृतकम्बलकं यजेत् ।
लोकपालान् समभ्यर्च्य स्वस्वैर्न्नामैविशेषतः ॥ ४९ ॥

होमकर्मविधिं कुर्यात् पूर्वोक्तविधिना सहा ।
अन्ते पूर्णाहुतिं दद्यात् प्रासादेन तु मन्त्रतः ॥ ५० ॥

प्. १२८)

आचार्य पूजयेत् तत्र मूर्त्तिधाराश्च पूजयेत् ।
ग्रामप्रदक्षिणं कृत्वा घृतकम्बलकं बुधः ॥ ५१ ॥

सर्वालङ्कारसंयुक्तं नृत्तगेयसमन्वितम् ।
लिङ्गमूर्तिं न्यसेत् पश्चाद्घृतकम्बलकं हृदा ॥ ५२ ॥

मूर्ध्नादिपादपर्यन्तं कम्बलं विन्यसेत् क्रमात् ।
सकलानि च सर्वाणि स्थापने विन्यसेत् क्रमात् ॥ ५३ ॥

परिवाराणि सर्वाणि स्थावरे चैव विन्यसेत् ।
महाव्योमेन मन्त्रेण कम्बलं सर्वथा न्यसेत् ॥ ५४ ॥

गन्धपुष्पादिभिः पूज्य प्रासादेन तु मन्त्रतः ।
प्रभूतहविषं दद्याद् हृदयेन तु मन्त्रतः ॥ ५५ ॥

नित्यान्ते तु प्रकर्तव्यं संध्यायां तु विशेषतः ।
दिवसं दिवसार्थं च यामं यामार्थमेव च ॥ ५६ ॥

पातकश्चात् बकङ्कृत्वा पूर्ववस्नपनं तथा ।
महाव्योमेन मन्त्रेण दशाक्षरं तथैव च ॥ ५७ ॥

अर्चयेत् शास्त्रमार्गेण गन्धपुष्पादिभिः बुधः ।
परिवाराणि सर्वाणि स्नपनं कारयेत् क्रमात् ॥ ५८ ॥

तेषां हविष्यं दद्यात् तु तन्त्रमन्त्रेण दापयेत् ।
कम्बलं देवदेवस्य चण्डेशाय प्रदापयेत् ॥ ५१ ॥

चण्डमन्त्रमनुस्मृत्य कम्बलपरित्यजेत् ।
घृतकम्बलकं सर्वं गोषु चाप्सु विनिक्षिपेत् ॥ ६० ॥

प्. १२९)

अग्निना दाहयेत् तत्र चण्डमन्त्रमनुस्मरन् ।
यस्मिन् कर्मणि यन्मत्रं तस्मिन् हृदयमन्त्रतः ॥ ६१ ॥

कारयेत् तु विशेषेण मन्त्रेणैव विशेषतः ।
घृतकम्बलमात्रे तु एकरात्राद्धृतं यदि ॥ ६२ ॥

प्रत्येकं संस्कृतं गव्यं घमषा त्रीणि सप्त च ।
अतः परं न कर्तव्यं आत्मार्थे तु परार्थके ॥ ६३ ॥

आत्मार्थे स्पटिकाद्येषु स्थण्डिले मण्डलादिके ।
घृतकम्बलकं न्यस्य भित्तिचित्रे तु दर्पणे ॥ ६४ ॥

पठेऽपि तत् तद्वत् कर्तव्यं अग्नौ होमं च कम्बलम् ।
सूर्यमण्डलकाद्योमकम्बलं शोधयेद् बुधः ॥ ६५ ॥

जलदेशे जले न्यस्य स्वैस्वै मूलैश्च बुद्धिमान् ।
यावत् कम्बलकं यस्य तावद्बीजं न चालयेत् ॥ ६६ ॥

एवमात्मार्थकं कुर्यात् परार्थं नैव तत्क्रिया ।
एवमेव विधानेन कारयेदुक्तमार्गतः ॥ ६७ ॥

आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ।
घृतकम्बलकं प्रोक्तं दमनारोपणं शृणु ॥ ६८ ॥

इति सूक्ष्मशास्त्रे घृतकम्बलं नाम एकत्रिंशत्पटलः ॥
प्. १३०)

शैवाचारं प्रवक्ष्यामि सामान्यर्चां विशेषतः ।
उत्तरायणगे सूर्ये क्षुरकर्मसमारभेत् ॥ १ ॥

गर्भाष्टमे द्विजनं हि वेदाभ्यासं समारभेत् ।
पञ्चादशवर्षादूर्ध्वं विवाहविषयं कुरु ॥ २ ॥

शुद्ध्यर्थं स्नपनं कुर्याद्विधि दृष्टेन कर्मणा ।

पश्चात् पूजासमारभ्य भस्मरुद्राक्षधारकः ।
तस्य सन्निधिकाले तु शिवागमविचारयेत् ॥ ४ ॥

पश्चान्निर्वाणसंबन्धं कुर्याद्वाग्रविचारतः ।
पञ्चगोचर शुद्धात्म शिवेन परिभाषतः ॥ ५ ॥

पश्चादापाद्य कर्माणि कुर्याद् वै दीक्षिको बुधः ।
अन्यस्मिन् यदि वा कुर्या स्थानजस्यानुसारतः ॥ ६ ॥

सोऽपि मैत्रविधानाञ्च अन्यथां च न कारयेत् ।
अनादिविषयार्द्धेतो पूर्वसन्तानको गुरुः ॥ ७ ॥

ग्रामादीनादिकं कुर्याद् आदिशैवोदिको गुरुः ।
पित्रा तु यत्कृतं पूर्वं तस्य पुत्रेण तत्कृतम् ॥ ८ ॥

तस्य सन्निधिकाले तु तस्य सकलं नयेत् ।
अन्यथा करणीयञ्चेत् स्थाननाशं न संशयः ॥ ९ ॥

तयोरभावयेस्सम्यक् सन्तानश्च सगोत्रजैः ।
तेष्वसिद्धे तु कुर्यात् तु तस्य मित्रादिभिर्बुधः ॥ १० ॥

तस्य वक्त्रस्य तन्त्रेभ्यः कुर्यादिह विशेषतः ।
अन्येनाप्यनवक्त्रेण कुर्याश्चेद्दोषदम्महत् ॥ ११ ॥

प्. १३१)

कारणं किं विशेषोऽस्ति मन्त्रसंबन्धकारणात् ।
तयोरमावयोस्सम्यक्सन्तानश्च सगोत्रभिः ॥ १२ ॥

क्रिया गर्भस्य भेन्तद्वत् गर्भात्मतं द्विचर्थकम् ।
आत्मार्थयजनं कुर्यात् परार्थं तु कदाचनात् ॥ १३ ॥

तस्मात्सर्वप्रयत्नेन तत्सर्वं मुक्तकालके ।
अन्यस्मिन् मासि कुर्याच्चेत्तत्फलं निष्फलं भवेत् ॥ १४ ॥

लिङ्गे च प्रतिमायां वा भित्तिचित्रे पटेऽपि वा ।
स्थण्डिले मण्डले चाग्नौ जले वा सूर्यमण्डले ॥ १५ ॥

नवेष्वेतेषु स्थानेषु आत्मार्थं कारयेत् सुधीः ।
लिङ्गबेरे तथा भित्तौ पटे वापि विशेषतः ॥ १६ ॥

चातुर्थेषु च स्थानेषु परार्थं कारयेद्बुधः ।
आरोहणादिनात्पूर्वे नवमे सप्तमे दिशि ॥ १७ ॥

सुमूहुर्त्ते सुलग्ने तु अङ्कुरानर्पयेद् बुधः ।
प्रासादस्याग्रतः कुर्यान्मण्डं शांकरे दिशि ॥ १८ ॥

षोडशं दशहस्तं वा नवहस्ताष्टहस्तकम् ।
षोडशस्तम्भसंयुक्तं चतुद्वारसमन्वितम् ॥ १९ ॥

नवभागैकभागे तु मध्यवेदीं प्रकल्पयेत् ।
अथवा पञ्चषट् सप्तताले विस्तरकं कुरु ॥ २० ॥

द्वितालेनोच्छ्रयं कुर्याद् दर्पणोदरसन्निभम् ।
पञ्चचूर्णैरलङ्कृत्य वितानध्वजशोभितम् ॥ २१ ॥

प्. १३२)

दर्भमालासमायुक्तं तोरणैश्च विभूषितम् ।
अष्टमङ्गलसंयुक्तं दशायुधानि विन्यसेत् ॥ २२ ॥

पुण्याहं वाचयेत् तत्र प्रोक्षयेन्मन्त्रवारिणा ।
षड्द्रोणै पञ्चभिद्रोणै वेदिमध्ये समर्चयेत् ॥ २३ ॥

तदर्थं तण्डुलैर्युक्तं तण्डुलार्द्धतिलैरपि ।
तन्मध्ये पद्ममालिख्य अष्टपत्रं सकर्णिकम् ॥ २४ ॥

पूर्वादीनि चतुर्दिक्षु कारयेदग्निकुण्डकम् ।
अथवा त्रीणि कुण्डं वा एकाग्निमधवापि वा ॥ २५ ॥

मण्डपस्यानुरूपेण अथवा अस्त्रमात्रकम् ।
त्रिमेखलैरलङ्कृत्य एकमेखलमेव वा ॥ २६ ॥

एवमेव क्रमेणैव कारयेन्मण्डपक्रियाम् ।
अधिवासं तु पूर्वेद्युर्दमनस्य हृदा बुधः ॥ २७ ॥

नवपात्रेषु संगृह्य स्वनुगुप्ते निधापयेत् ।
देशिको मूर्त्तिपश्चैव स्नानं कुर्यास्सशिकान् ॥ २८ ॥

पञ्चाङ्गभूषणै भूष्य दिव्यगन्धानुलेपनम् ।
स्थापयेद् वेदिकामध्ये शिवकुम्भं च वर्धनि ॥ २९ ॥

अभितः कलशानष्टौ वारिपूर्णान् सहैमकान् ।
चतुर्दश्यादि षष्ठ्यन्तं पञ्चदश्यादिके परम् ॥ ३० ॥

प्रतिपद्यादि चाष्टम्यामेव मेषाधिवासयेत् ।
प्रत्येकं वस्त्रमावेष्ट्य अर्चयेद्गन्धपुष्पकैः ॥ ३१ ॥

प्. १३३)

दमनं च पृथक् शोध्य प्रोक्षयेत् तु कुशाम्भसा ।
पञ्चधाविभजेत् पुष्पं प्रत्येकं पात्रकं न्यसेत् ॥ ३२ ॥

पञ्चब्रह्म षडङ्गैश्च गन्धपुष्पादिभिर्यजेत् ।
शिवकुम्भस्य परितः स्थापयेद्धृदयेन तु ॥ ३३ ॥

समिधाज्य चरूलाजान् सर्षपाश्च यवातिलान् ।
पञ्चब्रह्मशिवाङ्गैश्च दशाक्षरेण मन्त्रतः ॥ ३४ ॥

कूर्मेण जुहुयाद् विद्वान् प्रत्येकं पञ्चविंशति ।
कुण्डं प्रति विशेषेण कुर्याद्वै देशिकज्ञया ॥ ३५ ॥

द्रव्यान्ते द्व्याहृतीं हुत्वा प्रासादेन स्पृशे बुधः ।

कुण्डं प्रतिविधानेना कुर्याद्वा शंकरेपि वा ।
एवमेव विधानेन कारय्द् देशिकोत्तमः ॥ ३७ ॥

स्पर्शयेद्दमनान् पात्रान् चतुर्दश्यादिकानपि ।
इन्द्र ईशानयोर्मध्ये कारकुम्भं तु विन्यसेत् ॥ ३८ ॥

रतिकुम्भं तु तत्पार्श्वे प्रत्येकं वस्त्रवेष्टितम् ।
गन्धपुष्पादिभिः पूज्या स्वनाम हृदयेन तु ॥ ३९ ॥

सर्वालङ्कारसंयुक्तं सर्वतोद्यसमन्वितम् ।
गन्धदामनक दद्यात् देवदेवस्य मूर्द्धनि ॥ ४० ॥

सर्वेषां सकलादीनां स्वनामैश्चैव पूजयेत् ।
भक्तनां परिचाराणां यथा लाभेन दापयेत् ॥ ४१ ॥

प्. १३४)

हविर्निवेदये पश्चात् प्रासादेन तु मन्त्रतः ।
एवं रात्रौ प्रकुर्यात् तु प्रभाते स्नानमाचरेत् ॥ ४२ ॥

सकलीकरणं कृत्वा देशिकस्य विशेषतः ।
पावमानेन संप्रोक्ष्य महाव्योमेन मन्त्रतः ॥ ४३ ॥

शङ्खदुंदुभिनिर्घोषैर्गीतवाद्यैरवैर्युतम् ।
कामकुम्भं ततोद्धृत्य रतिकुम्भं विशेषतः ॥ ४४ ॥

ग्राम प्रदक्षिणं कृत्वा द्वारपार्श्वे तु विन्यसेत् ।
नन्दिं चैव महाकालमभिषेकं क्रमेण तु ॥ ४५ ॥

गन्धपुष्पादिभिः पूज्य स्वनामसहितेन तु ।
पश्चाद् गर्भान्तिकं गत्वा निर्माल्यं तु विसर्जयेत् ॥ ४६ ॥

शिवकुम्भादिकान्कुम्भान् लिङ्गाग्रे स्थापयेद् बुधः ।
गन्धपुष्पादिभिः पूज्य पावमाने प्रोक्षयेत् ॥ ४७ ॥

महाव्योमेन मन्त्रेण अभिषेकं क्रमेण तु ।
शुद्धस्नानं प्रकुर्यात् तु प्रासादेन तु मन्त्रतः ॥ ४८ ॥

दामनकान् ततोद्धृत्य प्रासा * * प्रदक्षिणम् ।
कृत्वा चैव विशेषेण द्विपात्रं तु पृथन् न्यसेत् ॥ ४९ ॥

महाव्योमेन मन्त्रेण देवदेव * * र्धनि ।
निक्षिपे पिण्डिकायां च परं चैव विशेषतः ॥ ५० ॥

गौरिगायत्रि मन्त्रेण गन्धपुष्पादिभिर्यजेत् ।
शेषाशं सकलादीनां स्वनामैश्चैव पूजयेत् ॥ ५१ ॥

प्. १३५)

भक्तानां परिवाराणां यदा लाभेन दापयेत् ।
हविन्निवेदयेत् पश्चाच्छिवभक्ताश्च भोजयेत् ॥ ५२ ॥

देशिकं पूजयेत् पश्चात् मूर्तिपान् पूजयेत् ततः ।
आत्मार्थं पूजये काले भागं तु पूर्ववत् कुरु ॥ ५३ ॥

एकांश भास्करस्योक्तं विघ्नेशस्य ततः परम् ।
तृतीयांशं शिवस्योक्तं पिण्डिकायाश्चतुर्थकम् ॥ ५४ ॥

शेषांशं पञ्चभागं तु सम्यक् कुर्याद्विचणम् ।
एकांशं च गुरोदद्यात् दपपरं चार्चकस्य तु ॥ ५५ ॥

अग्ने तृतीयकं दद्यात् भक्तानं तु चतुर्थकम् ।
पञ्चाशं पैतृकादीनाम् एवमेव क्रमाद् ददेत् ॥ ५६ ॥

आत्मार्थे चैव होमं तु परार्थे शक्तितो भवेत् ।
विप्रक्षत्रियवैश्यनामात्मार्थे स्थापनोक्तवत् ॥ ५७ ॥

अथवा एकहोमं च यथावित्तानुसारतः ।
त्रिरात्रं च द्विरात्रं च अथवा एकरात्रकम् ॥ ५८ ॥

दिवसं दिवसार्थं च मध्यान्नात् प्राक्समारभेत् ।
प्रथमारम्भदिवसे अधिवासनमुच्यते ॥ ५९ ॥

अवरोहण कालस्तु तिथिकालं तु लक्षयेत् ।
तिथिप्रधानमारोहे ह्यवरोहे न दोषभाक् ॥ ६० ॥

नवपात्रेषु निक्षिप्य पञ्चगव्येन प्रोक्षयेत् ।
महाव्योमेन मन्त्रेण शिवाम्भसा तु प्रोक्षयेत् ॥ ६१ ॥

प्. १३६)

नित्यं सन्ध्यावसाने तु महाव्योमेन मन्त्रतः ।
दमानारोहणं कुर्याद् यथा शेषतः ॥ ६२ ॥

निर्माल्यं न भवेत् तत्र इति शास्त्रस्य निश्चयः ।
मन्त्रे विसर्जनीयं चेत् निर्माल्यं तत्र निश्चयः ॥ ६३ ॥

एवं हि चिरकाले तु कुर्याद् वै स्थापरे बुधः ।
आत्मार्थमेकरात्रं तु कुर्याद् वै सर्जयेद्बुधः ॥ ६४ ॥

अघोरास्त्रेण मन्त्रेण संख्याते वर्जयेद् बुधः ।
चण्डेश्वरस्य दातव्यं चण्डमन्त्रमनुस्मरन् ॥ ६५ ॥

स्नपनं कारयेद्धीमान् प्रासादेन तु मन्त्रतः ।
पञ्चगव्याभिषेकं तु शुद्धस्नाने कारयेत् ॥ ६६ ॥

अर्चयेद् गन्धपुष्पाद्यैः महाव्योमेन मन्त्रतः ।
यवादीनाविसर्ज्याथात वदग्निं * * * रेत् ॥ ६७ ॥

महाव्योमेन मन्त्रेण अष्टोत्तरशताहुतिः ।
घृतेन चरुणा चैव होमं कुर्याद् दिनं प्रति ॥ ६८ ॥

अवरोहणकाले तु पूर्णाहुति शिवेन तु ।
प्रभूतं हविर्दद्याद् देवदेवस्य बुद्धिमान् ॥ ६९ ॥

सकलानि तथान्येषां प्रभातं तु हविर्ददेत् ।
भक्तानां परिवाराणां यथाविभव मार्गतः ॥ ७० ॥

आचार्यपूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ।
भित्तिचित्रैः पटे वापि दर्पणे परिलिङ्गकम् ॥ ७१ ॥

प्. १३७)

हस्तमात्रप्रमाणेन मूलधामानुरूपतः ।
कारयेत् तु विशेषेण कुर्यदमनकं बुधः ॥ ७२ ॥

क्रिया परिसमाप्तौ तु दर्पणं दर्शयेत् च्छिवे ।
एवं विधिप्रकारेण कुर्याद् वै चित्रके बुधः ॥ ७३ ॥

स्थण्डिले मण्डले कुर्यात् द्यन्त्र मार्गेण देशिकम् ।
अग्नौ दमनकं कृत्वा जले तत्र विनिक्षिपेत् ॥ ७४ ॥

सूर्यमण्डलव्योमेन ददेद् दमनकं सुधिः ।
आत्मार्थे च परार्थे च एवमेवं हि कारयेत् ॥ ७५ ॥

अनुक्तं यदि कुर्याच्छेत् कर्तृनाशं न संशयः ।
तस्मात् सर्वप्रयत्नेन उक्तमार्गेण कारयेत् ॥ ७६ ॥

आत्मार्थविषये काले भक्तिमार्गेण वा कुरु ।
मासं पक्षं तिथिं कुम्भं भागञ्चैवा समासतः ॥ ७७ ॥

न होमकाले भेदस्यादात्मार्थे हीनजातिषु ।
अन्यसर्वसमानंस्य ब्रह्मक्षत्र्यविशां क्रमात् ॥ ७८ ॥

अन्ते महोत्सवं कुर्यात् परार्थे तु विशेषतः ।
अनुक्तं यद् भवे किञ्चित् पवित्रवत् समाचरेत् ॥ ७९ ॥

दमं च पवित्रं च पुक्रणं च तथोत्सवम् ।
शिवकुम्भं तथा शान्ति घृतस्नानं तु कम्बलम् ॥ ८० ॥

चिरकालकृतं च यत्समानं तेषु सर्वतः ।
अर्चको देशिकश्चैव ब्रह्मचारित्वमाचरेत् ॥ ८१ ॥

प्. १३८)

अक्षरालवणा शिष्याद्यावत्कालं व्रतं चरेत् ।
ग्रामान्तरं न गन्तव्यं गन्तव्यं दिशि न स्वपेत् ॥ ८२ ॥

अन्यस्मिन् सर्वकाले तु गतागतं तु दोषभाक् ।
अङ्कुरानर्पयेत् पूर्वं व्रतस्थ देशिकोत्तमः ॥ ८३ ॥

आत्मार्थ विषये काले अर्चकस्य गरुस्तथा ।
एवमेव क्रमेणैव कुर्यादारम्भके बुतिधः ॥ ८४ ॥

प्रमदादृतहीनस्सो होमं चान्नार्च कुर्यादिति ।
महाव्योति मन्त्रेण दशसाहश्रकं जपेत् ॥ ८५ ॥

दशाक्षरेण वा कुर्यात् प्रासादेनथवा पुनः ।
एवमेव प्रकारेण कुर्यादारम्भके विथेः ॥ ८६ ॥

अन्यधा यदि कुर्याच्चेत् राजारष्ट्रविनाशनम् ।
आत्मार्थेभ्यर्च्य कर्मश्च विनाशं भवनिश्चयः ॥ ८७ ॥

दमनारोपणं प्रोक्तं शैवाचारं शृणुष्वथ ॥ ८७½ ॥

इति सूक्ष्मशास्त्रे दमनारोपणं नाम चतुस्त्रिंशत्पटलः ॥

आत्मार्थयजनं वक्ष्ये शृणुध्वं तत्प्रभञ्जना ।
आरोग्यमायुकीर्तिश्च विजयश्च फलप्रदम् ॥ १ ॥

प्. १३९)

ब्रह्महत्ति विनाशार्थं वीरहतिविनाशनम् ।
गोपहत्ति विनाशार्थं प्रजावृद्धिकरं परम् ॥ २ ॥

सर्वकामप्रसिद्ध्यर्थं सर्वयज्ञफलप्रदम् ।
आत्मार्थयजानात् सम्यङ् न भूतो न भविष्यति ॥ ३ ॥

शुद्धकेवलसंमिश्रमात्मार्थं त्रिविधं स्मृतम् ।
शुद्धं वा शक्तिरहितं केवलं सक्तिसंयुतम् ॥ ४ ॥

सौरादिचण्डपर्यन्तं मिश्रं चैव प्रकीर्तितम् ।
प्रातरुत्थाय मनसा ललाटे भस्म लेपयेत् ॥ ५ ॥

शिवध्यान पुराणं च चिन्तयेच्छिवभाषणम् ।
तद्ग्रामं तु बहिर्गत्वा विण्मूत्रं च विसर्जयेत् ॥ ६ ॥

शौचमाचमनं दन्ततालु शोधनकः कुरु ।
स्नानं च दर्पणं कृत्वा प्राङ्मुखो वेदिकं चरेत् ॥ ७ ॥

आद्रवस्त्रं परित्यज्य धौतवस्त्रेण वेष्टयेत् ।
उत्तराभिमुखो भूत्वा शैवसन्धिक्रमं चरेत् ॥ ८ ॥

दक्षहस्ते जलं धार्य सेचयेदक्षरं लिखेत् ।
वस्त्रशुद्धिं तः कृत्वा एकाक्षरीति मन्त्रतः ॥ ९ ॥

आपोशनार्घ्यमन्त्रेण तत्वमन्त्रं त्रयेण च ।
विभूतिं वामहस्तेन सव्यहस्तेऽभिमन्त्रयेत् ॥ १० ॥

असुरा त्यजेद्धीमान् द्वात्रिंशैकांशराक्षसम् ।
दिग्बन्धनं ततः कृत्वा अस्त्रमन्त्र मनुस्मरन् ॥ ११ ॥

प्. १४०)

सव्यहस्ते जलं नीत्वा मर्दयेदङ्गुलिन्न्यसेत् ।
मूर्द्धि चैव ललाटे च कर्णे कर्णे तथैव च ॥ १२ ॥

हृदये चैव बाह्वोश्च नाभौ कर्णौ च मूर्ध्नि च ।
निष्कनिष्कार्थकं चैव निष्कद्वयद्वयार्धकम् ॥ १३ ॥

विप्रादिनां च वर्णानां भस्मस्नानं समाचरेत् ।
रुद्रसंध्यासु सन्ध्येषु ब्रह्माङ्गानि प्रकल्पयेत् ॥ १४ ॥

प्राणायामत्रयं कृत्वा दिग्बन्धं चास्त्रमन्त्रतः ।
पूर्वमेवाङ्गुलिन्यास अङ्गन्यासं च कल्पयेत् ॥ १५ ॥

सव्यहस्ते जलं धार्य वामहस्तस्थितं तु वा ।
आपोशनार्घ्यमन्त्रेण पूर्वमन्त्रत्रयान्न्यसेत् ॥ १६ ॥

द्विहस्तन्य जलं धार्य ऊर्ध्वन्ताराघ्यमन्त्रतः ।
सव्यहस्ते जलं ग्राह्य अस्त्रमन्त्रप्रदक्षिणम् ॥
तर्पणं रुद्रसंख्यात ब्रह्माङ्गैनै मन्त्रतः ॥ १७ ॥

आचमनं ततः कृत्वा वैदिकं शैवमेव च ।
पादप्रक्षालनं कृत्वा ग्रहारामे शिवालये ॥ १८ ॥

नदीतीरे तटाके वा पर्वते राजथानिके ।
नवहस्तं सप्तहस्तं पञ्चहस्त त्रहस्तकम् ॥ १९ ॥

चतुरश्रायतं वृत्तं यथेष्टं मण्डपं न्यसेत् ।
मार्जनं प्रोक्षणं चैव गोमयेनानुलेपयेत् ॥ २० ॥

आधारशक्तिमभ्यर्च्य तन्मध्ये खेटकं न्यसेत् ।
तदूर्ध्वे निर्मिकां चाद्य ऊर्ध्व पीठे तु पश्चिमे ॥ २१ ॥

तदूर्ध्वे पद्मपीठस्यात् प्रभामण्डलसंयुतम् ।
वस्त्रधारं च वस्त्रं च पुष्पाधारसमन्वितम् ॥ २२ ॥

प्. १४१)

लोहजं रजतं चैव काञ्चनं रत्नसंयुतम् ।
रुद्राक्षं च प्रवालं च मुक्तामालासमन्वितम् ॥ २३ ॥

नवरत्नविचित्रेण माल्याभरणशोभितम् ।
छिद्रवस्त्रसमायुक्तं च्छित्राभरणशोभितम् ॥ २४ ॥

खण्डवस्त्रसमायुक्तं लिङ्गशोधनसंयुतम् ।
गन्धपात्रसमायुक्तं पुष्पपात्रसमन्वितम् ॥ २५ ॥

शङ्खधारं च शङ्खं च पात्राधारं च पात्रकम् ।
स्थलिका स्थलिकाधरं पानियाधारपात्रकम् ॥ २६ ॥

जलद्रोणसमायुक्तं जलोद्धारणपात्रकम् ।
गन्धं च धूपदीपं च आरात्रिकमधः परम् ॥ २७ ॥

स्नानवेदीं च पादं च स्थितदीपसमन्वितम् ।
तीर्थपात्रसमायुक्तं माज्यस्थालीं च सृक् सृवम् ॥ २८ ॥

पचान् पात्रसमायुक्तं व्यञ्जने पात्रसंयुतम् ।
व्रिहि चर्मं च दर्वीं च काष्ठा त्रिपादसंयुतम् ॥ २९ ॥

नालिकेरसमायुक्तं व्यजनं चिन्नशस्त्रकम् ।
पात्रं संपाद्यमेवोक्तं द्रव्यसंपाद्यमुच्यते ॥ ३० ॥

चन्दनागरुकर्पूरं कुङ्कुमं रक्तचन्दनम् ।
हीमतोयं कृष्णगन्धं गोरचनमथ द्वयम् ॥ ३१ ॥

कुसुमं पञ्चपुष्पं च अष्टपुष्पं च पात्रकम् ।
कङ्कणं लम्बमाला च बिल्वदूर्वाक्षतं तथा ॥ ३२ ॥

प्. १४२)

जलपूरितमेवं तु जलद्रव्यसमन्वितम् ।
पाद्यद्रव्यादिसंयुक्तं धूपद्रव्यादिसंयुतम् ॥ ३३ ॥

कपिलाज्यं शुद्धतैलं शिर्षपिष्टचूर्णकम् ।
पञ्चगव्यामृतं चैव नालिकेरं प्रयत्नतः ॥ ३४ ॥

कदलीफलंसंयुक्तं स्नानद्रव्यसमन्वितम् ।
वस्त्रचिन्नानि विविधं वस्त्रन्तु प्रयत्नतः ॥ ३५ ॥

पञ्चत्रिरेकवृत्तं वा तन्तुरुद्रा च सङ्ख्यया ।
आवृतं सप्तनालिं वा पञ्चनालैकनालकम् ॥ ३६ ॥

दीपज्वालसमायुक्तं गोघृतं वसुतैलकम् ।
येधेष्टं गोघृते चैव वृक्षबीजमतैलकम् ॥ ३७ ॥

द्विप्रस्तादि चतुद्रोणं शुद्धतण्डुलसंयुतम् ।
लवणक्रमवत्वं च व्यञ्जनैरुपदंशकः ॥ ३८ ॥

मरीचि लवणं चैव जीरकं सर्षपं तथा ।
क्रमुकस्य फलं चैव पत्रं च श्वेतचूर्णकम् ॥ ३९ ॥

भस्मं च दर्पणच्छत्रं चामरं तालवृन्दकम् ।
आसनं दर्भदारुं च सारङ्गैश्चर्ममेव च ॥ ४० ॥

व्याघ्रचर्मं च रोमं च रत्नकम्बलवाससम् ।
आसनं कल्पयेद्धीमान् अर्चनाक्रममुच्यते ॥ ४१ ॥

उत्तराभिमुखो भूत्वा रुचिरासनसंस्थितम् ।
भस्मस्नानं ततः कृत्वा पूर्वोक्तविधिना सहा ॥ ४२ ॥

प्. १४३)

शिरस्ताटनमेवोक्तं दिग्बन्धनमतः कुरु ।
प्राणायामत्रयं कृत्वा भूतशुद्धिक्रमं चरेत् ॥ ४३ ॥

पञ्चग्रन्थिस्तु विच्छेदि शिरः पादान्तिकं चरेत् ।
अमृताप्लावनं कृत्वा करन्यासांगुलिं न्यसेत् ॥ ४४ ॥

अङ्गन्यासाष्टत्रिंशेन श्रीकण्ठाद्यक्षरं न्यसेत् ।
शिवहस्तं तु संकल्प्य हृत्पद्मेऽर्चयेच्छिवम् ॥ ४५ ॥

नाभौ होमं च कर्तव्यं हृन्मध्ये ध्याययेच्छिवम् ।
आत्मशुद्धिरिति प्रोक्तं सौरादिपूजकं शृणु ॥ ४६ ॥

खेटके भूतले वापि सौरपूजा यथाक्रमम् ।
पूर्वाशाभिमुखं प्राप्य लेखयेद्रविमण्डलं ॥ ४७ ॥

बेरे तु चक्रलिख्ये ते यथेष्टमण्डले स्थिते ।
उदित्यं जातमन्त्रेण पात्रे तु जलपूरिते ॥ ४८ ॥

रक्तचन्दनपुष्पाद्यैरर्चयेद्धृदयेन तु ।
दक्षपाणि तलेथार्य दर्शनार्घ्यं तु सेचयेत् ॥ ४९ ॥

दण्डिनि पिङ्गले चैव गणेशं गुरुमेव च ।
प्रभूतासन सङ्कल्प्य विमलौ सौरमेव च ॥ ५० ॥

आराध्य परमं चैव मध्ये पद्मं च विन्यसेत् ।
दीप्ताति सर्वतोमुख्या अर्कासन खषोल्कक ॥ ५१ ॥

नादवन्निसमायुक्तं द्वितिर्य्यं रससंयुतम् ।
बिन्दुनादसमायुक्तम् अनन्तं रुद्र संयुतम् ॥ ५२ ॥

प्. १४४)

तृतीय्यस्वरसंयुक्तं न्नादाद्यं शिवसंयुतम् ।
नमोत्तं सूर्यमुच्चार्य सौरसंपूजनं कुरु ॥ ५३ ॥

सूर्यं कुंकुमसङ्काशं सर्वाभरणभूषितम् ।
द्विनेत्रं चारुवदनं रक्तमालानुलेपनम् ॥ ५४ ॥

चतुर्भुजसमोपेतं पद्महस्ताबुजद्वयम् ।
अभयं वरदोपेतं प्रभामण्डलमण्डितम् ॥ ५५ ॥

मुपवितसमायुक्तमुषाप्रत्युष संयुतम् ।
पद्मस्थं वा रथारोहमरुणेन समन्वितम् ॥ ५६ ॥

ध्यात्वाभ्यर्च्य षडङ्गेन परिवारसमन्वितम् ।
सोमाङ्गारकसौम्याश्च गुरुशुक्रशनैश्चरान् ॥ ५७ ॥

राहुकेतुग्रहानष्टौ पूर्वादीशान्तके यजेत् ।
क्षीरान्न दापयेत् पश्चाद् धूपदीपादिकं ददेत् ॥ ५८ ॥

तेजश्चण्डेश्वरं पूज्य प्रणिपत्य क्षमापयेत् ।
पादप्रक्षालनं कृत्वा देवाग्रे मण्डलं कुरु ॥ ५९ ॥

सामान्यर्घ्यं च सङ्कल्प्य तेनैव प्रोक्ष्य भूतले ।
षोडशाङ्गुलमायामं चतुरश्रसमन्वितम् ॥ ६० ॥

वामदेवेन समृज्य सव्यहस्ते तलेन तु ।
स्थानशुद्धिं च कर्तव्यं भूमिर्भूम्नेति मन्त्रतः ॥ ६१ ॥

पञ्चगव्यामृतैः सार्घ्यस्नानद्रव्याणि विन्यसेत् ।
देवस्य दक्षिणे पार्श्वे यथेष्टं मानसं न्यसेत् ॥ ६२ ॥
 
प्. १४५)

उत्तराभिमुखोभूत्वा रुचिरासनं संस्थितम् ।
भस्मन्यासं करन्यासं अङ्गन्यासं तु कारयेत् ॥ ६३ ॥

पाद्यादिद्रव्यसंयुक्तं पात्रं संपूजयेत् ततः ।
अथवा पात्रमेकं तु पाद्यमाचमनार्घ्यकम् ॥ ६४ ॥

पात्र प्रक्षाल्य शस्त्रेण हृदयेन निरीक्षयेत् ।
त्रिपादूर्ध्वे स्थितं शङ्खमवकुण्डनमाचरेत् ॥ ६५ ॥

जलेन पूरयेत्पात्रं ब्रह्माङ्गमनुसंस्मरन् ।
सव्यहस्ताभिमन्त्रेण शिवगायत्रिकं जपेत् ॥ ६६ ॥

सुरभिमुद्रां संस्पृश्य प्रोक्षयेत् पात्रतो विधि ।
शङ्खमूलं द्द्धरादेवि म्रक्षाणां विष्णुदेवतम् ॥ ६७ ॥

धारयेद् घोरदेवं तु वलयं सूर्यदेवतम् ।
मुखे च सप्ततीर्थानि प्रवेशेच्चन्द्रदेवता ॥ ६८ ॥

त्रिपाद्यमधिदैवत्यं ब्रह्माविष्णुमहेश्वराः ।
वृत्तमाधारशक्तिश्च इत्येते अधिदेवता ॥ ६९ ॥

पीठशुद्धिं ततः कृत्वा प्रोक्षयेदस्त्रवारिणा ।
वृषेश्वरं तथा पूर्वे वृषवामे तु भास्करे ॥ ७० ॥

महेशमग्निदेशे तु दक्षिणामूर्ति दक्षिणे ।
गणेशे नै-ऋते देशे तद्वामे कमलोद्भवे ॥ ७१ ॥

षण्मुखं वायुदेशे तु विद्यापीठं तु दक्षिणे ।
सौम्ये तु नृत्तमूर्तिं च ईशाने क्षेत्रपालकम् ॥ ७२ ॥

प्. १४६)

कुबेरानिलयोर्मध्ये लिङ्गोद्भवं तु विन्यसेत् ।
सोमशङ्करयोर्मध्ये भक्तादीन्विन्यसेत् क्रमात् ॥ ७३ ॥

भक्तानां वामपार्श्वे तु एकाक्षरी तु विन्यसेत् ।
एकाक्षर्या च वामे तु लकुलीशं तु विन्यसेत् ॥ ७४ ॥

पुष्पमूर्ध्नि तु विन्यस्य पश्चाद्वारं प्रपूजयेत् ।
पश्चिमद्वारमस्त्रेण प्रोक्षये तु शिवाम्भसा ॥ ७५ ॥

गणेशं दक्षिणेऽभ्यर्च्य वाग्देवी वामपार्श्वके ।
मध्यमे तु महालक्ष्मीं नन्दिगङ्गनं च दक्षिणे ॥ ७६ ॥

महाकालं च यमुनां वामपार्श्वे विशेषतः ।
ऊर्ध्वाध संप्रपूज्याथ शिवास्त्रं सुप्रपूजयेत् ॥ ७७ ॥

गणेशान् क्षेत्रपालान्तं अर्चये स्वस्वमन्त्रतः ।
द्वारपश्चिममेवं तु नैवेद्यं पूर्ववक्त्रके ॥ ७८ ॥

लिङ्गं सङ्गृह्य हस्तेन स्नानवेद्युपरि न्यसेत् ।
अर्घ्योदकेन संप्रोक्ष्य वक्त्रन्न्यासं समाचरेत् ॥ ७९ ॥

अङ्गुष्ठादि कनिष्ठान्तं पञ्चब्रह्ममनु न्यसेत् ।
कनिष्ठानामिकामध्ये नवपुष्पं तु संग्रहेत् ॥ ८० ॥

अङ्गुष्ठतर्जनीभ्यां च निर्माल्यं च विसर्जयेत् ।
विसर्जनस्य तत्काले पुष्प मूर्ध्नि च विन्यसेत् ॥ ८१ ॥

निर्माल्यं च विसज्यैशे चण्डेशाय प्रकल्पयेत् ।
शुद्धतोयाभिषेकं च अस्त्रं पाशुपतं जपेत् ॥ ८२ ॥

प्. १४७)

मूलाधारात् समादाय ब्रह्मरन्ध्रे तु विन्यसेत् ।
गुरूपदेशं विज्ञेयं मन्त्रशुद्धिरुदाहृतम् ॥ ८३ ॥

चलासनं तु सङ्कल्प्य पुष्पमूर्ध्नि च विन्यसेत् ।
अभ्यङ्गं तु ततः कृत्वा शुद्धतोयाभिषेचनम् ॥ ८४ ॥

शरीरं पिष्ठचूर्णेन लिङ्गपीठं च मर्दयेत् ।
शुद्धतोयाभिषेकं च पुष्पं मूर्ध्नि च विन्यसेत् ॥ ८५ ॥

पञ्चगव्यामृते स्नाप्य जलैनैवाभिषेचयेत् ।
अस्त्रमन्त्रमनुस्मृत्य पुष्पमूर्द्ध्नि तु विन्यसेत् ॥ ८६ ॥

क्षीरं दधि घृतं क्षौद्रं न्नालिकेरजलं तथा ।
इक्षुसारं तु शुद्धोदं गन्धतोयाभिषेचनम् ॥ ८७ ॥

मन्त्रपुष्पं ततो दत्वा मन्त्रान्नं च निवेदयेत् ।
शुक्लवस्त्रेण संमृज्य पुष्पमूर्ध्नि तु विन्यसेत् ॥ ८८ ॥

पद्मपीठे तु संस्थाप्य शिवमन्त्रमनुस्मरन् ।
पञ्चासनं समभ्यर्च्य उपर्युपरि विन्यसेत् ॥ ८९ ॥

कमलासनं समभ्यर्च्य दलेभ्यो केसरोपि वा ।
कर्णिकायै नमश्चेति बिजेभ्यो सन् इत्यपि ॥ ९० ॥

शक्त्यादिशक्तिपर्यन्तमर्चयेत् तु दलाग्रके ।
पीठे मनोन्मनि न्यस्त्वा शुद्धस्फटिकसन्निभम् ॥ ९१ ॥

तन्मध्ये शिवमावाह्य पञ्चावरणमर्चयेत् ।
सद्योजातवाममघोराश्च पुरुषेशानमेव च ॥ ९२ ॥

प्. १४८)

अम्बिगणाम्बिका चैव भागिगौरि उमास्तथा ।
पश्चिमे चोत्तरे याम्ये पूर्व ईशान एव च ॥ ९३ ॥

हृच्छिरश्च शिखावर्मा नेत्रमस्त्रं तथैव च ।
वामीनीली च पाशाङ्गी खड्गिनीर्जम्बीनी तथा ॥ ९४ ॥

अग्नियादीयमस्ति रोगजावरणमर्चयेत् ।
अनन्तेशश्च सूक्ष्मश्च शिवोत्तंश्चैकनेत्रकम् ॥ ९५ ॥

एकरुद्र त्रिमूर्तिस्तु श्रीकण्थश्च शिखण्डिना ।
भूमिस्वाहा स्वधाकान्तपुष्टि कीर्तिमेयवि ॥ ९६ ॥

विद्येशावरणं प्रोक्तं इन्द्रादीशान्तमर्चयेत् ।
वृषनन्दिगणेशाश्च महाकालगुहौ तथा ॥ ९७ ॥

भृङ्गिणं गौरि चण्डेशं इन्द्रादीशान्तमर्चयेत् ।
भद्रा च कुन्दलि चैव भृङ्गिणि पतिनि तथा ॥ ९८ ॥

देवयानिं च चस्तादी रूपिणिं चण्डिकिशके ।
गणेशावरणं प्रोक्तं स्वनाम्नैरर्चयेत् क्रमात् ॥ ९९ ॥

इन्द्राश्चाग्नियमश्चैव निरुतिवरुन्वायवा ।
कुबेर ईशविष्णु च पितामह्येशमेव च ॥ १०० ॥

स्वाहाशान्त्या च देहि च कालकर्णि च देहिनि ।
भोगिनि घोशशक्तैश्च गम्भिणी हर्षणि तथा ॥ १०१ ॥

लक्ष्मी वा * * रि चैव दिक्पालवरणं क्रमात् ।
वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा ॥ १०२ ॥

प्. १४९)

गदा त्रिशूलं चक्रं च पद्मं चेतिर्दशायुधः ।
प्रसन्नात्मा च कोप * गुणात्मिकोमलात्मिनि ॥ १०३ ॥

वृषात्मिव्रकतात्मि च महात्मि मङ्गलात्मिनी ।
अस्त्रेशावरणं प्रोक्तं प्रक्रमेणैवमर्चयेत् ॥ १०४ ॥

वस्त्रेण गलभूषं च घृतवारिसमन्वितम् ।
गन्धपुष्पं च मकुटं कङ्कणलम्बमाल्यकम् ॥ १०५ ॥

रुद्राक्षमुपवीतं च प्रवालं मौक्तिकं स्रजम् ।
स्वर्णरत्न विचित्रेण स्वर्णमालविभूषणम् ॥ १०६ ॥

ऐन्द्रे देशे च मव्यक्तं याम्ये नियति गोचरे ।
वरुणे चैव कालाख्यं उत्तरे तु कलाख्यकम् ॥ १०७ ॥

ऊर्ध्वश्च इमधश्चन्द्रमध्यमेमाधवन्यसेत् ।
योगासनं ततः प्रोक्तं तन्मध्ये चार्चयेच्छिवम् ॥ १०८ ॥

धूपं च ध्वजदीपं च निवेद्यं चोप * * * ।
गोमयालेपनं कृत्वा देवाग्रे मण्डलं न्यसेत् ॥ १०९ ॥

अतिपक्वमपक्वं च कृशिरं पविवर्जयेत् ।
स्थालिकाभालनं कृत्वा नैवेद्यं च प्रपूरयेत् ॥ ११० ॥

व्यजनैरावृतं चैव लवणं पक्वदंशकैः ।
फलादिगुलसंयुक्तं क्षीरं दधि च मध्यमे ॥ १११ ॥

आज्यव्रतसमायुक्तं अभिधानां तु वाससम् ।
नैवेद्योत्थापने मार्गे मार्जनं प्रोक्षणं कुरु ॥ ११२ ॥

प्. १५०)

पाद्युर्ध्वे विन्यसेञ्चैव बेराणां च पृथक् पृथक् ।
प्रोक्षणं चास्त्रमन्त्रेण तालत्रयमथो * * ॥ ११३ ॥

दिग्बन्धनं ततः कृत्वा धेनुमुद्रां प्रदर्शयेत् ।
आपोशनार्घ्यकं दत्वा हस्तप्रक्षालनं कुरु ॥ ११४ ॥

नवपुष्पं गृहीत्वा तु गणेशस्य निवेदयेत् ।
तत्पुष्पं तु विसृज्याथ हस्तयोक्षालनादिकम् ॥ ११५ ॥

प्रभूत हविषं दत्वा पानियं तु निवेदयेत् ।
महेशप्रतिमादीनां नैवेद्यं हृदयेन तु ॥ ११६ ॥

सदाशिवस्य निर्माल्यं चण्डेशस्य समीपके ।
शेषनिर्माल्य सर्वाश्च ऐशान्ये तु विसर्जयेत् ॥ ११७ ॥

लिङ्गशुद्धिं ततः कृत्वा पुनरर्घ्यं प्रदापयेत् ।
करोद्वर्तनमेवोक्तं मुखवासं तु विन्यसेत् ॥ ११८ ॥

ताम्बूलं विन्यसेत् पश्चाद् दत्वा नित्य पवित्रकम् ।
नित्याग्नि यजनं कृत्वा अन्तर्बलिसमाचरेत् ॥ ११९ ॥

धूपदीपादिकं दत्वा आरात्रिकमतः परम् ।
भस्म दर्पणकच्छत्रं चामरं तालवृन्तकम् ॥ १२० ॥

वेदस्तोत्रसमायुक्तं नृत्तगीतं सवाद्यकम् ।
कनिष्ठानामिकामध्ये पुष्पं सङ्गृह्य बुद्धिमान् ॥ १२१ ॥

जपमाला तु नक्षत्रनायकस्तु शशिर्भवेत् ।
प्रच्छिन्नपटमुच्छाद्य मूलमन्त्रमनुस्मरन् ॥ १२२ ॥

प्. १५१)

जपान्तेनैव तत्काले पुष्पमूर्ध्नि च विन्यसेत् ।
विद्यापीठं समभ्यर्च्य प्रदक्षिण नमस्कृतम् ॥ १२३ ॥

पूजासमाप्तं विज्ञाप्य चार्चयेत् संहृदाणभिः ।
चुलुकोदकं ततः कृत्वा अर्घ्यं वैसर्जयेद् गुरुः ॥ १२४ ॥

उद्वासनं तु देवाश्च सर्वमात्मनि योजयेत् ।
पूर्ववत्सदनं कृत्वा मूललिङ्गादि सङ्ग्रहेत् ॥ १२५ ॥

स पुष्पं वस्त्रमाच्छाद्य बेराणां तु पृथक् पृथक् ।
पूजापर्युषितद्रव्यैः चण्डेशं च समर्चयेत् ॥ १२६ ॥

ध्वनिचण्डेश्वरायेति हुं फटन्तास्त्रमन्त्रतः ।
धूपदीपादिकं दत्वा अर्घ विसर्जयेद्गुरुः ॥ १२७ ॥

शिरः कण्ठे च वक्षौ च कोर्परौ हस्तयोच्छिवः ।
एवं दिने दिने पूज्य अर्चयेत् पूर्ववत् क्रमात् ॥ १२८ ॥

इति सूक्ष्मतन्त्रे आत्मार्थपूजाविधिर्नाम पञ्चत्रिंशत्पटलः ॥

गौर्यास्थापनं वक्ष्ये योगं भिन्नं द्विधा शृणु ।
संयुतं चोमया देवमेकासनगतं चरेत् ॥ १ ॥

देव्यार्थ योगरूपं तु अर्द्धनारीश्वरं तुयम् ।
पृथग्वे स्थापितो देवो मां च स्थापितं पृथक् ॥ २ ॥

प्. १५२)

विष्णुं नोदकदत्तेन युक्तं कल्याणमार्गतः ।
एकपीठस्थिता वापि पीठादन्यस्थिता तु नाम् ॥ ३ ॥

कृतयोगद्विधा ख्यातं वृषारूढस्य दक्षिणे ।
अन्येषां चैव मूर्तिनां वामपार्श्वे तु कल्पिताम् ॥ ४ ॥

प्रधाने निष्कले तुङ्गे पूजांशं दशधा भवेत् ।
देवस्य बाहुमात्रेण देवि युक्त्या तु कल्पिताम् ॥ ५ ॥

एवं चैकादशें मानं देव्यास्तुङ्गविधिर्यते ।
मूलं तु निष्कलादेवमावाह्य क्षणिकेतनः ॥ ६ ॥

देवीं तद्विष्णुनादान्तां कल्याणं च कृते सति ।
मूलदेशे तु संयोज्य देवि स्नानान्तरं विशेत् ॥ ७ ॥

अन्तप्रकारकान्ते तु बाह्ये वा मन्दिरे कृते ।
गर्भे तु स्थापिता देवी पर्यङ्कद्यैश्च स्थापिते ॥ ८ ॥

गन्धाद्यैर्हविभिर्भुक्ष्यै ताम्बूलश्च प्रदापयेत् ।
अनेनात्रोपचारेण रात्रौ पूजावसानके ॥ ९ ॥

यामप्रदक्षिणं कृत्वा शिवस्यैवा विशेषतः ।
सर्वालङ्कारसंयुक्तं सर्वतोद्यसमन्वितम् ॥ १० ॥

नानाभक्तसमायुक्तं जयमङ्गलसंयुतम् ।
देवीं देवगृहद्वारे गन्धपुष्पादिभिर्यजेत् ॥ ११ ॥

नीराजनं ततः कृत्वा प्रविश्याभ्यन्तरगृहम् ।
देवस्य दक्षिणे पार्श्वे देव्यासनं प्रकल्पयेत् ॥ १२ ॥

प्. १५३)

पूजयेद् गन्धपुष्पाद्यै पायसान्नं हृदा ददेत् ।
पश्चानिराजनं कृत्वा सर्वालङ्कारसंयुतम् ॥ १३ ॥

पश्चात् तु यजनं सम्यक् नात्रयेवं च प्रकल्पयेत् ।
अरुणोदयवेलायां देव्यास्थानं समाचरेत् ॥ १४ ॥

सर्वालङ्कारसंयुक्तं जयशब्दादिसंयुतम् ।
यप्रधानत्वमार्गेण प्रतिष्ठां कुरु मन्दिरे ॥ १५ ॥

केवलं तां पृथक्तेन देवं देवं विना यजेत् ।
एवं मार्गविधा प्रोक्तं तस्यास्तु बहुधा शृणु ॥ १६ ॥

विशं क्रमं तथा योगं सङ्करं रौद्रमेव च ।
एवं तु पञ्चधा ज्ञेया कारयेल्लक्षणान्वितम् ॥ १७ ॥

मन्दिरे मण्डपे वापि मालिकाकारमेव वा ।
लक्षणोक्त क्रमेणैव त्रिकरादि विशेषतः ॥ १८ ॥

स्थूपि यत्र समायुक्तं पञ्चधा वापि कारयेत् ।
प्रासादस्यैशदिग्भागे पावके वारुणे तथा ॥ १९ ॥

मनोरमे यथा चान्ये प्रकाराभ्यन्तरे दिशि ।
पञ्चप्राकारमार्गेण मूलार्थं च न कारयेत् ॥ २० ॥

स्वयम्भुवस्य लिङ्गस्य विंसंयक्प्रकल्पितम् ।
दैविके चार्षके चैव क्रमं सम्यग्विधीयते ॥ २१ ॥

मानुषे बाणलिङ्गे च योगं चैव विधीरयते ।
ग्रामादीनां तु बाह्ये तु कुर्यात्सङ्करमिश्रकम् ॥ २२ ॥

शयनादि कृयात् सर्वे वीरे सम्यक् प्रपूजयेत् ।
मूललिङ्गप्रमाणेन वीरं कुर्याद् विशेषतः ॥ २३ ॥

प्. १५४)

मूलपीठप्रमाणेन क्रमं कुर्याद् विशेषतः ।
लिङ्गस्य नाहमानेन योगं सम्यग् विधियते ॥ २४ ॥

वीरस्य कण्ठमानेन मिश्रशक्तिर्विधीयते ।
अथवा गर्भमानेन मूलधामादि मानकैः ॥ २५ ॥

कुर्याद् विरादिका वापि अङ्गुलेनैव वा पुनः ।
नवाङ्गुलात् समारभ्य द्वित्र्यङ्गुलविवर्द्धनात् ॥ २६ ॥

पञ्चविंशतिमात्रान्तं नवधा देवि तुङ्गकम् ।
तस्माद्व्यङ्गुलाधिक्यं नवधा तुङ्गमुच्यते ॥ २७ ॥

चत्वारि शत्त्रिपादूर्द्धं द्विंत्र्यंशुविवर्द्धनम् ।
एवं तु नवधा तुङ्गं उत्तमादिनि भेदतः ॥ २८ ॥

द्विहस्तां चारुवदनां पुष्पहस्तां विशेषतः ।
पीनोन्नत शनां चैव कंबूग्रीवां सुलोचनाम् ॥ २९ ॥

दुकालवसनां चैव पद्मासनोपरि स्थिताम् ।
सिंहासनस्थितां वापि सर्वाभरणभूषिताम् ॥ ३० ॥

उत्तराननसंयुक्तां पश्चिमाननमेव वा ।
यादृशं मूलबिम्बं च तादृशं वक्त्रमुच्यते ॥ ३१ ॥

मध्यमं दशतालेन कुर्याद् देवीं विशेषतः ।
सुखासनादि बिम्बानां तस्य तस्य प्रमाणतः ॥ ३२ ॥

प्. १५५)

नासिकान्तमधान्बान्तं कर्णमानेन वा बुधः ।
मात्रोङ्गुलेन वा कुर्यात् पूर्वोक्तेनैव सङ्ख्यया ॥ ३३ ॥

एवमेव प्रकारेणा कुर्यान्मूलादिनां बुधः ।
सङ्करं रौद्रकं वक्ष्ये स्वतन्त्रं च विशेषतः ॥ ३४ ॥

धामस्य पूर्वदेशे तु पावके दक्षिणेऽपि वा ।
अन्ये मनोरमे देशे तटाकादिस्तु पार्श्वके ॥ ३५ ॥

धामं वा मण्डपं वापि कुर्यात् प्राकारकैस्सह ।
त्रिहस्ताद्यैर्विशेषेण एकभूम्यादिकादिषु ॥ ३६ ॥

ब्राह्मिके देविके वापि मानुषे च पिशाचके ।
स्थापयेत् सङ्करं रौद्रं द्विभुजं वा चतुर्भुजम् ॥ ३७ ॥

पूर्वाभिमुखमास्थाप्य उत्तराननमेव वा ।
पश्चिमाभिमुखं वापि दक्षिनाभिमुखं विना ॥ ३८ ॥

आसनं सुस्थितं वापि शूलकर्मयुतं यदि ।
शैलं च लोहचित्रां च कुर्यात् तां च विशेषतः ॥ ३९ ॥

प्रधानं शक्तिबिम्बं तु कुर्याच्छम्भु विशेषतः ।
तस्यास्तु दक्षिणे भागे शम्भुं कुर्याद् विचक्षणः ॥ ४० ॥

द्विभुजं वा चतुर्भुजं देव्यारूपानुरूपकम् ।
देव्यास्तु पावके वापि पुरस्ताद् दक्षिणेऽपि वा ॥ ४१ ॥

तस्यैव पुरतस्थाप्यमुक्षं चैव विशेषतः ।
पश्चिमाननकं चोक्षं पूर्वाननं तथोत्तरम् ॥ ४२ ॥

प्. १५६)

स्थितं वा शयनं वापि गमनोन्मुखमेव च ।
शङ्करस्य प्रतिष्ठो या पार्श्वयोर्वा स्थितं भवेत् ॥ ४३ ॥

शङ्करस्य तु पूर्वे तु विघ्नेशं स्थापयेद्यति ।
स्थानकं चासनं वापि मूषिकोपरि चाथवा ॥ ४४ ॥

देव्यास्तस्योत्तरे वापि ऐशदेशे तथाथ वा ।
देव्यास्तु शङ्करे देशे पूर्वे वा चोत्तरेऽपि वा ॥ ४५ ॥

दुर्गायास्थापने प्रोक्तं न दूरं न समीपतः ।
तस्य प्रकारकान्ते तु पूर्वे वा चैशकेऽपि वा ॥ ४६ ॥

शास्तोश्च स्थापनं कुर्यात् स्थितं वा चासनं तु वा ।
स्थापन क्षेत्रपालं वा बाह्ये चाभ्यन्तरेऽपि वा ॥ ४७ ॥

प्रकारोऽभ्यन्तरे देशे बलिपीठं प्रकल्पयेत् ।
शिववत् परिवाराणां प्रासदस्याग्रतोऽपि वा ॥ ४८ ॥

परिवारैर्विना वापि यथाविभवविस्तरैः ।
सुखासनादि बिम्बेषु बाह्ये चाभ्यन्तरेऽपि वा ॥ ४९ ॥

एकं वापि द्विकं वापि त्रिकं सर्वत्र एव वा ।
लोहजाद्यैर्विशेषेण कुर्याद्वा चित्रकादिभिः ॥ ५० ॥

एवं सङ्करमाख्यातं रौद्रकं त्वधुनोच्यते ।
ग्रामादि स्थापनं वापि पर्वते च वनेऽपि वा ॥ ५१ ॥

नन्द्यस्तिरे च वृक्षे वा ग्रामात् क्रोशान्तरेऽपि वा ।
ग्रामदस्याननश्चाथ यथा पृष्ठं तथा कुरु ॥ ५२ ॥

प्. १५७)

नगराभिमुखं वापि कुर्याद्रौदं विशेषतः ।
यजमानानुरूपेण कुर्यात् सर्वं विशेषतः ॥ ५३ ॥

मन्दिरे मण्डपे मध्ये मन्दिरस्य तु मण्डपे ।
मन्दिरे स्थापनं शंभुं सकलं मिश्र * * लम् ॥ ५४ ॥

पुरस्ताल्लिङ्गसंस्थाप्य चामुण्डिं तस्य दक्षिणे ।
चतुर्भुजं षड्भुजं वा अष्टौदशभुजं तु वा ॥ ५५ ॥

द्वादशं षोडशं वापि बाहुमेवं प्रकल्पयेत् ।
विनायकं तथा दुर्गां शङ्करं सवृषं यदि ॥ ५६ ॥

महाशास्ताथवा स्कन्दं तस्मिन्स्थाने प्रतिष्ठिता ।
अथवान्यप्रकारेण वक्ष्यते गौरि भेदकम् ॥ ५७ ॥

मध्यमे वा परे वापि द्विभुजं शक्तिरूपकम् ।
ऊर्ध्वजानुस्थिते गुल्फे हस्तौ जश्चस्थितोपरि ॥ ५८ ॥

तस्यस्तु पुरतो भागे दक्षिणे वाथ शाङ्करम् ।
वृषभं च समीपे तु स्थितं वा शयनं तु वा ॥ ५९ ॥

विघ्नेशं तु कुमारं वा शङ्करस्य च प्राग्दिशि ।
तयोस्तु पुरतः सम्यक् दुर्गां वाथ सरस्वतिम् ॥ ६० ॥

महामोटिकया वाथ महाशस्त परे कृतम् ।
समीबाह्य समीपे वा बाह्ये वा क्षेत्रपालकम् ॥ ६१ ॥

बलिपीठं विशेषेण कुर्याद् देव्यस्तु पूर्वके ।
उत्सवप्रतिमं कुर्याद्विभुजां च स्वरूपकम् ॥ ६२ ॥

प्. १५८)

शैव चिह्ना समायुक्तं मन्दिरे मण्डपे शुभे ।

पूर्वाननं सुसंस्थाप्य द्विभुजां च चतुर्भुजाम् ।
उद्गतो जानुसंयुक्तो पादौ पृष्ठं स भूमिके ॥ ६४ ॥

ब्राह्मिकादभरेभागे पैशाचे ब्राह्मिकेऽथवा ।
कृत्तिका स्थापयेत् सम्यग् अम्बिकानाम भावयेत् ॥ ६५ ॥

तस्यास्तु वामते पूर्वे दक्षिणे वा ततोऽपि च ।
पश्चिमेवापि कर्तव्यं कल्पयेत् सकलं विदुः ॥ ६६ ॥

द्विभुजं युग्भुजं वापि पृष्ठे गमन भावकम् ।
बिम्बानापरितश्चैव कीर्तितास्थनकस्य तु ॥ ६७ ॥

तस्यो पा पुरतो दुर्गा न दूरं न समीपतः ।
देव्यास्तथैव दिग्भागे विघ्नेशं यदि संभवेत् ॥ ६८ ॥

पञ्चमूर्तिरितिख्यातं सूत्रैक्येवाथ बाह्यके ।
देव्यास्तु पुरतो भागे उभयोर्वा विशेषतः ॥ ६९ ॥

शङ्करं चैव विघ्नेशं शास्ताभगवति तथा ।
अन्येषां च निरिक्ष्यन्ते तिर्यगमनमेव वा ॥ ७० ॥

त्रिदण्डाभ्यन्तरे देशे पञ्चदण्डान्तरेऽथवा ।
क्षेत्रेशं च महापीठं परितो परिवारकम् ॥ ७१ ॥

आसना मससा शक्ति शक्तेरङ्गं शिवादिकम् ।
एवमेव प्रकारेण कुर्याद् बहुविधानतः ॥ ७२ ॥

प्. १५९)

शूलमूलसमायुक्तं पार्थिवं तु विशेषतः ।
रत्नन्यासं तदादौ तु प्रत्येकं मूलदेशके ॥ ७३ ॥

शैलजस्थापनाकाले रत्नं पूर्वे तु स्थापयेत् ।
लोजहजादिषु बिम्बेषु नेत्रोत्मीलनपूर्वकम् ॥ ७४ ॥

चित्रभाव विधाने तु भूक्तोपादस्य मूलके ।
अथवा भूप्रदेशे तु नवरत्नादि क्षिपेत् ॥ ७५ ॥

दुर्गास्थापनमार्गेण प्रतिष्ठाकारयेद्बुधः ।
शास्तु स्थापनमार्गेण शास्तोश्च स्थापनं कुरु ॥ ७६ ॥

विघ्नेशस्थापने चैव विघ्नेशं स्थापयेत् क्रमात् ।
मिश्रलिङ्गविधानेन मिश्रेशं स्थापयेत् क्रमात् ॥ ७७ ॥

मूलधामादिभिर्मानेस्तेषारूपं पृथक् पृथक् ।
कुर्यादिह विशेषेण क्षेत्रेशं तस्य मार्गतः ॥ ७८ ॥

परिवाराणि सर्वाणि कुर्यात् तत्र विधानतः ।
पूर्वोक्तेन विधानेन कुर्यात् संकर रौद्रयोः ॥ ७९ ॥

एवमेव प्रकारेण कुर्याच्छिल्प विधानतः ।
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने ॥ ८० ॥

स्थिरे वा मृतयोगेषु अन्यस्मिस्तु शुभे तथा ।
शुभवारे स्थिरे लग्ने शुभांशे सुमुहूर्तके ॥ ८१ ॥

यजमानानुकूलर्क्षे शक्त्येस्तु स्थापनं शुभम् ।
प्रासादाद्यस्य रूपेण मानं कुर्यात् तु शक्तिकम् ॥ ८२ ॥

प्. १६०)

शक्त्यास्तु विधिमानेन कुर्यस्तु शन्करादिकान् ।
वाहनानि च चिन्नानि आसनादि तथा बुधान् ॥ ८३ ॥

तत्तन्मार्गविधानेन कुर्यादायव्ययादिकान् ।
प्रासादस्याग्रतः कुर्यान्मण्डपं चतुश्रकम् ॥ ८४ ॥

पञ्चहस्तसमायुक्तं षोडशं द्वादशं तु वा ।
षट्सप्त वसु हस्ता वा रन्ध्रहस्तमथापि वा ॥ ८५ ॥

दशहस्तान्तरं वापि चतुर्द्वारसमन्वितम् ।
नवभागैक भागे तु मध्ये वेदी प्रकल्पयेत् ॥ ८६ ॥

वेदिकायास्तु परितः नवकुण्डानि कल्पयेत् ।
गोमये लेपनं कृत्वा स्तण्डिलोद्धे परिन्न्यसेत् ॥ ८७ ॥

चतुस्तोरण संयुक्तदर्भमालां निरावृतम् ।
शक्त्यास्तु वेदिकाबाह्ये स्थापनं स्थानवेदिका ॥ ८८ ॥

त्रिहस्तं पञ्चहस्तं च विस्तृतन्नव वेदिका ।
अस्तमात्र समुत्सेथो स्तस्यास्तस्य चतुर्दशि ॥ ८९ ॥

वृत्तं वा चतुरश्रं वा कुण्डानि परितक्षिपेत् ।
प्रधानशक्तिदुर्गायां योन्याकाराणि कारयेत् ॥ ९० ॥

अचलस्थापने काले कूर्चाभिदर्पणैस्सहा ।
जलाधिवासनं कुर्यात् दक्षि मोक्षवसानके ॥ ९१ ॥

प्. १६१)

नद्यां वापि तटाके वा जलमध्ये प्रपां कुरु ।
दर्भमालाभिरावेष्ट्य वामादि शक्तिकान्न्यसेत् ॥ ९२ ॥

प्रतिमाशुद्धिं कुर्विता प्रत्येकं तु विशेषतः ।
सर्वालङ्कारसंयुक्तं वाहनादिषु बुद्धिमान् ॥ ९३ ॥

प्रत्येकं वस्त्रमावेष्ट्य बिम्बानि च विशेषतः ।
कूर्चयुक्तं विशेषेण जलमध्ये निवेशयेत् ॥ ९४ ॥

पञ्चरात्रं त्रिरात्रं वा व्योमरात्रिमथापि वा ।
दिवसार्द्धं न्तर्द्धं वा तदर्द्धर्धमथापि वा ॥ ९५ ॥

प्रत्येकं तु न्यसेत् पश्च जलादुत्तिर्य वेदिकाम् ।
पञ्चगव्येन संस्नाप्य प्रत्येकं तु विशेषतः ॥ ९६ ॥

शयनादीनि सर्वाणि प्रत्येकं विधिना बुधः ।
मध्यादीशानपर्यन्तं वर्द्धनीश्च न्यसेद्बुधः ॥ ९७ ॥

वस्त्रादिभिस्समायुक्तं गन्धपुष्पादिभिर्यजेत् ।
आर्यादिशक्तयस्सर्वे वर्द्धनीषु न्यसेत् क्रमात् ॥ ९८ ॥

महाबेरविधाने तु दर्पणे तु कृते पृथक् ।
याज्ञिकैस्तरुभिः कुर्यात्सर्वः सुच विशेषतः ॥ ९९ ॥

समिच्चरुघृतक्षीरमाषमुद्गप्रयङ्गवः ।
तिलसर्षपनीष्पावगुलमेकादशं तथा ॥ १०० ॥

तत्तद् ब्रह्माङ्गकैः मन्त्रैहोमं कुर्यात् पृथक् पृथक् ।
द्रव्यान्ते व्यहृतीं हुत्वाबिम्ब कूर्चेन संस्पृशेत् ॥ १०१ ॥

देशिकश्च पृथग्भूत्वा सुमुहूर्तेन बुद्धिमान् ।
शक्तिक्तैश्च देशिकानुज्ञां कुर्यात्सर्वे च देशिकाः ॥ १०२ ॥

प्. १६२)

दिशास्वध्यायनं कुर्यात् प्रत्येकं सर्वतो दिशि ।
आद्यावन्ते च सर्वत्र पुण्याहं वाचयेद्बुधः ॥ १०३ ॥

पवमानेन संप्रोक्ष्य ब्रह्मघोषसमन्वितम् ।
एवं जागरणं रत्रौ प्रभाते स्नानमाचरेत् ॥ १०४ ॥

आचार्याय शुचिभूत्वा प्रत्येकं च विशेषतः ।
शयनाद्बिम्बमुद्धृत्य बिम्बादन्यत् समर्पणम् ॥ १०५ ॥

गन्धादिभि समभ्यर्च्य मन्त्रन्यासं तदादितः ।
घृतशिरोर्पणं कुर्यात् प्रत्येकं च विशेषतः ॥ १०६ ॥

मध्यमादिनि कुम्भानि अभिषेकं समाचरेत् ।
आर्यादि भगवत्यन्तं तस्यां वै विन्यसेद् बुधः ॥ १०७ ॥

तस्यास्तु मध्यदेशेन मनोन्मनीन्मूलमन्त्रतः ।
एवमेव प्रकारेण कुर्याद् वै शङ्करादिषु ॥ १०८ ॥

प्रोक्ष्याभषेचनं कृत्वा महाबेर विशेषतः ।
दर्पणेष्वभिषेकं स्यात् तत् तन्मूले महाम्बिके ॥ १०९ ॥

आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ।
गोभूमिकां च नाद्यैश्च पूजयेत् तु पृथक् पृथक् ॥ ११० ॥

होतारं च हविर्दद्यात्ताम्बूलं च विशेषतः ।
अन्ते महोत्सवं कुर्यात् चलं चैव विशेषतः ॥ १११ ॥

अचल स्थापने काले दर्पणे च विशेषतः ।
अनुक्तानि च सर्वाणि कुर्यात् तत् तद्विधानतः ॥ ११२ ॥

प्. १६३)

सर्वेषां समयानां तु शैवमेव प्रधानकम् ।
ब्रह्माविष्णुश्च रुद्रश्च त्रिमूर्त्तिरिति कथ्यते ॥ ११३ ॥

तस्यादिन्द्रश्च विघ्नेश पञ्चमूर्तिरिति स्मृतम् ।
तस्मास्कन्दं तथा दुर्गासप्तमुर्तिरिति स्मृतम् ॥ ११४ ॥

असनस्था च या गौरिमिश्रे सकल शङ्करा ।
विघ्नेशं च तथा चार्याशास्तुश्चैव विशेषतः ॥ ११५ ॥

मिश्रशक्तिरिति ज्ञेया सर्वसिद्धिकराय च ।
पञ्चमूर्तिरिति ज्ञेया सदाविजय वद्धनम् ॥ ११६ ॥

ब्रह्मा विष्णुश्च रुद्रश्च ज्येष्ठां गौरिं सरस्वतिम् ।
एकमूर्तिस्थिता सर्वे षण्मूर्तिरिति चोच्यते ॥ ११७ ॥

तेषां पुरस्तात् क्षेत्रेशं नागं वा यदि संभवम् ।
तन्तु सङ्कर संज्ञेयं सर्वप्राणिहितं भवेत् ॥ ११८ ॥

ऐतेष्वेतेषु भेदेषु शवमार्गेण कारयेत् ।
अन्यथा यदि कुर्याच्चेद् ग्रामादेन्न शतधृवम् ॥ ११९ ॥

तस्मात् सर्वप्रयत्नेन कुर्याद् वै कामिकादिभिः ।
तेषु तेषु च भेदेषु हरिर्वा यदि संभवेत् ॥ १२० ॥

तं तु शैवमितिख्यातं शैवतन्त्रेण कारयेत् ।
बौद्धादिषु च भेदेषु शेषु आस्नादेश्चैव मूर्त्तयः ॥ १२१ ॥

एकस्मिन्सम्भवे देशे तं तु शैवमिति स्मृतम् ।
पश्चिमानन विष्णोस्तु शक्त्यादीनां तु देशिकः ॥ १२२ ॥

प्. १६४)

सा शक्तिपश्चिमा वक्त्रं तदा वैष्णवमुच्यते ।
वैघानसे पाञ्चरात्रेः कुर्यादस्मिन्विशेषतः ॥ १२३ ॥

वृषभं यत्प्रदेशे तु सर्वथा संभवं यदि ।
शैवभेदमिति प्रोक्तं शुद्धशैवस्तु ताण्डवः ॥ १२४ ॥

एवं बहुप्रकारेण लक्षयेत् लक्षवित्तमः ।
शैवादन्यात् समायाति कुर्यदज्ञान पूजिता ॥ १२५ ॥

पश्चाञ्चैवप्रतिष्ठाया सर्वदोषहरं नृणाम् ।
अर्चनायागहीने तु चिरकालं विशेषतः ॥ १२६ ॥

अन्यमार्गप्रकारेण मोहेन तु विशेषतः ।
ग्रामानिष्टभयं चैव सर्वसत्रविवर्द्धनं ॥ १२७ ॥

तस्मात्सर्वप्रयत्नेन शैवमार्गप्रतिष्ठितम् ।
दशसंवत्सरादूर्ध्वं पूजाहीनं हि संभवेत् ॥ १२८ ॥

पुनरावाहनं कुर्यात् प्रोक्षणं वा समारभेत् ।
स्थापनोक्तक्रमेणाथ प्रतिष्ठां सम्यगारभेत् ॥ १२९ ॥

प्रायश्चित्तोक्तमार्गेण एकवान् परितो भवेत् ।
स्फोटकं त्वथ जीर्णं वा एकाङ्गं सकलाङ्गकम् ॥ १३० ॥

सर्वाङ्गानां क्षयं दृष्ट्वा कुर्यात् पूर्वोक्तमार्गतः ।
प्रासादं तच्छरीरं स्यात् तस्मास्थाणुं न तिष्ठति ॥ १३१ ॥

पुनस्थापनमार्गेण कुर्यादि हि विशेषतः ।
गौरिप्रधानं वा कश्चिद् विघ्नेशस्य प्रधानकै ॥ १३२ ॥

प्. १६५)

भगवत्य प्रधानं तु शङ्करस्य प्रधानकः ।
शस्तु प्रधानतः कश्चित् कश्चित् ज्योति प्रधानके ॥ १३३ ॥

कश्चित् स्कन्दप्रधानं तु कश्चित्कालि प्रधानके ।
कश्चिद् विष्णुप्रधानं तु शङ्करस्य प्रधानकम् ॥ १३४ ॥

द्विमूर्ति त्रित्रिमूर्तिश्च पञ्चमूर्तिरतः परम् ।
सप्तमूर्ति सप्तधा चाष्टं नवमूर्तिर्दूशैव च ॥ १३५ ॥

गौरार्यादि भास्करं ताञ्च प्रधानं वाहनानि च ।
प्रधानं पास्समीपे तु पूर्वोक्तानि च देवता ॥ १३६ ॥

स्थापनं यदि लोकेषु कुर्याञ्चैव तु तदृशम् ।
एतानि सर्वभेदानि कुर्यादस्मित् विशेषतः ॥ १३७ ॥

गौर्यास्तु स्थापनं प्रोक्तं शैवभेदं शृणुष्वधा ॥ १३७½ ॥

इति सूक्ष्मशास्त्रे गौरिस्थापनं नाम षट्त्रिंशपटलः ॥

अतः परं प्रवक्ष्यामि पार्वतीलक्षणं परम् ।
सर्वलोकहितार्थाय सर्वोपद्रविनाशनम् ॥ १ ॥

अङ्गनानां हितार्थाय सर्वमङ्गलहेतवे ।
मूललिङ्गस्य शोभार्थं लीलार्थं वा विशेषतः ॥ २ ॥

प्. १६६)

शयनाङ्गाना यथा मस्तु मूलधामस्य शाङ्करे ।
पावके नै-ऋते चैव वेसरं कल्पयेद् बुधः ॥ ३ ॥

अन्तर्मण्डलबाह्ये तु अन्तर्हारा सुपाश्वके ।
मध्यमस्य तु हाराया मन्तो बाह्यं न कारयेत् ॥ ४ ॥

प्रासादमण्डपं वापि गोपुराकारमेव हि ।
मालिकाकारमेवं स्याद् ब्राह्मणादि क्रमेण तु ॥ ५ ॥

सर्वेषामेव जातीनां द्राविडं धाममुच्यते ।
प्रकारभित्तिबाह्ये वा भ्यन्तरे वा विशेषतः ॥ ६ ॥

मूलप्रासादबाह्ये तु प्रासादाभ्यन्तरेथवा ।
सूत्रबन्धौ तु कर्तव्यं शत्रुनाशनम् ॥ ७ ॥

प्राकारचलनं नेष्टं इष्टं चैत् सर्वदोषदम् ।
यजमानाय तदेदाषं सर्वथा तु न कारयेत् ॥ ८ ॥

इषुहस्तप्रमाणेन प्रासादादीन् प्रकल्पयेत् ।
नवहस्तात्समारभ्य विंशद्धस्तं तमेव च ॥ ९ ॥

ब्राह्मणादि क्रमेणैव वर्द्धयेत् तु त्रयं त्रयम् ।
पञ्चहस्तात् समारभ्य पञ्चदशकरान्तकम् ॥ १० ॥

अन्तराणां तु जातिनां उक्तंमेन्द्रकनियसम् ।
त्रिहस्तं तु समारभ्य रुद्रहस्तान्तमेव च ॥ ११ ॥

सर्वेषां जातियुक्तश्चेन्मानं चैव प्रकिर्तितम् ।
विस्तारद्विगुणोत्सेधं पादो न तु तदर्थकम् ॥ १२ ॥

प्. १६७)

अग्रतो मण्डपं कुर्यात् प्रासादार्थप्रमाणतः ।
प्रासादपरितः कुर्यात् समीपे तथैव च ॥ १३ ॥

सालकर्मं न कर्तव्यं न समीपे बुधोनरः ।
अग्रमण्डपबाह्ये तु नृत्तमण्डपमुच्यते ॥ १४ ॥

तस्याग्रे बलिपीठं तु पञ्चाङ्गसहितं ततः ।
शिल्पशास्त्रोक्तमार्गेण पीठं कुर्यात् सलक्षणं ॥ १५ ॥

वीरे सम्यक् समाख्यातं योगे क्रमेण कल्पयेत् ।
स्वयमुद्भूतलिङ्गस्य दैविकार्षयकोरपि ॥ १६ ॥

असुरस्य तु बाणस्य प्रासादाः शेनधामकम् ।
पौरुषस्य तु लिङ्गस्य धामं गर्तेन कारयेत् ॥ १७ ॥

प्रासादस्य समं तारं पादोनं वार्धमेव वा ।
पादं वापि प्रकर्तव्यं मुत्सेधं पूर्ववद्भवेत् ॥ १८ ॥

एवमेव विधानेन कुर्याद् देवालयं बुधः ।
पौरुषस्य तु लिङ्गस्य धामङ्गत्तेन कारयेत् ॥ १९ ॥

प्रासादस्य समं तारं आलयं दक्षिणे दिशि ।
स्वयमुद्भूतलिङ्गस्य आलयञ्चाष्टदिक्ष्वपि ॥ २० ॥

कारयेत् तु विशेषेण कुर्यादि सहितं बुधः ।
सौवर्णाद्यैर्विशेषेण कारयेत् च्छयनाङ्गनाम् ॥ २१ ॥

तेषामभावे शुद्धेन नाश्मना दारुणाथवा ।
तेषामभावे भित्तौ तु निद्राशक्तिं च कारयेत् ॥ २२ ॥

प्. १६८)

पटे वा फलकायां वा पार्वति कारयेद्बुधः ।
तस्मात् सर्वप्रयत्नेन शयनार्थं मनोन्मनि ॥ २३ ॥

कारयेत् सूत्रलिङ्गस्य मानं मानाङ्गुलेन तु ।
पञ्चाशद् द्व्यङ्गुणेनैव कारयेदुत्तमं बुधः ॥ २४ ॥

तस्मात् पञ्चाङ्गुलं हिना नवप्रत्येकदानकम् ।
एकत्रंशाङ्गुलारभ्य अश्वन्यगुल हीनकम् ॥ २५ ॥

प्रत्येकं नवमानं स्याद् दशपञ्चान्तकं क्रमात् ।
मात्राङ्गुलेन वा कुर्याद् यजमानाङ्गुलेन वा ॥ २६ ॥

एवमङ्गुलमानेन नवमानां दशाधिकम् ।
मूललिङ्गसमं दैर्घ्यं मुत्तमामानमिष्यते ॥ २७ ॥

तदर्थं कन्न्यसं प्रोक्तं तयोर्मद्येष्टभाजिते ।
प्रत्येकं नवमानं स्याद् उत्तमादि त्रयत्रयम् ॥ २८ ॥

यस्य लिङ्गस्य चायामं नवांशं भजेयेत्समम् ।
प्रत्येकं नवमानं स्यात् पूजांशं सदृशं कुरु ॥ २९ ॥

उत्तमाननमेवं स्यात् पूजाशार्थं हि कन्यसम् ।
तयोर्मध्येऽष्टभागे तु प्रत्येकं नवमानकम् ॥ ३० ॥

पीठोत्सेधं समं दीर्घं द्विगुणत्रिगुणं तु वा ।
उत्तमं मध्यमं चैव अधमञ्चेति कथ्यते ॥ ३१ ॥

पीठविस्तारमानं तु पञ्चांशं भाजयेत् ततः ।
एकाशाधिकमानेन उत्तमं दीर्घमुच्यते ॥ ३२ ॥

प्. १६९)

पञ्चांशकन्यसं विद्यात् तयोर्मध्येऽष्टभाजिते ।
प्रत्येकं नर्ममानस्यात् कर्णमानं तथैव च ॥ ३३ ॥

एवं पौरुषलिङ्गस्य आयामं देवि तुगकम् ।
लिङ्गमानादिभिर्मानैर्मानैः कुर्यात् तु तां प्रति ॥ ३४ ॥

प्रासादस्य तु विस्तारं नवाशं भजयेत् ततः ।
उत्तमं मध्यमं चैव अधमं तु त्रिधा पुनः ॥ ३५ ॥

प्रासादस्य तु विस्तारं सप्तभागैर्विभाजयेत् ।
पञ्चांशमुत्तमं विद्यात्रियंशं कन्न्यसं भवेत् ॥ ३६ ॥

श्रेष्ठं कन्न्यसयोध्ये उत्तमं भाजयेत् समम् ।
प्रत्येकं नवमानं स्याद्वारस्तम्भो विशेषतः ॥ ३७ ॥

यस्य गर्भगृहं तारं नावाशं भजयेत्समम् ।
एकैक तुङ्गमानं स्यान्नवधा भेदमुच्यते ॥ ३८ ॥

गर्भार्द्धं कन्यसं विद्यात् पञ्चांशं तुर्यथांशकम् ।
उत्तमं मानमाख्यातं तयोर्मध्येऽष्ट भाजिते ॥ ३९ ॥

तानि प्रत्येकमानस्यात् कर्णमानं तथैव च ।
स्वायम्भुवादिलिङ्गानां पूजांशं द्विगुणोच्छ्रयम् ॥ ४० ॥

पूजांशं त्रिशमाधिक्यं उत्तमं मानमुच्यते ।
मध्यमं द्विगुणं दैर्घ्यं तत्समं दैर्घ्यमुच्यते ॥ ४१ ॥

मध्यमं चोत्तमं चैव अधमं चेति कत्थ्यते ।
पूजांशं नवधा भज्य एकैकं मानमुच्यते ॥ ४२ ॥

प्. १७०)

यस्य लिङ्गस्य पूजांशं दशांशं भजयेत्समम् ।
तस्मात् त्रियंशमधित्यमुत्तमोत्तममुच्यते ॥ ४३ ॥

मध्यमं द्वादशांशं तु तस्मादेकांशहीनकम् ।
अधमं मानमेवोक्तं क्षुद्रलिङ्गस्य चोच्यते ॥ ४४ ॥

यस्य लिङ्गस्य चायामे षोडशांशं विभाजिते ।
तेषु मुख्या नवांशस्याच्छेषांशं कन्यसत्रयम् ॥ ४५ ॥

लिङ्गस्य परिणाहं स्यात् समं स्याद् देवि तुङ्गकम् ।
द्विगुणं मध्यमं चैव त्रिगुणं चोत्तमं स्मृतम् ॥ ४६ ॥

अंशं तु विभजेत् तेषु पूर्ववत् कारयेत् क्रमाद् बुधः ।
विष्कभं त्रिगुणं तुङ्गं द्विगुणं तत्समं तु वा ॥ ४७ ॥

उत्तमं मध्यमं चैव अधमं च त्रिधा भवेत् ।
लिङ्गस्य कर्णमानेन पूर्ववत् प्रारभेत्सुधिः ॥ ४८ ॥

पौरुषस्य तु लिङ्गस्य सूत्रमानेन कारयेत् ।
आयव्यय क्षवाराष्टौ योन्यंशकशुभं नयेत् ॥ ४९ ॥

यजमानानुकूलेन नक्षत्रेण समन्वितम् ।
सशक्त्यैस्सर्व संपत्यै राजाराष्ट्राभिवर्धये ॥ ५० ॥

तस्मात् सर्वप्रयत्नेन आयादिसहितं कुरु ।
निश्चित्य पार्वतितुङ्गं मानां शूलेन भजयेत् ॥ ५१ ॥

वसुनंदगुणैर्वृद्धि कुर्यात् मानाङ्गुलाद् बुधः ।
भानुनाडि हृदे सम्यक् शेषमायादिकं भवेत् ॥ ५२ ॥

प्. १७१)

तेन पीठं पीथं प्रविस्तारं पूर्वत् कारयेत् सुधिः ॥
अष्टाभिवृद्धिते तच्च सप्तविंशतिभूषिते ॥ ५३ ॥

शेषं नक्षत्रमेवं स्याल्लोकसन्तान कारणे ।
नवभिवृद्धितं चैव सप्तभिर्भाजयेद् बुधः ॥ ५४ ॥

शेषं वारमिति प्रोक्तं नक्षत्रं च चतुर्गुणम् ।
नवभिस्तु हदे तत्र शेषमंशकमादिशेत् ॥ ५५ ॥

सूर्यभौमार्किकाकृष्टशेषा वै शोभनास्मृता ।
आयाधिक्यं शुभं विद्याद् व्ययाधिक्यमशोभनम् ॥ ५६ ॥

धूमश्वान खरौ काकनग्राह्यच्छभमिच्छताम् ।
एवं प्रकारमार्गेण पीठोत्सधं तु दक्षिणे ॥ ५७ ॥

पीठक्ष शक्तिरक्षं तु परस्परशुभं भवेत् ।
प्रतिकुलं न कर्तव्यं अनुकूलाच्छुशुभं भवेत् ॥ ५८ ॥

एवमेव प्रकारेण प्रतिमारम्भकालके ।
लक्षयेत् षट्शुभं सम्यग् यथा तत्र न कारयेत् ॥ ५९ ॥

रक्षगणं च महेन्द्रं योनिस्त्रिराक्षमेव तु ।
वेधं रज्जुं च राशीं च वश्यं राश्याधिपं तथा ॥ ६० ॥

तेषां शुभाशुभं विद्याद्बिम्बक्षेण परिक्षयेत् ।
यजमानस्य रक्षेण शुभाशुभं परिक्षयेत् ॥ ६१ ॥

शुभाधिक्या व्ययाहिनं सा शक्तिः सर्वसंपदा ।
शुभहिनं व्ययधित्यं सा गौरि सर्वदोषदा ॥ ६२ ॥

एवमेव प्रकारेण कारयेद् देशिकोत्तमः ।
अन्यथा कारयेद् बिम्बं राजा राष्ट्रं विनिश्यति ॥ ६३ ॥

प्. १७२)

देवतार्चनसान्निध्यं तस्मात् तान् लक्षयेत् सदा ।
इदमन्यप्रकारेण विशेषं चोच्यते मया ॥ ६४ ॥

पार्वत्युत्सवमानं तु एकत्रिंशति भाजयेत् ।
तानि भागानि संगण्य द्वादशेन तु दण्डयेत् ॥ ६५ ॥

अष्टभिर्जायते शेषमायं तत्र विधीयते ।
षोडशैर्गुणितं कृत्वा तानि भागानि पूर्ववत् ॥ ६६ ॥

आधिक्ये तुङ्गमानं स्याच्छुभं तत्र विधीयते ।
प्राप्तोत्सेधस्य मानं तु एकोनत्रिंशदङ्गुलम् ॥ ६७ ॥

कृत्वासम्यग् विशेषेण गणये दशवायुना ।
तानि सर्वाणि संहृत्य सप्तभिः शेषकं व्ययम् ॥ ६८ ॥

नवभिर्गुणितं तानि षड्भिस्सम्यक् हृदे पुनः ।
शेषो व्यय इति ख्यातो व्ययहीनं शुभं भवेत् ॥ ६९ ॥

प्रकृतस्सप्तविशद्भिगुणितं वा विशेषतः ।
तानि भागानि गणयेद्वारेण मतिमान्नरः ॥ ७० ॥

सप्तविंशतिभिर्भृत्वा शेषं नक्षत्रमादीशेत् ।
गणयेद्दशभिस्तानि सप्तविंशतिभिर्हृदे ॥ ७१ ॥

शेषनक्षत्रकं विद्यात् पूर्वलक्षण लक्षयेत् ।
उत्सेधं भूमिभिर्गण्यं तानि चाष्टानि वर्धयेत् ॥ ७२ ॥

मुनिभिर्भाजयेच्छेषं वारं तत्र विधीयते ।
भानितानि च सङ्गण्य द्वादशेन विशेषतः ॥ ७३ ॥

प्. १७३)

सप्तभि भोजयेत् च्छेषं सूर्यादेर्वारमुच्यते ।
आवर्त्तो सेत्थमानं तु तुर्भिगुणयेत् क्रमात् ॥ ७४ ॥

अष्टाभिर्हासकं कुर्यात् शेषं योनिरिति स्मृतम् ।
आस्तोत् सेधस्य भागानि गुणेन गुणितं यथा ॥ ७५ ॥

अष्टभिर्भाजयेत् च्छेषं योनिरत्र विधीयते ।
पूर्वोक्तविधिमार्गेण शुभाशुभं हि लक्षयेत् ॥ ७६ ॥

एवमेव प्रकारेण कारयेद् देशिकोत्तमः ।
आयाधिक्ये व्ययाहीने मानं तत्समपात्पदम् ॥ ७७ ॥

आयं हीनं व्ययं मुख्यं मानं तत्सर्वदोषदम् ।
तस्मात् सर्वप्रयत्नेन आयाधिख्येन योजयेत् ॥ ७८ ॥

तेषां नक्षत्रकं मुख्यं सर्वहितावहम् * * ।
नक्षत्राधिपति चन्द्रः तस्मात् प्राधान्यकं शुभम् ॥ ७९ ॥

अंशवारौ तथैव स्याद् देवतामय तत्फलम् ।
एवं बहुप्रकारेण कारयेद् देशिकोत्तमः ॥ ८० ॥

येनमानेन निर्माण तेन मानेन कारयेत् ।
प्रधामारम्भकाले तु शुभाशुभं विचारयेत् ॥ ८१ ॥

यस्य संस्थापितं गर्भं तस्य मेवं तु कारयेत् ।
गृहितोत्सेथमानं तु पञ्चांशं भाजयेत् ततः ॥ ८२ ॥

एकांशं पीठककोत्सेधं चतुर्भागैक भागिकम् ।
त्रियंशे कांशमुत्सेथं षडिधं पीठिकोच्छ्रयम् ॥ ८३ ॥

प्. १७४)

उत्सेथं त्रिगुणोन्तारं द्विगुणंतरमेव वा ।
चतुर्गुण नवा कुर्यात् पञ्चाङ्गं सहितं पुनः ॥ ८४ ॥

मङ्गलाप्रतिमारम्भे शुभाशुभानि लक्षयेत् ।
तेन रूपेण मार्गेण न्यस्त्वा सङ्ग्राह्ययेद्बुधः ॥ ८५ ॥

तरूपं लोपयेत् तत्र मनोशुद्धि मा विच्छरेत् ।
सुमुहूर्त्ते सुलग्ने तु प्रतिमारम्भयेत् सुधि ॥ ८६ ॥

मन्त्रेण स्थापितं गर्भं ब्रह्मसूत्रसमन्वितम् ।
येन द्रव्येण निर्माणं तेन द्रव्येण कारयेत् ॥ ८७ ॥

लोहादिभिः कृतं बिम्बं लक्षणेन विना कृतम् ।
स्तत्बिम्ब स्थापयेन्मोहात् पूजानाशमवाप्नुयात् ॥ ८८ ॥

प्रतिष्ठार्चन कर्तव्यं स्थानन्तरनिवेशयेत् ।
स्थानान्तरविधानेन क्षेपयेत् प्रतिमं बुधः ॥ ८९ ॥

प्रतिष्ठां तत्र कर्तव्यं भक्त्या तत्रैव पूजयेत् ।
देवानां तु कृता लोहं साङ्गोपाङ्गं विशेषतः ॥ ९० ॥

किञ्चिल्लक्षणसंयुक्तं त्वमेवस्थापयेद् बुधः ।
द्रव्यनामं न कुर्यात् तु द्रव्यनामं न लेपयेत् ॥ ९१ ॥

तस्मात् सर्वप्रयत्नेन लब्वादौ तु प्रकल्पयेत् ।
एवं वै दानवादीनां च्छत्रादीनां तथैव च ॥ ९२ ॥

लोपक्रिय न कर्तव्यं कर्तव्यं चेन्महद्भयम् ।
लोके तु कलहं रूपं संभ्रान्तं सकृतं यदि ॥ ९३ ॥

प्. १७५)

तेन कारणमार्गेण रूपं सर्वत्र हानि च ।
लोके मानुषरूपं स्यात् र्त्याम्या यदि बन्धवाः ॥ ९४ ॥

किमिदं देवरूपं तु ह्रासकार्यं न सर्वथा ।
पुराणान्निजबिम्बं च पुनं सन्धानमाचरेत् ॥ ९५ ॥

ब्रह्मकायादि नक्त्यानि कारयेद् विधिना बुधः ।
शिलारूपं न कर्तव्यं कर्तव्यं दोषदं भवेत् ॥ ९६ ॥

एवं परीक्ष्य विधिना कारयेद् देशिकोत्तमः ।
मध्यमं दशतालेन निन्द्रारूपं हि कारयेत् ॥ ९७ ॥

उष्णिषमङ्गुलं प्रोक्तं त्र्यङ्गुलं शिर उच्यते ।
त्रयोदशाङ्गुलं वक्त्रं अर्द्धाङ्गुलगलस्मृतम् ॥ ९८ ॥

तस्मात् त्र्यङ्गुलार्द्धं तु हि काकमेढ्रन्तमेव च ।
मुखद्वयमिति प्रोक्तं ऊरुमान मुखद्वयम् ॥ ९९ ॥

द्विकोलजानुमानं तु जङ्घा द्विमुखमुच्यते ।
भागं पादतलं प्रोक्तं पूर्वोक्तेन तु विस्तरम् ॥ १०० ॥

उष्णीवात्भ्रूध्वये मध्ये नास्योष्णीष हनुमध्यमे ।
अङ्गुले नाभिवामे तु गुल्पवामे द्वयङ्गुलम् ॥ १०१ ॥

नेत्रान्तं तु तथैवं स्यात् पञ्चमायात्रितिभृवा ।
तन्मध्ये द्विविधं प्रोक्तंमग्रमर्द्धयवं स्मृतम् ॥ १०२ ॥

यवद्वयमयं चास्यात् उत्तराधरचर्मणा ।
यवं किनीनिकायामं विस्तारं च तथैव च ॥ १०३ ॥

प्.१७६)

येन यामत्रिभागं स्यान्मध्यमं कृष्णमण्डलम् ।
कर्णयोर्मध्यमे पृष्ठे द्वादशाङ्गुलविस्मृताम् ॥ १०४ ॥

तुण्डाग्राच्छिखिपालयन्तं चतुर्यवं च पाकृतिः ।
केशान्तं चर्भपश्चान्तं द्वयङ्गुलं द्वयवाधिकम् ॥ १०५ ॥

दृष्टियूनं समानं स्यात् तथैव मुनिनामकम् ।
कृष्णानि पक्ष्मरोमाणि प्राहुन्नवति सङ्ख्यया ॥ १०६ ॥

धनुरुत्पलमत्स्याभं लोचनादूरमुच्यते ।
द्वयवं तु भ्रुवोर्मध्ये पदमें मुनिपुङ्गवा ॥ १०७ ॥

गोजिमूलादिनासाग्रं भागषड्यवमुच्यते ।
त्रियङ्गुलं तु विस्तारं भ्रूवोच्छ्रायोर्यवद्वयम् ॥ १०८ ॥

पदपञ्चपटोज्ञेया षड्यवं पुष्करोच्छ्रयम् ।
एवमेवोच्छ्रयं कुर्याद्विस्तारस्य तथैव च ॥ १०९ ॥

पुनयोरुच्छयोर्मात्रषड्यवं स्यात् स उच्यते ।
तिलप्रसूनमानं स्यात् दर्द्धैकद्वयहत्रिकम् ॥ ११० ॥

यवलम्बं तु नासाग्रं क्रमेण परिकल्पयेत् ।
आधारान्तं पुटं सूत्रं यवोपेतद्विमात्रकम् ॥ १११ ॥

चतुर्मात्रयेवोपेतामस्यायामं प्रवक्ष्यते ।
विस्तारं चोत्तरोष्ठस्याः यवत्रितियमिष्यते ॥ ११२ ॥

पालिका यवामेस्यात् त्रिवक्त्रं तथैव इष्यते ।
यवार्धं गोजिनिम्बं स्यादुत्सेधं तु चतुर्थवम् ॥ ११३ ॥

प्. १७७)

यवद्वयं तदर्धं वा गोजिमूलस्य विस्तरा ।
विस्तारमधरोष्टस्या विद्युमात्रयवाधिकम् ॥ ११४ ॥

प्रवातस्य तु विस्तारं यवसप्तकमिष्यते ।
अर्धाधिकं यवं प्रोक्तं मधरस्य तु पालिका ॥ ११५ ॥

अङ्कुरद्वियवायामं पक्वं बिम्बफलोत्तमम् ।
हरेस्तस्योन्नति विद्यात् षडव्यं दर्शना न तु ॥ ११६ ॥

द्वात्रिंशत् त्रियवं तेषां मुच्छ्रायोगेन ता परम् ।
अधो दन्तस्तधाष्टांशं हि न मूर्धे तु षोडशा ॥ ११७ ॥

जिह्वा षड्यवविस्तारं तथा यामं गुलोच्छ्रयम् ।
त्रिमात्रं ह्यनुक्रमं कुर्याद् द्वियवत्रयमुन्नति ॥ ११८ ॥

यवनिम्नान्तदूर्ध्वं स्यात् त्रिमात्रं निर्गतिर्गति ।
भव्यसोहनुव्र * स्यादेकमात्रं द्वियंतिति ॥ ११९ ॥

एकाकारं ततज्ञेयो पूर्णेन्दु सदृशें मुखम् ।
ऊर्ध्वं पद्मभ्रुवोर्मध्ये यवाधिकयवत्रयम् ॥ १२० ॥

कर्णस्य सुषिरं मात्रं विस्तारं तु चतुर्यवम् ।
द्वियवं कर्णपाल्यं तत्समं कर्णस्य पट्टिका ॥ १२१ ॥

कर्णपालार्धमात्रं स्यात् कर्णनालं तु मात्रकम् ।
लकार सदृशं कर्णं पूर्वाचार्येण भाषितम् ॥ १२२ ॥

अर्धमात्रिक्तारोच्चं पिच्छिष्टि चतुरङ्गुलम् ।
पूर्वौ परौ तु नालौ तु स्वयमेव विलम्बनौ ॥ १२३ ॥

प्. १७८)

अङ्गुलेन बिलम्बित्वं भवेत् कर्णविलम्बिना ।
अपाङ्गात्कर्णमूलान्तं सप्तमात्रयवत्रयम् ॥ १२४ ॥

ललाटस्य तु तारं स्यान्नवमात्रार्धमीरितम् ।
पूर्वकेशान्तमुष्णीषात्प्रभृत्याष्टाङ्गुलं भवेत् ॥ १२५ ॥

दन्तादिपाश्वकेशान्तं त्रयोदश्याङ्गुलंष्यते ।
त्रयोदशार्धमेवं स्यात् पृष्ठकेशायवस्मृतः ॥ १२६ ॥

भ्रुवपृष्ठे चतुर्मात्रं शूर्पाकारं तदिष्यते ।
कुकुटा कटिसन्धिं स्यात् सप्तविंशतिमात्रकम् ॥ १२७ ॥

मध्ये पक्षांशमित्याहुयोनिमध्ये यवान्ततः ।
समण्डलस्य विस्तारमुपस्थं तु दशाङ्गुलम् ॥ १२८ ॥

त्रयोदशार्धमात्र स्यात् कटिपृष्ठान्तमध्यमम् ।
नवमात्रार्धविस्तारं चतुरङ्गुलमुद्गमम् ॥ १२९ ॥

पृष्ठमण्डलमध्यस्तं वै मारुतं तदर्धकम् ।
भ्रुवमूलाग्रविस्तारं रेखात्रयसमन्वितम् ॥ १३० ॥

षोडशाङ्गुलविस्तारमुपबाह्याङ्गुलं भवेत् ।
हिक्का सूत्रादि कक्षान्तं दशमात्रार्धमिष्यते ॥ १३१ ॥

चतुर्मात्र द्विमात्रं च क्रमादेकार्धमात्रकम् ।
हिक्कसूत्रोपरि स्कन्धग्रीवमूलाद् भुजो विधि ॥ १३२ ॥

सप्तविंशति मात्रं स्यात् हिका सूत्रात् प्रभृत्यथा ।
भुजयामा तथा मात्रं कोर्परस्य त्रमात्रकम् ॥ १३३ ॥

प्. १७९)

प्रकोष्ठमेकविम्शद्विश्छतलस्यात् सप्तमात्रकम् ।
अर्धार्धमर्धमात्रार्धं मध्यमाङ्गुलमिष्यते ॥ १३४ ॥

षट्सूत्रा तर्जनिप्राहुयवाधिकमनामिकम् ।
अर्धाधिक चतुर्मात्रात् कनिष्ठाङ्गुष्ठयोर्विद ॥ १३५ ॥

नवमात्रं भवेद् भाहुं ऊरूनागस्य विस्तरम् ।
विस्तारं बाहुमात्रं स्यात् तथा वै कारयेद् बुधः ॥ १३६ ॥

कोर्परस्य तु विस्तारं अष्टमात्रं विदुर्बुधः ।
प्रकोष्ठस्य तु मूलं स्यादर्धमात्रं यवाधिकम् ॥ १३७ ॥

तन्मध्ये मध्यविस्तारं षड्यवं पञ्चषट् ङ्गुलम् ।
विस्तारे मणिबन्धस्य चतुर्मात्रं तु षड्यवम् ॥ १३८ ॥

तस्य नाहस्य विस्तारं त्रिगुणं पञ्चभागिकम् ।
अध्यर्धमधिकं कृत्वा परिणाहं विदुर्बुधः ॥ १३९ ॥

तलं तस्य तु विस्तारं अग्रमध्यर्धसन्निभम् ।
अनामिकाग्र संविद्यात् कनिष्ठामूलविस्तरम् ॥ १४० ॥

अग्रं तस्यष्ट भागेन अङ्गुष्ठादिक पर्वत ।
अग्रपर्वार्धमायामं विस्तारं नवमिष्यते ॥ १४१ ॥

तलमूलाग्रमध्यानि त्रिमात्रं तु द्विमात्रकम् ।
तलरेखातयोगेन मध्ये वै पद्मशङ्खकम् ॥ १४२ ॥

उक्तं वक्ष्यंतरं द्वाभ्यांमर्धविंशतिमात्रकम् ।
स्थनं हिककान्तरं सार्धत्रयोदशाङ्गुलन्निभम् ॥ १४३ ॥

प्. १८०)

स्तनं तदा द्वियवाभ्यां द्विसप्ताङ्गुलमिष्यते ।
स्तनमण्डलविस्तारं नवमात्रं प्रकीर्तितम् ॥ १४४ ॥

तदर्धं तु स्तनोत्सेधं सुवृत्तं रमणीयकम् ।
चूचुकं द्वियवर्धोच्चं व्यालं कोलकमण्डलम् ॥ १४५ ॥

मध्योदरविशालं स्यादेकादश्याङ्गुलं तथा ।
पञ्चार्धद्वियवैसार्धं निम्नभागै प्रकीर्तितम् ॥ १४६ ॥

नाभिः प्रदक्षिणावृत्यो तिर्यग्रेखसमन्वितम् ।
श्रोणिप्रदेशविपुलं सप्तदश्याङ्गुलं भवेत् ॥ १४७ ॥

कटिप्रदेशविस्तारं विंशमात्रमिति स्मृतम् ।
योनिमूलस्यविस्तारं पञ्चाङ्गुलमिति स्मृतम् ॥ १४८ ॥

अश्वत्थ पत्र सदृशं अनुपूर्वात् कृशं तथा ।
स्थानक्षप्रभृतैः पृष्ठं कक्षात्पञ्चदशाङ्गुलम् ॥ १४९ ॥

कुक्षिमध्यस्य विस्तारं महासप्तदशाङ्गुलम् ।
अष्टादशाहमात्रं स्यात् श्रोणिदेशस्य विस्तरम् ॥ १५० ॥

एकविंशतिमात्रं स्याद् ऊरुमध्यस्य विस्तरम् ।
दशमात्रार्धमात्रस्याज्जानुमध्ययवाधिकम् ॥ १५१ ॥

जङ्घमूलस्य विस्तारं दशमात्रं तु विस्तरम् ।
नवमाकं भवेदग्राण्मात्रं त्रिवयवाधिकम् ॥ १५२ ॥

नालकं तु चतुर्मात्रं षड्यवाधिकमिष्यते ।
पाष्णीविस्तारकोत् सेधम् उदयं तत्समं विदुः ॥ १५३ ॥

प्. १८१)

गुल्फाणां विस्तरौ ज्ञेयौ सप्त पञ्च यवा क्रमात् ।
अनुक्तं यद्भवेत् किञ्चित् शिल्पिशास्त्रोक्तमार्गतः ॥ १५४ ॥

लोहेन कल्पयेद् देविं शैल लिङ्गस्य बुद्धिमान् ।
लोहशैलं न कर्तव्यं लोहे लोहसमं तथा ॥ १५५ ॥

दारुवादिषु लिङ्गेषु सौवर्णादिनि योजयेत् ।
मिण्मये भित्तिचित्रे तु सौवर्णाद्यैश्च कारयेत् ॥ १५६ ॥

द्विबाहुकद्विनेत्रा च श्यामाभां कमलेक्षणाः ।
दक्षिणेनोत्पलं हस्तं वामहस्तं प्रलम्बितम् ॥ १५७ ॥

सर्वालङ्कारसंयुक्तां सर्वाभरणभूषिताम् ।
उत्तमं चतुरङ्गुल्यं दीर्घमष्टाङ्गुलं भवेत् ॥ १५८ ॥

सुस्तनां चारुवदनां पादौ नूपुरसंयुताम् ।
पद्मासनस्थितां देवीं बालचन्द्र प्रभूषिताम् ॥ १५९ ॥

किञ्चित्रिभङ्गिकां सम्यगुक्षारूढमथापि वा ।
एवमेव विधानेन कारयेच्छयनाम्बिकाम् ॥ १६० ॥

उमा च चण्डिका मौक्तितन्मानेन मुखद्वयम् ।
पञ्चमानसमायुक्तं कारयेत् पार्वति शुभाम् ॥ १६१ ॥

द्व्यङ्गुलं द्वियवं चैव हीनाधिक्यं तु दोषदम् ।
अधिकं चैव हीनं च वर्जयेत् तु प्रयत्नतः ॥१६२ ॥

मूलबेरप्रमाणेन उमाचै कारयेद् यदि ।
आयादि षट्शुभं सम्यक् कुर्याद् देविममानखे ॥ १६३ ॥

प्. १८२)

अन्येषामपि मनानामायादीन् लक्षयेत् सदा ।
अदूषाद्यस्तु लिङ्गादे लिङ्गानां सर्वलक्षणम् ॥ १६४ ॥

अनश्चकरणार्धेतोस्तेषामानक्रियां स्तिचेत् ।
तेषामारब्धकाले तु नक्षत्रादीनि लक्षयेत् ॥ १६५ ॥

पौषारम्भकाले तु षट्शुभं तु परिक्षयेत् ।
एवमेव विधानेन सर्वमानेष्ठकल्पयेत् ॥ १६६ ॥

ऐन्द्रे तु पार्वति स्थाप्य सर्वसम्पत्करं नृणाम् ।
आग्नेर्यां पुत्रदं कुर्याद्याम्य सौभाग्य सिद्धिदम् ॥ १६७ ॥

निनृतौ जयकं कुर्याद् वारुणं शत्रुनाशनम् ।
वायव्यां धनदं कुर्यात् सोमे सूनुविवर्धनम् ॥ १६८ ॥

ऐशान्यां धनवृद्ध्यर्थं प्रत्येकं फलमुच्यते ।
पश्चिमद्वारहम्ये तु आग्नेर्यां वा सशङ्करे ॥ १६९ ॥

अथवा वायवे चैव स्थापयेच्छयनाङ्गताम् ।
प्राक्द्वारस्य तु लिङ्गस्य तस्य दक्षिण भागिके ॥ १७० ॥

शयनाङ्गना प्रकल्पैव आरुषे चाष्टदिक्षु च ।
मूलप्रासादवद्वारमथवा चोत्तराननम् ॥ १७१ ॥

शक्त्यालयस्य मूलस्य अन्तरे भवनेऽपि च ।
देवतास्थापनं चैव इषश्चेत् सूनुनालयम् ॥ १७२ ॥

मूललिङ्गप्रमाणेन पुष्यद्रं कारयेद्रमाम् ।
प्रासादस्य प्रमाणेन प्रजावृध्यर्थ कारणम् ॥ १७३ ॥

प्. १८३)

गर्भगृहप्रमाणेन आयुष्यं तु बलार्थकम् ।
मूलबिम्बप्रमाणेन नारिणामभिवृद्धयेत् ॥ १७४ ॥

मूलसूत्रप्रमाणेन गोगजादिविवर्धनम् ।
मात्राङ्गुलविधानेन नृपराष्ट्राभिवृद्धयेत् ॥ १७५ ॥

एवं परिक्ष्य विधिना कारयेदुत्तमं बुधः ।
एवमुक्तप्रकारेण अन्येषामपि कारयेत् ॥ १७६ ॥

एन द्रव्येण आरम्भं नेत्रद्रव्येण कारयेत् ।
परिसमाप्तौ वस्येततस्य समक्क्रतेन तु ॥ १७७ ॥

एवं प्रकारं कर्तव्यं लोहादिषु विशेषतः ।
शिलादिषु यथेष्टं स्यादङ्गलेपं न कारयेत् ॥ १७८ ॥

शिल्पकर्मवसाने तु देशिकस्थापतिस्सहा ।
शुभौ प संलक्ष्य पश्चाद्बिम्ब पश्चात् प्रतिष्ठयेत् ॥ १७९ ॥

एवमेव प्रकारेण कारयेद् देशिकोत्तमः ।
एवं विधप्रकारेण बहुमार्गेण कारयेत् ॥ १८० ॥

इति सूक्ष्मशास्त्रे देव्यालक्षणं नाम सप्तत्रिंशः पटलः ॥

अतः परं प्रवक्ष्यामि अभिषेकार्चनं परम् ।
धर्मार्थं काममोक्षार्थं शान्तिकं पौष्टिकं तथा ॥ १ ॥

प्. १८४)

आयुः श्रीमृत्युविजयं व्याधिनाशं रिपुक्षयम् ।
ग्रामवृद्धिकरं प्रोक्तं सर्वोपहति नश्यति ॥ २ ॥

अङ्कुरार्पणपूर्वं तु सप्ताहं चैव पञ्चधा ।
त्रियहं भौवनं प्रोक्तं आदिशैव प्रशस्यते ॥ ३ ॥

रोहिण्यानि च सुयुक्तं पुष्ये वैष्णवमुच्यते ।
आदित्यहस्तमित्युक्तमष्टम्यं तु चतुर्दशि ॥ ४ ॥

दर्शयी पौर्णमास्यायां मासान्तेन विशेषतः ।
नवाहमुत्तमं प्रोक्तं सप्ताहं मध्यमं भवेत् ॥ ५ ॥

पञ्चाहं शान्तिकं प्रोक्तं त्रियाहं तु शिव प्रियम् ।
एकाहं रोगनाशार्थं एवं ज्ञात्वा तु बुद्धिमान् ॥ ६ ॥

पूर्वरात्रौ तु कर्तव्यं निर्वाणं दीपमाचरेत् ।
क्षीराभिषेकं कृत्वा तु तस्मात् कौतुक बन्धनम् ॥ ७ ॥

पयप्रस्तं तु नैवेद्यं पायसं तु प्रशस्यते ।
प्रातस्नात्वा शुचिर्भूत्वा देशिकं शिष्यमेव च ॥ ८ ॥

गोमयालेपनं कृत्वा पुण्याहं प्रोक्षणं तथा ।
जलभाण्डवर्धनीकुम्भान् कलशं पुष्पपात्रकम् ॥ ९ ॥

पाद्याचमन पात्रं च अभिषेक घटानपि ।
पाटालिसदृशाकारं सर्वलक्षणसंयुतम् ॥ १० ॥

सर्वपात्रं ततः कृत्वा क्षालयेदस्त्रमन्त्रतः ।
दर्भासनोपरि स्थित्वा कवचेनावकुण्ठयेत् ॥ ११ ॥

प्. १८५)

निरीक्ष हृदयेनैव प्रोक्षयेत् पुरुषेण तु ।
ताडनं हुं फट्डतेन स्पट्नं सद्यमन्त्रकैः ॥ १२ ॥

उन्मिलनं नेत्रमन्त्रे मण्डपस्योत्तरस्थितम् ।
वस्त्रपूतेन तोयेन जलभाण्डेषु सङ्ग्रहेत् ॥ १३ ॥

उदयादेव कर्तव्यं रात्रान्तेव जलं ग्रहेत् ।
एलालवुङ्गकर्पूरं गन्धं पुष्पं जलं ग्रहेत् ॥ १४ ॥

पञ्चाङ्गभूषणोपेतो देशिको मूर्तिपैस्सह ।
अङ्गन्यासकरन्यासन्तर्यागं समाचरेत् ॥ १५ ॥

प्राणप्रकृष्टे योगेन ज्ञात्वा सर्वं समाचरेत् ।
कुम्भाश्च वर्धनीं चैव तन्तुनावेषयेत् ततः ॥ १६ ॥

यन्त्रयो यद्वमन्त्रेण तत् तन् मन्त्रेण देशिकः ।
रत्नजं हस्तिमांस च रोमनाडि च तन्तुना ॥ १७ ॥

स्नपनं पञ्चगव्येन पञ्चामृतं तु स्थापयेत् ।
स्नपनमण्डपे मध्ये शालिभिस्तण्डिलं कुरु ॥ १८ ॥

प्राक्सूत्रं वसुसूत्रं स्यादुदक् सूत्रं तथैव च ।
सूत्रात् सूत्रन्तरं तालं मध्ये नवपदं गृहेत् ॥ १९ ॥

अभितस्तस्य बाह्ये तु पादमेकं परित्यजेत् ।
वसुद्वारसमायुक्तं त्यजेद् गोमयवारिणा ॥ २० ॥

द्विभारं चैकभारं वा शालिभिस्तण्डिलं कुरु ।
शाल्यार्थतण्डुलं प्रोक्तं तस्यार्थं तु तिलं तथा ॥ २१ ॥

प्. १८६)

युगद्रोणशालभिर्वा तिलतण्डुलशालिभिः ।
सूत्रतारे तु कर्तव्यं दर्भे पुष्पै परिस्तरेत् ॥ २२ ॥

नवाष्टभूतवेदाग्नि शक्तिदर्भै प्रशस्यते ।
पूर्वाग्रं चोत्तराग्रं च पदं प्रतिपदं प्रति ॥ २३ ॥

मध्यमे शिवकुम्भं तु विधिमध्ये तु वर्द्धनी ।
पाद्यमाचमनं चार्घ्यं कस्तुरिगन्धतैलकम् ॥ २४ ॥

निवारं कुङ्कुमं चैव तिलमाजिमुरं तथा ।
प्रथमावरणे चैव कलशं चाष्टदिक्षु च ॥ २५ ॥

द्वितीयावरणे चैव घटान्षोडश कल्पयेत् ।
मधुकां क्षमांगुलं चैव उशिरं चन्दनं तथा ॥ २६ ॥

तक्कोलं सर्वगन्धं च जातिचम्पकमेव च ।
कल्हारशतपत्रं च मालतिद्रोणमेव च ॥ २७ ॥

लाजं च त्रिफलं चैव नालिकेरं तथैव च ।
कदलि पनसं चैव वैरवं सर्षपं तथा ॥ २८ ॥

गोरचन्दनबिल्वं च पञ्चविंशतिसंख्यया ।
ब्रह्माविष्णुहरं चैव हृषिकेशस्तथैव च ॥ २९ ॥

सूर्यसोममहासेन शर्वरद्रो ज्वरेश्वरः ।
प्रथमावरणे चैव देवपाणिस्थलं न्यसेत् ॥ ३० ॥

द्वितीयवर्णदेवस्य कृत्वा देवं पितामहम् ।
इन्द्रादिलोकपालंश्च सोमाङ्गारबृहस्पति ॥ ३१ ॥

प्. १८७)

पीठलं मनुजश्चैव ब्रह्माविष्णुरिषिस्तथा ।
वसिष्ठं काश्यपं चैव मुनिभि षोडशो भवेत् ॥ ३२ ॥

सप्तपाणितले न्यस्य स्नपनं कल्पयेद् बुधः ।
दर्भैरेकादशैश्चैव देशिके हस्तकूर्चकम् ॥ ३३ ॥

अवेदाङ्गुलं चैव ग्रन्धि व्योमाङ्गुलं भवेत् ।
वर्धनीं च नवग्रन्धिं विस्तारं तालमात्रकैः ॥ ३४ ॥

भूताग्रद्वादशाङ्गुल्यां सर्वैश्च कलशेरः * ।
पुष्पगन्धै समभ्यर्च्य स्वस्वमन्त्राभिधानकम् ॥ ३५ ॥

प्रत्येकं नववस्त्रेण स्नपनं कारयेत् ततः ।
तस्य पश्चिमदिग्भागे पञ्चगव्यं तु विन्यसेत् ॥ ३६ ॥

स्थण्डिलं शालिभिः कुर्यान्नवकोष्ठानि विन्यसेत् ।
त्रिपादि पञ्चकोष्ठानि मध्ये पूर्वेध दक्षिणे ॥ ३७ ॥

वामपश्चिमके चैव परिस्तरणपूर्वकम् ।
लाजपुष्पतिलैश्चैव रन्ध्रसूत्रेषु योजयेत् ॥ ३८ ॥

कलशं क्षालयित्वा तु त्रिपाद्युध्वे विशेषतः ।
क्षरं तु मध्यमस्थाप्य गोमूत्रं पूर्वदेशके ॥ ३९ ॥

गोमयं दक्षिणस्थाप्य पश्चिमे दधिरुच्यते ।
उत्तरे तु घृतं स्थाप्य वनौ च मधुसंस्थितम् ॥ ४० ॥

नैर्-ऋते फलसारं च वायव्ये गुलसारकम् ।
ऐशान्ये नालिकेरं च नवद्रव्यं विधीयते ॥ ४१ ॥

प्. १८८)

क्षिरं तत्प्रस्थमित्युक्तं गोमूत्रं कुडुपद्वयम् ।
गोमयं कुडुपं चैव दधिर्वै कुडुपत्रयम् ॥ ४२ ॥

आज्यं गुडुममित्युक्तं द्विप्रस्तं गुडुपत्रयम् ।
गुडुपं तु मधुश्चैव फलोदकुडुपद्वयम् ॥ ४३ ॥

गुलसारं ततः प्रस्थं चतुर्थनालिकेरकम् ।
नवद्रव्येणसङ्ख्यायमधिदेवं ततः शृणु ॥ ४४ ॥

अगस्त्यं च पुलस्त्यं च विश्वामित्रं च काश्यपम् ।
भार्गवं तु मरञ्चैव भारद्वाजेन मुद्गलः ॥ ४५ ॥

ऋषिब्रह्मपदश्चैवं कलशं पाणिसंस्थितम् ।
पुष्पकूर्चं समभ्यर्च्य स्वस्व मन्त्रेण देशिकः ॥ ४६ ॥

धूपदीपादिभिः कृत्वा लिङ्गं सुरभिमुद्रया ।
तत् तन् मन्त्रेण संपूज्य दशमुद्रां प्रदर्शयेत् ॥ ४७ ॥

प्रधानकलशं मध्ये सर्वत्र स्थापयेद् बुधः ।
सापिधानं च सर्वत्र अस्त्रमन्त्रेण बुद्धिमान् ॥ ४८ ॥

द्वार अस्त्राबुना प्रोक्ष्य द्वारपालान् प्रपूजयेत् ।
गर्भगेहं प्रविशित्वा देशिकश्चोत्तराननः ॥ ४९ ॥

प्राणप्रकृति योगेन ज्ञात्वा कर्मसमाचरेत् ।
संपूज्ये मूललिङ्गं तु लिङ्गशुद्धि शिवास्त्रकैः ॥ ५० ॥

तुलसी बिल्वपत्रैश्च लिङ्गं पीठं च घर्षयेत् ।
पिष्टामलकडारिद्रं प्रत्येकं लेपयेद्बुधः ॥ ५१ ॥

प्. १८९)

स्नापयेन् मूलमन्त्रेण प्राणयोगं समाचरेत् ।
अष्टत्रिंशत् कलान्यासं मकुटादि क्रमान्यसेत् ॥ ५२ ॥

सदाशिवं तु लिङ्गस्थं कुम्भस्थं तु महेश्वरम् ।
प्राकृतं भावमुत्सृज्य एकचित्तेन पूजयेत् ॥ ५३ ॥

स्नपनं पञ्चगव्येन अर्चनोक्तं समर्चयेत् ।
मूलब्रह्मषडङ्गैश्च गन्धतोयैः प्रपूजयेत् ॥ ५४ ॥

चन्द्रात्नाशेव जलं सर्वपूजार्हकं विदुः ।
वेदाध्यायनं विप्राणाम् अर्धमण्डपमध्यमे ॥ ५५ ॥

चमकं नमकं चैव पुरुषसूक्तं तथैव च ।
विप्रादीनां चतुर्वेदिमहाशैवास्सदीक्षिता ॥ ५६ ॥

अदितोभक्तिहिनोपि मन्त्रहीनो न संस्पृशेत् ।
लिङ्गायामपि तत् तुल्यमाचार्यास्तु समाचरेत् ॥ ५७ ॥

वेदाध्ययनसंयुक्तो गन्धवारिं प्रपूजयेत् ।
गव्यं पञ्चामृतं चैव व्योमव्यापिं समुच्चरेत् ॥ ५८ ॥

दशाक्षरेण मन्त्रेण पूजयेत् तु महेश्वरम् ।
लम्बकूर्चसमायुक्तं मूलब्रह्मषडङ्गकैः ॥ ५९ ॥

कर्पूरागरुसंयुक्तं गन्धतोयेन पूरितम् ।
अष्टपुष्पं तिसृगन्धिं सप्तसङ्ख्या निवेदयेत् ॥ ६० ॥

नृत्तगीतसमायुक्तं स्तोत्रमङ्गलवाचकैः ।
कलशै पञ्चविंशत्या अभिषेकं च कारयेत् ॥ ६१ ॥

प्. १९०)

नानावस्त्रेरलङ्कृत्या नानागन्धसमन्वितम् ।
नानापुष्पेरलङ्कृत्य अर्चनोक्तं समर्चयेत् ॥ ६२ ॥

मुद्गान्नं पायसान्नं च गुलान्नं कृसरान्नकम् ।
शुद्धान्नं चैव इत्येते पञ्चान्नं तु प्रशस्यते ॥ ६३ ॥

नैवेद्यं दापयेच्छंभो पुनराचमनीयकम् ।
ताम्बूलं दर्पणं छत्रं मुखवासं च दर्शयेत् ॥ ६४ ॥

मन्त्रपुण्दतैद्विप्रेर्वेदघोषेण कारयेत् ।
शैवाग्निं च प्रवक्ष्यामि अग्निकार्योक्तमार्गतः ॥ ६५ ॥

ब्रह्मवृक्षसमद्भिस्तु समिधाज्यचरूहुनेत् ।
होमद्रव्याणि सर्वाणि सद्योजातेन होमयेत् ॥ ६६ ॥

जयादि स्विष्टकृत्यन्तं पूर्णाहुति समाचरेत् ।
सर्वरोगनिवृत्यर्थं सर्वकामफलप्रदम् ॥ ६७ ॥

आचार्य पूजयित्वा तु दैवज्ञं पूजयेद् बुधः ।
एवं यः पूजयेद् धीमान् सर्वकामफलं भवेत् ॥ ६८ ॥

इति सूक्ष्मशास्त्रे महाभिषेकविधिं नाम अष्टत्रिंशत् पटलः ॥

वक्ष्ये तु प्रतिमानं जलसंप्रोक्षणं विधि ।
शैलेमृद्दारु लोहानां प्रतिमानां विशेषतः ॥ १ ॥

प्. १९१)

पटे वा भित्तिचित्रे वा प्रोक्षयेद् देशिकोत्तमः ।
नित्यार्चनविहीने तु द्विगुणं चान्यसन्धिके ॥ २ ॥

एकाहमर्चनाहीने स्नपनं तु विधीयते ।
अ मासे ततः कुर्यात् स्नपनाद्धोमकर्मणि ॥ ३ ॥

एकमासविहीने तु शान्तिहोमं तु कारयेत् ।
षाण्मासे च विहीने च स्नपनं च शताष्टकम् ॥ ४ ॥

वास्तुहोमं ततः कृत्वा स्नपनान्मूर्तिहोमकम् ।
संवत्सरविहीने च प्रोक्षणं हि समाचरेत् ॥ ५ ॥

संवत्सराधिके हीने पुनस्थापनमारभेत् ।
स्थापयित्वा विधानेना पूर्वोक्तेन क्रमेण तु ॥ ६ ॥

स्नापयेद् देवदेवेशं शताषकलशैः क्रमात् ।
ब्राह्मणात् भोजयेत् तत्र सहस्राष्टकसंयुतम् ॥ ७ ॥

नैवेद्य स्नपनं चैव कुर्याद् ब्राह्मण भोजनम् ।
हीने संवत्सरोध्वे तु दानवस्थानमुच्यते ॥ ८ ॥

द्वयब्दे क्ष वासस्तु त्रियब्दे भूतवासकम् ।
चतुरब्दे पिशाचानां पञ्चब्दे राक्षसाश्रयम् ॥ ९ ॥

पञ्चवर्षोध्वतो हीने ब्रह्मराक्षसवासकम् ।
त्रयत्रिंशति वर्षान्तं तदूर्ध्वे लोहवत् क्रमात् ॥ १० ॥

शैलजे शैलवत् कृत्वा मृदा दारु तथैव च ।
स्थापनादि क्रमेणैव रत्नादि शरक्रियाः ॥ ११ ॥

प्. १९२)

पञ्चवर्षोध्व हीने तु जलसंप्रोक्षणं विधिम् ।
एते द्वादश प्रतिमा जलसंप्रोक्षणा विधिम् ॥ १२ ॥

अधुना संप्रवक्ष्यामि सर्वशान्तिकरं शुभम् ।
सर्वारिष्टविनाशाय पुत्रपौत्रविवर्द्धनम् ॥ १३ ॥

राजाराष्ट्रविवन्ते धनधान्यसुखावहम् ।
उत्तरायणके भानौ माघमासे विवर्जयेत् ॥ १४ ॥

दक्षिणायनके भानौ वर्जयेत् पूर्वमासकौ ।
शेषमासं समारभ्य आयुश्रीकीर्तिवर्धनम् ॥ १५ ॥

शुक्लपक्षे शुभप्रोक्तो कृष्णे वात्युन्तिकं विना ।
त्रीण्युत्तराणि पुष्यं च ब्राह्मणानां हिताय वै ॥ १६ ॥

मैत्रादित्यमघास्वाति क्षत्रियं वा विधीयते ।
रोहिण्यादित्यपौष्णं च वैश्यस्य प्रविधीयते ॥ १७ ॥

अस्तश्रवणरुद्रं तु शूद्रस्यैव प्रकीर्तिता ।
त्रितीया पञ्चमी चैव सप्तमी दशमी तथा ॥ १८ ॥

द्वितीय्येकादशि चैव त्रयोदट्प्रतिपत् तथा ।
राशयश्च रवज्यास्तु उभयं मध्यमी भवेत् ॥ १९ ॥

स्थितं चोत्तमलग्ने तु अस्थिते कालवर्जयेत् ।
शुक्लस्सौम्य गुरोरिन्दुवाराश्रेष्ठविधीयते ॥ २० ॥

कुजार्किरविवारं च मध्यमं च प्रवक्ष्यते ।
शुभग्रहं द्रककाणं विशेषेण दधीयते ॥ २१ ॥

प्. १९३)

प्रासादस्याग्रतः कुर्याद् दैशोन्यं पावके तथा वा ।
दिग्द्वादशहस्तं वा नवहस्ताष्टहस्तकम् ॥ २२ ॥

षोडशस्तम्भसंयुक्तं चतुस्तोरणभूषितम् ।
दशतालाष्टतालेन स्तम्भोत्सेधं विधीयते ॥ २३ ॥

अश्वद्धोदुम्बरप्लक्षवटशक्रादि क्रमात् ।
पञ्चहस्तं त्रिहस्तं तु तोरणस्योच्छ्रयं भवेत् ॥ २४ ॥

उत्सेधार्थं तु विस्तारं त्रिशूलेन समायुतम् ।
दशाष्टाङ्गुले मानेन त्रिशूलस्यौच्छ्रयं भवेत् ॥ २५ ॥

मण्डपस्य तु तन्मध्ये नवभागैकभागतः ।
वेदीं कुर्याद् विशेषेण द्वित्रितालोच्छ्रयं भवेत् ॥ २६ ॥

पृथग्वेदी समारभ्यमेकवेदीमथापि वा ।
यथामनोरमं कुर्यादर्पणोदरसन्निभम् ॥ २७ ॥

वेदिकायास्तु परितः नवपञ्चाग्निमेव च ।
अथवा एकमेवं तु यथाविभवविस्तरम् ॥ २८ ॥

उत्तमादि क्रमेणैव कुण्डं कुर्याद् विधानतः ।
पृथक् प्राक्कुण्डमारभ्य पृथक् होमसमारभेत् ॥ २९ ॥

वृत्तं वा चतुरश्रं वा रत्निमात्रप्रमाणतः ।
त्रिमेखलैरलङ्कृत्य चतुस्त्रिद्वयंङ्गुलयतम् ॥ ३० ॥

नाभियोनि समायुक्तं विस्तारं तावदेव तु ।
अश्वद्ध पत्रवद्योनीं भूतवेदगुणांङ्गुलम् ॥ ३१ ॥

प्. १९४)

विस्तारं तेन मानेन नालं पक्षाङ्गुलं भवेत् ।
कुण्डमध्ये गुणाङ्गुल्यं केसरैरष्टदलैर्युतम् ॥ ३२ ॥

नवकुण्डविधानं तु इन्द्राद्यैशानमन्तकम् ।
इन्द्रादीशानयोर्मध्ये वृत्तं प्रधनकं कुरु ॥ ३३ ॥

पञ्चकुण्डविधानेन चतुर्दिक्षु प्रकल्पयेत् ।
चक्र ईशानयोर्मध्ये वृत्तं कुण्डं विशेषतः ॥ ३४ ॥

गुणाग्नौ तु प्रकर्तव्यं पूर्वं पश्चिममैशके ।
नवकुण्डविधानं तु अश्राद्यष्टाश्रमन्तकम् ॥ ३५ ॥

पञ्चकुण्डविधानां तु अश्रं दीक्षु विधीयते ।
गुणकुण्डविधानं तु चतुरश्रं विधीयते ॥ ३६ ॥

प्रधानकुण्डेत्वाचार्य सर्वं वृत्तमथापि वा ।
एककुण्डविधाने तु शक्रे वा शङ्करेऽपि वा ॥ ३७ ॥

पूर्वपश्चिमकुण्डं तु उत्तराभिमुखो हुनेत् ।
अन्येषु प्राङ्मुखो भूत्वा होमम्कुर्याद्विशेषणः ॥ ३८ ॥

एवमग्निं प्रतिष्ठाप्य कुण्डे वा स्थण्डिलेपि वा ।
गोमयालेपनं कृत्वा पञ्चचूर्णैरलङ्कृतम् ॥ ३९ ॥

दशायुधसमायुक्तमष्टमं ग संयुतम् ।
रत्निमात्रसमुत्सेधमयुधानि प्रकल्पयेत् ॥ ४० ॥

षोडशाङ्गुलमानेन उत्सेधं चाष्टमङ्गलम् ।
उत्सेथस्यार्थ विस्तारमथवा चतुरङ्गुलम् ॥ ४१ ॥

प्. १९५)

दर्पणादिनि सर्वाणि तेषां मध्ये विशेषतः ।
गैरिकेरलिकेद् विद्वान् पत्मकं चक्रलक्षणं ॥ ४२ ॥

प दि त्नि पर्यन्तं कुर्यात् ततद्विधानतः ।
एवं विधिप्रकारेण कारयेद् देशिकोत्तमः ॥ ४३ ॥

प्रोक्षणाद् दिनपूर्वे तु कारयेदङ्कुरार्पणम् ।
नवाहे चैव सप्ताहे पञ्चाहे त्रियहेऽपि वा ॥ ४४ ॥

अङ्कुरार्पणमार्गेण तु कारयेद् देशिकोत्तमः ।
मण्डपे मध्यमे चैव स्थण्डिलं कारयेत् ततः ॥ ४५ ॥

वेदाग्नि पक्षद्रोणं च तदर्थं तण्डुलं तिलम् ।
दर्भै पुष्पै परिस्तीर्य देवं तथैव विन्यसेत् ॥ ४६ ॥

पुण्याहं वचयेत् तत्र स्वस्तिमङ्गलवाचकैः ।
सर्वालङ्कारसंयुक्तं सर्वतोद्यसमन्वितम् ॥ ४७ ॥

नानाभक्तजनैः सार्धं कुर्याग्रमप्रदक्षिणं ।
ततो जलाशयं प्राप्य जलमध्ये प्रपाङ्कुरु ॥ ४८ ॥

वितानध्वजसंयुक्तं दर्भमालाभिरावृतम् ।
वस्त्रेण वेष्टयेद् देवं लम्बकूर्चेनसंयुतम् ॥ ४९ ॥

शाययेद् देवदेवेशं प्राक्च्छिर ध्ववक्त्रकम् ।
अभित कलशानष्टौ अष्टविद्यैश्वरावृतम् ॥ ५० ॥

पूजयेत् तु विशेषेण गन्धपुष्पादिभिः बुधः ।
एकरात्र द्विरात्रं वा त्रिरात्रं वा जलोषितम् ॥ ५१ ॥

प्. १९६)

अथ वाद्य प्रकारेण यामं वा दशनाडिकम् ।
चतुर्दशं तु नाडी वा जलोषितं तु कारयेत् ॥ ५२ ॥

जलाधिवासनान्तेषु जलतीरे नयेद् बुधः ।
जलेन स्थापितान् कुम्भान् अभिषेकं तु कारयेत् ॥ ५३ ॥

अर्चयेद् गन्ध पुष्पाद्यैः प्रासादेन तु मन्त्रतः ।
सर्वालङ्कारसंयुक्तं आनीयाद्यायागमण्डपे ॥ ५४ ॥

मण्डपस्योत्तरे पार्श्वे देवदेवं च स्थापयेत् ।
पुण्याहं वाचयेत् तत्र पावमा मुदिरयन् ॥ ५५ ॥

पृथक् कौतुक संपूज्य पृथक् वस्त्रेण वेष्टयेत् ।
कौतुकं बन्धयेद् धीमान् पूर्वोक्तविधिना सहा ॥ ५६ ॥

वेदिकोपरि संशुद्धो अष्टद्रोणेन शालिना ।
तदर्धैस्तण्डुलश्चैव तदर्धैश्च तिलैरपि ॥ ५७ ॥

स्थण्डिलं कारयेत् तत्र कुशदर्भै परिस्तरेत् ।
प्रथयै शयनं कल्प्या अण्डजाद्यैरनुक्रमात् ॥ ५८ ॥

अण्डजैमुण्डजैश्चैव रोमजैर्मुण्डजैरपि ।
उपस्थरणसंयुक्तं शयनं पञ्च कल्पयेत् ॥ ५९ ॥

वामदेवेन मन्त्रेण नृत्तमूर्तिशयेद् बुधः ।
सकूर्चं वस्त्रसंवेष्ट्य प्राक्च्छिरश्चोर्द्ध्ववक्त्रकम् ॥ ६० ॥

तदूर्ध्वे रक्तवस्त्रेण वेष्टयेद् देशिकोत्तमः ।
गन्धादिभिः समभ्यर्च्य हृदयेन तु मन्त्रतः ॥ ६१ ॥

प्. १९७)

प्रधानकुम्भं तस्यैव शिरोभागं तु विन्यसेत् ।
तस्यै चोत्तरदिग्भागे वर्धनीं चैव विन्यसेत् ॥ ६२ ॥

तत् तन् मूर्त्तिसमादाय तत्तत्कुम्भेषु विन्यसेत् ।
तत्तच्छक्तिसमादाय तत्तद् देवीं समाचरेत् ॥ ६३ ॥

सकूर्चं सापिधानं च सवस्त्रं हेमरत्नकम् ।
फलपल्लवसंयुक्तं सर्वगन्धसमायुतम् ॥ ६४ ॥

कुम्भमध्ये न्यसेद् बीजं तन्तमत्रसमं कुरु ।
त्रिणेत्रं च चतुर्बाहुं बालेन्दुमकुटोज्वलम् ॥ ६५ ॥

वरदाभयहस्तं च कृष्णं परशुसंयुतम् ।
सर्वाभरणसंयुक्तं बद्ध पद्मासनस्थितम् ॥ ६६ ॥

एवं रूपं स्मरेन्मध्ये शिवमन्त्रमनुस्मरन् ।
वर्द्धन्यां वर्द्धनी बीजं ध्यात्वा चैव मनोन्मनीम् ॥ ६७ ॥

द्विभुजां चारुवदनां पिनोन्नतपयोधराम् ।
सर्वाभरणसंयुक्तां द्वौ हस्तौ पद्मसंयुताम् ॥ ६८ ॥

एवं मनोन्मनीं देवीं वर्धन्यां विन्यसेद् बुधः ।
व्यक्ताव्यक्तमहाबाहुं नीलग्रीव महाद्युतिः ॥ ६९ ॥

जटामकुटमाणिक्कबालेन्दुकृत भूषणम् ।
त्रयक्षं चतुर्भुजं चैव व्याघ्रचर्माम्बरप्रभुम् ॥ ७० ॥

वरदाभयहस्तं च कृष्णं परशुधारिणम् ।
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ॥ ७१ ॥

प्. १९८)

इन्द्रशङ्करद्देवं मुमासृष्टिश्च कारणम् ।
दिव्याम्बरधरं देवीं द्विनेत्रा द्विभुजोज्वलाम् ॥ ७२ ॥

ललाटतिलकोपेतं पिनोन्नतपयोधाराम् ।
मध्यक्षामविलासां च रक्तोत्फलकरा शुभाम् ॥ ७३ ॥

सर्वरत्नसमोपेत मकुटेन विभूषिताम् ।
ग्रिवे मङ्गलसूत्रेण सर्वभूषणभूषिताम् ॥ ७४ ॥

शकटद्वामपार्श्वे तु देवीं लक्षणसंयुताम् ।
कुमारं मनोन्मा कुर्यात् सर्वलक्षणसंयुतम् ॥ ७५ ॥

ईश्वराभिमुखोलिल उमया सह लि * * कम् ।
एकासनसमासीनं द्विभुजा लोचनद्वयम् ॥ ७६ ॥

बालरूपं तु कर्तव्यं मौसलं प्रियदर्शनम् ।
कुमारं रमणैर्युक्तं देवसेनापतिं तथा ॥ ७७ ॥

ध्यात्वा चण्डेश्वरं देवं द्विभुजं शान्तरूपिणं ।
टङ्कहस्तसमायुक्तं न्यसेत् कुम्भस्य मध्यमे ॥ ७८ ॥

कुण्डोदरं बृहत्कायं रक्तमाल्याधरं वरम् ।
नीलजीमूतसंकाशं दण्डहस्तं त्रिलोचनम् ॥ ७९ ॥

गजवक्त्रं त्रिणेत्रं तु कारयेद् विघ्ननायकम् ।
तत् तद् बीजेन मन्त्रेण तत् तद् बीजं सुपूजयेत् ॥ ८० ॥

अभितः कलशानं वौ अष्टविद्येश्वरैर्युतम् ।
द्रोणार्थतोयसंपूर्णान् सहैमान् वस्त्रसंयुतान् ॥ ८१ ॥

प्. १९९)

सकूर्चान् सापिधानाम्श्च फलपल्लवसंयुतान् ।
तत् तन् * म * कै बिबै पूजयेत् परमेश्वरम् ॥ ८२ ॥

नैवेद्यं दापयेत् पश्चात् ताम्बूलं दापयेत् ततः ।
वेदिबाह्ये तु परितः अष्टमङ्गलि विन्यसेत् ॥ ८३ ॥

इन्द्रादीशानपर्यन्तं दर्पणादीनि पूजयेत् ।
दशायुधानि पर्यन्तं स्वे स्वे स्थानेषु विन्यसेत् ॥ ८४ ॥

पूर्वादीशानपर्यन्तं वज्रादीनान्तमर्चयेत् ।
पूर्वादि सोमपर्यन्तं तोरणादीनि पूजयेत् ॥ ८५ ॥

अष्टकुम्भानि संस्थाप्य सवस्त्रं हैमसंयुतम् ।
नन्दिश्चैव महाकालो दण्डिमुण्डितथैव च ॥ ८६ ॥

वैजयन्ति च भृङ्गी च किरीटं चैव दीशोपदि ।
पूर्वादीनां चतुर्दिक्षु द्वारकुम्भेषु विन्यसेत् ॥ ८७ ॥

पालिकादिनपर्यन्तं मलङ्कृत्यं विशेषतः ॥ ८८ ॥

सृक्सृवा कारयेद् धीमान् रत्निमात्रप्रमाणतः ।
पश्चात् शिवाग्निं संस्थाप्य आदिशैव शिवद्विजः ॥ ८९ ॥

अनुशैव स्थिताविप्रः आदिशैव शिवद्विजः ।
उत्सवं च प्रतिष्ठां च आदीशैवेन कारयेत् ॥ ९० ॥

गर्भादानादिकं सर्वं पञ्चब्रह्म षडङ्गकैः ।
नवसंस्कारमाद्येन प्रत्येकं पञ्चविंशति ॥ ९१ ॥

प्. २००)

जुहुयात् तु क्रमेणैव पश्चाद् होमं समाचरेत् ।
समिधाज्य चरूलाजान् सर्षपाश्च यवातिलान् ॥ ९२ ॥

मुद्गमाषगुलस्तत्र दशद्रव्यमिहोच्यते ।
अश्वद्धोदुम्बरप्लक्षो वटपूर्वादिदिक्षु च ॥ ९३ ॥

पलाशं तु प्रधानस्य सर्वेषामि मुच्यते ।
भूताग्निं वा गुणाग्निं वा पलाशेनैव होमयेत् ॥ ९४ ॥

पञ्चब्रह्मषडङ्गैश्च क्रमेणैव तु होमयेत् ।
अस्त्रमन्त्र विशेषेण पूर्णाहुतिमथाचरेत् ॥ ९५ ॥

अष्टोत्तरशतं वापि पञ्चाशत् पञ्चविंशति ।
प्रत्येकं जुहुयाद् धीमान् दीप्यं तेषु च संस्पृशेत् ॥ ९६ ॥

प्रधानहोमं शिवाग्निं कारयेद् देशिकोत्तमः ।
तस्मात् कुण्डेषु सर्वत्र निक्षिपेद्धृदयेन तु ॥ ९७ ॥

पूर्वोक्त मन्त्रैः समिधैः कुर्याद् वै मूर्तिधारकः ।
सद्यादि पञ्चमूर्तिनां पञ्चकुण्डेषु होमयेत् ॥ ९८ ॥

ईशानश्च भवश्चैव शिव सर्वो विदुक्ष च ।
सद्यादीशानपर्यन्तं पञ्चाग्नौ पञ्चमूर्तयः ॥ ९९ ॥

भवश्चैव शिवश्चिव सर्वश्चैव गुणाग्निषु ।
अधिदेवासमभ्यर्च्य स्वस्वमन्त्रेर्विशेषतः ॥ १०० ॥

देशिकास्त्रेण मन्त्रेण सर्वे पूर्णाहुतिं हुनेत् ।
रात्रावेवं प्रकर्तव्यं मुहूर्ते स्नानमाचरेत् ॥ १०१ ॥

प्. २०१)

आचार्य पूजयेत् तत्र वस्त्रहेमाङ्गुलियकैः ।
पटे वा भित्तिचित्रे वा एकहोमसमाचरेत् ॥ १०२ ॥

एकाचार्यसमायुक्तं कारयेद् बुद्धिमान्नरः ।
बिम्बानां बहुरूपाणां आचार्य बहुरूपकः ॥ १०३ ॥

प्रत्येकं पूजयेत् तत्र वस्त्रहेमाङ्गुलियकैः ।
उत्तमं शतनिष्कं स्यान्मध्यमं तु तदर्थकम् ॥ १०४ ॥

पञ्चविंशति निष्कं तु अधमं त्वथिकथ्यते ।
विंशन्निष्कं समारभ्य दशनिष्कवसानकम् ॥ १०५ ॥

मध्यमत्रयमेवोक्तं मधमं च तत शृणु ।
नवनिष्कात् समारभ्य गुणनिष्कवसानकम् ॥ १०६ ॥

अधमत्रयमेवोक्तं देशिकस्य तु दक्षिणा ।
आचार्यादर्धरात्रं तु साधकस्य तु दक्षिणा ॥ १०७ ॥

साधकस्यर्थमात्रं तु मूर्तिपानां तु दक्षिणा ।
तदर्द्ध मन्त्र पक्तॄणां तस्यार्द्धं परिचारकेत् ॥ १०८ ॥

आचार्यो सकलिकृत्य कृत्वा शेषं विशेषतः ।
ग्रामप्रदक्षिणं कृत्वा कुम्भानि च विशेषतः ॥ १०९ ॥

अथवा प्रदक्षिणं धामं सर्वालङ्कारसंयुतम् ।
स्नानश्वभ्रस्य पूर्वे तु स्थापन क्रमतो न्यसेत् ॥ ११० ॥

गन्धपुष्पादिसंयुक्तं आचार्योद्देशिकोत्तमः ।
सुमुहूर्ते सुलग्ने तु मन्त्रन्यासेन बुद्धिमान् ॥ १११ ॥

प्. २०२)

अभिषेकं ततः कृत्वा शास्त्रदृष्टेन कर्मणा ।
प्रभूतहविषं दत्वा ताम्बूलं च हृदा ददेत् ॥ ११२ ॥

ग्रामप्रदक्षिणं कृत्वा सर्वालङ्कारसंयुतम् ॥ ११२½ ॥


इति सूक्ष्मशास्त्रे प्रतिष्ठातन्त्रे सकलप्रोक्षणं नाम एकोनचत्वारिंशत्
पटलः ॥

वक्ष्ये नक्षत्रयजनं शृणुध्वं तत्प्रभञ्जना ।
महाभूतप्रशमनं परसेन पलायनम् ॥ १ ॥

सर्वशत्रुक्षयकरं सकालभिष्टसिद्धिदम् ।
अकालमृत्युशमनं नवग्रहविनाशनम् ॥ २ ॥

राजाभिषेकसमये तस्य जन्मदिनेऽपि च ।
चतुर्दश्यामथाष्टम्यां पक्षयोरुभयोरपि ॥ ३ ॥

नक्षत्रयजनं कुर्यात् सकलाभिष्टसिद्धये ॥ ४ ॥

शिवाग्रे मण्डपं कुर्यात् सर्वालङ्कारसंयुतम् ।
तन्मध्ये वेदिकां कुर्याद् गुणभागैकभागतः ॥ ५ ॥

विस्तारार्द्धसमुत्सेधं दर्पणोदरसन्निभम् ।
निशिभद्रसमायुक्तं निम्नोन्नतविवर्जितम् ॥ ६ ॥

द्वादशस्तम्भसंयुक्तं प्रासादवदलङ्कृतम् ।
तुरगं वाथ वृषभं कल्पयेदग्रपार्श्वयोः ॥ ७ ॥

प्. २०३)

अलङ्कृत्य विशेषेण वस्त्रपुष्पसृगादिभिः ।
कैलासं कल्पयेन्मध्ये शालिपिष्टमयेन तु ॥ ८ ॥

उपवेदिं ततः कृत्वा तद्विस्तारार्धमानतः ।
चतुरङ्गुलमुत्सेधं निम्नोन्नतविवर्जितम् ॥ ९ ॥

राशिमण्डलकं कल्प्य मध्ये पद्मसमालिखेत् ।
भानुसङ्ख्या महाब्जं च लिङ्गषण्णवति विदुः ॥ १० ॥

कुङ्कुमं कृष्णवर्णं च रक्तं गोक्षिरवर्णकम् ।
शुक्लवर्णक्रमेणैव कल्पयेत् पूर्ववर्त्मना ॥ ११ ॥

यागार्थ मण्डपं कुर्यात् पूर्वोक्त विधिना ततः ।
निश्चित्य दिवसात्पूर्वे नवमे सप्तमेऽथवा ॥ १२ ॥

पञ्चमेवपि शेषेणा बिल्ववृक्षं समाश्रयेत् ।
तत्पूर्वादिनि परितः स्त्रणादिनि व्यपोह्य च ॥ १३ ॥

पुण्याहं वाचयेद् विद्वान् प्रोक्षयेत् च्छिवमन्त्रतः ।
अस्तमात्रेण तन्मूले परितः श्चतुरश्रकम् ॥ १४ ॥

खानयेदस्त्रमन्त्रेण पञ्चगव्येन पूरयेत् ।
गन्धादिभिसमभ्यर्च्य मूलमन्त्रेण सुव्रत ॥ १५ ॥

त्रयम्बकेन मन्त्रेण * * प्रतिसरक्रिया ।
दद्ध्योदन बलिं दत्वा वनदेवाय तृप्तये ॥ १६ ॥

यावदा शोषितं गव्यं जप्त्वा रुद्राधिदेवता ।
जपान्ते सङ्ग्रहेद् विद्वान् बिल्ववृक्षं समूलकम् ॥ १७ ॥

प्. २०४)

पञ्चाङ्गप्रणवेनैव विभजेत् तत् पृथक् पृथक् ।
सद्योजातेन संयोज्य मूलमूर्तिक्रियान्वितम् ॥ १८ ॥

तरुं वामेन सङ्ग्राह्य पात्रं हृदयमन्त्रतः ।
फलं वक्त्रेण सङ्ग्राह्या ईशाने कुसुमं गृहेत् ॥ १९ ॥

शुद्धवस्त्रेण संवेष्ट्य शिरसा वाहयेत् ततः ।
सर्वालङ्कारसंयुक्तं स्वस्तिसूक्तसमन्वितम् ॥ २० ॥

धामप्रदक्षिणं कृत्वा शिवाग्रे वाधमण्डपे ।
गोमयालेपनं कृत्वा पिष्टचूर्णेर्विचित्रयेत् ॥ २१ ॥

स्थण्डिलं कारयेद् विद्वान् शालिभिर्विमलेः शुभैः ।
विन्यसेद् बिल्वपत्रं च तत् तन् मन्त्रेण तु (क्र)मेण तु ॥ २२ ॥

तत्पूर्वे पश्चिमे वापि उत्तरे वा विशेषतः ।
अष्टाङ्गुलप्रमाणेन च्छित्त्वा परशुना त्रयम् ॥ २६ ॥

बिल्वकाष्ठं च मूलं च शुद्धतोयेन वेषयेत् ।
रोचनं कुङ्कुमं कोष्ठं चन्दनं हरिचन्दनम् ॥ २४ ॥

उशिरमेव कर्पूरं भस्मं चागरुमिश्रकम् ।
हिरिबेरसमायुक्तं हिमतोयेन मर्दयेत् ॥ २५ ॥

छायाशुष्कपदं कृत्वा पुत्रं पुष्पादिना फलम् ।
गृहीत्वा नवभाण्डे तु मुखं वस्त्रेण बन्धयेत् ॥ २६ ॥

ध्यात्वाभ्यर्च्य षडङ्गेन त्वमृद्धिकरणं कुरु ।
जप्त्वाष्टोत्तरसहस्रं पापभक्षणमन्त्रतः ॥ २७ ॥

प्. २०५)

तद्दिने वाथ पूर्वेद्युरधिवासनमारभेत् ।
ततो मण्डपमासाद्य सकलिकृत विग्रहः ॥ २८ ॥

विघ्नेश्वरसमभ्यर्च्य पुण्याहं वाचयेद् गुरु ।
मण्डपं पूजयेद् विद्वान् पूर्वोक्तविधिना सदा ॥ २९ ॥

स्थण्डिलं वेदिकमध्ये अष्टद्रोणेन शालिना ।
तण्डुलैः तिललाजैश्च दर्भैश्चैव परिस्तरेत् ॥ ३० ॥

बहुरूपेण संप्रोक्ष्य पूजयेद् वृषभासनम् ।
मण्डपस्योत्तरे पूर्वे पश्चिमे वा विशेषतः ॥ ३१ ॥

अष्टद्रोणेन दुग्धेन स्नपनं परिकल्पयेत् ।
अर्घ्यसंपादयेद् विद्वान् पात्रशुद्धिसमाचरेत् ॥ ३२ ॥

विभजेद् बिल्वपञ्चाङ्गमष्टधा देशिकोत्तमः ।
द्विभागं शिवरूपं स्यात् एकभागेन पार्वति ॥ ३३ ॥

नक्षत्रात् पञ्चभागेन कल्पयेत् यथाक्रमम् ।
गन्धपुष्पादिना स्पृष्ट्वा जप्त्वा पूर्वोक्तमन्त्रतः ॥ ३४ ॥

प्रणवेनैव सङ्ग्राह्य विन्यसेद् वेदिकोपरि ।
पूजयेत् कर्णिकामध्ये पार्वति परमेश्वरौ ॥ ३५ ॥

चतुर्दिक्षु न्यसेद् विद्वान् नक्षत्राणि यथाक्रमम् ।
अश्विन्याश्लेषपर्यन्तं सप्तकान्विन्द्रदेशके ॥ ३६ ॥

अनुराधादि विष्ण्वन्त सप्तकं पश्चिमे दिशि ।
माघादि सूर्पपर्यन्तं सप्तकं याम्यदेशके ॥ ३७ ॥

प्. २०६)

श्रविष्ठा च भरण्यन्तं सप्तकसौम्य देशके ।
सङ्कल्प्याभ्यर्च्य गन्धाद्यैस्तत् तत् स्वनाममन्त्रतः ॥ ३८ ॥

ततो गर्भगृहं गत्वा लिङ्गशुद्धि समाचरेत् ।
निवेदयन्तु मुद्गान्नं लेपयेच्चन्दनेन तु ॥ ३९ ॥

धूपदीपै समभ्यर्च्य अभीष्ट प्रार्थयेद् गुरुः ।
ततो मण्डपमासाद्य मण्डपाधिपतिन्यजेत् ॥ ४० ॥

अग्न्यायतनमासाद्य शिवाग्निं विधिना नयेत् ।
मधुरत्रयसंयुक्तं पूर्वाग्रं कदलि फलम् ॥ ४१ ॥

नालिकेरफलं दुग्धं ओदनेनसमन्वितम् ।
शतमर्धं तदर्धं वा मूलेनैव हुतं चरेत् ॥ ४२ ॥

पूर्णाहुतिं ततो हुत्वा शिवाग्निं तु विसर्जयेत् ।
ततः संपूज्य देवेशमुमादेविसमन्वितम् ॥ ४३ ॥

हविं निवेदयित्वा तु ताम्बूलं दापयेत् ततः ।
परिचारकमाहूय सोष्णीषं सोत्तरियकम् ॥ ४४ ॥

कुम्भानुद्धृत्य शिरसा कृत्वा धामप्रदक्षिणम् ।
प्रविश्य गर्भगेहं तु स्नापये स्नपनार्हके ॥ ४५ ॥

हविर्णिवेदयित्वा तु गन्धपुष्पादिभिर्यजेत् ।
ततो मण्डपमासाद्य सर्वालङ्कारसंयुतम् ॥ ४६ ॥

प्रणवेनैव सङ्ग्राह्य पञ्चचूर्णस्सलड्डुकम् ।
शिरसा वाहयित्वा तु प्रदक्षिणमथाचरेत् ॥ ४७ ॥

प्. २०७)

विन्यस्त्व मण्डपस्याग्रे पुण्याहं वाचयेत् ततः ।
कैलासगिरिमभ्यर्च्य पूजयेद् वृसदैवतम् ॥ ४८ ॥

तस्योर्द्धे विन्यसेद् बिल्वं पञ्चाङ्गं सधिदैवतम् ।
नक्षत्रात्परितस्ताप्य पूर्ववत् पूजयेत् क्रमात् ॥ ४९ ॥

पट्टिकापटलिव्याघ्रि रक्तागस्त्यं च धातकि ।
लक्ष्मी च रक्तपद्मं च सप्तमं कृत्तिकादिषु ॥ ५० ॥

वकुलद्रोणपुष्पं च धूद्धूरकरवीरकम् ।
प्रदोषं पृथिवि पद्मं भूपाटलं च दक्षिणे ॥ ५१ ॥

तुलसिजातिपुन्नागं श्वेतार्कं बिल्वपत्रकम् ।
रुद्रपर्णि च दूर्वा च अनूराधादि सप्तके ॥ ५२ ॥

श्रीयावर्त्तं च मन्दारं रक्तार्कं चतुरङ्गुलम् ।
विष्णुक्रान्ति सहस्राभत् श्रविष्ठादिषु सप्तके ॥ ५३ ॥

मुद्गान्नं कृत्तिकादौ स्यात् कृसरान्नं मघादिषु ।
पायसान्न प्रदातव्यमनूराधादि सप्तके ॥ ५४ ॥

श्रविष्ठादिषु ते माषं गुलान्नमिश्वरस्य तु ।
भक्त्या सर्वोपचारेण पूजयेदिष्ट सिद्धये ॥ ५५ ॥

एवं यः कुरुते मर्त्यः सर्वलोके जनिष्यते ।
आचार्य पूजयेत् तत्र वस्त्रहेमाङ्गुलियकैः ॥ ५६ ॥

भक्तानां परिचाराणां यथाशक्त्या तु दक्षिणा ।
द्विजादीनां च भक्तानामन्नपानादिकां ददेत् ॥ ५७ ॥

प्. २०८)

सन्ध्यान्तरे परे वाथ पुष्पाञ्जलिकरो गुरुः ।
मूलेन शिवमादाय योजयेत् स्वयमात्मनि ॥ ५८ ॥

पञ्चचूर्णसमादाय शुद्धपात्रे गृहेद्गुरुः ।
तच्चूर्णं यजमानाय दापयेत् तद्विधानतः ॥ ५९ ॥

पञ्चचूर्णसमादाय चन्दनेनैव संयुतम् ।
भस्मना वाथ संयोज्य सन्ततं धारयेन्नरः ॥ ६० ॥

सर्वपापविनिर्मुक्त सर्वत्र विजयी भवेत् ।
नक्षत्रयजनं प्रोक्तं पुष्पपूजाविधि शृणु ॥ ६१ ॥

इति सूक्ष्मशास्त्रे नक्षत्रयजनं नाम चत्वारिंशत् पटलः ॥

महाशान्तिमहं वक्ष्ये शृणुध्वं तत्प्रभञ्जन ।
शिवलोकप्रदं नित्यं शिवप्रीतिकरं शुभम् ॥ १ ॥

सर्वशत्रुक्षयकरं सर्वपातकनाशनम् ।
प्रजावृद्धिकरं पुण्यं भोगमोक्षप्रदायकम् ॥ २ ॥

श्रावणे श्रोणनक्षत्रे प्राष्ठे तु पूर्वभाद्रके ।
आश्विने मासि चाश्वर्क्षे कार्तिके मास कार्त्तिके ॥ ३ ॥

आद्रक्षे आद्रमासे तु पुष्ये पुष्यप्रशस्यते ।
माघमासे मघर्क्षे तु फाल्गुने मासिचोत्तरे ॥ ४ ॥

प्. २०९)

 चित्तमासे तु चैत्रेर्क्ष वैशाखे मासि सूर्पभे ।
मूलर्क्षे ज्येष्ठमासे तु आषाढे चोत्तराढके ॥ ५ ॥

अथवा पूर्वपञ्चम्यां मासे मासे व्रतं चरेत् ।
नद्यब्धिवापि कुले वा नगाग्रे वा महावने ॥ ६ ॥

ग्राममध्ये सभास्थाने देवागारसमीपके ।
भूमि संशोध्य विधिवत् प्रपां कृत्वा तु सुन्दरम् ॥ ७ ॥

शिवलिङ्गसमिपाद्य सहस्रं वा तदर्थकम् ।
तदर्धं वा शतं वापि तदर्धार्धमथापि वा ॥ ८ ॥

मृतदारुशैललोहैर्वधातुजै क्षणिकैस्तु वा ।
रत्नजैश्च विशेषेण पूजार्थं संप्रकल्पयेत् ॥ ९ ॥

यवत्रयं समारभ्य यवैकेन विवर्द्धनात् ।
यवाद्विशतसङ्ख्यान्तं मृल्लिङ्गेस्योदयं भवेत् ॥ १० ॥

क्षणिकलिङ्गम् ।

एकाङ्गुलसमारभ्य अर्द्धार्धंगुल्विवर्द्धनात् ।
चतुर्विंशाङ्गुलं यावद् दारुलीङ्गप्रकल्पयेत् ॥ ११ ॥

यथालाभप्रमाणेन रत्नलिङ्गं प्रकीर्तितम् ।
माषत्रयं समारभ्य माषैकेन विवर्द्धनात् ॥ १२ ॥

यावदष्टसहस्रान्तं शैललिङ्गोदयं भवेत् ।
कल्पयेत् क्षणिकं लिङ्गं यथाकामं प्रमाणकम् ॥ १३ ॥

मृन्दारुशैललोहानां विशेषं किञ्चिदस्ति हि ।
लिङ्गयामे तु वेदांशे एकाङ्गं लिङ्गविस्तृतम् ॥ १४ ॥

प्. २१०)

अथवा गुणभागैकं पञ्चांशे द्व्यंशविस्तृतम् ।
लिङ्गयामे गुणांशेंशं तन्मूले चतुरश्रकम् ॥१५ ॥

अर्चभागमिदं वृद्धि शेषं सुवृत्तरूप वा सर्वं सुवृत्तमेव वा ।
सूत्रोपेतविहीनं वा छत्रकारशिरोन्वितम् ॥ १६ ॥

एवं लक्षणसंयुक्तं प्रत्येकं लिङ्गमाहरेत् ।
एकलिङ्गेऽधवा कुर्यात् सर्वलिङ्गविशेषतः ॥ १७ ॥

लिङ्गयामत्रथा कृत्वा व्योमांश भूगतं भवेत् ।
एकांशं पीठबन्धं स्यादेकांशमर्चनार्हकम् ॥ १८ ॥

अथवा पञ्चभागे तु द्व्यंशं पीठे निवेशयेत् ।
पूजाभागं त्रिभागं स्यात् सप्तभागे त्रिकोलकम् ॥ १९ ॥

अर्चभागमिदं वृद्धिशेषं पिण्डप्रवेशनम् ।
पूजांशोदयतुङ्गं तु पञ्चविंशतिभातिजे ॥ २० ॥

एकैकं विभजेद्धीमान् चत्वारिशति सङ्ख्यकम् ।
सहस्रलिङ्गमेवं हि अयुतस्य विधि शृणु ॥ २१ ॥

लिङ्गोदये तु पञ्चाशद्भगं कृत्वा विचक्षण ।
चत्वारिंशेंश पञ्चांशं कृत्वा लिङ्गयुतं भवेत् ॥ २२ ॥

पूजांशोदयं तुङ्गं तु दशभागविभाजिते ।
एकपञ्चादशेन लिङ्गपञ्चशतं भवेत् ॥ २३ ॥

शिवोदयेत् तु वेदांशे त्वेकनक्षत्र भावये ।
अष्टोत्तरशतं लिङ्गं परितः संप्रकल्पयेत् ॥ २४ ॥

प्. २११)

शिवोदये तु पूजांशे त्वेके पञ्चविभाजिते ।
पञ्चविंशति लिङ्गस्यात्पञ्चाशद्विभजे सति ॥ २५ ॥

लिङ्गद्विजशतपञ्चांशं लिङ्गस्य परिकल्पितः ।
अल्पलिङ्गस्य तारार्धं पादं वाष्टांशमेव वा ॥ २६ ॥

महालिङ्गस्य विस्तारं दूर्ध्वे संयोज्य पार्श्वयोः ।
तन्मानमल्पलिङ्गस्य महालिङ्गाद्विनिर्गतः ॥ २७ ॥

लिङ्गोपरि भवेल्लिङ्गं न कर्तव्यं कदाचन ।
अन्तराल भवेल्लिङ्गं मध्य सङ्कल्पयेत् क्रमात् ॥ २८ ॥

शिरोवर्त्तनयुक्तं वा हीनं वा कल्पयेद् बुधः ।
महालिङ्गशिरोमानं मध सङ्कल्पयेत् क्रमात् ॥ २९ ॥

रत्नलिङ्गशिरोमानमध सङ्कल्पयेत् क्रमात् ।
लिङ्गानामपि सर्वेषां सूत्रहीनं प्रकल्पयेत् ॥ ३० ॥

नन्द्यावर्तशिलापीठं शिवलिङ्गं विधानवत् ।
एवं लक्षणसंयुक्तं लिङ्गं सङ्ग्राहयेद् बुधः ॥ ३१ ॥

एवं संस्थाप्य पूर्वेद्युर्नवमे सप्तमेऽपि वा ।
निश्चित्य दिवसात्पूर्व सायान्न समयेद् बुधः ॥ ३२ ॥

स्नानं कृत्वा विधानेन यजमानसमन्वितम् ।
प्रपामण्डपमाविश्या भूतशुद्धिसमाचरेत् ॥ ३३ ॥

सकलिकरणं कृत्वा प्रदक्षिणमथाचरेत् ।
लिङ्गसङ्ख्य जपेन्मूलं यजमानसमन्वितम् ॥ ३४ ॥

प्. २१२)

जपान्ते प्रङ्मुखो भूत्वा क्षीरं भुक्व जितेन्द्रिय ।
मण्डपस्योत्तरे पार्श्वे शाययेत् सैकतोपरि ॥ ३५ ॥

ब्राह्मि मुहूर्ते उद्धाया पादप्रक्षालनं कुरु ।
मुखं शुद्धिं ततः कृत्वा आचम्ये देशिकोत्तमः ॥ ३६ ॥

भस्मना तिलकं दत्वा मूलमन्त्र जपेत् ततः ।
यजमानसमोपेतो स्नानं कृत्वा यथाविधिः ॥ ३७ ॥

सन्ध्यादि वन्दनं कृत्वा नित्यकर्म समाप्य च ।
प्रपामण्डपमाविश्य सकलिकृतविग्रहः ॥ ३८ ॥

मण्डपं पूजयेद् विद्वान् मण्डपे कल्पयेत् तु वा ।
चतुर्द्वारसमभ्यर्च्य पूर्वेण विधिना सह ॥ ३९ ॥

पूजयेदथ रक्षार्थं मन्त्रराजं सशक्तिकम् ।
प्रपामण्डपमध्ये वा पश्चिमे वापिचक्षण ॥ ४० ॥

विन्यसेत् तु महा * * मन्तैर्दारुमयैस्तु वा ।
उपर्यस्तरणं कल्प्य शुद्धवस्त्रादिकैर्यथा ॥ ४१ ॥

शिवसनं च तस्योर्द्धे लिङ्गसङ्ख्या प्रकल्पयेत् ।
पुण्याहं वचयेत् तत्र पञ्चगव्यमृतं तथा ॥ ४२ ॥

सङ्कल्पलिङ्गात् सङ्गृह्य स्नानवेद्युपरि न्यसेत् ।
प्रक्षाल्य चास्त्रमन्त्रेण पञ्चगव्यमृतादिकैः ॥ ४३ ॥

लिङ्गमन्त्रेण संस्नाप्य स्थापयेच्च शिवासने ।
तत् तन् मन्त्रेण चाभ्यर्च्य गन्धपुष्पं सुधूपकम् ॥ ४४ ॥

प्. २१३)

दीपं नैवेद्यताम्बूलं दापयेत् तदनन्तरम् ।
नीलोत्पलैर्वा कल्हारै पत्रैर्वा श्वेतपङ्कजैः ॥ ४५ ॥

अर्कैरारग्वधैर्वाथ चम्पकैर्वा विचक्षणः ।
रत्नैर्वा कनकैर्वाथ कल्पुरशकलेन वा ॥ ४६ ॥

अथवा बिल्वपत्रेण पूजयेल्लिङ्गमन्त्रतः ।
पूजार्थमाहृतं पुष्पं सङ्गृह्य शुद्धपात्रके ॥ ४७ ॥

निरीक्षणादिभिः शोद्ध्य धूपदीपं प्रदापयेत् ।
यजमानमधाभूय संप्रोक्ष्याध्यजलेन च ॥ ४८ ॥

भस्मना तिलकं कल्प्य शिवमन्त्रेण देशिकः ।
शिवहस्तं च सङ्कल्प्य यजमानस्य मूर्धनी ॥ ४९ ॥

त संस्थाप्य जले पद्ममूलमष्टोत्तरं शतम् ।
पूजार्थमाहृतं पुष्पं शङ्खध्वनिसमन्वितम् ॥ ५० ॥

यजमानकरे दद्यादर्चयित्वा विचक्षणः ।
अङ्गं प्रतिददेत्पुष्पं तत्तन्मत्र समुच्चरन् ॥ ५१ ॥

एकलिङ्गविशेषोऽस्ति परितो पीठबाह्यके ।
त्रिहस्तं वा तदर्थं वा स्थलमानं व्यपोह्य च ॥ ५२ ॥

पूजांशोदयमानं तत् तन्मानं व्याप्यमण्डलम् ।
तद्बाह्ये वेदिकामानं सप्ततालसमुन्नतम् ॥ ५३ ॥

उत्सेधसमविस्तार तदर्द्धार्द्धमथापि वा ।
त्रिमेखलयुतं वापि द्विमेखलयुतं तु वा ॥ ५४ ॥

प्. २१४)

चतुरश्रं सुवृत्तं वा परितः कल्पयेत् क्रमात् ।
सुधायासिकतैस्तत्र पूरये शुद्धवारिणा ॥ ५५ ॥

तद्वारिमण्डले दृष्ट्वा लिङ्गं सहस्रकं बुधः ।
पूर्ववत्पूजयेद् विद्वान् लिङ्गस्य परितः क्रमात् ॥ ५६ ॥

अग्रादि मूलपर्यन्तं भक्तिमुक्तिप्रदायकम् ।
मूलादि चाग्रपर्यन्तं पूजामुक्तिफलप्रदम् ॥ ५७ ॥

लिङ्गं च वरणं यत् तत् क्रमेण वारिमण्डले ।
यजमानेन चाभ्यर्च्य पूर्ववद् देशिकोत्तमः ॥ ५८ ॥

लिङ्गं प्रत्याढकार्द्धेन नैवेद्यं परिकल्पयेत् ।
धूपदीपं ततो दत्वा लिङ्गवरणमार्गतः ॥ ५९ ॥

नृत्तान्तां पूजयेद् विद्वान् लिङ्गस्य वरणं प्रति ।
गीतनृत्यादिकं सर्वं लिङ्गस्य परितः क्रमात् ॥ ६० ॥

संकल्प्य लिङ्गपूजान्ते शिवमन्त्रं शतं जपेत् ।
इष्टबन्धुजने सार्धं यजमानसमन्वितम् ॥ ६१ ॥

तद्वारिमण्डले स्नात्वा यद्देवदेवमन्त्रतः ।
अनेन विधिमार्गेण स्नात्वा तद्वारिमण्डले ॥ ६२ ॥

सोऽपि पापैर्विनिर्मुक्तः शिवसायुज्यमाप्नुयात् ।
महाशान्तिव्रत दृष्ट्वा नत्वा लिङ्गसहस्रकम् ॥ ६३ ॥

यः कुर्वच्छिवलोकेऽपि शिवेन सह मोदते ।
आचार्य पूजयेत् तत्र गोभूमिकाञ्चनादिकैः ॥ ६४ ॥

प्. २१५)

अस्य व्रतोपकाराणां नववस्त्रं प्रदापयेत् ।
महाशान्तिव्रतं प्रोक्तं गौरिव्रतमथ शृणु ॥ ६५ ॥

इति सूक्ष्मशास्त्रे क्रियापादे महाशान्तिव्रतं नाम एकचत्वारिंशत्पटलः ॥

गौरि संकोचनं वक्ष्ये शृणुत्वं तत्प्रभञ्जना ।
आयुरारोग्यजयदं पुत्रपौत्रसमृद्धिदम् ॥ १ ॥

आद्यं द्वितीयमेवं तु द्विविधं तरुणालयम् ।
कर्षणाद्यर्चनान्तं तु तरुणालसंग्रहेत् ॥ २ ॥

प्रासादे पतिते भिन्ने लिङ्गं च चलिते तथा ।
अन्यानि सर्व कर्माणि भाषितानि समानि च ॥ ३ ॥

मूलस्थाने विनिश्चित्य बालस्थानं तु कारयेत् ।
तदूर्ध्वे बालबाल्यत्वं तस्मान् मूले प्रवेशयेत् ॥ ४ ॥

प्रासादाग्रे तु कर्तव्यं दक्षिणे चोत्तरेऽपि वा ।
विंशद्धस्त प्रविस्तारमुत्तमं मण्डपं भवेत् ॥ ५ ॥

मध्यमं रविहस्तं स्याद् दशहस्तं तु कन्न्यसम् ।
षत्त्रिंशद्ग्रात्रसंयुक्तमुत्तमं मण्डपं स्मृतम् ॥ ६ ॥

षोडशस्तम्भसंयुक्तं मध्यमं मण्डपाधमम् ।
दिशिश्च विदिशिश्चैव निच्छिद्रं व्योमसंभवम् ॥ ७ ॥

चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।
वितानध्वजसंयुक्तं दर्भमालासमावृतम् ॥ ८ ॥

प्. २१६)

दीपैः पुष्पैः फलैः सार्धं माषमङ्गल पूजितम् ।
स्तम्भानि वेष्टयेत् तत्र प्रत्येकं वस्त्रवेष्टितम् ॥ ९ ॥

मण्डपं तु त्रिधा कृत्वा मध्यभागे तु वेदिका ।
रत्निमात्रमुत्सेधं दर्पणोदरसन्निभं ॥ १० ॥

वेद्या मूले तु परितः उपवेदी प्रकल्पयेत् ।
युगाङ्गुलसमुत्सेधं द्विगुणं नीवृमुच्यते ॥ ११ ॥

कुण्डानि परितः कुर्यात् किञ्चिद्भेदं विशेषतः ।
नवाग्निवाथ पञ्चाग्निं एकाग्निं समुदाचरेत् ॥ १२ ॥

योनिकुण्डानि सर्वाणि योनौ योनिं न कारयेत् ।
श्रोत्रार्धां शोच्चमानेन क्षेत्रं पञ्चैकभागिकम् ॥ १३ ॥

तत्पुस्ताबहिणिस्त्वाद् भवेत् पिप्पल पत्रवत् ।
योनिकुण्डं ततः कृत्वा लक्षणं सम्यगाचरेत् ॥ १४ ॥

उद्वास्य लिल्पिनं पश्चाद् गोमयेनानुलेपयेत् ।
पुण्याहं वाचयेत् तत्र ब्रह्मणान् भोजयेत् ततः ॥ १५ ॥

पश्चादुद्वास्य दुच्छिष्टं पुनः पुण्याहमाचरेत् ।
समर्यवदे सम्यग्वास्तु होमं तु कारयेत् ॥ १६ ॥

पर्यग्निकरणं कुर्यात् पुनः पुण्याहमाचरेत् ।
कृत्वा तु विधिना स्नात्वनं शुक्लचन्दनलेपितं ॥ १७ ॥

शुक्लवस्त्रधरोष्णीषं शुक्लमाल्येरलंकृतम् ।
अङ्कुरानर्पयेद् धीमान् स्थानशुद्धि समाचरेत् ॥ १८ ॥

प्. २१७)

उत्तराभिमुखो भूत्वा सकलिकरणं कुरु ।
गर्भगेहं प्रविश्याथ स्थानशुद्धिं ततः कुरु ॥ १९ ॥

गौरिशुद्धिं ततः कृत्वा स्नापयेद्रजनोदकैः ।
पुण्याहं तु ततः कृत्वा शुद्धोदैरभिषेचयेत् ॥ २० ॥

पञ्चगव्येन संस्नाप्य बिल्वपत्रेण घर्षयेत् ।
दर्भमूले तु वल्मिकं क्षेत्रे मृद्गृह्य लेपयेत् ॥ २१ ॥

गन्धोदकेन संस्नाप्य पूजयेद् धृदयेन तु ।
चन्दनागरुकोष्ठं च कुङ्कुमो शिरकेसरैः ॥ २२ ॥

कृगेलपत्रकर्पूरैः लाल्योढ्यं गौरि लेपयेत् ।
पिण्डिकाब्ज समालिप्य प्रोक्षयेच्छक्तिबीजकम् ॥ २३ ॥

शिरसा वामहस्तं तु हेमसूत्रं तु कौतुकम् ।
अष्टपुष्पैः समभ्यर्च्य समान्यं पुष्पपूरितम् ॥ २४ ॥

नववस्त्रेण संवेष्ट्य गौरिपीठक्रमेण तु ।
ततो बालगृहं पश्चात् पूजयेद् गौरि संयुतम् ॥ २५ ॥

यात्रा होमं तु कर्तव्यं तदग्रे होममाचरेत् ।
स्थण्डिलं हस्तमात्रेण निर्दोषैस्सिकतैरपि ॥ २६ ॥

अग्न्यादानादिकं सर्वम् अग्निकार्योक्तमाचरेत् ।
समिधा सद्यमन्त्रेण ईशानेन घृतं हुनेत् ॥ २७ ॥

अघोरेण चरु हुत्वा प्रत्येकं पञ्चविंशतिः ।
प्रासादं शक्तिबीजैश्च व्योमव्यापि दशाक्षरैः ॥ २८ ॥

प्. २१८)

शक्त्याद्यैश्चैव वामाद्यै प्रत्येकं षोडशं हुनेत् ।
स्पृष्ट्वा तु जुहुयाद्धोमं गौरिबीजमनुस्मरन् ॥ २९ ॥

तस्याग्रे स्थण्डिलं कृत्वा शालिभिः विमलैः शुभैः ।
कुम्भं वा करकं वापि स्थण्डिलोपरि विन्यसेत् ॥ ३० ॥

ससूत्रं सापिधानं च हेमपल्लवसंयुतम् ।
नालिकेरफलैर्युक्तान् लम्बकूर्चसमन्वितान् ॥ ३१ ॥

गौरिस्थं कुम्भमावाह्य कुम्भमध्ये तु विन्यसेत् ।
स्थापयेद् वाम मन्त्रेण अघोरेणावकुण्ठयेत् ॥ ३२ ॥

सान्निध्यं शक्तिमन्त्रेण पञ्चमेनार्चयेत् क्रमात् ।
दर्शये शक्तिमुद्रां च मुकलिं पद्ममुद्रिका ॥ ३३ ॥

नमस्काराख्यमुद्रां च बन्ध्वास्त्रं दिक्षु योजयेत् ।
सूत्रादिभिः समोपेता अभितोऽष्ट घटान्न्यसेत् ॥ ३४ ॥

वामादिशक्तयश्चाष्टौ इन्द्रादीशानमन्तकम् ।
कुम्भमध्ये समावाह्य तत् तद् बीजमनुस्मरन् ॥ ३५ ॥

पूजयेद् गौरिमन्त्रेण गन्धपुष्पादिभिः क्रमात् ।
नैवेद्यं धूपदीपं च ताम्बूलं च निवेदयेत् ॥ ३६ ॥

जयादिरभ्याधानां च राष्ट्रभृच्च क्रमाद्धुनेत् ।
पूर्णाहुतिं च शिरसा घटमुद्धारयेत् ततः ॥ ३७ ॥

अस्त्रेण छादयेद् बिम्बं तटाके चैव निक्षिपेत् ।
पञ्चगव्येन संप्रोक्ष्य प्रविशेद्यागमण्डपे ॥ ३८ ॥

प्. २१९)

स्थण्डिलं शालिभिः कुर्यादष्टद्रोणैश्च शालिभिः ।
तण्डुलैश्च तिलैश्चैव लाजैः पुष्पैश्च दर्भकैः ॥ ३९ ॥

तन्मध्ये नलिनं लिख्या अष्टपत्र सकर्णिकम् ।
शिरसा वाहयित्वा तु प्रदक्षिणमथाचरेत् ॥ ४० ॥

सर्वातोद्यं समायुक्तं ब्रह्मघोषसमन्वितम् ।
शनैः प्रदक्षिणं कुर्यादुमासूक्तजपं क्रमात् ॥ ४१ ॥

मण्डपं तु प्रविश्याथ वेदिकोर्ध्वे तु विन्यसेत् ।
गौरिबीजमनुस्मृत्य कुम्भं तत्रैव पूजयेत् ॥ ४२ ॥

अभितस्थापत्कुम्भान् वामादि शक्तयः क्रमात् ।
स्वनाममन्त्रेरभ्यर्च्य गन्धपुष्पादिभिर्यजेत् ॥ ४३ ॥

तत्तन्मूर्त्या कृतं ध्यात्वा स्वस्वबीजेन कुम्भकैः ।
गन्धपुष्पादिभिश्चैव पूजयेत् तु निवेद्यकम् ॥ ४४ ॥

ऋगाध्यायनं कृत्वा उमासूक्तं जपेत् क्रमात् ।
श्रीसूक्तं रुद्रसूक्तं च पुरुषसूक्तत्रयम्बकम् ॥ ४५ ॥

शान्तिद्वयं जपेद्धिमान् दक्षिणे तु विशेषतः ।
आचार्यो मूर्तिपैस्सार्धं ततो होमसमाचरेत् ॥ ४६ ॥

अग्न्यादानादिकं सर्वं अग्निकार्योक्तमार्गतः ।
समिधाज्य चरून् लाजान् सर्षपाश्च यवान् तिलान् ॥ ४७ ॥

होमद्रव्याणि सप्तैते जुहुयाद्वै क्रमेण तु ।
पलाशोदुम्बरश्वत्थो बिल्वं च खादिरं तथा ॥ ४८ ॥

प्. २२०)

मूलेन जुहुयादाज्यमघोरेण चरूं हुनेत् ।
लाजं वामेन मन्त्रेण सर्षपं कवचेन तु ॥ ४९ ॥

यव हुत्वा तु शिखया तिलमस्त्रेण होमयेत् ।
शतस्यत्रतयं वापि तस्यार्धं वार्धमेव वा ॥ ५० ॥

प्रत्येकं जुहुयाद्धीमान् द्रव्यान्ते व्याहृतिं हुनेत् ।
सर्वद्रव्यसमायुक्तं हव्यवाहेन होमयेत् ॥ ५१ ॥

एवं जागरणौ रात्रौ प्रभाते प्रोक्षणं कुरु ।
आचार्यो मूर्तिपैस्सार्थं विधिना स्नानमाचरेत् ॥ ५२ ॥

पूर्णाहुतिं च शिरसा हुत्वाग्निं च विसर्जयेत् ।
शक्तिकुम्भं समुद्धृत्य कृत्वा हर्म्या प्रदक्षिणम् ॥ ५३ ॥

सर्वतोद्यसमायुक्तं सर्वालङ्कारसंयुतम् ।
पुत्रभृत्र कलत्रैश्च सर्वसंपत् सुखावहम् ॥ ५४ ॥

गर्भगेहं प्रविश्याथ स्थापयेत् स्थण्डिलोपरि ।
सुमुहूर्ते निरिक्ष्याथ देवाज्ञो सन्निवेशयेत् ॥ ५५ ॥

तत्रैव विन्यसेद् गौरि अष्टत्रिंशत् कलान्यसेत् ।
मन्त्रपुष्पा ततो दत्वा मन्त्रान्नं च निवेदयेत् ॥ ५६ ॥

नववस्त्रेण संवेष्ट्य गन्धपुष्पस्रगादिभिः ।
प्रभात हविषं दत्वा ताम्बूलं च निवेदयेत् ॥ ५७ ॥

मुखवासं ददेद्धीमान् चुलुकोदकसंयुतम् ।
नृगाध्यायनं कुर्यात् स्तोत्रनृत्तं च वाद्यकम् ॥ ५८ ॥

प्. २२१)

प्रोक्षणान्ते विशेषेण स्नपनैरभिषेचयेत् ।
प्रोक्षणान्ते विशेषेण उत्सव्यं सम्यगाचरेत् ॥ ५९ ॥

इति सूक्ष्मशास्त्रे गौरिसंकोचविधिं नाम द्विचत्वारिंशत्पटलः ॥

अथ वक्ष्योद्भुतं शान्तिं राजाराष्ट्रहिताय च ।
उत्पात द्विविधं प्रोक्तं सामान्यं च महाद्भुतम् ॥ १ ॥

सामान्यदीर्घफलदं सद्य एव महत्फुतम् ।
तत्तत्प्रतिक्रिया सम्यक् कर्तव्या दोषनाशनि ॥ २ ॥

अकर्तव्ये तु सासन्या सर्वदोषावहन्नृणाम् ।
ब्राह्मणानां नृपाणां च विशेषाद् दोषदं महत् ॥ ३ ॥

तस्मात् प्रतिक्रिया सद्योन्नृपेणैवं विलम्बिनि ।
भास्करस्योदये रात्राममावस्योन्दुदर्शने ॥ ४ ॥

भूमिकम्पे नदिक्षोभे कूपक्षोभे तटाकके ।
प्रतिमारोदने चैव ततश्शोणितवर्षके ॥ ५ ॥

पाषाणपांशुवर्षे च तथैव मधुवर्षके ।
वर्षे तु क्षीरसृग्भ्यां च वृक्षाच्छ्रोणितकस्रवे ॥ ६ ॥

शिखादि पादुकान्तयद् देवालयमकारणात् ।
पतिते चैव तद्धामस्थानास्थानान्तराप्तिके ॥ ७ ॥

वृक्षे स्थानान्तरं प्राप्ते वृक्षेवान्यफलोद्भवे ।
तदन्य पुष्प संभूते गन्धानन्य तु संभवे ॥ ८ ॥

प्. २२२)

लिङ्गं चैवोष्णसंभूते प्रतिमायां तथैव च ।
अण्डजा स्वेदजाश्चैव चतुष्पाञ्च तथा नरा ॥ ९ ॥

स्वजात्यन्य प्रसूते च प्रासाद भ्रमणे तथा ।
श्वेतवायससंभूते पर्वतद्वन्दयुद्धके ॥ १० ॥

आद्रवृक्ष स्वयं दग्धे प्रतिमाकम्पने तथा ।
भिन्ने च शिववर्द्धन्यौ लिङ्गप्रतिमयोस्तु वा ॥ ११ ॥

प्रतिमास्पोटने चैव लिङ्गस्पोटनके तथा ।
प्रतिमानिलिदृष्टेन करिणिमदसंयुते ॥ १२ ॥

अनग्नि चोत्थिते धूमे लिङ्गं वर्ण्यान्तरे सति ।
अङ्गाधिकसमुत्पन्ने चतुष्पात् तु तथैव च ॥ १३ ॥

भेरि घोषे स्वयाह्येवं प्रोक्तास्वेते महाद्भुतः ।
दर्शने प्रतिसूर्यस्य प्रतिचन्द्रस्य दर्शने ॥ १४ ॥

रात्राविन्द्रधनुर्दृष्टे त्वन्नि नक्षत्र दर्शने ।
गृहनक्षत्रपाते च सप्ताहे शनिसंकुले ॥ १५ ॥

नैरन्तर्येण सप्ताहं परिवेषेन्दुसूर्ययोः ।
महामातप्रकोपे च दिशां दाहसमुद्भवे ॥ १६ ॥

लि"गं तु पूजितं पुष्पं प्राप्ते वर्णान्तरं सति ।
अकस्मात् पतिते पुष्पे सितपुष्पे सिते तथा ॥ १७ ॥

अतिवाशलभोत्पन्ने उन्मत्ते वाहिने तथा ।
शुकाश्च मूषिकोत्पन्ना विषसर्पादिको भवेत् ॥ १८ ॥

प्. २२३)

प्रासादे च सभास्थाने गोपुरे मण्डपे तथा ।
परिवारालये चैव मधु नीड समुद्भवे ॥ १९ ॥

अतिवृष्टौ प्यानवृष्टौ युद्धोद्योगे नृपस्य तु ।
पतति कारणार्धामे वृषे चैव विशेषतः ॥ २० ॥

राज्ञा प्रधानमहिषि प्रधानश्च गजे मृते ।
रक्तस्त्रिवायसोलूकजम्बुगृद्ध्राश्च पिङ्गला ॥ २१ ॥

नृपवेश्मप्रविष्टे च स्पृष्टे चैव सुरालये ।
देवालयोपरिष्टात् तु नृपस्य भवनोपरि ॥ २२ ॥

श्वारोहे रुदिते तत्र तत् तज्जाति क्रियास्तथा ।
लिङ्गं च प्रतिमायां वा खद्योतरोहिणे सति ॥ २३ ॥

केचित् द्व्योमे तु केतुभ्यो नानारूपेण देशिकः ।
लिङ्गं मूले च बिम्बे च जत्वारोहणके सति ॥ २४ ॥

व्यतिरिक्तक्रियाकार्यो सामान्ये स्त्वद्भुता स्मृताः ।
तेषां दोषनिवृत्यर्थं प्रवक्ष्यामि प्रतिक्रियाम् ॥ २५ ॥

रात्रौ भानुप्रविषे च प्राणिनाशं नृपद्भयम् ।
दिशाहोमं ततः कृत्वा महास्नपनमुत्तमम् ॥ २६ ॥

कृत्वा संपूज्य देवेशं प्रभूत हविषं ददेत् ।
ब्राह्मणान्भोजयेत् तत्र व्रतिं तत्र तु भोजयेत् ॥ २७ ॥

एवमेवं तु सप्ताहं दिनं प्रतिदिनं प्रति ।
चन्द्रोदये त्वमावास्यां गोनाशं सस्यनाशनम् ॥ २८ ॥

प्. २२४)

पूर्ववत् कारयेत् सर्वं तद्दोषशमनाय च ।
संभवेद्भूमिकम्पे च राजाराष्ट्रस्य दोषकृत् ॥ २९ ॥

क्षिरप्रस्थ सहस्रैश्च मधुसर्पि सहस्रकैः ।
संस्नाप्य शिवसंयङ्महाव्योमेति मन्त्रतः ॥ ३० ॥

पलाशशमिधा चैव शतहोमं तु कारयेत् ।
ब्रह्मणान्भोजयेन्नित्यं एकविंशद् दिनान्तकम् ॥ ३१ ॥

नदिक्षोभे तथा कुपतटाकक्षोभयोस्तथा ।
दुर्भिक्षं जायते लोके महामारि भवेत् ततः ॥ ३२ ॥

तत् तिरे मण्टपं कृत्वा नवहस्तप्रमाणतः ।
मण्टपे मण्डलं सम्यक् तन्मध्ये स्थण्डिलं कुरु ॥ ३३ ॥

पञ्चाग्निकारयेत् तत्र अग्निकार्योक्तमार्गतः ।
व्याघातसमिधः कृत्वा अस्त्रमन्त्रेण देशिकः ॥ ३४ ॥

हृदयेन घृतं हुत्वा चरुं पाशुपतेन च ।
शतमर्थं तदर्धं वा प्रत्येकं जुहुयात् क्रमात् ॥ ३५ ॥

मिन्दाहुतिं च कुर्वित व्याहृतिं च हुने क्रमात् ।
जयादिरभ्याधानं च राष्ट्रभृश्च क्रमाधुनेत् ॥ ३६ ॥

शिवं संपूज्य विधिवद् ब्राह्मणान्भोजयेत् ततः ।
एवं क्य्रुआत् तु पञ्चाहम् अन्ते चोत्स्स्वमाचरेत् ॥ ३७ ॥

प्रतिमारोदने चैव गोनाशं धान्यनाशनम् ।
तन्मण्डलाधिपो राजा ग्रामं राष्ट्रं विनिश्यति ॥ ३८ ॥

प्. २२५)

कृत्वा तु प्रतिमाशुध्दिं संप्रोक्षणमथाचरेत् ।
पक्षं पक्षद्वयं वाधाशमिथैशान्तिहोमकैः ॥ ३९ ॥

स्नपनं कारयेन्नित्यं दिशाहोमसमन्वितम् ।
ब्राह्मणान्भोजयेन्नित्यं पतिनां चैव भोजयेत् ॥ ४० ॥

ततःश्शोणित वर्षेक्षु प्राणिनां नाशनं भवेत् ।
प्रासादमण्डपादीनि तोयेन क्षालयेत् ततः ॥ ४१ ॥

आलयं तु समन्तात् तु गोमयेनानुलेपयेत् ।
पर्यग्निकरणं कृत्वा पुनः पुण्याहमाचरेत् ॥ ४२ ॥

क्षीरं प्रस्थ सहस्रैश्च मधुसर्पि सहस्रकैः ।
संस्नाप्य विधिवन्मत्रि महाव्योमिति मन्त्रतः ॥ ४३ ॥

पलाश समिधा चैव शान्तिहोमं च कारयेत् ।
एवं कुर्यात् तु सप्ताहं मन्ते चोत्सवमाचरेत् ॥ ४४ ॥

मधुवर्षे क्षीरवर्षे विप्रक्ष त्रियदोषकृत् ।
तत् तत् प्रस्थहस्रैश्च स्नापयेद् देशिकोत्तमः ॥ ४५ ॥

पूजयेत् तु विशेषेण प्रभूतहविषं ददेत् ।
अशोकसमिधा चैव शान्तिहोमं तु कारयेत् ॥ ४६ ॥

एवं कुर्यात् तु सप्ताहं पश्चाद् ब्राह्मणभोजनम् ।
वृक्षाच्छ्रोणितसंभूते परचक्राद् भयं भवेत् ॥ ४७ ॥

वृक्षमूले दिशाहोमं कारयेद् दिशिकोत्तमः ।
ब्राह्मणान् भोजयेत् तत्र वास्तु देवान् प्रपूजयेत् ॥ ४८ ॥

प्. २२६)

पूजयेत् तु शिवं पश्चात् कुर्या च स्नपनं महत् ।
पूजयेत् तु विशेषेण प्रभूत हविष ददेत् ॥ ४९ ॥

पतिते पादुकान्तयद् देवालयमकारणात् ।
स्त्रीणां चैव तु बालानां क्षेत्राणां चैव नाशनम् ॥ ५० ॥

प्रासादं पूर्ववत् कृत्वा जीर्णं चैव समुद्धरेत् ।
पुनः बिम्बं समापाद्य पूर्ववत् स्थापयेद् गुरुः ॥ ५१ ॥

विशेषपूजनं कृत्वा अन्ते चोत्सवमाचरेत् ।
स्थानान्तरं च प्राप्तिश्चेत् स्थानभ्रंशं नृपस्य तु ॥ ५२ ॥

तस्थानं पूर्ववत् कृत्वा निर्माणं सम्यगाचरेत् ।
देवस्य स्थापनं प्रग्वत्पूजयेत् तु विशेषतः ॥ ५३ ॥

गव्याभिषेचनं कृत्वा ब्राह्मणान् भोजयेत् ततः ।
वर्धनी शिवकुम्भौ च च्छिन्ने भिन्ने तदन्तिके ॥ ५४ ॥

तद्राष्टौ दैवतानां च स्नपनं चाभिषेचयेत् ।
कारयेद्विधिवद्राजा भक्त्या तटे षशान्तये ॥ ५५ ॥

ब्रह्मस्थानान्तर प्राप्ते वक्षे चान्यफलोद्भवेत् ।
तदन्यकुसुमोत्पन्ने रसगन्धान्यसंभवेत् ॥ ५६ ॥

मर्त्यानां चैव सर्वेषां दुःखं तद्राष्ट्रवासिनाम् ।
तज्जातिवृक्षं संसर्वं पूर्वस्थाने विशेषतः ॥ ५७ ॥

शान्तिहोमं ततः कुर्यान् मयूरसमिधं तत ।
शिवसंपूज्य विधिवत् सप्ताहं स्नपनं कुरु ॥ ५८ ॥

प्. २२७)

क्षिराभिषेचनं कृत्वा वास्तुदेवान् प्रपूजयेत् ।
ततः फलानि सर्वाणि पुष्पैस्सर्वेय्यजेच्छिवम् ॥ ५९ ॥

सर्वगन्धसमायुक्तं पूजयेत् तु विशेषतः ।
उष्णं तु प्रतिपन्ने च लिङ्गासु प्रतिमासु च ॥ ६० ।

मर्त्यानां चैव सर्वेषां नानारोग प्रजायते ।
गोनाशं चैव दुर्भिक्षं तद्राष्ट्रौ जायते ध्रुवम् ॥ ६१ ॥

क्षीरप्रस्थ सहस्रैश्च मथुसर्पि सहस्रकैः ।
नालिकेरोदकेनापि स्नापयेत् तु शिवं बुधः ॥ ६२ ॥

स्नपनं तत्र कर्तव्यं महाव्योमेति मन्त्रतः ।
पूजयेत् तु विशेषेण कुङ्कुमो शिरचन्दने ॥ ६३ ॥

कृष्ठेनागरुकर्पूरैरालोढ्यं लेपयेच्छिवम् ।
महाहवि प्रदातव्यं दिशाहोमं तु कारयेत् ॥ ६४ ॥

एवं कुर्यात् तु सप्ताहं शीतकुम्भं तदन्तके ।
अण्डजास्वेदजाश्चैव चतुष्पादा नरास्तथा ॥ ६५ ॥

स्वजात्यन्य प्रसूतिश्चेद् भूपतेर्मरणं धृवम् ।
गोभूमिकाञ्चनादिनि दानं कुर्या प्रयत्नतः ॥ ६६ ॥

स्नपनं कारयेदेक समिधा शान्तिहोमकम् ।
एवं कुर्यात् तु सप्ताहं अन्ते चोत्सवमाचरेत् ॥ ६७ ॥

प्रासादभ्रमणोत्पन्ने राष्ट्रं स्यापद्रवो भवेत् ।
प्रत्येकं प्रस्थसाहस्रैर्गव्यैः प्रासादमेव च ॥ ६८ ॥

प्. २२८)

पञ्चब्रह्मषडङ्गैश्च स्नापयेत् परमेश्वरम् ।
प्रासादं प्रोक्षयेद् धीमान् पूर्वोक्त विधिना सह ॥ ६९ ॥

स्नपनं तत्र कुर्वीत ब्राह्मणान् भोजयेत् सुधिः ।
सित्तोत्र सुममुत्पन्ने राष्ट्रक्षोभं भवेत् सदा ॥ ७० ॥

स्नपनं तत्र कुर्वीत पूजयेत् तु विशेषतः ।
वैकङ्कतेन समिधा शान्तिहोमं तु कारयेत् ॥ ७१ ॥

प्रोक्षयेत् पञ्चगव्येन प्रासादेन तु पर्वतम् ।
तत्पर्वत समीपे तु लिङ्गं संस्थाप्य पूजयेत् ॥ ७२ ॥

तद्राष्ट्रदेवतानां च स्नपनं हविषं ददेत् ।
विशेषपूजनं कुर्यात् तदन्ते चोत्सवं चरेत् ॥ ७३ ॥

आद्रवृक्षे स्वयं दग्धे बालानां नाशनं भवेत् ।
अग्निक्षोभं च तद्राष्ट्रे सद्य एव भवेद् ध्रुवम् ॥ ७४ ॥

ग्रामस्यैव चतुर्भिक्षो होम कुर्याद् विशेषतः ।
समिधाज्य चरूलाजान् सर्षपान् होममाचरेत् ॥ ७५ ॥

तद् वृक्ष समिधा चैव पञ्चब्रह्म क्रमाद्धुनेत् ।
शतमर्धं तदर्धं वा प्रत्येकं जुहुयात् क्रमात् ॥ ७६ ॥

पञ्चब्रह्म षडङ्गैश्च प्रासादेन तु मन्त्रतः ।
प्रत्येकं तु सहस्रं वा तदर्धं जुहुयात् क्रमात् ॥ ७७ ॥

मिन्दाहुतिं ततो हुत्वा जयाद्या जुहुयात् ततः ।
कृत्वा तु स्नपनं पश्चाद् विशेषेणैव पूजयेत् ॥ ७८ ॥

प्. २२९)

औदुम्बरेण समिधा शान्तिहोमं तु कारयेत् ।
प्रतिमा कम्पनोत्पन्ने राजामरणमाप्नुयात् ॥ ७९ ॥

कृत्वात् तु प्रतिमां शुद्धिं गव्येनैवाभिषेचयेत् ।
दिशाहोमं ततः कृत्वा पुण्याहं वाचयेत् ततः ॥ ८० ॥

एवं कुर्यात् तु सप्ताहं तदन्ते चोत्सवं कुरु ।
भिन्ने च शिववर्धन्यौ लिङ्गं प्रतिमयं तथा ॥ ८१ ॥

परचक्राद्भयं भूमौ महामारि प्रवर्त्तते ।
बालस्तानं ततः कृत्वा प्रासादं पूर्ववत् कुरु ॥ ८२ ॥

प्रासादं प्रोक्षणं कृत्वा पूर्वोक्त विधिना सह ।
तेनैव भिन्नलिङ्गं चेदुद्धृत्य स्थापयेन्नवम् ॥ ८३ ॥

अन्येनापि प्रमाणेन कारयेद् देशिकोत्तमः ।
प्रतिष्ठाकारयेद् धीमान् पूर्वोक्त विधिना सह ॥ ८४ ॥

प्रत्यङ्गोपङ्गहीने च वस्त्राभरणहीनके ।
पुनः सन्धानकं कृत्वा संप्रोक्षणमथाचरेत् ॥ ८५ ॥

दिशाहोमं ततः कृत्वा महास्नपनमाचरेत् ।
पञ्चगव्यामृतैश्चैव अभिषेकं च कारयेत् ॥ ८६ ॥

क्षिरप्रस्थ सहस्रैश्च मधुप्रस्थ सहस्रकैः ।
स्नापयेत् परमेशानं महाव्योमेति मन्त्रतः ॥ ८७ ॥

स्नपनं कारयित्वा तु ब्राह्मणान् भोजयेत् ततः ।
समिधा खादिरेणैव शान्तिहोमं तु कारयेत् ॥ ८८ ॥

प्. २३०)

एवं कृत्वा तु सप्ताहमन्ते चोत्सवमाचरेत् ।
प्रतिमोन्मिलनं कृत्वा (यत्र) राष्ट्रग्रामस्य नाशनम् ॥ ८९ ॥

पक्षं पक्षद्वयं वाक्समिधा शान्तिहोमकम् ।
स्नपनं कारयेन्नित्यं दिशाहोमं तु कारयेत् ॥ ९० ॥

ब्राह्मणान्भोजयेन्नित्यं दीनान्धानां च भोजयेत् ।
करिणिमदसंयुक्ते महावातप्रकोपने ॥ ९१ ॥

वाहनानां क्षयं चैव स्त्रिजनानां क्षयं भवेत् ॥
शिवसंपूज्य विधिवत् स्नपनं कुरु नित्यशा ॥ ९२ ॥

शिवागैश्चैव विद्याङ्गै शिवमन्त्रैश्च होमयेत् ।
एवं सप्तदिनं नीत्वा महाहविं निवेदयेत् ॥ ९३ ॥

अनग्नौ चोद्धिते धूमे वाहनानां क्षयं भवेत् ।
परचक्राद्भयं तत्र भूमौ संभवति ध्रुवम् ॥ ९४ ॥

तत्प्रदेशञ्च खात्वा तु पञ्चमृद्भिश्च पूरयेत् ।
व्याख्यात समिधा चैव शान्तिहोमं तु कारयेत् ॥ ९५ ॥

ब्राह्मणान् भोजयेत् तत्र दीनानां चैव भोजयेत् ।
क्षिरप्रस्थसहस्रैश्च स्नापयेत् परमेश्वरम् ॥ ९६ ॥

तदन्ते स्नपनं कुर्याच्छितकुम्भं तदन्तके ।
लिङ्गं वर्णान्तरे प्राप्ते जातिदूषणमालभेत् ॥ ९७ ॥

एलालवङ्गकर्पूर जातिजम्बूफलं मुरै ।
पेषयित्वा यथा मन्त्रि लिङ्गमालेपयेत् ततः ॥ ९८ ॥

प्. २३१)

स्नपनं कारयेदन्ते सप्ताहं शान्तिहोमकम् ।
अशोकसमिधा हुत्वा त्र्यम्बकेनैव देशिका ॥ ९९ ॥

विशेषपूजनं कृत्वा तदन्ते विप्र प्रभोजने ।
भेरिघोस स्वयं जाते महामारि प्रवर्त्तते ॥ १०० ॥

स्नपनं कारये बिल्वसमिधा शान्तिहोमकम् ।
पक्षं पक्षद्वयं वापि एवमेवं समाचरेत् ॥ १०१ ॥

एवं महद्भुतं प्रोक्तं शृणु सामान्यमद्भुतम् ।
आदित्योदयकाले तु प्रतिसूर्यस्य दर्शने ॥ १०२ ॥

परचक्राद्भयं भूमौ ज्वरग्रस्तानरस्तथा ।
अश्वद्धसमिधा चैव शान्तिहोमं तु कारयेत् ॥ १०३ ॥

तदन्ते स्नपनं कुर्यात् पूजयेत् तु विशेषतः ।
प्रभूत हविषा दत्त्वा एवं सप्ताहमाचरेत् ॥ १०४ ॥

यथा चन्द्रोदये काले प्रतिचन्द्रस्य दर्शने ।
दुर्भिक्षं जायते लोके महामारि प्रवर्तते ॥ १०५ ॥

प्रत्यग्दर्शनस्योक्तं मार्गेणैव समाचरेत् ।
रालाविद्रधरुदृष्टौ वह्निनक्षत्रदर्शने ॥ १०६ ॥

ग्रहनक्षत्रपाते च अनावृष्टिं न संशयः ।
ज्वरग्रस्ता नरास्सर्वे वाहनानां क्षयं भवेत् ॥ १०७ ॥

पूजयित्वा शिवं तत्र महास्नपनमाचरेत् ।
शान्तिहोमं ततः कृत्वा अश्वद्ध समिधा ततः ॥ १०८ ॥

प्. २३२)

एवं कृत्वा तु सप्ताहं तदन्ते चोत्सवं कुरु ।
नैरन्तर्येण सप्ताहं मनिशं पतिते सति ॥ १०९ ॥

अतिवृष्टिन्नराणां च रोगं संभवति ध्रुवम् ।
अवसाने घृतक्षीरप्रस्तनां तु सहस्रकैः ॥ ११० ॥

स्नापयेत् परमेशानं पूजयेत् तु विशेषतः ।
तदन्ते स्नपनं कुर्यात् प्रभूत हविषं ददेत् ॥ १११ ॥

भास्करं वा तथा सोमं सप्ताहं परिवेष्टितम् ।
तन्मण्डलाधिपो राजा युद्धे मरणमाप्नुयात् ॥ ११२ ॥

भूदानं तिलगोदानं हेमदानं तथैव च ।
कृत्वा प्रस्तसहस्रै च क्षिरेणैव महेश्वरम् ॥ ११३ ॥

स्नापये तु विशेषेण तदन्ते स्नपनं कुरु ।
दिशाहोमं ततः कृत्वा एवं सप्ताहमाचरेत् ॥ ११४ ॥

लिङ्गं तु पूजिते पुष्पे प्राप्ते वार्णान्तरे सति ।
वस्त्रानुलेपनं तद्वद्गामदूषणमादिशेत् ॥ ११५ ॥

शिव संपूज्य विधिवत् प्रभूत हविषं ददेत् ।
अतिव शलभोत्पन्ने उन्मत्ते वाहने तथा ॥ ११६ ॥

शुकाश्च मूषिकानां च विषसर्पाधिको भवेत् ।
प्राणिनां नशनं चैव अनावृष्टिं न संशयः ॥ ११७ ॥

प्रासादस्याग्रतः कुर्या मण्डपं चतुरश्रकम् ।
दशद्वादशहस्तं वा दर्पणोदरसन्निभम् ॥ ११८ ॥

प्. २३३)

स्तम्भै षोडशभिर्युक्तं सर्वालङ्कारसंयुतम् ।
हस्तद्वयप्रमाणेन वृत्तकुण्डं तु मध्यमे ॥ ११९ ॥

मेघलात्रियसंयुक्तमेकैकं तु षडङ्गुलम् ।
नाभियोनिसमायुक्तं कारयेद् देशिकोत्तमः ॥ १२० ॥

दिशासु चतुरश्राणि कोणेषु च कुशेशयम् ।
शिवाग्निं कल्पयित्वा तु अग्निकार्योक्तवन्मना ॥ १२१ ॥

समिधाश्च चरुं लाजान् सर्षपं लवणं तथा ।
कार्पासस्य तु बीजं च होमयेद् देशिकोत्तमः ॥ १२२ ॥

पलाश खादिराश्वद्धावट पूर्वादिषु क्रमात् ।
शमिबिल्वमशोकं च मयूरं च विदिक्षु च ॥ १२३ ॥

पलाशं तु प्रधानं स्यात् सद्यमन्त्रेण होमयेत् ।
पञ्चब्रह्मषडङ्गैश्च विद्याङ्गैर्मूलमन्त्रतः ॥ १२४ ॥

पाशुपतेन चास्त्रेण अघोरास्त्रेण बुद्धिमान् ।
सहस्रं वा तदर्धं वा प्रत्येकं जुहुयात् क्रमात् ॥ १२५ ॥

जयादिरभ्याधानाश्च राष्ट्रभृश्च क्रमाद्धुनेत् ।
तदन्ते स्नपनं कुर्याद् विशेषेणैव पूजयेत् ॥ १२६ ॥

महाहविः प्रदातव्यं ब्राह्मणान् भोजयेत् ततः ।
एवमेवं तु मध्याह्ने जप्त्वेवं कारयेद् बुधः ॥ १२७ ॥

प्रासादे च सभास्थाने गोपुरे मण्डपे तथा ।
परिवारालये चैव मधु निडसमुद्भवे ॥ १२८ ॥

प्. २३४)

ग्रामस्य नाशनं चैव नृपते मरणं ध्रुवम् ।
प्रपोह्य मधुनिड तत्प्रोक्षयेच्छुद्धवारिणा ॥ १२९ ॥

शिवसंपूज्य विधिवद् दिशाहोमं तु कारयेत् ।
मध्वाज पयसाधीमान् स्नापयेत् परमेश्वरम् ॥ १३० ॥

समिद्भिन्नीडसंभूतैः शान्तिहोमं तु कारयेत् ।
तदन्ते स्नपनं कुर्याद् देवं सप्ताहमाचरेत् ॥ १३१ ॥

उत्सवं कारयेदन्ते सप्ताहं च त्रिहं तु वा ।
अनावृष्टि समुत्पन्ने गोनाशं सस्यनाशनम् ॥ १३२ ॥

समिधा खादिरेणैव शान्तिहोमं तु कारयेत् ।
क्षीराभिषेचनं कृत्वा तदन्ते स्नपनं कुरु ॥ १३३ ॥

कुर्याद् देवं तु सप्ताहं शितकुम्भं ततः कुरु ।
अतिवृष्टिसमुद्भूते दुर्भिक्षं भवति ध्रुवम् ॥ १३४ ॥

मधुप्रस्तसहस्रैश्च घृतप्रस्थसहस्रकैः ।
स्नापयेत् परमेशानं तदन्ते स्नपनं कुरु ॥ १३५ ॥

आलोढ्य रजनी पश्चात् कर्पूरेण विमिश्रतम् ।
षडङ्गुलप्रमाणेन वेष्टयेल्लिङ्गपीठिका ॥ १३६ ॥

कनिष्ठागुल्परिणाहं कर्पूरेण तु वर्जितम् ।
गोघृतेनसमायुक्तं वेदतालप्रमाणतः ॥ १३७ ॥

सहस्रं वा तदर्धं वा दीपानारोपयेत् क्रमात् ।
मुद्गभिन्नसमायुक्तं प्रभूतहविषं ददेत् ॥ १३८ ॥

प्. २३५)

शान्तिहोमन्ततः कृत्वा पालाशसमिधं तथा ।
प्रधानपङ्कजं वापि मरणं तु भवेद् यति ॥ १३९ ॥

विशेषपूजनं कुर्यात् त्रियां तु समाचरेत् ।
युद्धेद्योगे नृपस्यैव विना पातद्रमस्य तु ॥ १४० ॥

पतिते कारणाद्भूमौ प्रधानमहिषि तथा ।
प्रधानाश्च गजं वापि मरणं तु भवेद्यति ॥ १४१ ॥

भूपते मरणं चात्र सद्ययेव भवेद्ध्रुवम् ।
महादानं प्रकुर्वित ब्राह्मणानां विशेषतः ॥ १४२ ॥

पूजयित्वा महेशानां महास्नपनमारभेत् ।
महाहविस्ततो दत्वा वास्तुदेवान् प्रपूजयेत् ॥ १४३ ॥

देवानामालयेवाथ नृपस्यैव गृहेऽथवा ।
विद्यापियागशालायां सभास्थाने च चत्वरे ॥ १४४ ॥

मठे तटाकतीरे वा तथा कूपस्यतिरके ।
प्रतिक्रिया च कर्तव्या रक्तस्त्रि जायते यदि ॥ १४५ ॥

तदा मुञ्चति तद्ग्रामं आलयेऽपि तथैव च ।
सभास्थाने समुत्पन्ने ग्रामनाशं भवेत् तदा ॥ १४६ ॥

चत्वारे च समुत्पन्ने प्राणिनाशं तु जायते ।
मठे चैव समुत्पन्ने ग्रामदूषणमादिशेत् ॥ १४६ ॥

तटाकातीरे संजाते तदाभुञ्जञ्चै पद्मजा ।
रध्या समुत्थिते स्त्रीणां बालानां नाशनं भवेत् ॥ १४८ ॥

प्. २३६)

कूपतीरे च सङ्जाते दुःखं तद्ग्रामवासिनाम् ।
तत्प्रदेशं तथा खात्वा पूरयेद्वा युगादिभिः ॥ १४९ ॥

पुण्याहं वाचयित्वा तु ब्राह्मणान् भोजयेत् ततः ।
पञ्चगव्येन संप्रोक्ष्य पवमानमुदिरयन् ॥ १५० ॥

शान्तिहोमं ततः कृत्वा पलाशसमिधा तथा ।
तदन्ते स्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ १५१ ॥

गोमयि पिङ्गलि गृद्ध्रलूकाश्चैवाथ वायसा ।
आलयान्तं प्रविष्टे च नृपं वेश्मान्तरेऽथवा ॥ १५२ ॥

बालानां स्त्रीगणानां च नाशानां च समादिशेत् ।
शीतकुम्भं ततः कृत्वा शान्तिहोम समाचरेत् ॥ १५३ ॥

ब्राह्मणान् भोजयित्वा तु तदन्ते स्नपनं कुरु ।
देवालयोपरिष्टान्तं नृपस्य भवनोपरि ॥ १५४ ॥

श्वारोहे रुदिते तत्र राजा मरणमाप्नुयात् ।
तदं हत्वा त्र्यजं त्यक्त्वा पुण्याहवाचयेत् ततः ॥ १५५ ॥

अश्वद्ध समिधा चैव शान्तिहोमं तु कारयेत् ।
ब्राह्मणान् भोजयेत् पश्चात् कुर्या चा स्नपनं महत् ॥ १५६ ॥

तदन्ते चोत्सवं कुर्याद् वास्तु देवान् समर्चयेत् ।
लिङ्गं च प्रतिमा चैव जन्त्वारोहणके सति ॥ १५७ ॥

नृपाणां चैव सर्वेषां रोगवृद्धित्वमावहेत् ।
तं हत्वा चाध सद्योत्र तद् देवान् स्नापयेत् ततः ॥ १५८ ॥

प्. २३७)

पूर्वार्ध समिधा चैव शान्तिहोमं तु कारयेत् ।
स्नपनं तु ततः कृत्वा महाहविं निवेदयेत् ॥ १५९ ॥

आकाशे धूमकेतुं स्यान्नानारूपसमन्वितम् ।
दृश्यते तत्र निश्चित्य प्रायश्चित्त समाचरेत् ॥ १६० ॥

लिङ्गमूले तु निश्चित्या जन्त्वारोहणके सति ।
राष्ट्रक्षोभं च दुर्भिक्षं जायते नात्र संशयः ॥ १६१ ॥

पूजयेद् देवदेवेशं अष्टबन्धं तु कारयेत् ।
शान्तिहोमं ततः कृत्वा समिधा खादिरेण तु ॥ १६२ ॥

शीतकुम्भं ततः कृत्वा महाहविं निवेदयेत् ।
व्यतिरिक्त क्रियाकार्यो शान्तिहोमेन शाम्यति ॥ १६३ ॥

कुर्या प्रतिक्रिया तत्र गुरुणा दृष्टकर्मणा ।
मासं मासे नयेत् कृत्वा निष्फलत्वं प्रजायते ॥ १६४ ॥

आचार्य पूजयेत् तत्र प्रतिक्रिया विधेस्तथा ।
वस्त्राङ्गुलियकैश्चैव गोभूमिधनधान्यकैः ॥ १६५ ॥

अधम्मदनिष्कं स्याद्विगुणं मध्यमं स्मृतम् ।
त्रिगुणं चोत्तमं विद्या देशिकस्य तु दक्षिणा ॥ १६६ ॥

यागोपयोग द्रव्याणि देशिकाय प्रदापयेत् ॥ १६६½ ॥

इति सूक्ष्मशास्त्रे उत्पातशान्तिं नाम चत्वारिंसत्पटलः ॥
प्. २३८)

ग्रामशान्तिविधिं वक्ष्ये शृणु तत्तत्प्रभञ्जना ।
ग्रामे वा नगरे वापि पट्टणे राजधानिके ॥ १ ॥

कुब्जके खेटके चैव बहुरूपं च वासिना ।
एवं स्थानविशून्यश्चेत् पूर्वे वा दक्षिणेऽपि वा ॥ २॥

पश्चिमे चोत्तरे वापि विदिशास्वन्तरालके ।
ग्राममानं चतुर्भागं वसुभागमथापि वा ॥ ३ ॥

कलांशं च दशां तु तेष्वेकं कल्पवास्तुना ।
एवं निश्चित्य विधिस्याद् बाह्ये वाभ्यन्तरेऽपि वा ॥ ४ ॥

प्रासादपरितो वापि वास्तुविद्यां प्रकल्पयेत् ।
ब्रह्मादीशानपर्यन्तं इन्द्रादीशान्तकं क्रमात् ॥ ५ ॥

ग्राममाश्रित्य देवानां ग्राममध्ये बलिं क्षिपेत् ।
आद्यन्तं बलियुक्तं तु अयुक्तं तु दिनं प्रति ॥ ६ ॥

ब्रह्मराक्षसपैशाच भूताश्चैव निशाचरः ।
एताश्च देवतास्सर्वे शून्यग्रामं तु वासिना ॥ ७ ॥

गतागतं च कृत्वा तु पूर्वापर सुवास्तुषु ।
तद्ग्रामवासिनास्सर्वे रोगशोकभयं भवेत् ॥ ८ ॥

तद्ग्रामे चोत्सं कुर्यात् तद्राष्ट्रस्य विनिश्यति ।
तद् दोषशमनार्थाय राक्षसादि बलिं ददेत् ॥ ९ ॥

ग्रामाभिमुखसंस्थानं निर्गत्वा द्वारदेशिके ।
राक्षसाद्याश्च ये देवाः द्वारदेशा समाश्रयेत् ॥ १० ॥

प्. २३९)

एतस्थानाश्रितो देवा प्रित्यर्थं बलिमाचरेत् ।
बलिद्रव्यं तु संपाद्य देशिकं स्नानमाचरेत् ॥ ११ ॥

सुशुद्धवस्त्रसंवेष्ट्य आर्द्रवस्त्रं परित्यजेत् ।
सकलिकरणं कृत्वा समान्यार्घ्यं च कल्पयेत् ॥ १२ ॥

पञ्चगव्यं तु संसाध्य विघ्नेशं पूजयेत् पुरा ।
नालिकेरफलं दत्वा द्विखण्डं सर्वसिद्धिदम् ॥ १३ ॥

शैथिल्यं कर्मशैथिल्यं तस्माद् दोषं परित्यजेत् ।
विघ्नराज नमस्तुभ्यं विज्ञाप्य परमेश्वरम् ॥ १४ ॥

देवदेवजगन्नाथ जगतामूर्त्तिनाशनम् ।
शिवाध्वरप्रवर्त्तोय तवाज्ञा कुरु मे सदा ॥ १५ ॥

यत् कृतं तेन भगवन्मया च मखमन्दिरे ।
भूताश्च बलिकर्माणि त्वत्प्रसादात् करोम्यहम् ॥ १६ ॥

क्रमुकं नालिकेरस्य पुष्पं प्रत्येकमेव हि ।
नालिकेरफलं मासं सङ्ख्याया प्रतिगृह्यताम् ॥ १७ ॥

तदर्थ तण्डुलद्रोणं पुष्पं तस्य चतुर्गुणम् ।
पीतरत्ननिभं पुष्पं पद्मपुष्पसमृद्धिदम् ॥ १८ ॥

देवस्य मुक्तपुष्पं तु जातिकल्हारकेतुषु ।
अन्यत् सुगन्ध पुष्पं च पुष्पपात्रे निधापयेत् ॥ १९ ॥

कार्पासवर्तिमेकेन महावर्त्तिस्तु पञ्चकम् ।
गजमृगमदं कृष्णं गन्धकर्पूरसंयुतम् ॥ २० ॥

प्. २४०)

कुन्दुरुष्कगरुद्धूपं रक्तवस्त्रं च पञ्चकम् ।
पञ्चकं दारुपीठं तु चतुर्थं वा समन्वितम् ॥ २१ ॥

खड्गशूलधनुबाणक्षुरिक पिण्डिफलकम् ।
नालिकेरं च तैलं च समृद्धकदलिफलम् ॥ २२ ॥

पञ्चचूर्णगुलं क्षीरं कदलिदलसंयुतम् ।
क्रमुकं तैलसंयुक्तं ताम्बूलं च समृद्धिदम् ॥ २३ ॥

शुद्धोदनं पचेद्धीमान् आढकद्वयतण्डुलैः ।
पायसं चाढकेनैव तत्सख्यैश्च सिताक्षतैः ॥ २४ ॥

आद्रेक्षिकमिश्रेण शुद्धपात्रे निधापयेत् ।
एवं द्रव्यं तु संपाद्य अस्त्रेश्वरमथार्चयेत् ॥ २५ ॥

शिवखड्गं तु सङ्ग्राह्य विन्यसेच्छिवसन्निधौ ।
विज्ञाप्य परमेशानं बलिद्रव्यन्तु सङ्ग्रहेत् ॥ २६ ॥

अस्त्रेशं शिवखड्गं तु शिष्य सङ्ग्राह्य पाणिना ।
शङ्खभेर्याश्च घोषैश्च डमरू पटमर्दलै ॥ २७ ॥

एतेरन्यैश्च घोषैश्च स्त्रीणां कुरूप संयुतम् ।
सदाखण्डं खोपेतं दीपज्वालसमन्वितम् ॥ २८ ॥

छत्रचामरसंयुक्तं द्वारदेशं समाश्रयेत् ।
द्वारपालान् समभ्यर्च्य स्नानं नैवेद्यकान्तकम् ॥ २९ ॥

बाह्ये बाह्यान्तर वापि वरकं संप्रपूजयेत् ।
द्वारप्रक्षाल्य तोयेन नन्दिकालौ बलिं ददेत् ॥ ३० ॥

प्. २४१)

वृषभं पूजयेन्मध्ये महाखण्टां तु ताडयेत् ।
पश्चाद्वारं बहिः कृत्वा पञ्चहस्तप्रमाणतः ॥ ३१ ॥

तृणमूलादिभिस्त्याज्य तत्समं चतुरश्रकम् ।
तन्मध्ये वेदिकां कुर्याद् गोमया लेपनं कुरु ॥ ३२ ॥

प्रोक्षयेत् पञ्चगव्येन बलिद्रव्यं च सङ्ग्रहेत् ।
अस्त्रेशं वेदिकोर्ध्वे तु शिवखड्गं तु विन्यसेत् ॥ ३३ ॥

मध्ये पूर्वे च याम्ये च पश्चिमे चोत्तरे दिशि ।
मध्ये पात्राष्टपन्मं च ऐन्द्रे तु वसुकोणकम् ॥ ३४ ॥

याम्ये तु नवयोनिं स्यात् षट्कोणं पश्चिमे दिशि ।
उत्तरे चाष्टशूलम् च रक्तवर्णेन संलिखेत् ॥ ३५ ॥

तद्बाह्ये सितवर्णेना चतुरश्रं प्रकल्पयेत् ।
अश्रस्याभ्यन्तरं कोणं पञ्चवर्णैरलङ्कृतम् ॥ ३६ ॥

मण्डलस्यात्पदे बाह्ये न्यसेत् पीठचतुष्टयम् ।
पीठं विन्यस्य मध्ये तु मध्ये मण्डलपश्चिमे ॥ ३७ ॥

पीठोर्द्ध्वे वस्त्रमास्तिर्य रक्तपन्मेन संवृतम् ।
वृत्तं कुड्डुपमाधिक्यं तण्डुलं पीठिकोपरि ॥ ३८ ॥

तस्योर्ध्वे नालिकेरं स्यात् स्थापयेत् तु चतुर्दशि ।
खड्गपूर्वे तु विन्यस्य धनुर्बाणं च दक्षिणे ॥ ३९ ॥

क्षुरिकां पश्चिमे स्थाप्य पिण्डिपालमथोत्तरे ।
शूलंश्च मध्यमं स्थाप्य ओदने पश्चभिः शरम् ॥ ४० ॥

प्. २४२)

प्रस्थं कुन्दुपसंयुक्तं तण्डुलं तु निधापयेत् ।
कांस्यपात्रे तु तण्डुल्यं कारयेत् तस्य मूर्द्धनि ॥ ४१ ॥

नालिकेरस्योदकं च घृतेन परिपूरितम् ।
तन्मध्ये तु महावत्तिं विधयुक्तं च विन्यसेत् ॥ ४२ ॥

स्वस्तिकं वायुदेशे तु पञ्चचूर्णैरलङ्कृतम् ।
तस्योर्ध्वे वाथ शुद्धं च नालिकेरसमाशृतम् ॥ ४३ ॥

तस्याग्रे कदलिपत्रं मामूलाग्रसमन्वितम् ।
सिताक्षते न्यसेदूर्ध्व कदलिफलसंयुतम् ॥ ४४ ॥

शास्तुश्च चण्डिकायांश्च अघोरं भैरवं तथा ।
तन्मध्ये भूतनाथेशं पूर्वादिषु समर्चयेत् ॥ ४५ ॥

आग्नेयेमण्डपे पश्चात् पञ्चचूर्णैरलङ्कृतम् ।
मूर्त्तिमानाब्जपूर्वे तु विन्यस्याष्ट दिशासु वा ॥ ४६ ॥

विन्यसेत् कदलीपत्रे कपित्तफलमाघृते ।
पिण्डिमेकं प्रदातव्यं वत्तिदीपसमन्वितम् ॥ ४७ ॥

अनन्तादि बलिं दद्याज्जलेन परिषेचनम् ।
नैर्-ऋते चैव षट्कोणं पञ्चचूर्णैविलिख्य च ॥ ४८ ॥

महाभूतेन षट्कं च बलिं * * यथाक्रमम् ।
ऐशान्यां मण्डलं कल्प्य चतुष्कोणसमन्वितम् ॥ ४९ ॥

सूत्रषट्कसमायुक्तं पञ्चचूर्णैरलङ्कृतम् ।
नालिकेरोदकेनैव लम्बयेत् तु पदार्थकम् ॥ ५० ॥

प्. २४३)

क्रमुकं नालिकेरस्य पुष्पैश्चैव प्रलम्बयेत् ।
चतुष्पथे पिशाचाश्च त्रिप राक्षसां बलिम् ॥ ५१ ॥

कूश्माण्डं त्रिपथे पूज्य नागाश्च त्रिपथे यजेत् ।
त्रिपथे भैरवं पूज्य द्विपथे असुरार्चनम् ॥ ५२ ॥

एतन्नन्दबलिं दत्वा पात्तदीपसमाचरेत् ।
एवं क्रमेण संपूज्य पुष्पं ग्राह्य विकीर्य च ॥ ५३ ॥

सिता क्षतं विकीर्याथ द्विष्टो वासनं कुरु ।
शिवखड्गेन संशोध्य रक्ततोयं विसज्य च ॥ ५४ ॥

ऐशान्यामन्यलाग्रे तु अजं शास्त्रे संहरेत् ।
नमस्ते भूतनाथेशं प्रीत्यर्थं बलिगृह्यताम् ॥ ५५ ॥

मया प्रवर्त्तितो याग सर्वाभिष्ट प्रदायकः ।
ततः प्रतिमना भूत्वा गच्छध्वं सि यथा सुखम् ॥ ५६ ॥

शून्यवास्तुषु मध्ये तु पश्चाच्छान्तिं बलिं क्षिपेत् ।
तद् ग्रामे भद्रकाल्याश्च तृप्यर्थं बलिमाचरेत् ॥ ५७ ॥

अन्नैश्च सर्वदेवाश्च तृप्तिमाप्नोति दापयेत् ।
पादप्रक्षालनं कृत्वा पश्चाद् वास्तु प्रवेशयेत् ॥ ५८ ॥

ब्रह्मस्थाने तु संकल्प्य देवाग्रे विधिमध्यमे ।
भूतपीठे द्रमध्ये वा वास्तुमध्ये प्रकल्पयेत् ॥ ५९ ॥

पूर्वाग्निश्च मयमश्चैव निरुतवणवायुषु ।
कुबेर ईश संयुक्ते यथा देवबलिं क्षिपेत् ॥ ६० ॥

प्. २४४)

बलिस्थाने मया तस्य अन्यस्थानेषु वर्जयेत् ।
मृगयात्रादि तीर्थाश्च वास्तु बाह्येषु यानकम् ॥ ६१ ॥

मध्याह्ने वाथ सायह्ने अर्थरात्रिबलिं ददेत् ।
ग्रामशान्तिबलिं कुर्यात् सर्वाभिष्टफलप्रदम् ॥ ६२ ॥

तद्ग्रामवासिनस्सर्वे बलदं बलिरुच्यते ।
ग्रामशान्तिबले हीने तद्राष्ट्रे वास्तुनाशनम् ॥ ६३ ॥

परचक्रभयं राज्यं राजा निर्जयमाप्नुयात् ।
तदृष्ठवासिनस्सर्वे ज्वरमर्यादि पिडिता ॥ ६४ ॥

तस्मात् सर्वप्रयत्नेन ग्रामशान्ति बलिं ददेत् ।
तदन्तो चोत्सवं कुर्यात् सर्वकामफलप्रदम् ॥ ६५ ॥

एवं यः कुरुते मर्त्यः स पुण्यागतिमाप्नुयात् ॥ ६५½ ॥

इति सूक्ष्मशास्त्रे ग्रामप्रायश्चित्तविधिं नाम चतुचत्वारिंशत्पटलः ॥

मत्स्यलिलविधिं वक्ष्ये शृणुत्वं तत्प्रभञ्जना ।
प्रणिनां भोगमेवं स्याद् भवतीनां सुखं भवेत् ॥ १ ॥

मिनादिकन्यपर्यन्तं मत्स्यलीला प्रशस्यते ।
एवं त्रिविधमाख्यातं उत्तमायथमध्यमे ॥ २ ॥

समुद्रे वापि नद्यां वा तटाके कूपकेऽपि वा ।
अब्धिश्रेयान् समस्य स्यानदिमध्यं च मध्यमे ॥ ३ ॥

प्. २४५)

तटाके वापि मत्स्यं च अधमं तु प्रकीर्तितम् ।
अभिषेक कृतं बेरं उत्तमन्तु प्रशस्यते ॥ ४ ॥

पौराण्यायतनं बेरं मध्यमं तु प्रकीर्तितम् ।
सद्यनिष्कृतिबेरं तु अधमं चोच्यते मया ॥ ५ ॥

उत्तमं बेरमेवं तु समुद्रादर्शनं मतम् ।
मध्यमबेरमेवं तु नद्यादीन् दर्शनं मतम् ॥ ६ ॥

अथमे बेरमेवं स्यात् तटाकं वापिमेव च ।
शतकोशविधिर्यावदुत्तमे दर्शनं मतम् ॥ ७ ॥

पञ्चाशत्कोशमेवं तु मध्यमे दर्शनं मतम् ।
द्वादशं कोशमेवं तु अधमे दर्शनं मतम् ॥ ८ ॥

एवं कृतयुगं प्रोक्तं मन्यत् सर्वप्रयत्नतः ।
देवदांशांश विहीनं स्यात्क्रमेण परिकल्पयेत् ॥ ९ ॥

अन्य सदिनमेव स्यान्मध्यमं त्रिदिनं भवेत् ।
शसुख्यचोत्तमञ्चैव दिन सङ्ख्य क्रमेण तु ॥ १० ॥

ग्रामादि स्थानसंयुक्तं एतत्सर्वं समाचरेत् ।
तल्लिला द्विगुणविधं प्रोक्तं वा सायनं च कथ्यते ॥ ११ ॥

यानञ्चेदालयं कार्यनयेदास्थानमण्डपे ।
सर्वालङ्कारसंयुक्ते मण्डपं प्रति भूषयेत् ॥ १२ ॥

सुवारे सुदिने चैव रात्रौ पूजावसानके ।
देवदेव जगन्नाथ जगदार्त्ति विनामुना ॥ १३ ॥

प्. २४६)

देवं ननु गृहीतोस्त्री इति विज्ञापनं क्रमात् ।
स्वर्णादि सूत्र संगृह्य रक्षाबन्धं पूरोक्तवत् ॥ १४ ॥

अपरेद्युर्दिवाकाले नयेदास्थानमण्डपे ।
प्रातस्सन्ध्यावसाने तु सुरिवृन्दैश्च सेवितम् ॥ १५ ॥

राजोपचारैस्सर्वैश्च तोषयेत् परमेश्वरम् ।
मद्ध्याह्ने पूजये नान्ते तु सर्वालङ्कारसंयुतम् ॥ १६ ॥

सर्ववाद्यैरलङ्कृत्य सर्वघोषैरलङ्कृतम् ।
मस्त्यस्थानं समुद्दिश्य यानं पूर्ववदाचरेत् ॥ १७ ॥

तत्काले तु विशेषेण भूपतिर्देशिकै सहा ।
कर्पूररजनी चूर्णं रागवल्लिदलैरपि ॥ १८ ॥

विकरै सर्ववर्णैश्च तत् स्थाने प्रविश्य च ।
उत्तरे पश्चिमे वापि पूर्वो वा दक्षिणेऽपि वा ॥ १९ ॥

तत्र स्थाने प्रपां कृत्वा वितानाद्यैरलङ्कृतम् ।
देवं मध्ये तु विन्यस्य तदग्रे मत्स्य पूजनम् ॥ २० ॥

ओदनादिनि विन्यस्य ओदनस्येति पूजयेत् ।
तण्डुलैः तिललाजैश्च मत्स्यं सम्यक् समर्चयेत् ॥ २१ ॥

मलिकाय महामत्स्यो दीपरुपोहहोदरे ।
एवं मन्त्रसमुच्चार्य मत्स्यानं भोजनं नयेत् ॥ २२ ॥

मत्स्यलीला समालोक्य सयान्नपूर्वमाचरेत् ।
तदन्ते यानकार्ये तु लिम्लागनं च गाधकम् ॥ २३ ॥

प्. २४७)

विनोदवाद्य संयु पूर्वस्थाने प्रवेशयेत् ।
स्नपनं शान्तिहोमं च स्नापयेत् परमेश्वरम् ॥ २४ ॥

तदन्ते सायरक्षा तु पूर्वाद्दर्चनं प्रति ।
पूर्ववन्नित्यपूजां च विशेषोत् पूजदन्तके ॥ २५ ॥

तदन्ते स्नपनं कृत्वा रक्षाबन्धनं विसृ च ।
आलयस्य समीपं चेध्यानमेवं विधीयते ॥ २६ ॥

एवं यानं समाख्यात वासं चैव ततः शृणु ।
रात्रौ पूजावसाने तु कर्तदेशिकसंयुतम् ॥ २७ ॥

महेशाग्रे तु कर्तव्यं प्राथयित्वा विचक्षणः ।
एकमूर्त्ति स्वरूपं तु पञ्चधा परिकल्पयेत् ॥ २८ ॥

लोकरक्षार्थमेवं हि श्रूयता तत् प्रभञ्जना ।
अम्बिकासहितो देवो जगदुत्पत्तिकारणात् ॥ २९ ॥

मत्स्यलीलसमुद्दिश्य गम्यतामिति शंकरा ।
एवं प्रार्त्थतु तत्काले भगवानुज्ञया सहा ॥ ३० ॥

पूर्ववत् प्रतिसरं बद्ध्वा वाहनं प्रति सन्नयेत् ।
ततः प्राभाते कर्तव्यं सर्वालङ्कारशोभितम् ॥ ३१ ॥

सर्ववाद्यैरलङ्कृत्य जयघोषसमन्वितम् ।
राजोपचारसहितं यानं बन्धः शनैशनैः ॥ ३२ ॥

कर्पूर रजनी लाजं विकीरेत् समलङ्कृतम् ।
मनोरम्येऽन्यदेशेव भक्ष्यादिनि निवेदयेत् ॥ ३३ ॥

प्. २४८)

ताम्बूलानि विचित्राणि दापयेच्छिव सन्निधौ ।
दिनं प्रति विशेषेणं स्नपनं शान्तिहोमकम् ॥ ३४ ॥

नित्यपूजाविधानेन नित्यमेवं समाचरेत् ।
उद्दिश्य स्थानदेशे तु प्रपां कृत्वा सलक्षणाम् ॥ ३५ ॥

मध्ये वेदिकया युक्ता ऊर्ध्वे सिंह्मासनं नयेत् ।
महेशं तत्र विन्यस्य लीलागानमध शृणु ॥ ३६ ॥

वसन्तलीलां कृत्वा तु या सूरि बृन्दैश्च सेवितम् ।
मत्स्यभोजनमग्रे तु तण्डुलादि पृथक् पृथक् ॥ ३७ ॥

ओंदनस्योति मन्त्रेण ओदनादिनि विन्यसेत् ।
मत्स्यलीला समालोक्य मत्स्यानां भोजनं क्षिपेत् ॥ ३८ ॥

एवं प्रतिदिनं कुर्यान्निश्चित्य दिवसान्तकम् ।
नित्यपूजाविहीनं चेत् प्रायश्चित्तं तथा चरेत् ॥ ३९ ॥

अज्ञात होमतो वापि प्रायश्चित्तविहिनकम् ।
प्रायश्चित्तविहिनं चेद्राजाराष्ट्रस्य दोषकृत् ॥ ४० ॥

तस्मात्सर्वप्रयत्नेन नित्यपूजां समाचरेत् ।
लीलावसाने कर्तव्यं विमुखं यानमुच्यते ॥ ४१ ॥

राजा सत्कारमार्गेण पूर्वस्थाने निवेशयेत् ।
स्नपनं शान्तिहोमं च प्रभूत हविषं ददेत् ॥ ४२ ॥

राजा च राजपत्नि च देशिकेन सहैव तु ।
मेलां मन्त्र समुच्चार्या पुष्पमूर्ध्नि निदापयेत् ॥ ४३ ॥

प्. २४९)

मनसा चिन्त्य यत् कार्यं प्रार्थयित्वापि विचक्षणः ।
एवमेव प्रकारेण मत्स्यलीला समाचरेत् ॥ ४४ ॥

मत्स्यलीला विधि प्रोक्तं मौक्तिकग्रहणं शृणु ॥ ४४½ ॥

इति सूक्ष्मशास्त्रे मत्स्यलीलाविधिं नाम पञ्चचत्वारिंशत्पटलः ॥

मौक्तिकग्रहणं वक्ष्ये श्रूयतां तत्प्रभञ्जना ।
फल्गुने चैत्रमासे वा कृत्तिकेव परेऽपि च ॥ १ ॥

पूर्वपक्षे प्रशस्तं हि अपरे वा प्रकीर्तिअम् ।
पूर्वपक्षे गृहीतं चेदष्टमिनवमि तथा ॥ २ ॥

द्वितिया च तृतिया च चतुर्थि पर्वमेव वा ।
वर्जयेत् तु प्रयत्नेन शेषं संगृह्य बुद्धिमान् ॥
कृष्णपक्षे गृहितं चे चतुर्थिपञ्चमि तथा ॥ ३ ॥

अष्टमि नवमि चैव त्रयोदशि दशमेव वा
वर्जयेत् तु प्रयत्नेन अन्याश्च तिथयो भवेत् ॥ ४ ॥

अथवान्य प्रकारेण ऋक्षेण ग्रहणं मतम् ।
अश्वयुक् रोहिणी चैव पुष्या च मद्य एव च ॥ ५ ॥

आढकादि त्रये चैव हस्तश्रवण एव च ।
एतदृक्षं गृहित्वा तु अन्यदृक्षं तु कन्यसम् ॥ ६ ॥

शुक्रवारं च मन्दं च आदित्य वर्जयेत् क्रमात् ।
वज्रे वज्रं च सिद्धिं च परिघः शिवयेव च ॥ ७ ॥

सिद्धसाध्य शुभश्चैव ब्राह्म महेन्द्रमेव च ।
प्रतिरायुष्ममेवं च सौभाग्यं शोभनं तथा ॥ ८ ॥

प्. २५०)

धृतिशूलं च कर्तव्यं गण्डे वृद्धिरिहोच्यते ।
एताश्च शुभदा प्रोक्ता अन्ययोगानि वर्जयेत् ॥ ९ ॥

मेषाश्च कटकश्चैव सिंहवृश्चिक एव च ।
कुम्भश्चैव शुभा ज्ञेया अन्यराशिविवर्जयेत् ॥ १० ॥

एवं कालविधानज्ञे तत्काल इदमारभेत् ।
निश्चित्य दिवसात्पूर्वे प्रातसन्ध्यावसानके ॥ ११ ॥

कृताभिशेकबेराग्रे स्थण्डिलं कल्पयेत् सुधिः ।
राजा चिह्ननि सर्वाणि तदूर्ध्वे स्थापयेत् क्रमात् ॥ १२ ॥

देवदेवनमस्कृत्वा विज्ञापनमथाचरेत् ।
मौक्तिकग्रहणार्थाय रत्नं संग्राह्य सन्मतम् ॥ १३ ॥

तस्मात्सर्वप्रयत्नेन तत्तदङ्गजनै सहा ।
द्ध्वजादिछत्रपर्यन्तं डिण्डिवाद्यसमन्वितम् ॥ १४ ॥

अशनिवाद्यसंयुक्तं क्रोशवाद्यसमन्वितम् ।
एतत्सर्वगृहित्वा तु यानं पूर्ववदुच्यते ॥ १५ ॥

अब्दितीरे विशेषेण कूटं वापि प्रपां कुरु ।
तन्मध्ये वेदिकायुक्तं सर्वलक्षणसंयुतम् ॥ १६ ॥

चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।
पताकादि वितानैश्च पूगाद्यैश्चैव शोभयेत् ॥ १७ ॥

एवं मण्डपमावेश्य सिंहासनोपरिस्थितः ।
नित्यपूजां प्रयत्नेन नित्यवत्पूजनं कुरु ॥ १८ ॥

प्. २५१)

तद्दिनस्य दिवे काले समुदेवान् समर्चयेत् ।
अम्बुरा नमस्त्यं मौक्तिक ग्रहणाय च ॥ १९ ॥

क्षीराण्यव नमस्कृत्यं मौक्तिक ग्रहणाय च ।
दद्धयाब्धे त नमस्तुभ्यं मौक्तिकग्रहणाय च ॥ २० ॥

क्षारब्धे तु नमस्तुभ्यं मौक्तिकग्रहणाय च ।
मब्धे तु नमस्तुभ्यं मौक्तिकग्रहणाय च ॥ २१ ॥

इक्ष्मब्धे तु नमस्तुभ्यं मौक्तिकग्रहणाय च ।
सारब्धे तु नमस्तुभ्यं मौक्तिकग्रहणाय च ॥ २२ ॥

क्षारब्धे तु नमस्तुभ्यं मौक्तिकग्रहणाय च ।
एवमेव प्रकारेण अर्चयेद् देशिकोत्तमः ॥ २३ ॥

उडुपादिसमानीय सर्वालङ्कारशोभितम् ।
देवं सम्यक्समारोप्य पटमारोपयेद् ध्वजम् ॥ २४ ॥

देवंन्देक्षिणवामे तु मालिनि देशिकस्थितिः ।
देवाग्रे सर्ववाद्यैश्च लीलागानं च वदयेत् ॥ २५ ॥

राजोपचारवत्सर्वं मौक्तिकस्थानमाविशेत् ।
सर्ववाद्यैन्त्रमार्गेण मौक्तिकं ग्रहणं मतम् ॥ २६ ॥

स धान्यादि समापूर्य पूर्वस्थान निवेशयेत् ।
पश्चिमे नि-ऋते वापि ऐशान्ये चोत्तरेऽपि चा ॥ २७ ॥

मुक्ताग्रहणशालायां कल्पयेद् देशिकोत्तमः ।
तच्छालां रत्नमावेश्य साधाहन्तं मसा विधि ॥ २८ ॥

प्. २५२)

सायाह्ने समये काले स्नपनं शान्तिहोमकम् ।
नित्यपूजा प्रयत्नेन नित्यवत्सम्यगाचरेत् ॥ २९ ॥

एवं प्रतिदिनं कार्यं तद्दिने यजनं कुरु ।
एवमेव क्रमेणैव पक्षाहान्तसमाचरेत् ॥ ३० ॥

द्रव्यजालसमानिय पुनर्गत्वा गृहं प्रति ।
आस्थानमण्डपे प्राप्य सूरिवृन्दैश्च सेवितम् ॥ ३१ ॥

स्नपनं शान्तिहोमं च ततो नैमित्तिकार्चनम् ।
मूलालये प्रकर्तव्यं पूर्ववत् पूजनं नयेत् ॥ ३२ ॥

नित्यकर्मणि हिनं चेद्राजाराष्ट्रस्य नाशनम् ।
तस्मात् सर्वप्रयत्नेन नित्यपूजा पुरोक्तवत् ॥ ३३ ॥

महाहविं निवेद्याथ तोषयेत् परमेश्वरम् ।
महेशाग्रे विशेषेण गोमयालेपनं कुरु ॥ ३४ ॥

पिष्टचूर्णैरलङ्कृत्या सर्वत्र ज्वलदीपकैः ।
देवाग्र विन्यसेद्रत्न तद्रव्यमष्टधा भवेत् ॥ ३५ ॥

एकांशं देशिकस्यैव अशं भूपतिरेव च ।
आदिथ्यमंशकश्चैव सुरिणामंशकं तथा ॥ ३६ ॥

चक्रे पूजोक्त मर्त्याश्च त्वेकांशं च प्रदापयेत् ।
षोडशं देवभागं स्याद् देवभागं क्रमेण तु ॥ ३७ ॥

एवमेव क्रमेणैव मौक्तिकग्रहणं नयेत् ।
सर्वलोकहितं पुण्यं सर्वदेव प्रयार्थकम् ॥ ३८ ॥

प्. २५३)

मौक्तिकग्रहणं प्रोक्तं मृगाणां ग्रहणं शृणु ।

इति सूक्ष्मशास्त्रे मौक्तिकग्रहणं नाम षट्पञ्चत्वारिंशत्पटलः ॥

पूजाचक्रं प्रवक्ष्यामि शृणुत्वं तत्प्रभञ्जना ।
स्थानाचार्यो फणिकर्मि समयि समायधिपः ॥ १ ॥

देशाधिपः स्वदेशि च सप्तैताश्चक्रनायकः ।
भङ्गराजपदेस्त्वग्रमण्डपे देशिकस्य च ॥ ३ ॥

फणि त्रित्रिपदस्थो देवस्यैशानमण्डपे ।
नैर्-ऋते त्विशदेशे वा सौम्ये वा समयाधिपः ॥ ४ ॥

देशाधिपस्तु सुग्रिवो धर्मश्रवणमण्डपे ।
नै-ऋते त्विशदेशे वा कर्मस्था मणिमण्डपे ॥ ५ ॥

देशाधिपस्तु सुग्रिवो धर्मश्रवणमण्डपे ।
स्थानाख्य मण्डपद्वारे समियि स्थानमुच्यते ॥ ६ ॥

सोपाने त्विशदेशे वो सौम्ये वा समयाधिपाः ।
देशाधिपस्तु सुग्रिवो धर्मश्रवणमण्डपे ॥
मद्वध्यं हम्रद्वारपार्श्वे स्वदेशिस्थानमुच्यते ॥ ७ ॥

स्थानमेवं समाख्यातमाचारशृणु सुव्रत ।
चक्रचिह्नप्रदानां च क्रियानि योगमेव च ॥ ८ ॥

द्रव्यसङ्ग्रहणं चैव तद्रव्याणां प्रपालनम् ।
द्रव्यं पुष्पकृतं चैव चक्रभागस्य साधनम् ॥ ९ ॥

द्रव्योत्पत्ति प्रवृत्ति च स्थानाचार्यादि सत्कृति ।
आचारमेवमाख्यातं चक्ररूपं ततः शृणु ॥ १० ॥

प्. २५४)

वृषभं फणिनिमुद्रा यन्त्रिका चण्डमुद्रिका ।
परशुं हेममुद्रा च क्ष्वणिकं फिण्डिफालकम् ॥ ११ ॥

फणि च धर्ममुद्रार्हकं मिच यन्त्रिकार्हकम् ।
समिचण्डं च मुद्रार्हपरशुं समयाधिपः ॥ १२ ॥

फिण्डिफालार्हको राजा स्वदेशि हेमवेत्रधृक् ।
आचार्यो धर्ममुद्रादिन् फणिभ्यादि कर ददेत् ॥ १३ ॥

चक्रचिह्नं समाख्यातं सपर्या प्रेरकं शृणु ।
पूजोपकरणद्रव्यं तत्तद्रव्याधिपात्र्यधा ॥ १४ ॥

मद्ध्यहारे समाहृत्या विज्ञाप्य शिवसन्निधौ ।
स्वदेशिकृत्यमेवोक्तं समयि चरितं शृणु ॥ १५ ॥

तत्तः द्रव्याधिपा द्रव्यान्यावत् पूजावसानकम् ।
तत्काले समि वियोग्यं प्रेरयित्वा न संकरम् ॥ १६ ॥

समयि चरितं प्रोक्तं समायाधिपते शृणु ।
यागोपकरणद्रव्यं तत् तत्कारणभारकान् ॥ १७ ॥

सर्वाण्याहूय पूजान्ते कारणाधिपतिं न्यसेत् ।
समयिकृत्यमेवोक्तं समयाशाधिपते शृणु ॥ १८ ॥

शिवाज्ञ चक्र संयोगाद्विभ्रष्ट करणाधिपान् ।
पुनश्चक्रे समायोज्य यथाशक्त्या प्रशंसितान् ॥ १९ ॥

स्वदेशाधिपकृत्यं हि कर्मकोश ग्रहाधिपा ।
कर्मिकृत्यमिति प्रोक्तं * * * * रितं शृणु ॥ २० ॥

प्. २५५)

क्रियापञ्चकसंयुक्ता स्वानुभूतिकसप्तवान् ।

तत्तत्कर्मवसाने तु त्यजेत् पञ्चाधिकारकान् ।
स्थानाचार्येण संयुक्तं विज्~आप्य स्वानुभूतिकम् ॥ २१ ॥

पूजासमर्पणस्यान्ते क्रिया चाह्नेनि चाहरेत् ।
स्थानाचार्य करे दद्यात् तत् तन् मन्त्रसमुच्चरन् ॥ २२ ॥

फणि कृत्यमेवं स्यात् स्थानाचार्य कृतिं शृणु ।
समयारम्भपूर्वे तु चक्रचिन्नानि पूजयेत् ॥ २३ ॥

दूर्वाक्षतै समभ्यर्च्य चक्राचक्रमनुज्ञपेत् ।
पञ्चाधिकार नामय चक्रचिन्नानि दापयेत् ॥ २४ ॥

स्थानाचार्यकृतं प्रोक्तं चक्राधिशगणाः शृणु ।
वाचकश्चार्चकस्सन्ध्या विष्वगं चाप्यलङ्कृत ॥ २५ ॥

साधकश्च षडेतानि स्थानाचार्योनुवर्तिना ।
भस्मदायि धूपदायि दीपदर्पणधारकः ॥ २६ ॥

पानियधूप संग्राहि चत्रचामरधारकः ।
तरितन्तुण्डधारि च तालवृन्दं च भाजिनि ॥ २७ ॥

ताम्बूलं दापये स्वस्ति फणिति कृत्यनायकः ।
नित्यदीपजले क्षाली धाम्नि शोधननायकः ॥ २८ ॥

निर्माल्यशोधनीकाकेशि अब्धिदुग्धस्य पाचकः ।
अमुशोजलथिक्षालि गन्धलेपे पदंशकम् ॥ २९ ॥

प्. २५६)

बभवो विविधास्त्वेते कर्मणः कृत्यनायकः ।
शोधकि लेपकि पात्रक्षालकि हस्तदीपका ॥ ३० ॥

कन्तुकि कर्मणि शालिकुट्टिनि वंशवादिनि ।
विनोदि नटिनि वीणापादिनि रागिनि तथा ॥ ३१ ॥

एता चान्याश्च बाह्याश्च समयि कृत्य नायक ।
कर्मणाश्चरितं प्रोक्तं समयि कृत्य रचते ॥ ३२ ॥

दामिनं दामिनि पुष्पग्राहि मुकुल बन्धनि ।
समिन्त्रण कुशोद्धारि स्तोत्र द्राविडगायिनि ॥ ३३ ॥

भस्म व्रविमलोद्धारि सैकति जलसेचनि ।
ज्ञानवैराग्य सन्तोषि समयाधिप कृत्यके ॥ ३४ ॥

ग्रामवासि नमथिति बन्धनि राजनि वनि ।
शिष्रूषकजनन्वेषि स्वदेशिकृत्य नायका ॥ ३५ ॥

देवचिककालविद्विद्वान्धमिष्ठान्यायपालकान् ।
कथवाक्य प्रशंशि च स्वदेशाधिप कृत्यके ॥ ३६ ॥

अर्चको वा शुवासिनो जलग्राहि च शोधकि ।
मृष्टग्रासि च सिश्रूसि स्तोत्र द्राविडगानवित् ॥ ३७ ॥

दामविद्वाद्यकश्चैव प्रेष्यकै लेख कन्धन ।
प्रोक्तं द्वादशभेदेन शिवाज्ञा चक्र पूर्विका ॥ ३८ ॥

चक्रराजक्रमं प्रोक्तं भोग्याभोगक्रमं शृणु ।
विभजेत् काम्य निर्माल्यं मष्टां म्यांश यथा समम् ॥ ३९ ॥

प्. २५७)

अर्चकस्याष्टभागं हि कलाशं परियष्टिनाम् ।
रसांशं वाद्यकस्यैव लेख्यकस्य युगाशकम् ॥ ४० ॥

द्राविट्गानस्य षड्भागं द्विभागं दाम भोगके ।
द्विभागं काष्ठभागस्य वेदांशं प्रेक्ष्यकस्य च ॥ ४१ ॥

शोधकि भागमक्ष्यंशं शुश्रूषस्य द्वियंशकम् ।
पात्रशोधि द्विफागं च स्थानाचार्यैक भागकम् ॥ ४२ ॥

फणि चभागमेकांशं कर्मिभागं तथैव च ।
समयि भागमेकांशं समयाधिपतेस्तथा ॥ ४३ ॥

देशाधिपस्य भागैकं देश्यंशं तत्तदेव हि ।
शेषमातिथ्यभागार्थं कल्पयेदब्धि पाचकि ॥ ४४ ॥

एवमेव क्रमेणैव काम्यभोगं यथा समम् ।
एवं भागक्रमं प्रोक्तं शृणु निर्माल्य कल्पनम् ॥ ४५ ॥


इति सूक्ष्मशास्त्रे पूजाचक्रविधिर्न्नाम षट्चत्वारिंशत्पटलः ॥ ४७ ॥

शक्त्योत्सवमथो वक्ष्ये श्रूयतां तत्प्रभञ्जना ।
उत्सवं पञ्चधा ज्ञेयं तद्भेदमिह कथ्यते ॥ १ ॥

नवाहं श्रियदं प्रोक्तं सप्ताहं राजसं भवेत् ।
पञ्चाहं सात्विकं प्रोक्तं त्रियाहं गौणमुच्यते ॥ २ ॥

एकाहं तामसं प्रोक्तं पञ्चधा परिकीर्तितम् ।
आद्रमासादि मासान्तमुत्सवं विधिनोच्यते ॥ ३ ॥

प्. २५८)

आद्रमासे तु कर्तव्यमाद्रान्तमुत्सवं परम् ।
अवभृदान्ते व्रतं कुर्यादवरोहणमन्तके ॥ ४ ॥

पुष्यमासे तु कर्तव्या भूताष्टम्यां तथैव च ।
माघे चाश्लेषकर्तव्यां दर्शद्वयं च संमतम् ॥ ५ ॥

उत्तरन्तं तु वा कुर्याद् फाल्गुने दर्शमेव च ।
चैत्रमासे तु कर्तव्यं चित्रान्तं च द्वितीयकम् ॥ ६ ॥

वैशाखे सितपक्षे तु विशाखे चोत्तरान्तकम् ।
ज्येष्ठा चैव प्रकर्तव्यं चतुर्दशमूलसंयुतम् ॥ ७ ॥

उत्तरषाढमाषाढमासत्रयोदशि भवेत् ।
श्रावणे श्रावणे वापि द्वादशि चा विशेषतः ॥ ८ ॥

भद्रे तन्मास-ऋक्षं स्यादेकादशि च संमतम् ।
अश्वेत्वश्वसमां युक्तं कार्त्तिके कृत्तिकं मतम् ॥ ९ ॥

प्रतिप्रधानकं द्वे तु सिते वासितपक्षयो ।
अथवान्य प्रकारेण तत्तद्बेरादिनं मतम् ॥ १० ॥

सामदायिक ऋक्षं वा उत्सवे दशिदिनं तु वा ।
यजमानवशात् तत्र त्रिदिनं तीर्थमाचरेत् ॥ ११ ॥

एवं निश्चित्य तीर्थं तु अधिवासनमारभेत् ।
नवाहे चैव सप्ताहे ध्वजारोहणमाचरेत् ॥ १२ ॥

भेरिताटनतीर्थान्तमन्यत् सर्वसमाचरेत् ।
त्रिचतुर्हस्तमारभ्य द्विगुणान्तं क्रमेण तु ॥ १३ ॥

प्. २५९)

तदर्थं वा त्रिपादं वा पटविस्तार उच्यते ।
पुच्छिद्वयसमायुक्तं वेत्रद्वयसमन्वितम् ॥ १४ ॥

तत्पतं चाष्टाभज्य शिरं विद्व्यंशकं मतम् ।
पुच्छद्वयंशकप्रोक्तं मंशन्तु पद्मपीठकम् ॥ १५ ॥

द्व्ययांशे वाहनं लिख्य एकांशं छत्रसंयुतम् ।
पीठपार्श्वे तु कर्तव्यमष्टमङ्गलमं लिखेत् ॥ १६ ॥

वाहनद्वयपार्श्वे तु दीपस्वयसमन्वितम् ।
छत्रपार्श्वे तु कर्तव्यं चामरद्वयमेव च ॥ १७ ॥

एतत्सर्वसमालिख्य आयादि शुभदमतम् ।
पञ्चवर्णसमायुक्तं मुक्तस्थाने प्रकल्पयेत् ॥ १८ ॥

तन्मध्ये वृषभं लिख्य सिंहं वापि प्रकल्पयेत् ।
स्तितं वा शयनं वापि यानं वापि समालिखेत् ॥ १९ ॥

अर्धचित्र कृतचैव आभासं नाम उच्यते ।
सुषिरं यन्त्रसंयुक्तं यत्र रज्जु सुबन्धयेत् ॥ २० ॥

एवं पटं समापाद्य ध्वजदण्डमिहोच्यते ।
यथाश्मलो वृक्षे वा ध्वत्सारक्रमुकादया ॥ २१ ॥

नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ।
सप्तविंशति हस्तान्तं नवधा हस्तमानकम् ॥ २२ ॥

एवं त्रिविधमाख्यातं त्रिविलान्तं पुरोक्तवत् ।
एवमाधममाख्यातं मन्यत् सर्वं पुरोक्तवत् ॥ २३ ॥

प्. २६०)

ध्वजादि सर्व संपाद्य अधिवासनमारभेत् ।
अर्धयामवसाने तु विघ्नेशं पूजयेद् बुधः ॥ २४ ॥

देव्याग्रे मण्डपे वापि चतुर्था स्थण्डिलं नयेत् ।
पश्चिमे तु पटं न्यस्य तत्पूर्वे नवकं न्यसेत् ॥ २५ ॥

तत्पूर्वे चास्त्रमूर्त्ति च तत्पूर्वे होममेव च ।
नेत्रोन्मीलनं कुर्यान्तु नेत्रमन्त्रेण देशिकः ॥ २६ ॥

वृषशुद्धिः ततः कुर्यात् सकलिकरणं कुरु ।
प्राणप्रतिष्ठा कर्तव्यं रक्षाबन्धं पुरोक्तवत् ॥ २७ ॥

मन्त्रतर्पणमेवोक्तं दण्डभङ्गिक्रमं न्यसेत् ।
शक्त्यादि शक्तिपर्यन्तं द्ध्यायेत् तु गुरूत्तमम् ॥ २८ ॥

मध्य कुम्भे वृषे पूज्य लोकपान् परितो यजेत् ।
पश्चिमास्यो वृषं पूज्य वरुणाद्यष्टदिक्षु च ॥ २९ ॥

स्वस्वमन्त्र्यै समभ्यर्च्य वृषं विद्येश्वरान्यसेत् ।
एवं कुम्भान्समभ्यर्च्य नैवेद्यधूपदीपकम् ॥ ३० ॥

अस्त्रं संपूज्य विधिवत् ततो हेम समारभेत् ।
अग्निकार्योक्तमार्गेण अग्निकार्यं समाचरेत् ॥ ३१ ॥

वृषादि परिवारेण तत्तद्विजेने होमयेत् ।
पूर्णाहुति प्रकर्तव्यं प्रायश्चित्त समाचरेत् ॥ ३२ ।

वह्नाद्विजसमादाय तत्तत्कुम्भेसु योजयेत् ।
ध्वजस्तानं पुरा प्रोक्तं तस्धानं लेपयेत् ततः ॥ ३३ ॥

प्. २६१)

पिष्टचूर्णेरलङ्कृत्य सर्ववाद्यसमन्वितम् ।
ग्रामप्रदक्षिणे वापि वाहनं तत्र विन्यसेत् ॥ ३४ ॥

अस्त्रं पश्चिमतो न्यस्य उत्सवेशिं च विन्यसेत् ।
तत्कुम्भमुत्तरे स्थाप्य ततो विघ्नेशमर्चयेत् ॥ ३५ ॥

संकल्पं च यथापूर्वं बृहस्पति यजेत् ततः ।
वृषगायत्रिमन्त्रेण ध्वजमारोपयेद्गुरुः ॥ ३६ ॥

एवं वृषञ्चेत् कर्तव्यं सिंहं वापि विशेषतः ।
सिंहस्य मूलमन्त्रेण अतिवासं तिरोपयेत् ॥ ३७ ॥

श्वेतं स्वर्णं बृहद्दन्तमुग्रवृष्टिनखान्वितम् ।
वक्त्रावक्त्रसमाकायमूर्धपुच्छं च वक्रकम् ॥ ३८ ॥

पूर्ववल्लक्षणं प्रोक्तं सिंहरूपं प्रकल्पयेत् ।
हृदयं चशिरःश्चैव शिखा कवचमेव च ॥
पश्चिमादि महाशासु कल्पयेत् तु विचक्षणः ॥ ३९ ॥

एवं क्रमेण संस्थाप्य स्वस्वनामेव पूजयेत् ।
इतराण्यपि सर्वाणि कारयेद् वृषभोक्तवत् ॥ ४० ॥

एवं क्रमेण कर्तव्यं विधिशोधनमुच्यते ।
शुनिर्माल्य धारिणि देविमलङ्कृत्या विशेषतः ॥ ४१ ॥

सधान्नसमये काले विधिशोधन नायक ।
विधिशोधनमेवोक्तं भेरिताटनमुच्यते ॥ ४२ ॥

भेरिसन्ताडनं रात्रौ पूर्वोक्तविधिवन्नयेत् ।
अहूयाष्टगणां चैव देशिकः शिष्य एव च ॥ ४३ ॥

एवं देवान्समावाह्य पूजयेद् गन्धपुष्पकम् ।
भेरिं संपूज्य विधिवदेकद्वित्रि च ताडयेत् ॥ ४४ ॥

प्. २६२)

पञ्चत्पारशिवश्चैव सर्वतालेन ताडयेत् ।
आवाहनबलिं दद्याच्छुद्धान्नं वा गुलान्नकम् ॥ ४५ ॥

ब्रह्माद्यैशानपर्यन्तं इन्द्राद्यैशानमेव च ।
ध्वजो ध्वजादि बल्यन्तं दिनं देवकलिं विना ॥ ४६ ॥

ततोत्सवं समारभ्य मङ्गलाङ्कुरपूर्वकम् ।
विघ्नराजं च गौरिं च रक्षासूत्रं च बन्धयेत् ॥ ४७ ॥

यागार्थं यागशालां च शुद्धि कृत्वा विचक्षणः ।
वेदिमध्ये विशेषेण स्थण्डिलादिरलङ्कृतम् ॥ ४८ ॥

कुम्भं वा करकं वापि मध्यकुम्भे मनोन्मनि ।
वामादि शक्तयश्चाष्टौ पूर्वादि स्थापयेद् गुरुः ॥ ४९ ॥

निष्कमर्धं तदर्धं वा पञ्चाशांशं च निक्षिपेत् ।
उत्तमादिषु वस्त्राढ्यं शेषं पूर्ववदुच्यते ॥ ५० ॥

तत्तद्ध्यानमनुस्मृत्य तत्तत्कुम्भेषु पूजयेत् ।
नवाग्नि वाथ पञ्चाग्निं मेकाग्निमथवा चरेत् ॥ ५१ ॥

वामादि शक्तयश्चापि पञ्चमूर्तिं मनोन्मनिम् ।
एवं संकल्प्य विधिवत् स्वस्वमन्त्रेश्च पूजयेत् ॥ ५२ ॥

कुण्डसंस्कारमारभ्य पूर्णान्तं पूर्ववद्भवेत् ।
नित्याग्नि होमकार्यं तु नित्यं वा होममाचरेत् ॥ ५३ ॥

भेरिं संताड्य विधिवद्बलिदानमुपक्रमात् ।
द्वारादि बलिपीठान्तं गुलान्न वा बलि ददेत् ।
दिन देवादि तत्सर्वं शिववत् कारयेत् क्रमात् ॥ ५४ ॥

प्. २६३)

बलिदानवासाने तु यानं सम्यक् समाचरेत् ।
वीथि सम्मार्जनं पूर्वं प्रोक्षणं च द्वितीयकम् ॥ ५५ ॥

पताकाद्यैस्त्रितीयं तु यन्त्राद्यैश्च चतुर्थकम् ।
उत्सवेशिमलङ्कृत्य वाद्यघोषसमन्वितम् ॥ ५६ ॥

शनैः प्रदक्षिणं कृत्वा नानालीलासमन्वितम् ।
सर्वत्र ज्वलदीपाश्च नानाजाति समाकुलम् ॥ ५७ ॥

या नान्ते परिवेषाश्च अरिबृन्दैश्च सेवितम् ।
यत्रार्थ * * * * * * * * * * *

उत्तुङ्गलक्षणाद्यादि पूर्ववत्परिकीर्तितम् ।
तत् तदन्तरमानं तु एकाङ्गुलवशात् स्मृतम् ॥ ५९ ॥

भद्रपीठ विधि प्रोक्तं परिचारविधौ पुरा ।
एतत् सर्वं समापाद्य प्रतिष्ठाविधिमाचरेत् ॥ ६० ॥

द्वारे पीठे प्रतिष्ठा च प्रथमे च द्वितीयके ।
भद्रपीठप्रतिष्ठा च समतन्त्रेण कारयेत् ॥ ६१ ॥

पृथक् तन्त्रेण वा कुर्याच्चतुरङ्गं विधानतः ।
एकाचार्येण कर्तव्यं नेकस्मिन्नेककालके ॥ ६२ ॥

अङ्कुरं वास्तुयागादि समतन्त्रैकमाचरेत् ।
प्रासादपूर्वदिग्भगे मण्डपं विधिना चरेत् ॥ ६३ ॥

तन्मध्ये वेदिकां कृत्वा हस्तमात्रप्रमाणतः ।
रुद्रवेदिति संप्रोक्ता तत्ताराग्रेकतुङ्गकम् ॥ ६४ ॥

प्. २६४)

तत्पूर्वादि चतुर्दिक्षु विधि वेदिं प्रकल्पयेत् ।
अनेन वासकं कुर्यात् तद्विधान प्रकारक ॥ ६५ ॥

एवमेव प्रकारेण मण्डपं सम्यगाचरेत् ।
नवाहे वाथ पञ्चाहे त्रियाहेऽङ्कुरमाचरेत् ॥ ६६ ॥

जीर्णपीठं त्यजित्वा या कृत्वा संस्थापयेन्नवम् ।
तर्जन्यं तु त्रिधा प्रोक्तं स्फटिकं छिन्नभिन्नकम् ॥ ६७ ॥

भद्रपीठं विशेषेण महाङ्गोपाङ्गसंयुतम् ।
उपान जगतिच्छादकुमुदं कर्णपट्टिकम् ॥ ६८ ॥

पद्मं च कणिका चाथ महाङ्गमिति कीर्तितम् ।
दलोपदलनास्यादि उपाङ्गमिति कीर्तितम् ॥ ६९ ॥

वर्जयेत् तु महाङ्गेषु स्फुटितेच्छिन्नभञ्जना ।
क्षुद्रपीठादि सर्वेषु विभिनेताश्च वर्जयेत् ॥ ७० ॥

सस्योद्धारक्रमं वक्ष्ये पीठं दक्षिणमण्डले ।
सङ्कल्प्यासनमावाह्य पूजामन्त्रं समाचरेत् ॥ ७१ ॥

तत्सर्वे स्थण्डिलं कृत्वा शालिभिः विमलैः शुभैः ।
तन्मध्ये पद्ममालिख्य साष्टपत्र सकर्णिकम् ॥ ७२ ॥

द्रोणामम्बुरितघटान्तन्मध्ये विन्यसेद् बुधः ।
आवाह्य पीठद् देवांश्च कुम्भमध्ये तु विन्यसेत् ॥ ७३ ॥

निवेद्यादीन्समाप्यध चाधिकाख्य च मार्गतः ।
आधानादि विवाहान्तं कृत्वा मधुघृतैरपि ॥ ७४ ॥

प्. २६५)

दूर्वाभिस्तण्डुलैस्तत् तद्देवतामन्त्रमुच्चरन् ।
शतमर्धं तदर्धं वा होमयेत् तु पृथक् पृथक् ॥ ७५ ॥

क्षुरिका बीजमुख्येन पूर्णाहुतिमथाचरेत् ।
जयादिरभ्याधानाञ्च क्रमाद्राष्ट्राहुतिं हुनेत् ॥ ७६ ॥

अग्निस्थं मण्डलस्थं च कुम्भमध्येवमावहेत् ।
भूतले निखिनेतांश्च समुद्रेष्वधवा नयेत् ॥ ७७ ॥

जीर्णपीठादि संभूतं मस्तिचेदिदमाचरेत् ।
पीठशुद्धिं ततः कृत्वा पञ्चमृद्गव्यबिल्वकैः ॥ ७८ ॥

भद्रपीठे विशेषोऽस्ति तदग्रस्तितदर्पणे ।
धाराभिषेचनं कुर्याच्छुद्धैरुद्धेति मन्त्रतः ॥ ७९ ॥

वास्तुहोमं बलिं चाथ मण्डपा पुरा चरेत् ।
रक्षाबन्धं ततः कृत्वा भद्रपीठोध्वकर्णिके ॥ ८० ॥

अन्येषामेव पीठानां कृतं वा तद्विनाचरेत् ।
वेद्यासु स्थण्डिलं कुर्यादष्टद्रोणेन शालिना ॥ ८१ ॥

तदर्द्धैस्तण्डुलैर्युक्तं तदद्धैन्तिलसंयुतैः ।
लाजैः पुष्पैस्तिलैः ष्टर्भै विकिर्णै समलङ्कृतम् ॥ ८२ ॥

तत्पूर्वे वेदिकुम्भेषु दक्षिणोत्तरमध्यतः ।
नन्दिनं च महाकालं वृषभं पूजयेत् क्रमात् ॥ ८३ ॥

ततो दक्षिणसंभूते वेदिकुम्भेषु सर्वतः ।
दुर्गामात्रंश्च विघ्नेशं वरस्कन्दौ च माधवम् ॥ ८४ ॥

प्. २६६)

शण्डेशमाग्न्यादि शान्तंमग्रे भूतेशमध्ये च ।
प्रदिचि वेदिकुम्भेषु सिंहं च भुजगेश्वरम् ॥ ८५ ॥

धर्ममेववमावे च वाममध्येष्वनुक्रमात् ।
उदिचि वेदिकुम्भेषु इन्द्रावैश्वानरं यमम् ॥ ८६ ॥

नि-ऋतिं पाशिवाद्ध्विंन्दु वटुकाख्यं महेश्वरम् ।
विष्णुपीतामहञ्चापि पूर्वादारभ्य पूजयेत् ॥ ८७ ॥

तन्मध्ये वेदिकुम्भेषु आमोदं च प्रमोदकम् ।
सुमुखं दुर्मुख्ं चाथ अविघ्नं विघ्ननायकम् ॥ ८८ ॥

पूर्वदक्षिणपाशीन्दु रुद्रदिक्कर्णिकोध्वतः ।
आसनो मूलत्तिमूलाद्यै संयुतं तान्समर्चयेत् ॥ ८९ ॥

तत् तद् वेद्युत्तरे देशे क्षुद्रपीठादि वासनम् ।
भद्रपीठो विशेषोऽस्तितस्थाने चाधिवासयेत् ॥ ९० ॥

वेदपारायणं कुर्यात् कुम्भस्थानपूर्वकम् ।
अग्न्यादानादिकं सर्वम् अग्निकार्योक्तमाचरेत् ॥ ९१ ॥

समिधाज्य चरूलाजान् सर्षपं च यवंतिलम् ।
तं तन्मूल षडङ्गैश्च पावमानैस्त्रियम्बकैः ॥ ९२ ॥

स्पृष्ट्वा स्पृष्ट्वा तु जुहुयात् तत् तन्मूलमनुस्मरन् ।
एवं जागरणं रात्रौ प्रभाते स्नानमाचरेत् ॥ ९३ ॥

तोरणादि घटान् सर्वानर्चयेद् गन्धपुष्पकैः ।
क्षुद्रपीठप्रतिष्ठाया स्थानं वक्ष्यामि तच्छृणु ॥ ९४ ॥

प्. २६७)

प्रासादमध्यमाशृत्य चान्तर्मण्डलमध्यतः ।
दुर्गादि चण्डपीठान्तम् अन्यदिशान्तमर्चयेत् ॥ ९५ ॥

अग्रे वृषस्थलं यत्र तत्र तत्पीठदेशकम् ।
तत्पृष्ठे भूतनाथस्य पीठदण्डप्रमाणतः ॥ ९६ ॥

द्वारं प्रति विशेषेण द्वारेशं पीठदेशकम् ।
अन्तर्मण्डलमास्यद्धमेशस्य वृषाग्रतः ॥ ९७ ॥

इन्द्रपीठेषु खायामे पद्रपीठाग्रमानतः ।
तस्थानसीमा संबन्धमर्न्तर्मण्डलमानतः ॥ ९८ ॥

अग्न्यादि स्थापयेत् सप्तदिक्षु सोमेशमध्यतः ।
नैर्-ऋते दण्डमानेन विष्णुपीठं प्रतिष्ठयेत् ॥ ९९ ॥

ऐशान्यां हस्तमानेन ब्रह्मपीठप्रतिष्ठयेत् ।
द्वितीर्यवरणे पीठे स्त्वेवमेव प्रकल्पयेत् ॥ १०० ॥

भद्रपीठप्रतिष्ठा तु प्रोक्त प्राकारलक्षणे ।
आचार्यं पूजयेत् पश्चाद् वस्त्रहेमाङ्गुलियकैः ॥ १०१ ॥

अध्यात्म परिवाराश्च यथा वित्तानुसारतः ।
पर्यष्टिनोत्तरियाद्यैरुष्णिषैमण्डितेन च ॥ १०२ ॥

पूर्वे तु स्थापित घटान् सर्वतोद्यसमन्वितम् ।
शिरसा वाहयित्वा तु कृत्वा धामप्रदक्षिणम् ॥ १०३ ॥

तत् तन् मूले समुच्चार्य तत्तत्पीठेऽभिषच्य च ।
भद्रपीठे विशेषोऽस्ति मन्त्रन्याससमुद्धरेत् ॥ १०४ ॥

प्. २६८)

अथातः संप्रवक्ष्यामि गौरिणामर्चनं तथा ।
गौरि चैव मनोन्मन्या भवानि त्रिविधं भवेत् ॥ १०५ ॥

श्याम द्विनेत्रां द्विभूजां त्रिभङ्गि
सव्यापसव्यस्थिति कुञ्चिताङ्घ्रि ।
सव्योत्पला सत्कटकास्तनो च
हस्तावलम्बा परमेश्वरिं स्यात् ॥ १०६ ॥

शम्भुशक्ति समभङ्गमुच्यते द्विनेत्र प्रकृतिं च सुस्थितम् ।
लम्बमेककर दक्षिणेत्पलं या भमनुसारवक्त्रकम् ॥ १०७ ॥

कल्याणदायि भवतोस्तु पिनाकपाणि
पाणिग्रहे भुजकङ्कण भाषिताङ्गम् ।
सभान्तदृष्टिसहसैव * * नयत्यद्धोक्त
सुमुखमम्बिकायाम् ॥ १०८ ॥

द्विनेत्र द्विभुजाः श्यामा गौरि दक्षकरोत्पल ।
करण्डमकुटोपेता सर्वलक्षणसंयुता ॥ १०९ ॥

गौरिलक्षणमेवोक्तं मनोन्मन्या स्वरूपकम् ।
श्यामभव वेदकरवन्निनयनं स्यात्
पद्मवराभय जपाक्षवलयोक्तकम् ।
पीतवरसाञ्चित जटामकुटयुक्तं
रक्तकमलासनमनोन्मनिस्वरूपम् ॥ ११० ॥

इन्दुनिभवेदकरवह्निनयनं स्यात्
पङ्कजपताकवरदोत्पलचतुष्कम् ।
अङ्गहिमभूषणविचित्रवदनं स्यात्
तुङ्गकुटोज्वलमनोन्मनि स्वरूपम् ॥ १११ ॥

प्. २६९)

अभयवरदहस्तं चाक्षमालाब्जकं स्या
अपरकर्णि तु देव्यमाम क्रमेण ।
जटधरशशिसर्पं चाकधूर्धूरचूडा
सकल * * पि कृतं स्यात् श्यामवर्णञ्च गौरिम् ॥ ११२ ॥

पद्माक्षमालाभय दूरुहस्तां
श्यामाङ्गनेत्रत्रयसुन्दराड्यम् ।
किरिटवक्त्रेन्दुजटावचूडां
श्रिकामकोटिं शिवशक्ति रूपाम् ॥ ११३ ॥

शङ्खनिभमङ्गमरुणं वृषमधास्यात्
पङ्कजप्रसार्यकरतुङ्गभुजगहस्तम् ।
अघ्रितलकृष्णवति नेत्रमतिधूम्रं

वेदस्य वामभागेव सव्यभासव्य भागके ।
प्रकाराभ्यन्तरे वापि ऐशान्ये वा विशिष्यते ॥ ११५ ॥

स्वतन्त्रालय संकल्प्य वायुसोमे च ईशके ।
अथवान्यप्रकारेण दक्षनै-ऋतपावके ॥ ११६ ॥

प्रासादे चैव कर्तव्यं शक्ति संस्थापयेत् सुधिः ।
स्वतन्त्राल संकल्प्य नचित्तेस्तु प्रतिष्ठयेत् ॥ ११७ ॥

पूर्वस्याभिमुखे गौरि शान्तिकं तु समर्चयेत् ।
दक्षिणाभिमुखं कृत्वा सर्वसंपत्करं तथा ॥ ११८ ॥

पश्चिमाभिमुखं देवि धनधान्यसमृद्धिदम् ।
उत्तराभिमुखं देवि सौख्यकं च ततः परम् ॥ ११९ ॥

वृत्तपीठस्थितं गौरिभद्रपीठ स्थितं तु वा ।

प्. २७०)

शयनं पद्मपीठं स्यात्पीठशक्तिरिहोच्यते ।
यद्वक्त्रं द्वारं संकल्प्य प्राकारादिनि कल्पयेत् ॥ १२० ॥

योगं भोगं च वीरं च शक्तिरेवा त्रिधा भवेत् ।
योगे लिङ्ग समायुक्तं भोगं वामे समन्वितम् ॥ १२१ ॥

वीरं स्वतन्त्रमित्युक्तं शक्तिरेवं त्रिधा भवेत् ।
उत्तरे तु यजेद् गौरीं वायुदेशे मनोन्मनी ॥ १२२ ॥

भवानिमीशदिग्भागे स्थापयेत् तु विधानतः ।
गौरि दक्षिणदिग्भागे पावके तु मनोन्मनी ॥ १२३ ॥

भवानि नै-ऋते देशे अथवा कल्पयेद् बुधः ।
स्थानं संयुक्तदस्थाने शक्तिनां जीर्णनष्टके ॥ १२४ ॥

आलयं तु विसृज्याथ लक्षणोक्त निकेतनम् ।
भक्तांश्च परिवारांश्च कर्तभक्त्यानुकूलके ॥ १२५ ॥

जनानुग्रहसंयुक्तं तच्छिघ्रं सुकृतं तु वा ।
न्युनाधिक्यं न कर्तव्यं पूर्ववत् परिकल्पयेत् ॥ १२६ ॥

पुनस्थापन शक्त्यानां ग्रामशान्तिकरं शुभम् ।
स्वतन्त्रालसंकल्प्य स्थापयेत् पूजयेत् ततः ॥ १२७ ॥

शक्तिनां कल्पयेद् धीमान् भूमदेविं तदग्रतः ।
द्विभुजां च द्विनेत्रां च पीतवस्त्रां सुयौवनाम् ॥ १२८ ॥

एकवक्त्रसमायुक्तां कृताञ्जलिपुटान्विताम् ।
करण्डमकुटोपेतां भूमदेविं सलक्षणाम् ॥ १२९ ॥

प्. २७१)

द्वाराग्रं तु तथा पूज्य द्वारपूजां विधिर्यते ।
द्वारदक्षिणपार्श्वे तु गङ्गायमर्चयेत् ततः ॥ १३० ॥

योगिनीं तस्य वामे तु अर्चयित्वा विधीयते ।
द्वारस्य वामपार्श्वे तु यमुनामर्चयेत् तथा ॥ १३१ ॥

डाकिनिं सव्यतः पूज्य अर्चयित्व क्रमेण तु ।
ऊर्ध्वे पतङ्गमध्ये तु महालक्ष्मी प्रपूजयेत् ॥ १३२ ॥

तस्य दक्षिण पार्श्वे तु नर्मदामर्चयेत् तथा ।
वामपार्श्वे सरस्वत्यां पतङ्गोपरिपूजयेत् ॥ १३३ ॥

पतङ्गं च भुवङ्गं च ऊर्ध्वतः परिपूजयेत् ।
विमलं च सुबाहुं च पूजयेत् तु कवाटयोः ॥ १३४ ॥

तस्याग्रे वृषभं पूज्य अस्त्रदेवं समर्चयेत् ।
द्वारपूजा विधिप्रोक्ता गौर्यार्चनं विशेषतः ॥ १३५ ॥

गर्भगृहं प्रविश्याथ गौरिं चैव समर्चयेत् ।
निर्माल्यं च विसृज्याथ चण्डेश्वर समर्चयेत् ॥ १३६ ॥

देशिकशक्तिरूपत्व देशिकान्मशिवस्य तु ।
शिवशक्तिस्वरूपत्वाच्छिवशक्तिं प्रपूजयेत् ॥ १३७ ॥

शैवेष प्रथिविजाता पार्वति परमेश्वरः ।

निष्कलं शैलजाकत्तुं सकलं भार्यरूपकम् ।
भावरूपं तु संबन्धं लोहजानि शिलान्वितम् ॥ १३९ ॥

प्. २७२)

गौरिस्नानं च कृत्वा तु सवगन्धोक्तमाचरेत् ।
साङ्गोपाङ्गं च प्रत्यङ्गं पूजयेत् त्रिविधं स्मृतम् ॥ १४० ॥

स्नानतोयं च पाद्यं च तथा च मिनीयकम् ।
वस्त्रमाभरणं चैव सुगन्धालेपनं तथा ॥ १४१ ॥

अर्घ्यं च मन्त्रपुष्पं च साङ्गं च त्रिप्रकीर्तिता ।
उपाङ्गं धूपदीपं स्यात् सायं रक्षा तु भस्मना ॥ १४२ ॥

छत्र चामरकं चैव दर्पणदर्शनं तथा ।
नृत्तगेयसमायुक्तं उपाङ्गं चेति कीर्तितम् ॥ १४३ ॥

नैवेद्यं बलिदानं च होमं कृत्वा समाचरेत् ।
नित्योत्सव चुलुकोदं च प्रत्यङ्गं चेति कीर्तितम् ॥ १४४ ॥

वामायां पूर्वदिग्भागे ज्येष्ठायां पावके यजेत् ।
रौद्रिणवन् दक्षिणे देशे कलिन्या नै-ऋते तथा ॥ १४५ ॥

कलवकरणि प्रतिच्यां बलविकरणिति वामके ।
बलप्रमथनि सौम्ये सर्वभूतदमनिशके ॥ १४६ ॥

मनोन्ममध्यमे पूज्य ओकारादि नमोन्तकम् ।
तत् तत्स्वनाममन्त्रेण तत् तत्स्थानेषु पूजयेत् ॥ १४७ ॥

प्रथमावरणं प्रोक्तं द्वितिर्यवरणं शृणु ।
ब्राह्मी पूर्वे तु संपूज्य महेशिमग्निगोचरे ॥ १४८ ॥

कौमारि दक्षिणेभ्यर्च्य राक्षसि वैष्णवि तथा ।
वाराहि पश्चिमे पूज्य इन्द्राणि वायुगोचरे ॥ १४९ ॥

प्. २७३)

चामुण्डि चोत्तरे पूज्य दुर्गायामीशगोचरे ।
वीरभद्रं च विघ्नेशं ऐशान्यां नैर्-ऋते यजेत् ॥ १५० ॥

द्वितीयावरणे प्रोक्तं तृतिर्यवरणं शृणु ।
वृषभं पूर्वतः पूज्य गणेशं चाग्निगोचरे ॥ १५१ ॥

स्कन्दं च दक्षिणे पूज्य महाशस्तं च नै-ऋते ।
शनैश्वरं पश्चिमे तु वायव्यां वीरमेव च ॥ १५२ ॥

क्षेत्रपालं तु सौम्ये तु ऐशान्या भास्करं यजेत् ।
तृतिर्यवरणे प्रोक्तं चतुर्थावरणं शृणु ॥ १५३ ॥

जम्भिनि पूर्वदिग्भागे स्थम्भिनिमग्निगोचरे ।
शान्तिमोह राक्षाण्ये भेदिनि नै-ऋते तथा ॥ १५४ ॥

रमणिं वारुणे पार्श्वे भद्रकामिनि वायुके ।
दुर्गायां सौम्यदिग्भागे चण्डिशिमिश गोचरे ॥ १५५ ॥

बलिपीठे तथाग्रे तु सर्वशक्तिमयि तथा ।
बलिपीठे तु पूर्वायामाकाशमातरि तथा ॥ १५६ ॥

भूतमातर दक्षिण्यो लोकमातरि पश्चिमे ।
देवमातरि सौम्येयां मतुमातमूर्ध्यतः ॥ १५७ ॥

सर्वशक्तिमयं पीठं बलदेव्यः प्रकीर्तिता ।
वृषादिबलिपीठान्तं कुङ्कुटाण्ड प्रमाणतः ॥ १५८ ॥

प्रातर्मध्यान्नसमयेषु बलितन्त्र विनिक्षिपेत् ।
सर्वभूतविहीने तु बलिनां तत्र त्रप्तये ॥ १५९ ॥

प्. २७४)

बलिहिनं समभ्यर्च्य पूजायां निष्फलं भवेत् ।
तत्स्मात् सर्वप्रयत्नेन बलिदानं समाचरेत् ॥ १६० ॥

आयुश्रीयङ्गलब्धामामैश्वर्यारोग्यवर्धनम् ॥ १६०½ ॥

इति सूक्ष्मशास्त्रे गौरिनित्यार्चनविधिं नाम अष्टचत्वारिंशत्पटलः ॥ ४८ ॥

अथातः संप्रवक्ष्य * प्रोक्षणविधिरुत्तमम् ।
द्वितियं प्रोक्षणं प्रोक्तं भद्रयोगं तथैव च ॥ १ ॥

प्रासादकरणे चैव पीठबन्धविधौ तथा ।
बालस्थानं तथा कृत्वा प्रोक्षणं भद्रमुच्यते ॥ २ ॥

पतिते दृष्टि ते लिङ्गे चण्ड लः शिल्पिभिस्तथा ।
श्वानादि कुकुटे चैव वानरैः प्रविशेद्यदि ॥ ३ ॥

पूजाहीने तथा मासे प्रोक्षणं योगमुच्यते ।
प्रासदस्याग्रतः कुर्या ण्डपं चतुरश्रकम् ॥ ४ ॥

चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।
वितानैदर्भमालाभिमुक्तादामरलङ्कृतम् ॥ ५ ॥

अष्टमङ्गलसंयुक्तं मङ्गलाङ्कुरशोभितम् ।
कृत्वा नवपदं मध्ये पदमेकं तु वेदिका ॥ ६ ॥

अरत्रिमात्रमुत्सेधं मुष्टिमात्रं तथापि वा ।
कुर्यात् कुण्डानि परितः दिशासु विदिशासु च ॥ ७ ॥

प्. २७५)

दशासु चतुरश्राणि वृत्तानि विदिशासु वै ।
इन्द्र इशानयोर्मध्ये प्रधानं तत्र कल्पयेत् ॥ ८ ॥

पुण्याहं वाचयित्वा तु पर्यग्नि करणं तथा ।
चन्दनागरुकर्पूरा कुष्ठे चक्रकेसरैः ॥ ९ ॥

लिङ्गमालिप्य वस्त्रेण पीठाद्याश्चाद्य योत्तमम् ।
पञ्चगव्येन संप्रोक्ष्य पावमानमुदिरयन् ॥ १० ॥

लिङ्गं दर्भार्भिरावेष्ट्य हृदयेन विचक्षणः ।
हैम कौतुकसूत्रं तु बन्धयेच्छिरसा शिवम् ॥ ११ ॥

बालस्थानं ततो गत्वा पूजयित्वा विशेषतः ।
यात्राहोमं प्रकर्तव्यं बालस्थानस्य चाग्रतः ॥ १२ ॥

तस्थण्डिलं तत्र कर्तव्यं निर्दोषैः सिकतै शुभैः ।
अग्न्यादानादिकं कृत्वा शिवाग्निं कल्पयेत् ततः ॥ १३ ॥

अथ ब्रह्म षडङ्गैश्च प्रत्येकं तु शताहुति ।
स्पृष्ट्वा स्पृष्ट्वा तु जुहुयात् सार्धसार्धमथापि वा ॥ १४ ॥

ईशानेन चरू हुत्वा स्पृष्ट्वा लिङ्गं समस्तकम् ।
तस्याग्रे शिवकुम्भन्तु संस्थाप्य स्थण्डिलोपरि ॥ १५ ॥

पञ्चरत्नसमायुक्तं सकूर्चं वस्त्रसंयुतम् ।
ध्यात्वा सदाशिवं तस्मिन् सद्येनावाहयेत् ततः ॥ १६ ॥

बीजमुद्रां ततो बध्वा मुकुल पद्ममुद्रिकाम् ।
गणाम्बिक्ये तु मन्त्रेण स्नापयेत् पूजयेत् ततः ॥ १७ ॥

प्. २७६)

पञ्चगव्येनसंप्रोक्ष्य वेदिकां हृदयेन तु ।
तस्योत्तरे न्यसेन् मन्त्रिवर्धनी सहिरण्यकाम् ॥ १८ ॥

परितः कलशानाष्टौ न्यसेद् विद्वेश्वरं नले ।
निशास्वध्यायनं कृत्वा द्विधिवद्वैदपालगैः ॥ १९ ॥

पटेण महतवेष्य ततो होमसमारभेत् ।
समिधाज्यचरूर्लाजान्सर्षपाश्च यवां तिलान् ॥ २० ॥

होमद्रव्याणि सप्तैते कल्प्यं ते विधिपूर्वकम् ।
पालाशोदुम्बरश्च ध्वप्लक्षश्चेव दिशासु वा ॥ २१ ॥

शमिखादिरविल्वाद्विदुक्षु क्रमशस्तथा ।
सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा ॥ २२ ॥

शतमष्टोत्तरं चैव प्रत्येकं जुहुयात् क्रमात् ।
घृतमीशानमन्त्रेण पुरुषेण चरुस्तथा ॥ २३ ॥

लाजं च घोरमन्त्रेण सद्येन सर्षपं तथा ।
तिलान्पाशुपतास्त्रेण कवचेन यवांस्तथा ॥ २४ ॥

द्रव्यान्ते व्याहृदि हुत्वा स्पृशेल्लिङ्गं स्वमन्त्रतः ।
प्रतिद्रव्यं स्वमन्त्रेण सूचा पूर्णाहुतिर्भवेत् ॥ २५ ॥

प्रभाते पूजनं कृत्वा सूत्रबन्धान् व्यपोह्य च ।
सद्यादि पञ्चगव्येन पञ्चगव्याभिषेचनं ॥ २६ ॥

कृत्वा शुद्धिमद्याद्भिस्तु लिङ्गपीठस्थलं क्रमात् ।
हैमपुष्पं च संयुक्तं पुष्पं शिरसि धारयेत् ॥ २७ ॥

प्. २७७)

आचार्य पूजयेत् पूर्वं वस्त्रहेमाङ्गुलियकैः ।
कटकं कुण्डलं चैव यज्ञसूत्रं तु हैमकम् ॥ २८ ॥

यदा शक्त्या तु दातव्यं ग्रामभूमि धनिस्सहा ।
सुमुहूर्ते ततो ध्यात्वा देवदेवं त्रियम्बकम् ॥ २९ ॥

आत्मानमर्चगन्धाद्यै सकलिकृत विग्रहः ।
लिङ्गं च मूर्ध्नि संयुक्ते कलांम्श्चागानि विन्यसेत् ॥ ३० ॥

शिवकुम्भं ततो नित्वा विधानं तु व्यपोह्य च ।
तदभि स्नपयेत् लिङ्गप्रासादं तु मनुस्मरेत् ॥ ३१ ॥

सदाशिव त ध्यात्वा सागं ब्रह्माणि कल्पयेत् ।
शिवकुम्भजले देवं वर्धन्यां पिण्डिकामपि ॥ ३२ ॥

स्वस्वैन्मन्त्रेश्च कलशानभिषिच्य यथाविधिः ।
गन्धाद्यैरर्चयेद् देवं पञ्चावरणपूर्वकम् ॥ ३३ ॥

नैवेद्यं बलिदानं च नृत्तगेयसमाकुलम् ।
संतोषयेत् च्छिवं साक्षाद् भद्रमेवं प्रकीर्तितम् ॥ ३४ ॥

सन्तोषयेत् च्छिवं साक्षाद्भद्रमेवं प्रकीर्तितम् ॥ ३४½ ॥

इति सूक्ष्मशास्त्रे संप्रोक्षणविधिं नाम एकोन पञ्चाशत्पटलः ॥ ४९ ॥

वक्ष्ये नित्यार्चनहिने प्रायश्चित्तविधिक्रमम् ।
प्रायोविनाशमित्युक्तं चित्तं सन्धानमुच्यते ॥ १ ॥

विरशस्य तु सन्धानं प्रायश्चित्तमिति स्मृतम् ।
आदौ तु निश्चयद्रव्यं हि न वा दोषकारकम् ॥ २ ॥

प्. २७८)

तद् दोषशमनार्थाय प्रायश्चित्तं तु कारयेत् ।
अकल्पितं तु यद् द्रव्यं हीने दोषं न विद्यते ॥ ३ ॥

मार्जनप्रोक्षणाहिने नारं कर्मकरस्तथा ।
सौरपूजाविहीने च पुण्यहं गव्यहीनके ॥ ४ ॥

लम्बोदरार्चने हीने रन्ध्रार्चन विहीनके ।
पाद्यमाचमानार्घ्यं हि हीने स्नानविहीनके ॥ ५ ॥

वस्त्रमाभरणहीनं गन्धपुष्पविहीनके ।
नैवेद्यं चोपदंशं च हीने पानिय हीनके ॥
मुखवासं च हीनक्वे न च भूतबल्युत्सवेऽपि च ॥ ६ ॥

धूपदीपविहीने च आरात्रिकविहीनके ।
भस्मताम्बूलहीने च दर्पणश्चत्रहीनके ॥ ७ ॥

चामरं खड्गहीने च वेदस्तोत्र विहीनके ।
पुराणश्रवणे हीने पञ्चाङ्गश्रवणेऽपि च ॥ ८ ॥

नृत्तगानं च वाद्यं च चण्डार्चनविहीनके ।
एवमादिसमुत्पन्ने निष्कृतिं च वदाम्यहम् ॥ ९ ॥

मार्जनं प्रोक्षणाहीने गोगौरान्विनाशनम् ।
मार्जनप्रोक्षणं कुर्याद् गव्येन प्रोक्ष्य भूतले ॥ १० ॥

कालाति क्रमणार्थाय शान्तिकुम्भाभिषेचयेत् ।
तद्दोषशमनार्थाय व्योमव्यापि शतं जपेत् ॥ ११ ॥

सयेव स्पृशितद्रव्यं वर्जयेत् तत्प्रयत्नतः ॥ १२ ॥

अथवा लिङ्गबिम्बस्य स्पर्शतं चेद् विशेषतः ।
मृद्भाण्डानि विसृज्याथ स्नपनैरभिषेचयेत् ॥ १३ ॥

प्. २७९)

सौरपूजाविहीने च भूपते रोगसंभवम् ।
शान्तिहोमं ततः कृत्वा स्नपनैरभिषेचयेत् ॥ १४ ॥

जप्त्वा दिनकरं मन्त्रं सहस्रं वा तदर्धकम् ।
नित्यपुण्याहहीने च तद्राष्ट्रौ नश्यते श्रियम् ॥ १५ ॥

तद् दोषशमनार्थाय पञ्चगव्याभिषेचयेत् ।
पञ्चगव्य विहीने च महामारि प्रवर्तते ॥ १६ ॥

घृतेन स्नपयेच्छम्भो ब्रह्ममन्त्रं शतं जपेत् ।
विघ्नेश्वरार्चने हीने जीवावारण नाशनम् ॥ १७ ॥

स्नपनं शान्तिहोमं च कारयेत् तु गणेश्वरम् ।
भक्ष्यापुपादिकं दत्वा विघ्नमन्त्रशतं जपेत् ॥ १८ ॥

रन्ध्रार्चन विहीने च दुर्भिक्षं जायते भुवि ।
शान्तिकुम्भस्थितो येन देवेशामभिषेचयेत् ॥ १९ ॥

द्वारस्था देवतानां च तत्तन्मन्त्रशतं जपेत् ।
पाद्यद्रव्यसदा चैव हीने राष्ट्रस्य नाशनम् ॥ २० ॥

तद्रव्यं द्विगुणदद्यात् अन्यसन्ध्यासु दापयेत् ।
मूर्तिकुम्भस्थितो येन स्नापयेत् परमेश्वरम् ॥ २१ ॥

आचम्यार्घ्य विहीने चा पादद्रव्यं विधानयेत् ।
स्नानद्रव्यविहीने च तद्राष्ट्रं जलवर्जितम् ॥ २२ ॥

तद्रव्यं द्वित्रिगुणं दद्यात् पञ्चाशत् कलशोदकैः ।
स्नापयेत् परमेशानं व्योमव्यापि समुच्चरन् ॥ २३ ॥

प्. २८०)

वस्त्रदानविहीने च महाव्याधि समुद्भवः ।
त्वक्काषायोदकेनैव स्नपयेत् परमेश्वरम् ॥ २४ ॥

वस्त्रयुग्मं ददेच्छम्भोः युवं वस्त्रेति मन्त्रतः ।
अष्टोत्तरशतं जप्त्वा अन्यसन्ध्यासु दापयेत् ॥ २५ ॥

भूषणं चोपवितं च हीने दारिद्रसंभवम् ।
शान्तिकुम्भोदके स्नाप्य अघोरेण शतं जपेत् ॥ २६ ॥

गन्धद्रव्यविहीने च तद्राष्ट्रं भयमावहेत् ।
अस्त्रोदकेन संस्नाप्य तद्रव्यं द्विगुणं भवेत् ॥ २७ ॥

पुष्पपत्रविहीने च अनावृष्टिर्भविष्यति ।
दिशाकुम्भोदके स्नाप्य सद्यमन्त्रशतं जपेत् ॥ २८ ॥

नैवेद्यं चोपदंशं च हीने दुर्भिक्षसंभवम् ।
तद् दोषशमनार्थाय स्नापयेद्वल्कलोदकैः ॥ २९ ॥

अङ्गमन्त्रशतं जप्त्वा तद्रव्यं द्विगुणं ददेत् ।
पानियमुखवासं च हीने तु जलवर्जितम् ॥ ३० ॥

स्नापयेत् परमेशानं पञ्चाशत् कलशोदकै ।
तद्रव्यद्विगुणं दद्यान्मूलमन्त्रशतं जपेत् ॥ ३१ ॥

नित्यहोमविहीने च भूपतेस्तु विनाशनम् ।
शान्तिहोमं ततः कृत्वा षोडशस्नपनं कुरु ॥ ३२ ॥

पश्चान्नित्याग्निकं कुर्यात् अघोरेण शतं हुनेत् ।
प्रकारबलिहीने च तद्राष्ट्रं बलवर्जितम् ॥ ३३ ॥

प्. २८१)

शान्तिहोमं ततः कृत्वा स्नापयेन् माजनोदकैः ।
दशबीजशतं जप्त्वा पश्चाद् बलिसमाचरेत् ॥ ३४ ॥

नित्योत्सवविहीने च परचक्रभयं भवेत् ।
शान्तिहोमं ततः कृत्वा स्नपनैरभिषेचयेत् ॥ ३५ ॥

त्रयम्बकमनुजप्त्वा पश्चान्मत्रशतं जपेत् ।
नित्योत्सवं ततः कृत्वा पुनः किञ्चिद् वदाम्यहम् ॥ ३६ ॥

श्वानकाकादि संस्पृष्ट्वा प्रतिलोमादिभिस्तथा ।

तत्स्थानादि बलिं दत्वा अस्त्रमन्त्रशतं जपेत् ।
बलिदीपविहीने च यत्र देशे तु संस्थितम् ॥ ३८ ॥

पुनर्द्दीपसमारोप्य बलिशेषं समापयेत् ।
भस्मताम्बूलहीने च माहामारि प्रवर्तते ॥ ३९ ॥

शान्तिहोमं ततः कृत्वा स्नापयेदाद्यतोयकैः ।
आरात्रिकविहीने च नृत्तघ्नश्छदनेऽपि च ॥ ४० ॥

शान्तिकुम्भोदकैस्नाप्य बलिशेषं समापयेत् ।
शान्तिकुम्भोदकैस्नाप्य बहुरूपशतं जपेत् ॥ ४१ ॥

भस्मताम्बूलहीने च राजादुर्जयमाप्नुयात् ।
अस्त्रमन्त्रशतं जप्त्वा परिमार्जनतोयकैः ॥ ४२ ॥

स्नापयेत् परमेशानं तद्रव्य द्विगुणं ददेत् ।
दर्पणश्छत्र हीने च चामरं खड्गहीनके ॥ ४३ ॥

प्. २८२)

परचक्राद् पयं भूमौ राजा दुर्जयमाप्नुयात् ।
शान्तिहोमं ततः कृत्वा स्नपनैरभिषेचयेत् ॥ ४४ ॥

जप्त्वा तु क्षुरिकामन्त्रं सहस्रं वा तदर्धकम् ।
ऋगाध्यध्यायनं हीने भक्तादि स्तोत्रहीनके ॥ ४५ ॥

शान्तिकुम्भोदकेस्नाप्य बीजमुख्यं शतं जपेत् ।
वेदागश्रवणे हीने पुराण श्रवणे तथा ॥ ४६ ॥

जायानां नाशनं चैव बालानां नाशनं भवेत् ।
मान्योदकेन संस्नाप्य दशबीजशतं जपेत् ॥ ४७ ॥

नृत्तगानं च वाद्यं च हीने तद्राष्ट्रनाशनम् ।
शान्तिहोमं ततः कृत्वा मूर्त्तिकुम्भाभिषेचयेत् ॥ ४८ ॥

नन्दिमन्त्रशतं जप्त्वा पश्चान्नृतादिक कुरु ।
चण्डार्चनविहीने च राजासेनविनाशनम् ॥ ४९ ॥

मूर्तिहोमं ततः कृत्वा गन्धोदैरभिषेचयेत् ।
चण्डमन्त्रशतं जप्त्वा पश्चाच्चण्डसमर्चयेत् ॥ ५० ॥

सायं सन्ध्याविहीने च द्विगुणं चान्यसन्धिके ।
यत्र देवाय तृप्यर्थं कुर्यान्निष्कृति पूर्ववत् ॥ ५१ ॥

सन्धिद्वयविहीने च संप्रोक्षणमथाचरेत् ।
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ ५२ ॥

इति सूक्ष्मशास्त्रे नित्यविधिप्रायश्चित्तं नाम पञ्चाशत्पटलः ॥ ५० ॥
प्. २८३)

अतः परं प्रवक्ष्यामि पञ्चगव्यविधिक्रमम् ।
सर्वपापविनाशार्थं सर्वशान्त्यर्थमुच्यते ॥ १ ॥

उत्तमादि क्रमेणान्तु मध्यमं तु तदर्थकम् ।
तदर्थमधमं ज्ञेयं त्रिविधं परिकल्पयेत् ॥ २ ॥

घृतं वै प्रस्तमेवं तु दधि द्विप्रस्तमेव च ।
क्षीरं त्रिप्रस्तमित्युक्तं चतुप्रस्तं तु गोमयम् ॥ ३ ॥

त्रिप्रस्थं चैव गोमूत्रं मध्यमं तु प्रशस्यते ।
कुडुपं तु घृतं चैव दधि स्यात् कुडुपद्वयम् ॥
क्षीरं कुडुपत्रयं चैव प्रस्तं गोमयमुच्यते ॥ ४ ॥

प्रस्तार्धं चैव गोमूत्रं पञ्चगव्य विधीयते ।
कपिला गोघृतं चैव सिताङ्गोदधिरुच्यते ॥ ५ ॥

क्षीरं तु पीतवर्णं स्याद्रक्तवर्णं तु गोमयम् ।
कृष्णवर्णं तु गोमूत्रं सङ्ग्रहे तु विचक्षणः ॥ ६ ॥

घृतं वै रुद्रदेवत्यं दधि वै सोमदेवतम् ।
क्षीरं तु शुक्रदैवत्यं गोमयं चार्कदेवतम् ॥ ७ ॥

गोमूत्रमग्निदैवत्यं पञ्चगव्याधिदेवता ।
काश्यपक्रघृतमेवं तु कौशिकं दधिरुच्यते ॥ ८ ॥

क्षीरं स्याच्च भरद्वाजं गौतमं गोमयं तथा ।
आत्रयं चैव गोमूत्रं ऋषियाच प्रकीर्तितः ॥ ९ ॥

प्. २८४)

क्षीरं तु सद्यमन्त्रं स्याद्वामदेवदधिं तथा ।
गोमूत्रं बहुरूपं तु पुरुषेण तु गोमय ॥ १० ॥

व्योमव्यापिमहामन्त्रेरभिषेकं समाचरेत् ॥ ११ ॥

घृतानमग्नि देवत्यं गङ्गायां नालिकेरकम् ।
शालिपिष्टमुषादेवि रजनीं च * * * * ॥ १२ ॥

आमलकं च लक्ष्मी च कशोदकमनोन्मनी ।
पदं वै पञ्चकोषिनि चतुसूत्रं तु विनयसेत् ॥ १३ ॥

ईशानादि न्यसेद्धीमान् कोष्ठेनैव तु पूजयेत् ।
गायत्रियादयगे मूत्रं गन्धद्वारेति गोमयम् ॥ १४ ॥

आप्यायस्वेति च क्षीरं दधिक्रावण्णेति वै दधि ।
शुक्रमज्योतिरित्याज्यं देवस्य त्वा कुशोदकम् ॥ १५ ॥

प्रातःकालेभिषेकात् तु सर्वपापविनाशनम् ।
मध्यान्नकालभिषेकां तु सर्वथात्यर्थमुच्यते ॥ १६ ॥

सायंकालाभिषेकात् तु सर्वरोगविनाशनम् ।
प्रसादादि मुखो भूत्वा मण्डपस्य तु मध्यमे ॥ १७ ॥

तण्डुलः शालिभिः कुर्यान्मध्येस्ताप्य घृतं तथा ।
गोमयं पूर्वके स्थाप्य गोमूत्रं चैव दक्षिणे ॥ १८ ॥

पश्चिमे तु दधि स्थाप्य उत्तरे क्षीरमेव च ।
आग्नेर्यमधु संस्थाप्य नै-ऋत्यां नालिकेरकम् ॥ १९ ॥

Pअगे णो. २८५ इस् णोत् आवैलब्ले

प्. २८६)

शूर्पक्षे श्रोणनक्षत्रे हस्ते * ना * रिक्षके ।
तत् तदृक्ष चतुर्थांशे कुमुदेशप्रदेशके ॥ २० ॥

दृष्ट्वा कर्कटलग्नं स्याच्चोदयं शिवमन्त्रवित् ।
मृदं संग्राह्य यत्नेन काम्यराष्ट्रेशमन्दिरे ॥ २१ ॥

मध्ये च ग्राममध्ये च प्रधानतुरगालये ।
प्रधान गजवासे च श्रींगस्पृग् वाससंयुतम् ॥ २२ ॥

चतुष्पथे ष्वोपणेध्येकोशमन्दिरपार्श्वके ।
ग्रामदेवालये क्षेत्रे तटाकं जलनिर्गमे ॥ २३ ॥

बहुयत्नेन संग्राह्य दशस्थानेषु मृत्तिका ।
पृथक् पात्रे समाकृष्य स्वदेशे देवमन्दिरे ॥ २४ ॥

शुद्धवस्त्रेण सच्छाद्य विन्यसेच्छालिमध्यमे ।
तस्मिन्मासार्धमासे वा पूर्ववत्कर्कटोदयम् ॥ २५ ॥

निच्छित्य दिवसात्पूर्वे दशाहे वा नवाहके ।
प्रातत्काले समुत्थाय स्नानं कृत्वा विधानतः ॥ २६ ॥

सन्तर्प्य शिवमन्त्रेण चाष्टोत्तरसहस्रकम् ।
ततो देवगृहं गत्वा महादेवं प्रणम्य च ॥ २७ ॥

दशकुम्भान्समादाय तन्तुना परिवेष्टयेत् ।
प्रणवेनैव संक्षाल्य सधूप्य शिवबीजतः ॥ २८ ॥

शिवमन्त्रं शतं जप्त्वा प्रत्येकं मृदमाहरेत् ।
दशकुम्भेषु संस्थाप्य मुखं वस्त्रेण वेष्टयेत् ॥ २९ ॥

प्. २८७)

देवालयाग्रे सौम्ये वा ईशाने पावके तथा ।
स्थण्डिलं कारयेद् विद्वान्नाढकद्वयशालिना ॥ ३० ॥

हृदयेनैव संप्रोक्ष्य कुम्भान् तस्योपरिन्न्यसेत् ।
पिधाय शुद्धवस्त्रेण धाराबीजेन चार्चयेत् ॥ ३१ ॥

संरक्ष्य चास्त्रमन्त्रेण धेनुमुद्रां प्रदर्शयेत् ।
पूर्वास्यामुत्तरास्यं वा रुचिरासनसंस्थितम् ॥ ३२ ॥

स्पृष्ट्वा कुम्भं कुशाग्रेण जप्त्वा पञ्चाक्षरं मनु ।
दशसहस्रकं जप्त्वा जपान्ते होममाचरेत् ॥ ३३ ॥

कुम्भं पूर्वेऽथवा सौम्ये होमं कुर्याद् विचक्षणः ।
अन्यथा नादिकं सर्वं पूर्वोक्तविधिना नयेत् ॥ ३४ ॥

नालिकेरफलं मुद्गं शर्करामधुसंयुतम् ।
कदलिपनसोपेतं सहस्राहुतिमाचरेत् ॥ ३५ ॥

ब्राह्मणान्भोजयेत् तत्र नवपञ्चैकमेव वा ।
दिनं प्रति विशेषेण एवमेव समाचरेत् ॥ ३६ ॥

निश्चित्यदिवसात्पूर्वे जपहोमवसानके ।
शिवाग्रे मण्डपं कल्प्य षोडशस्तम्भसंयुतम् ॥ ३७ ॥

चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।
दर्भमालासमायुक्तं वितानाद्यैरलङ्कृतम् ॥ ३८ ॥

तन्मध्ये वेदिकां कुर्यान्न्वभागेक भागता ।
वेदिवस्त्रेणसंवेष्ट्य स्थण्डिलं रक्तशालिना ॥ ३९ ॥

प्. २८८)

तण्डुलैः तिललाजैश्च दर्भैश्चैव परिस्तरेत् ।
स्नानं कृत्वा विधानेन सन्तर्प्या तदनन्तरम् ॥ ४० ॥

जपहोमावसानं ते प्रविशे मण्डपं बुधः ।
संकल्परजितेनैव शिवलिङ्गं विचक्षणः ॥ ४१ ॥

पञ्चगव्यमृते स्नाप्य वेद्युर्ध्वे चासनोपरि ।
संस्थाप्य च महादेवं द्रोणपुष्पै समर्चयेत् ॥ ४२ ॥

सहस्रं शिवमन्त्रेण पूर्वमन्त्रेण चा बुधः ।
द्रोणपुष्पसमभ्यर्च्य धूपदीपं प्रदापयेत् ॥ ४३ ॥

संग्राह्य दशमृत्कुम्भान् संशोध्य वीक्षणादिभिः ।
शिवबीजेन वादाय तन्मृदालेपयेद् विभुम् ॥ ४४ ॥

सहस्रं जातिकुसुमै पञ्चाक्षरमनुस्मरन् ।
सृष्टिमार्गेण चाभ्यर्च्य सन्निवेद्यगुलोदनम् ॥ ४५ ॥

सर्वोपचारैः संपूज्य ततः सायकमानयेत् ।
द्रोणैश्च जातिकुसुमैः रर्चयित्वा गुरूत्तमः ॥ ४६ ॥

अयुतं वा तदर्धं वा तदर्धार्धमथापि वा ।
साधकेनैव चाभ्यर्च्य शिवहस्तं प्रकल्पयेत् ॥ ४७ ॥

कीलमन्त्रं जपेद् भक्त्या करं साधक मूर्धनि ।
संस्ताप्या च महामन्त्रं मचक्रान्तेति मन्त्रवित् ॥ ४८ ॥

अनेन विधिना पूर्वं रात्रौ जागरमाचरेत् ।
संकल्पदिवसे प्राप्ते प्रतिनियममानसा ॥ ४९ ॥

प्. २८९)

ब्राह्मणान् शिवभक्तांश्च भोजनं दापयेद् बुधः ।
दीनान्धकृपुणादीनां अन्नपानं प्रदापयेत् ॥ ५० ॥

पूर्वोक्तकालसंप्राप्ते गणेशं पूजयेद्बुधः ।
दैवज्ञेय यथाकाले यजमानाय बोधयेत् ॥ ५१ ॥

न्मङ्गमन्त्रप्रभावेन यजमान प्रसन्निधिः ।
गुरूपतिष्ठमार्गेण वेषयेन्नवसंख्यया ॥ ५२ ॥

अनेन विधिना शाले यस्मिन् दृष्टमहीं बुधः ।
त्रिवारं प्राशयेत् तेन तद्राज्यं लभते ध्रुवम् ॥ ५३ ॥

मृल्लिङ्गस्यार्चनेनैव चतुसागरमध्यगाम् ।
मेदिनी लभते राजासन्त्यसत्यं प्रभञ्जना ।

मृल्लिङ्गस्यार्चनप्रोक्तं मुखलिङ्गविधि शृणु ।

इति सूक्ष्मशास्त्रे मृल्लिङ्गार्चनविधिं नाम त्रिपञ्चाशत्पटलः ॥ ५३ ॥

पादुकाराधनं वक्ष्ये शृणुध्वं तत्प्रभञ्जना ।
अर्धयामस्य पूजान्ते पूजयेत् पादुकावुभौ ॥ १ ॥

स्थलिकोर्ध्वे तु विन्यस्य तन्मध्ये वृषभं लिखेत् ।
तस्योर्ध्वे शिवमावाह्य गन्धपुष्पैसृगादिभिः ॥ २ ॥

शिबिकोर्ध्वे समारोप्य शङ्खघोषसमन्वितम् ।
सर्वालङ्कारसंयुक्तं सर्ववाद्यसमन्वितम् ॥ ३ ॥

प्. २९०)

स्तोत्रगीतसमायुक्तं शक्तिस्थाने समाविशेत् ।
पादप्रक्षालनं कृत्वा पाद्याचमनं ददेत् ॥ ४ ॥

हस्तवारि गृहित्वा तु विकिरे शयनोपरि ।
देविरभ्यर्च्यविधिवद् अस्त्रेणावाह्य देशिकः ॥ ५ ॥

शयनोपरिविन्यस्य तस्योर्ध्वे शिवमर्चयेत् ।
पाद्यमाचमनं दत्वा भक्ष्या प्रपादिकं ददेत् ॥ ६ ॥

धूपदीपादिकं दत्त्वा ताम्बूलं दापयेद् धृदा ।
दशास्त्रं परितोभ्यर्च्य पादुकौ विन्यसेत् स्थले ॥ ७ ॥

वस्त्रेणैव विधानं च कुर्यात् कवाटबन्धनम् ।
शण्डेश्वरं समभ्यर्च्य स्वगृहं प्रविशेद्गुरुः ॥ ८ ॥

एवं यत्कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ।

इति सूक्ष्मशास्त्रे पादुकाराधनं नाम चतुःपञ्चाशत्पटलः ॥ ५४ ॥

अथातः संप्रवक्ष्यामि राजरक्षविधिं परम् ।
विवृतं संवृतं चैव द्विविधं तत् प्रकीर्तितम् ॥ १ ॥

विवृतं भस्मसंयुक्तं संवृतं रोचनादिकम् ।
मासक्षे जन्मनक्षेत्रे षडाशितिमुखेऽपि च ॥ २ ॥

अयने चन्द्रसूर्यस्य ग्रहणे कुलकालके ।
षष्टाष्टद्वादशे मासि शूलनक्षत्रकेऽपि च ॥ ३ ॥

प्. २९१)

युद्धारम्भवसाने च भूतरोगाद्यसम्भवे ।
पूजयेन्नृपरक्षार्थंमनेन विधिना बुधः ॥ ४ ॥

कर्मारम्भदिनात्पूर्वे नवमे सप्तमेऽध वा ।
शिवरामाध्यविधिवद्दर्चयेत् कृष्णचगाम् ॥ ५ ॥

गोमयं सद्यमन्त्रेण भमावपतितं ग्रहेत् ।
स देवि शिखा बिल्वि पञ्चाङ्गेन समन्वितम् ॥ ६ ॥

वामदेवेनमन्त्रेण पिण्डं कृत्वा विचक्षणः ।
शोषणं बहुरूपेण पुरुषेणैव पाचनम् ॥ ७ ॥

ईशानं ग्राहयेद्धीमान् कलार्णैरभिमन्त्रयेत् ।
मृत्पात्रे ताम्रपात्रे वा निक्षिपेद् धृदयेन तु ॥ ८ ॥

मुखं वस्त्रेण संवेष्ट्य गन्धपुष्पसमन्वितम् ।
ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कारसंयुतम् ॥ ९ ॥

शिखाग्रे स्थापयेद् विद्वान्नधिवासनपूर्वकम् ।
पूजयेद् गन्धपुष्पाद्यै मूलेनैवा विचक्षणः ॥ १० ॥

ततो मण्डपमासाद्य वितानाद्यैर्विचित्रितम् ।
विसृतं नन्दधा भज्य मध्ये व्योमपदं गृहेत् ॥ ११ ॥

पदेकेन चतुर्दिक्षु शिवभद्रसमन्वितम् ।
मुष्टिमात्रसमुत्सेधं दर्पणोदरसन्निभम् ॥ १२ ॥

दिशिभद्रोन्नतं विधि तच्चतुर्भागहीनकम् ।
उपवेदिप्रकर्तव्यं तच्चतुर्भागभागया ॥ १३ ॥

प्. २९२)

नवाग्नि वाथ पञ्चाग्निमेकाग्नि वाथ कारयेत् ।
कुण्डानि कल्पयेत् तत्र पूर्वोक्त विधिना बुधः ॥ १४ ॥

गोमयालेपनं कृत्वा शालिभिश्च विचित्रयेत् ।
पुण्याहं वाचयेत् द्धीमान् पञ्चगव्यसमन्वितम् ॥ १५ ॥

प्रोक्षयेत् पुरुषेणैव पावमानमुदिरयत् ।
शालिभिश्च वसुद्रोणैः स्थलिकं कारयेद्बुधः ॥ १६ ॥

तदर्द्धैस्तण्डुलैभुक्ष्य तदर्धैश्च तिलैरपि ।
लाजैः पुष्पै परिस्तिर्य पञ्चवर्णेन पूरयेत् ॥ १७ ॥

वस्त्रैरावेष्ट्य तद्वेदि नानालंकारसंयुतम् ।
तन्मध्येऽब्ज प्रकर्तव्यं दलाष्टकसमन्वितम् ॥ १८ ॥

नवकुम्भान् समादाय क्षालयेदस्त्रमन्त्रतः ।
तन्तुना वेषये सर्वागवंक्ष सदृशान्नरम् ॥ १९ ॥

मण्डपस्यैशदिग्भागे सपायेत् तन्नधोमुखान् ।
तोरणकलशानस्त्रान् दिक्पतीश्च यथाक्रमम् ॥ २० ॥

पूजयेद् गन्धपुष्पाद्यै तत् तन् मन्त्रेण देशिकः ।
ततः संपूज्य गन्धाद्यैः र्वेदिकोर्ध्वे शिवासनम् ॥ २१ ॥

भृंशे सत्येन्तरिक्षे वा समर्यकपदेपि वा ।
द्वादशाङ्गुलमानेन मण्डलं स्वस्तिकान्वितम् ॥ २२ ॥

सितरक्तयुधं वाथ पीतरक्तयुतं तु वा ।
युगलिङ्गसमायुक्तं स्वस्तिकसंप्रकलपयेत् ॥ २३ ॥

प्. २९३)

अस्त्रमन्त्रसमुच्चार्य प्रोक्षयेदस्त्रवारिणा ।
स्तण्डिलं तत्र कर्तव्यं विमलैः शालितण्डुलैः ॥ २४ ॥

सौवर्णं रजितं वापि ताम्रं वा कास्यमेव च ।
स्थलिकायान्यसेत् तत्र शालिपिष्टैः विचक्षणः ॥ २५ ॥

द्वादशाङ्गुलमानेन वृषभं शयनान्वितम् ।
सर्वावयवसंपूर्णं कल्पयेत् कल्पवित्तमः ॥ २६ ॥

पञ्चवर्णेरलङ्कृत्य सर्वाभरणभूषितम् ।
खरश्रीङ्गास्य कर्णौ च वृषणं द्वातिरिक्तकम् ॥ २७ ॥

श्रिङ्गाग्र वाल पादान्तं पीतवर्णेन भूषितम् ।
भ्रुवौ तन्मान रेखाणां कृष्णवर्णेमिति स्मृतम् ॥ २८ ॥

श्यामैश्च्छिवासनं कल्प्य शेषाङ्गशुक्लवर्णकम् ।
सर्वपुष्पैरलङ्कृत्य धूपदीपसमन्वितम् ॥ २९ ॥

दत्वा पाद्यादिकादीश्च तन्मूलेन विचक्षणः ।
आचार्यादाय वृषभं शङ्खध्वनिसमन्वितम् ॥ ३० ॥

पूर्वास्यमुत्तरास्यं वा स्थापयेद् वेदिमध्यमे ।
दूर्वाग्रमष्टसाहस्राधवलाक्षतसंयुतम् ॥ ३१ ॥

वृषभेन समभ्यर्च्य पापभक्षणमन्त्रतः ।
हविं निवेदयित्वाथ मुद्गभिन्नसमन्वितम् ॥ ३२ ॥

पानियाचमनं दत्वा दूपदीपं ददेद्बुधः ।
ततो देवालयं दत्वा गीतवाद्यसमन्वितम् ॥ ३३ ॥

प्. २९४)

भस्मकुम्भसमादाय पूर्वभद्रे तु विन्यसेत् ।
नवकदक्षिणे भद्रे स्थापयेत् पूर्ववन्मन ॥ ३४ ॥

पश्चिमे दशपुष्पं च निराञ्जनमधोत्तरे ।
विन्यसेद् गन्धपुष्पाद्यैः हृदयेन विचक्षणः ॥ ३५ ॥

जप्त्वा राक्षोघ्नकं मन्त्रं कृणुस्वादि जपं कुरु ।
धूपदीपैः समभ्यर्च्य शुद्धान्नं च निवेदयेत् ॥ ३६ ॥

कुण्डान्तिकं ततो गत्वा ततः संस्कारमारभेत् ।
आयनादि विवाहान्तं पूर्वोक्तविधिना कुरु ॥ ३७ ॥

तन्मध्ये देवदेवेशं पञ्चवक्रसमन्वितम् ।
डाडिमिपुष्पसंकाशं दशदोभिस्समन्वितम् ॥ ३८ ॥

पीतवस्त्रपरिधानं पीतमाल्यानुलेपनम् ।
वज्रादिशूलटङ्कं च अभयं दक्षिणे धृतम् ॥ ३९ ॥

फणिन्द्रवरदापाशन्यङ्कुशं वामभागके ।
मनोन्मन्यासमायुक्तं पञ्चावरणसंयुतम् ॥ ४० ॥

पूजयेद् गन्धपुष्पाद्यैः तत् तन्मन्त्रेण देशिकः ।
इन्धनादाज्यसमिधं सूपं दधि यवं मधु ॥ ४१ ॥

तिललाजगुलं मुद्गं सत्तुं सिद्धाद्धकं फलम् ।
सिताम्रपञ्चदूर्वाग्रं होमद्रव्यं दशाष्टधम् ॥ ४२ ॥

मृत्युञ्जयार्धमन्त्रेण सर्वद्रव्यं क्रमाधुनेत् ।
प्रत्येकं शतमर्धं वा तदर्धं वा हुतं चरेत् ॥ ४३ ॥

प्. २९५)

द्रव्यान्ते व्याहृतिं हुत्वा भस्मकुम्भं स्पृशेत् तथा ।
गन्धपुष्पैसमभ्यर्च्य धूपदीपं ददेद् गुरु ॥ ४४ ॥

एवं जागरणं रात्रौ प्रभाते स्नानमाचरेत् ।
वितानवन्निमभ्यर्च्य सर्वद्रव्यै हुतं चरेत् ॥ ४५ ॥

ततः स्विष्टाहुतिं हुत्वा पूर्णाहुतिमथाचरेत् ।
गन्धपुष्पैः समभ्यर्च्य विसृजैदग्निदैवतम् ॥ ४६ ॥

भस्मकुम्भं समादाया सर्वलङ्कारसंयुतम् ।
वेदध्वनिसमायुक्तं स्तोत्रध्वनि समन्वितम् ॥ ४७ ॥

गीतवाद्यसमायुक्तं कृत्वा धामप्रदक्षिणं ।
शिवाग्रे मण्डलं कृत्वा सर्वालङ्कारसंयुतम् ॥ ४८ ॥

सकलं मद्धमे स्थाप्य भस्मपूर्वे तु विन्यसेत् ।
नवकं दक्षिणे स्थाप्य नीराजनमथोत्तरे ॥ ४९ ॥

पश्चिमे दशपुष्पाणि विन्यसेद् देशिकोत्तमः ।
गणेशं पूजयेत् पाश्चाद् द्वारदेवान् समर्चयेत् ॥ ५० ॥

लिङ्गशुद्धि ततः कृत्वा पञ्चगव्यामृतैरपि ।
अर्चयेदीपदानान्तं तन्मत्रेण विचक्षणः ॥ ५१ ॥

नवके स्नापयेद् देवं मूलमन्त्रमनुस्मरन् ।
मन्त्रपुष्पं ततो दत्वा मन्त्रान्नं च निवेदयेत् ॥ ५२ ॥

वस्त्राभरणमालाद्यैरर्चयेत् परमेश्वरम् ।
कुम्भान्भस्मसमादाय लिङ्गमूर्धनि दापयेत् ॥ ५३ ॥

प्. २९६)

बृहत् सामेति मन्त्रेण लिङ्गमालिप्य सर्वशः ।
पञ्चवर्णहविर्दत्वा पानियाचमनं ददेत् ॥ ५४ ॥

ततो मण्डपमासाद्य वृषभाय हविर्ददेत् ।
धूपदीपैः समभ्यर्च्य वृषमूलेन देशिकः ॥ ५५ ॥

स्तोत्रसङ्गीतनृत्ताद्यैः स्तोषयेद् वृषभेश्वरम् ।
ततः सायान्नसमये धूपदीपावसानके ॥ ५६ ॥

नीराजनसमादाय शिवाग्रे स्थापयेद् बुधः ।
निवृत्यादि कलामन्त्रेरर्चयेद् गन्धपुष्पकैः ॥ ५७ ॥

पद्मं च शूलमुद्रां च दर्शयेद् दीपसन्निधौ ।
सगुल्मलुघृतैर्युक्तं धूपामोदसमन्वितम् ॥ ५८ ॥

वेदाग्रे दर्शयेद्विद्वान् लिङ्गमूर्धोपरित्रिधा ।
भूमयो मूलमन्त्रेण अवतिय्य शनैशनैः ॥ ५९ ॥

एकवारं द्विवारं वा त्रिवारं वा विचक्षणः ।
पूर्ववद्भ्रमणं कृत्वा प्रणवेन विसर्जयेत् ॥ ६० ॥

ब्राह्मणैर्वाधनारिभिः वाहयित्वा विचक्षणः ।
प्रदक्षिणं ततः कुर्या वाद्यध्वनिसमन्वितम् ॥ ६१ ॥

पीठाग्रे गोपुराग्रे वा त्रिपथे वा चतुष्पथे ।
निराजनं परित्यज्य बहुरूपमनुस्मरन् ॥ ६२ ॥

परितः सेचनं कुर्यात् सामान्यार्घ्यजलेन तु ।
पादप्रक्षालनं कृत्वा प्रवेशेदालयं गुरु ॥ ६३ ॥

प्. २९७)

दशपुष्पैः शिवं यष्ट्वा दशबीजेन देशिकः ।
पुष्पाञ्जलित्रयं दत्वा अभिष्ठं प्राथयेद् गुरु ॥ ६४ ॥

सन्ध्यान्तरे परित्यज्य वृषभं जलमध्यमे ।
भस्मं विसृज्य तारेणार्ध पात्रे विनिक्षिपेत् ॥ ६५ ॥

कवचेन तु संरक्ष्य मुखं वस्त्रेण वेष्टयेत् ।
ततस्साढ्यं समादाय कल्पयेदुचिरासनम् ॥ ६६ ॥

अनुग्रहशिवं ध्यात्वा प्राङ्मुखोदङ्मुखस्वयम् ।
मूलेन सन्ध्यमालोक्य चूडादिचरणान्तकम् ॥ ६७ ॥

विन्यसेद् दक्षिणे पार्श्वे भस्मकुम्भं विचक्षणः ।
निष्कमात्रसमादाय साध्यस्य शिरसोपरि ॥ ६८ ॥

प्रणवेन समुद्धूल्य त्रिवारं देशिकोत्तमः ।
चूडादिपादपर्यन्तं पादाच्चूडावसानकम् ॥ ६९ ॥

त्रिवारं व्यापकं कुर्यात् पापभक्षणमन्त्रतः ।
षडङ्गानाचरेद्भक्त्यमृत्युञ्जयमनुस्मञ्जपेत् ॥ ७० ॥

प्राणयामत्रयेणैव साध्यं मानं च रक्षयेत् ।
संसाध्य हृदयं स्पृष्ट्वा मूलमन्त्रं शतं जपेत् ॥ ७१ ॥

शिवाङ्गै ब्रह्ममन्त्रैश्च व्योमव्यापि जपेद् बुधः ।
एवं यः कुरुते मर्त्य स पुण्याङ्गतिमाप्नुयात् ॥ ७२ ॥

इति सूक्ष्मशास्त्रे राजरक्षविधिं नाम पञ्चपञ्चाशत् पटलः ॥ ५५ ॥
प्. २९८)

रक्षादीपं कथं देवं शृणुं तत्व प्रभञ्जन ।
यत्सर्वं तत्त्वया पृष्ट तत्सर्वं वद मे प्रभो ॥ १ ॥

रक्षादीपं विशेषेण उत्तमामध्यमाधमा ।
शान्तिकं पौष्टिकं चैव कामदं च त्रिधा मतम् ॥ २ ॥

स्वर्णं वा रजतं वापि लोहं वा कासमेव च ।
स्थलिका कृतिसंयुक्तं विंशदाङ्गुलिसंयुतम् ॥ ३ ॥

मध्याद्युत्तरपर्यन्तं पञ्चकुम्भानि विन्यसेत् ।
दशाङ्गुलसमुत्सेधं विस्तृतं च दशाङ्गुलम् ॥ ४ ॥

तदूर्ध्वे दीपविन्यस्य कल्पयेत् कल्पमुत्तमः ।
पादं चैव शराङ्गुल्यं मुत्सेधं तत्समं भवेत् ॥ ५ ॥

विस्तारं तावदेवं च दीपपात्रं च कल्पयेत् ।
त्रिपाद्युपरिविन्यस्य रक्षादीपं तु कारयेत् ॥ ६ ॥

एवं शान्तिकमित्युक्तं पौष्टिकस्य विधि शृणु ।
विंशत्यङ्गुलविस्तारं स्थलिकामानमुच्यते ॥ ७ ॥

शालिपिष्ठमयेनाय दीपाधारं च पञ्चधा ।
एवत्पौष्टिकमाख्यातं काम्यदं च ततः शृणु ॥ ८ ॥

विस्तारं च चतुर्विंशत्पात्रसुवृत्तमुत्तमम् ।
पञ्चसप्तनवैकं वा दीपाराधानं प्रयत्नतः ॥ ९ ॥

गोमयं वाथ पिष्टं वा विन्यसेत् सप्तपात्रकैः ।
नवदीपं विशेषेण स्थण्डिलं प्रस्थपादकम् ॥ १० ॥

प्. २९९)

पाचयित्वा क्रमेणैव कुडुपं मध्यपिण्डकम् ।
अष्टदिक्षु क्रमात्सर्वं सर्वदिक्षुकृतं हवि ॥ ११ ॥

पञ्चवर्णैः समालिप्य अथवा रक्तवर्णकम् ।
तदूर्ध्वे वर्तितं प्राप्य गोघृतेनैव सेचयेत् ॥ १२ ॥

नयनोच्छिष्टमार्गेण प्रदोषे सम्यगाचरेत् ।
दिनं प्रति विशेषेण राज्ञां विजयभेतले ॥ १३ ॥

शान्तिकं नित्यवत् कार्यं कुण्डे वा संस्कृतेऽपि च ।
सायाह्ने शयनं कुर्याद्यक्षेशिं सम्यगर्चयेत् ॥ १४ ॥


तस्य पश्चिमदिग्भागे स्थण्डिलं चतुरश्रकम् ॥ १५ ॥

स्थलिकां विन्यसेत् तत्र नेत्रमन्त्रेणसंयुतम् ।
तैलं वा गोघृतं वापि वन्तितं चैव सेचयेत् ॥ १६ ॥

कुण्डाग्नौ दीपयेत् पश्चात् प्रमादेन तु मन्त्रतः ।
अथवा वह्निबीजं वा मध्यदीपं प्ररोपयेत् ॥ १७ ॥

पूर्वाद्युत्तरपर्यन्तं पुरुषोदीषु मन्त्रकैः ।
व्योमव्यापि समुच्चार्या सर्वदीपं प्रपूजयेत् ॥ १८ ॥

गणिकां वा देवदासि वत्याराथेद् दीपपात्रकम् ।
वादि त्रिलयसंयुक्तं गणिका नृत्तमाचरेत् ॥ १९ ॥

वेदध्वनि समायुक्तं सर्ववाद्यसमन्वितम् ।
गच्छेत् प्रदक्षिणं तस्य तत्तवेदपस्य सन्निधौ ॥ २० ॥

प्. ३००)

अस्त्रमन्त्रसमुच्चार्य दीपान्संपूजयेद्गुरु ।
धूपदीपवसाने तु रक्षामन्त्रं समुच्चरन् ॥ २१ ॥

अष्टपुष्पैसमभ्यर्च्य लिङ्गादीन् जयेत् ततः ।
त्रिन्वन्तरं च वारान्वा भ्रामयेत् तु शनैः शनैः ॥ २२ ॥

पुनश्च गणिकाद्याथ बलिपीठाग्रके क्षिपेत् ।
एवं शान्तिकमित्युक्तं पौष्टिकं च ततः शृणु ॥ २३ ॥

शिवाग्रे तु विशेषेण मण्डलस्य तु मत्सुधिः ।
विन्यसेत् स्थलिकोर्ध्वे तु रक्षादेविं च मन्त्रतः ॥ २४ ॥

नेत्रमन्त्रमनुस्मृत्य प्रोक्षयेत् तु शिवाम्भसा ।
गर्भगेहं ततः प्राप्य अस्त्रमन्त्रेण पूजयेत् ॥ २५ ॥

रक्षादेविमनुस्मृत्य ततो देविमिवादिकम् ।
एकद्वित्रिक्रमाद्भ्राम्य बेरादीन्भ्रमणं ततः ॥ २६ ॥

सविसर्जन तत्काले भस्मानि दापयेत् ततः ।
शिवस्य रक्षां कृत्वा तु सर्वप्राणि हितावहम् ॥ २७ ॥

एवं पौष्टिकमेवोक्तस्याद्य दत्वाधुना शृणु ।
कुण्डे वा स्थण्डिले वापि गर्भगेहेऽथवा पुनः ॥ २८ ॥

सप्तपात्रे तु कर्तव्यं सदीपं च स पूजयेत् ।
पौष्टिकस्य क्रमेणैव पूजयेद् देवमुत्तमम् ॥ २९ ॥

शिवेन दीपं संयोज्य विसर्जने यथा भवेत् ।
एवं कामदमित्युक्तं कथयं देव त्वया शृणु ॥ ३० ॥

प्. ३०१)

उत्तमं दीपमाख्यातं सप्ताङ्गुलं तदुत्तमम् ।
शराङ्गुलं तु मध्यं स्याच्छूलाङ्गुलं तु कन्यसाम् ॥ ३१ ॥

गोघृतं चोत्तमं प्रोक्तं जाघ्रतं तु च मध्यमम् ।
तैलं कन्यसमेवोक्तं गालितेनैव कारयेत् ॥ ३२ ॥

दूर्वाक्तश्च संयोज्य दर्पणं भसितेन च ।
पाद्यादि दर्शनादूर्ध्वं शिवे दद्यात् क्रमेण तु ॥ ३३ ॥

यक्षेश्वरिं स्वरूपं तु शृणुं तद्वत् प्रभञ्जन ।
यान्तेनैव समायुक्तं रक्षरस्वरसंयुतम् ॥ ३४ ॥

ओंकारादि नमोत्ताश्च मध्ये रक्षेशिबीजकम् ।
परात्परमिदं मन्त्रं तव स्तोत्रप्रकाशितम् ॥ ३५ ॥

द्विभुजं चेकवक्त्रं च द्विपादं च द्विनेत्रकम् ।
करण्डमकुटोपेतं सौम्यरूपस्मिताननम् ॥ ३६ ॥

दीपमध्येन्न्यसेद् देवीमञ्जलिकृतमुद्रया ।
एवं ध्यात्वा यजेद् देविं रक्षादेवीं च मत्रवित् ॥ ३७ ॥

वामादि शक्तयश्चाष्टौ पूर्वादिक्रमतो यजेत् ।
सोमाङ्गारादि संपूज्य द्वितिय्यवरणे न्यसेत् ॥ ३८ ॥

लोकपालादि संपूज्य त्रितिय्यवरणे न्यसेत् ।
एवमेव क्रमेणैव रक्षेशिं पूजयेद् बुधः ॥ ३९ ॥

भस्मा पश्चाद्भस्मन्ददेश्छभोस्तश्चेषं तु जनाय च ।
प्रदोषे शयनं कल्प्य एवं निश्चित्य बुद्धिमान् ॥ ४० ॥

प्. ३०२)

सर्वपापहरं पुण्यं सर्वदेवप्रियार्थकम् ।
एवं क्रमेण संयोज्य रक्षादीपं समाचरेत् ॥ ४१ ॥

इति सूक्ष्मशास्त्रे रक्षादीपविधिं नाम षट्पञ्चाशत् पटलः ॥ ५६ ॥

अथ वक्ष्ये विशेषेण करणानां तु लक्षणं ।
कार्यं कर्तृना शक्यं स्यात् सर्वाधकरणैर्विन ॥ १ ॥

तस्माल्लक्षणसंयुक्तं कर्तव्यं करणास्तथा ।
कुण्डानां लक्षणं चैव ततः सृक्सृवयोस्तथा ॥ २ ॥

लक्षणं होमपात्राणां परिधिनां तथैव च ।
परिस्तरणदर्भानां समिधानां च लक्षणं ॥ ३ ॥

आहुतिनां प्रमाणं च ततः स्नानोदकस्य च ।
पाद्यमाचमनीयं च अर्घ्यं चापि विशेषतः ॥ ४ ॥

गन्धपुष्पं च धूपं च दीपं चापि यथाविधिः ।
वितानलक्षणं चैव प्रच्छिन्नपटलक्षणः ॥ ५ ॥

धूपमानमहाघण्ट धूपपात्रस्य लक्षणम् ।
द्विविधं तु विधानं स्याद् बाह्यमाभ्यन्तरं तथा ॥ ६ ॥

पादप्रमाणं सर्वेषां कलशानां तु लक्षणम् ।
ध्वजदण्डप्रमाणं च बलिदानस्य लक्षणं ॥ ७ ॥

एतां लक्षणतो वक्ष्य यथाशास्त्र विनिश्चितैः ।
पूर्वाग्रं मुत्तराग्रं च कुर्यात् सूत्रत्रयं पुनः ॥ ८ ॥

प्. ३०३)

चतुरश्रकृते क्षेत्रे कुर्यात् कुण्डानि लक्षणैः ।
कर्णसूत्रं चतुर्भागं कृत्वैकेन तु वर्तयेत् ॥ ९ ॥

क्षेत्रार्धावाधिकं चावत् पार्श्वयोरुभयोरपि ।
कर्णसूत्रस्य सप्तांशं पूर्वया दिशि विन्यसेत् ॥ १० ॥

पार्श्वे सूत्रद्वयं न्यासात्कुण्डं योन्याकृतिर्भवेत् ।
चत्वारिश्रिकृते क्षेत्रे मध्यात् कर्ण विगृह्य च ॥ ११ ॥

ततो विसृज्य क्षेत्रेर्धं शेषं कुर्यात् त्रिभागिकम् ।
भागेनैकेन संयुक्तं क्षेत्रार्धेन तु योजयेत् ॥ १२ ॥

वर्त्तयेत् तेन सूत्रेण वर्तुलं कुण्डमुच्यते ।
चतुरश्रं तु कर्णेन कृत्वा तत्रैव पूर्ववत् ॥ १३ ॥

वर्तितं वर्तुलं कुण्डं तत्रार्धं धनुरुच्यते ।
क्षेत्रस्यार्धार्धमानेन सहैकाशितिभागिकम् ॥ १४ ॥

सूत्रसूत्रमनेनैव त्रिकोणस्यात् त्रिभागिकम् ।
क्षेत्रं तु सप्तधा कृत्वा भागमेकं बहिर्न्न्यसेत् ॥ १५ ॥

तस्मान् मध्यं गृहित्वा तु भ्राम्य वृत्ते तथैव च ।
कर्णार्धाष्टांशसंयुक्तं कर्णार्धं यद् भवेदिह ॥ १६ ॥

सूत्रं तत्र भवेदेतत्पञ्चाग्रे तु भुजा भवेत् ।
प्रागादि पञ्चसूत्रेण पञ्चाश्रं कारयेद् बुधः ॥ १७ ॥

दशभागं तथा क्षेत्रं कृत्वैकं बाह्यतो न्यसेत् ।
सूत्रेण मध्यमात् तस्माद्वृत्तं कृत्वा ततो बुधः ॥ १८ ॥

प्. ३०४)

क्षेत्रे षोडशभागैकं क्षेत्रार्द्धेन तु योजयेत् ।
एवं सूत्रं ततः कृत्वा सप्ताश्रे तु भुजा भवेत् ॥ १९ ॥

प्रागादि सप्तसूत्रेण सप्ताश्रं भवति स्फुटम् ।
पद्मपद्मसमं वृत्ते कर्णिकादलसंयुतम् ॥ २० ॥

एवं समासतः प्रोक्तं कुण्डानां लक्षणं परम् ।
वैकङ्कतमयो वाथ खादिरो वा स्रुक् स्रुवः ॥ २१ ॥

अथवा याज्ञिकैः वृक्षै कर्तव्यो सृक्सृवो बुधः ।
पालाश खदिराश्वत्थ प्लक्षादुम्बरचन्दनैः ॥ २२ ॥

वैकङ्कतशमि बिल्वा यज्ञवृक्षो इमे नव ।
द्विधा कृत्वा ततो भागैः सूत्रेण सुमितन्नया ॥ २३ ॥

चतुरश्रं ततः कृत्वा कुर्याल्लक्षण मे बुधः ।
अरत्निमात्रमायामं तत्पश्वे तु बलिं भवेत् ॥ २४ ॥

षडङ्गुलं परिणाहं दण्डमूले विधिय्यते ।
तदर्धं कण्ठनाहं स्यात् पुष्पकरं मूलवद्भवेत् ॥ २५ ॥

गोपालसदृशं गन्धमग्रं नासिकयासमम् ।
पुटद्वयसमायुक्तं कर्षशेज्यनपूरितम् ॥ २६ ॥

सृवस्य लक्षणं प्रोक्तं स्रुकलक्षणमुच्यते ।
षट्त्रिंशदङ्गुलायामे मष्टाङ्गुलसुविस्तृतः ॥ २७ ॥

उत्सेधं तु तदर्धं स्यात् सूत्रेण सुमितं ततः ।
सप्ताङ्गुलभवेदास्यं विस्ताराय मयोपि हि ॥ २८ ॥

प्. ३०५)

त्रिभागैकं द्वभागे व्यहस्तारायामधोपि हि ।
ग्रिभागैकं भवेदग्रं कृत्वा शेषं परित्यजेत् ॥ २९ ॥

कर्णद्वयङ्गुलायामं विस्तारं चतुरङ्गुलम् ।
वेदिकाष्टाङ्गुलायामा विस्तारं तत्प्रमाणतः ॥ ३० ॥

तस्य मध्ये बलं कुर्याच्चतुरङ्गुलमानतः ।
बिलं सुवृत्तितं कुर्याद् अष्टपत्रं सकर्णिकम् ॥ ३१ ॥

परितो बलिबाह्ये तु पट्टिकार्धाङ्गुलेन तु ।
तद्बाह्ये यवनिम्नं तु पद्मपत्रं विचित्रितम् ॥ ३२ ॥

यवद्वयप्रमाणेन तद्बाह्ये पट्टिका भवेत् ।
वेदिका मध्यतो रन्ध्रं कनिष्टाङ्गुलमानतः ॥ ३३ ॥

खान्तं यव घुखान्तस्याद् बलिमानं तु निम्नकम् ।
दण्डं षडङ्गुलं नाहं दण्डाग्रे दण्डिकात्रयम् ॥ ३४ ॥

अर्धाङ्गुले विवृध्या तु कर्तव्यं चतुरङ्गुलम् ।
त्रयोदशाङ्गुलायामं दण्डमूले घटो भवेत् ॥ ३५ ॥

द्व्यङ्गुलं भवेत् कुम्भं नाहं विद्यादशाङ्गुलम् ।
वेदिमध्ये तया कुम्भे पात्रलक्षणमुच्यते ॥ ३६ ॥

सहस्र साधार विध्यक्ष्ये शृणुध्वं तत्प्रभञ्जन ।
नित्ये नैमित्यके काम्ये स्नानान्ते तु महेश्वरम् ॥ ३७ ॥

सहस्रधारये स्नानं श्रीसौभाग्यप्रवध्रुवम् ।
उत्तमोत्तमधारेषा परात्परमशक्ति सा ॥ ३८ ॥

प्. ३०६)

सहस्रवदने स्राव्य सञ्चित्य मृतरूपिणि ।
ततः पात्र समादाय तल्लक्षणमिहोच्यते ॥ ३९ ॥

सप्ताङ्गुलसमारभ्य द्वि द्व्यङ्गुलविवर्ध्यतः ।
सप्तविंशाङ्गुलं यावत् पास्त्रविस्तारमुच्यते ॥ ४० ॥

त्रियङ्गुलसमं वापि पञ्चाङ्गुलघृतं तु वा ।
विस्तारपरितो मृत्याः पादाङ्गुलघनं भवेत् ॥ ४१ ॥

चतुर्वलययुक्तं वा द्विपार्श्वं वलयान्वितम् ।
आयाशृङ्खलयायुक्तं वातरज्जुसमन्वितम् ॥ ४२ ॥

स्वर्णं वा रजतं वाधाताम्रजं च त्रिधा भवेत् ।
उत्तमादि क्रमेणैव कारयेत् तत् तत्प्रभञ्जन ॥ ४३ ॥

ब्रह्मक्षत्रियवैश्यानां स्वर्णादिषु विधीयते ।
भूपतिनां विशेषेण स्वर्णं वा रजतं मतम् ॥ ४४ ॥

अशक्तस्ताम्ब्रमेवं तु कल्पयेत् कल्पवित्तमः ।
तत्पात्रं चतुरश्रं वा सुवृत्तं वा प्रकल्पयेत् ॥ ४५ ॥

त्रयश्रं वा प्रकर्तव्यं पञ्चविंशत् पदं ततः ।
वृत्तं चेतु विशेषेण सर्वकामार्थ साधनम् ॥ ४६ ॥

आयुष्करं पुष्टिकरं श्रिकरं चतुरश्रकम् ।
पात्रमध्ये विशेषेण पद्मं साष्टाकसंकर्णिकम् ॥ ४७ ॥

अङ्गुलाङ्गुलवृध्या तु त्रयङ्गुलसमाविधि ।
पद्मावृतसमायुक्तं रत्नं काञ्चितमाचरेत् ॥ ४८ ॥

प्. ३०७)

माणिक्कं मध्यमे न्यस्य परिमुक्तं दृढं मतम् ।
तद्बाह्ये सुषिरं कल्प्या सूचिमात्रप्रमाणतः ॥ ४९ ॥

यवमात्रप्रमाणं वा मष्टमात्रमथापि वा ।
त्रयोदशाप्रणार्थाय भ्रामयो मनुसूत्रकम् ॥ ५० ॥

पूर्वभागे तु वज्रं स्यान्माग्नेयां मुक्तकं दृढम् ।
दक्षिणे पुष्यरागं च निरुतौ चन्द्रनिलकम् ॥ ५१ ॥

वारुणे स्पुटिं चैव वैडुर्यं चैव वाथवे ।
सौम्ये मस्तकं चैव ऐशान्ये निलमेव च ॥ ५२ ॥

तदायुक्ता सुमुक्तं वा स्वर्णं वा दृढमुत्तमम् ।
त्रयोदशावरणानि रन्ध्रसङ्ख्यां ततः शृणु ॥ ५३ ॥

प्रथमे चाष्टरन्ध्रानि वसुदैवाधि दैवतम् ।
द्वितीये च कलारन्ध्रे कलानमधिदेवता ॥ ५४ ॥

तृतीये च चतुर्विंशत् सर्पराजाधिदेवतम् ।
चतुर्थे द्वात्रिंशरन्ध्रान्महागङ्गाधिदैवतम् ॥ ५५ ॥

पञ्चमावरणे चैव पञ्चाशद्रन्ध्रमाधिकम् ।
यमुनामाधिदैवत्यं सर्वरन्ध्र पूजयेत् ॥ ५६ ॥

षष्ठमावरणे चैव पञ्चाशच्चतुरंशकम् ।
गोदावरि सदैवत्यं सर्वरन्ध्रेषु योग्यताः ॥ ५७ ॥

रन्ध्राणामधिदैवत्यं सन्धिरे वा विधीयते ।
सप्तमावरणे चैव रन्ध्रं षष्टितमं भवेत् ॥ ५८ ॥

प्. ३०८)

सरस्वत्याधिदैवत्यं रन्ध्रेषु क्रमतोऽर्चयेत् ।
अष्टमावरणे चैव युग्माधिकमशितिकम् ॥ ५९ ॥

नामदाधिकदैवत्यं पूजयेत् सुषिरं वृतः ।
नवमावरणे चैव रन्ध्रं षण्णवति स्मृतम् ॥ ६० ॥

सिद्धिं स्यात्यधिदैवत्यं सर्वरन्ध्रेषु योग्यतः ।
दशमावरणे चैव शतरन्ध्रसमन्वितम् ॥ ६१ ॥

कावेरित्यधिदैवत्यं सुषिरे योजयेत् क्रमात् ।
पश्चादावरणं चेत्तु युगाधिकशतं भवेत् ॥ ६२ ॥

पुण्यतीर्थादि दैवत्यं सर्वरध्राणि योजयेत् ।
सर्वरन्ध्राणि कर्तव्यं विन्यसेत् तु विचक्षणः ॥ ६३ ॥

द्वादशवरणे चैव अष्टोत्तरशतं भवेत् ।
इच्छाशक्त्याधि दैवत्यं सर्वरन्ध्रं विशेषतः ॥ ६४ ॥

त्रयोदशवृणं प्रोक्तं षष्टाधिकशतद्वयम् ।
ज्ञानशक्त्याधिदैवत्यं सर्वरन्ध्रसमन्वितम् ॥ ६५ ॥

एवं रन्ध्रसमाख्यातं मत्राङ्गुलवशान्नयेत् ।
चतुरश्रस्य मध्ये तु सप्तसप्तपदं भवेत् ॥ ६६ ॥

मध्यकोष्ठे तु पद्मं स्यान्माणिक्कं चैव मौक्तिकम् ।
वैज्रनिलं चैव वैडूर्यं मरतकं पुष्यरागकम् ॥ ६७ ॥

स्फटिकं प्रवालमेव तु मध्यादीशान्तमेव च ।
सुषिरं पञ्चविंशच्च पदमेकं प्रकल्पयेत् ॥ ६८ ॥

प्. ३०९)

एवमेव पदान्तानि पदं पत्रिपदं प्रति ।
सहस्रधारया युक्ता पराशक्त्याधि दैवतम् ॥ ६९ ॥

चतुश्रीखलयायुक्तं डोलयन्त्रं प्रकल्पयेत् ।
अथवान्य प्रकारेण शृणुध्वं तत्प्रभञ्जन ॥ ७० ॥

तत्पात्रं त्रिविधं प्रोक्तं मधमादित्रयं तथा ।
द्वादशाङ्गुलमेवं तु उत्तमं परिकीर्त्तितम् ॥ ७१ ॥

सप्ताङ्गुलसुविस्तारं मध्यमं परिकीर्त्तितम् ।
त्रियङ्गुलसुविस्तारं मधमं परिकीर्त्तितम् ॥ ७२ ॥

एवं पात्रसुविस्तारं भित्तिरुसेधमुच्यते ।
एकाङ्गुलसमुत्सेधम् उत्तमं परिकीर्तितम् ॥ ७३ ॥

अर्धाङ्गुलसमुत्सेधं मध्यमं तत्प्रकीर्त्तितम् ।
पादाङ्गुलसमुत्सेधं मध्यमं त्वधि विद्यते ॥ ७४ ॥

यवद्वयसमुत्सेधं एवमेव क्रमेण तु ।
यवमात्रघनं प्रोक्तं क्रमेणैव सुबुद्धीमान् ॥ ७५ ॥

पाणिभ्यां पत्रमादाय लिङ्गमूर्ध्याभिषेचयेत् ।
स्वर्णरजतताम्रे वा चतुरश्रं वा वृत्तकम् ॥ ७६ ॥

चतुरश्रं नवा कोष्ठे मध्ये सुषिरमेवयुक् ।
आवृत्तं चाष्टसुषिरं पदमेकं प्रयत्नतः ॥ ७७ ॥

पदबाह्ये सूत्रमध्ये महाशासु विशेषतः ।
सूचिमात्रप्रमाणेन श्रुतिरन्ध्रं प्रकल्पयेत् ॥ ७८ ॥

प्. ३१०)

अन्यानि पदमध्येषु द्वादशा सुषिरं कुरु ।
अष्टोत्तरशतं प्रोक्तं पञ्चाशश्चैक हीनके ॥ ७९ ॥

तत्पात्रे नवकोषं तु मध्यकोष्ठं तु मध्यमम् ।
अवृतं चाष्टसुषिरं तद्बाह्ये तु विशेषतः ॥ ८० ॥

एकैक पदमध्ये तु शरसङ्ख्या च रन्ध्रकम् ।
पञ्चाशरन्ध्रमेवोक्तं पञ्चविंशति चोच्यते ॥ ८१ ॥

तत्पत्रं नवकोष्ठेषु मध्ये सुषिरमेवयुक् ।
अन्यानि पदमध्ये तु ईशदृक्सुषिरं कुरु ॥ ८२ ॥

चतुरश्रमि * प्रोक्तं सुवृत्तमथ चोच्यते ।
पूर्ववत्पात्रमेवं तु सष्टपत्रसकर्णकम् ॥ ८३ ॥

कर्णिकामध्यमेवं तु पूर्वादिवसुरन्ध्रकम् ।
तद्बाह्ये दलमध्ये तु * * * * * रं कुरु ॥ ८४ ॥

तद्बाह्ये वृत्तमेवं तु महाशासु युगं भवेत् ।
एवं सुषिरमाख्यातं अष्टोत्तरशतं क्रमात् ॥ ८५ ॥

पञ्चाशत् पञ्चविंशश्च पूर्ववत्परिकल्पयेत् ।
क्षुद्रम * मिदं प्रोक्तं मात्मार्थं चे परार्थकम् ॥ ८६ ॥

परार्थे भद्रमेवं तु आत्मार्थं न विचारतः ।
मोदहदज्ञानतो वापि भद्रपात्रोभिषेचयेत् ॥ ८७ ॥

आयुश्रीकीर्ति * ष्टिञ्च कृष्णपक्षे तु च द्रवित् ।
तत्पात्रं शङ्खतोयेन पूजयेन्मूलमन्त्रतः ॥ ८८ ॥

प्. ३११)

एवमेव क्रमेणैव सहस्रार्धाभिषेचनम् ॥ ८८½ ॥

इति सूक्ष्मशास्त्रे सहस्रधारविधिं नाम अष्टपञ्चाशत् पटलः ॥ ५८ ॥

नागस्य लक्षणं वक्ष्ये शृणु तत्वत्प्रभञ्जन ।
स्वर्णं रजित ताम्रेण शिलयेष्टकये ॥ १ ॥

धघदारुजैर्दशमृर्त्वा भुजङ्गं संप्रकल्पयेत् ।
एकहस्तसमारभ्य वस्वङ्गुलविवर्धनात् ॥ २ ॥

चतुर्विंशतिहस्तानां नागायामं प्रकल्पयेत् ।
आयादिशोभनोपेतं शुभमानं परिग्रहेत् ॥ ३ ॥

तन्मानं शतधाभज्य एकांशं द्वङ्गुलं भवेत् ।
वेदांशमुखमानस्यात् रुद्रांशं मुखविस्तृतम् ॥ ४ ॥

भन्वंशं फणिदीर्घं स्यात् पञ्चाशं फणिविस्तृतम् ।
नासापुटान्तरं पादं नासितारं शिवांशकम् ॥ ५ ॥

तत्समानासिदीर्घं स्याद्व्योमांशदृष्टिमण्डलम् ।
तन्मध्ये यवमानेन कृष्णमण्डलमाचरेत् ॥ ६ ॥

तद्विस्तारार्धमानेन ज्योतिर्मलका भवेत् ।
पक्षदीर्घं द्विभागं स्यात् तद्विस्तारशिवांशकम् ॥ ७ ॥

पक्षोच्चं द्वङ्गुलार्धं तु कर्णपक्षाङ्गुलं भवेत् ।
वेदांशं कर्णविस्तारं युक्त्या सिंहस्य कर्णवित् ॥ ८ ॥

प्. ३१२)

चतुर्दन्तसमायुक्तं दन्तदीर्घं तदङ्गुलम् ।
दन्तादि त्वङ्गुलार्धं स्याद्धरिदन्त वदाचरेत् ॥ ९ ॥

करण्डमकुटैर्वापि चित्रवस्त्राकृतिं स्तु वा ।
मध्ये फणार्धमानेन तस्य पार्श्वफणं भवेत् ॥ १० ॥

फणसप्तेषु वा प्रोक्तं त्रिफणं वा समाचरेत् ।
नाहं वै षोडशाङ्गुल्यं बालान्तद्वङ्गुलं भवेत् ॥ ११ ॥

पद्मपीठोपरिष्टात्तु त्रिफलं मण्डनान्वितम् ।
नासिमध्यमसूत्रं तु बालाग्रं रुजुसूत्रकम् ॥ १२ ॥

अंशं वा द्वित्रियंशं वा हीनाधिक्यं न दोषभाक् ।
शोभाबलसमोपेतं युक्त्या सर्वाङ्गमाचरेत् ॥ १३ ॥

नागलक्षणमेवोक्तं शृणु मण्टपमानकम् ॥ १३½ ॥

इति सूक्ष्मशास्त्रे नागलक्षणविधिं नाम एकोनषष्ठि पटलः ॥ ५९ ॥

बलिपीठविधिं वक्ष्ये शृणुध्वं तत्प्रभञ्जन ।
भद्रं क्षुद्रं द्विधा प्रोक्तं क्षुद्रमेवाल्पपीठकम् ॥ १ ॥

भद्रं प्रोक्तं महापीठं लिङ्गं त्रैय्येकरूपकम् ।
एतयोः क्षुद्रपीठानां लक्षणं वक्ष्यतेऽधुना ॥ २ ॥

शिवलिङ्गस्य पीठायस्तुङ्गतारनवांशके ।
सप्तांशमुत्तमं प्रोक्तं पञ्चांशमध्यमं स्मृतम् ॥ ३ ॥

प्. ३१३)

त्रिभागं कन्यसंख्यातं क्षुद्रपीठस्य विस्तरम् ।
तद्विस्तारचतुर्भागे एकैकं पीठतुङ्गकम् ॥ ४ ॥

मानाङ्गुलवशद्वाधख्यष्टरसमन्त्रकम् ।
आर्त्तोसेधांशमानेन पञ्चभागे कृते * * ॥ ५ ॥

एकेन कर्णिकां कुर्यात् दधावान्यविधानतः ॥ ६ ॥

अशेषं फल्लपद्माभं कारयेन् मानकोविदः ।
मात्रपीठ प्रा * * न्तु अयुक्तं वा सयुक्तकम् ॥ ७ ॥

अयुक्तं पूर्ववत्प्रोक्तं सयुक्तं पीठपङ्कजम् ।
चतुषडङ्गुलं वापि सप्तपीठविशालकम् ॥ ८ ॥

उत्तुङ्गलक्षणाद्यादि पूर्ववत् परिकीर्तितम् ।
तत्तदन्तरमानं तु एकाङ्गलवशास्मृतम् ॥ ९ ॥

भद्रपीठविधिप्रोक्तं परिवारविधिं पुरा ।
एतत्सर्वं समापाद्य प्रतिष्ठाविधिमाचरेत् ॥ १० ॥

द्वारे पीठप्रतिष्ठा च प्रथमे च द्वितीयके ।
भद्रपीठप्रतिष्ठा च समतन्त्रे च कारयेत् ॥ ११ ॥

पृथक्तन्त्रेण वा कुर्याच्चतुरङ्गं विधानतः ।
एकाचार्येण कर्तव्यमेकस्मिन्नेककालके ॥ १२ ॥

अङ्कुरं वास्तुयागादि समतन्त्रकमाचरेत् ।
प्रासादपूर्वदिग्भागे मण्डपं विधिनाचरेत् ॥ १३ ॥

प्. ३१४)

तन्मध्ये वेदिकां कुर्याद्धस्तमात्रप्रमाणतः ।
रुद्रवेदिति सा प्रोक्ता तत्तारत्रैकतुङ्गकम् ॥ १४ ॥

तत्पूर्वादि चतुर्दिक्षु विधिवेदी प्रकल्पयेत् ।
अनेन वा समं कुर्यात् तद्विधानप्रकारतः ॥ १४ ॥

एवमेव प्रकारेण मण्डपं सम्यगाचरेत् ।
नवाहे वाथ पञ्चाहे त्रियाहेऽङ्कुरमाचरेत् ॥ १६ ॥

जीर्णपीठपरित्यागं कृत्वाथास्थापयेन्नवम् ।
तज्जिर्णं तु त्रिधा प्रोक्तं स्पुटतश्चिन्नभिन्नकम् ॥ १७ ॥

भद्रपीठं विशेषेण महाङ्गोपाङ्गसंयुतम् ।
उपानजगति चाथ कुमुदं कण्ठपट्टिका ॥ १८ ॥

पद्मं च कर्णिका चाध महाङ्गमिति कीर्तितम् ।
दलोपदलनास्यादि उपाङ्गमिति कीर्तितम् ॥ १९ ॥

वर्जयेत् तु महाङ्गेषु न त्याज्यं चेत्प्रभञ्जन ।
क्षुद्रपीठादि सर्वेषु विहीने ताश्चवर्जयेत् ॥ २० ॥

तस्योद्धारं क्रमं वक्ष्ये पीठदक्षिणमण्डले ।
संकल्प्यासनमावाह्य पूजामन्त्रं समाचरेत् ॥ २१ ॥

तत्पूर्वे स्थण्डिलं कृत्वा शालिभिः मण्डलैः शुभैः ।
तन्मध्ये पद्ममालिख्य साष्टपत्रसकर्णिकम् ॥ २२ ॥

द्रोणं पूरितघटान् तन्मध्ये विन्यसेद् बुधः ।
आवाह्य पीठाद् देवाश्च कुम्भमध्ये तु विन्यसेत् ॥ २३ ॥

प्. ३१५)

निवेद्यादि समाप्याथ चाग्निकार्योक्तमार्गतः ।
आधानादिविवाहान्तं कृत्वा मधुघृतेरपि ॥ २४ ॥

दूर्वाभिः तण्डुलैस्तत् तद् देवतामन्त्रमुच्चरन् ।
शतमर्धं तदर्धं वा होमयेत् तु पृथक् पृथक् ॥ २५ ॥

क्षुरिका बीजमुख्येन पूर्णाहुति समाचरेत् ।
जयादिरभ्याधानां च क्रमाद्रष्ट्रभृतं हुनेत् ॥ २६ ॥

अग्निस्थं मण्डलस्थं च कुण्डमध्ये समापयेत् ।
भूतले निखनेतांश्च समुद्रेष्वथवा नयेत् ॥ २७ ॥

जीर्णपीठादि सभूतम् अस्मि चेति तमाचरेत् ।
पीठशुद्धिं ततः कृत्वा पञ्चमृद्गव्य बिल्वकैः ॥ २८ ॥

भद्रपीठो विशेषोऽस्तिस्तदग्रे स्थित दर्पणेः ।
धाराभिषेचनं कुर्याच्छुद्धै रुद्धैति मन्त्रतः ॥ २९ ॥

वास्तुहोमं बलिं चाथ मण्डपार्चां पुरा चरेत् ।
रक्षाबन्धं ततः कृत्वा भद्रपीठोर्ध्व कर्णिके ॥ ३० ॥

अन्येषामेव पीठानां कृतं वा तद्विना चरेत् ।
वेद्यास्थ स्थण्डिलं कुर्यादष्टद्रोणेन शालिना ॥ ३१ ॥

तदर्धैस्तण्डुलैर्युक्तं तदर्धं तिलसंयुतम् ।
लाजैः पुष्पैः तिलैः दर्भैविकीर्णै समलङ्कृतम् ॥ ३२ ॥

तत्पूर्वे वेदिकुम्भेषु दक्षिणोत्तरमध्यतः ।
नन्दिनं च महाकालं वृषभं पूजयेत् क्रमात् ॥ ३३ ॥

प्. ३१६)

ततो दक्षिण संभूते वेदिकुम्भेषु सर्वतः ।
दुर्गामन्स्त्रश्च विघ्नेशं वरस्कन्दं च वधावम् ॥ ३४ ॥

चण्डेशमऽग्न्यादि शान्तमग्रे भूतेशमध्य च ।
प्रदिचि वेदिकुम्भेषु धरिषं भुजगेश्वरम् ॥ ३५ ॥

धर्मदेववमामेव चत्वाम्मध्येत्वनुक्रमात् ।
उदीचिवेदिकुम्भेषु इन्द्रं वैश्वानरं यमम् ॥ ३६ ॥

निरुतिं पाशिपध्विन्दुवटुकाख्यं महेश्वरम् ।
विष्णुं पीतामहञ्चापि पूर्वदारभ्य पूजयेत् ॥ ३७ ॥

तन्मध्ये वेदिकुम्भेषु आमोदं च प्रमोदकम् ।
सुमुखं दुर्मुखं चाथ अविघ्नं विघ्ननायकम् ॥ ३८ ॥

पूर्वदक्षिणपाशिन्दु रुद्रदिक्कर्णिकोध्वतः ।
आसनैः मूर्तिमूलाद्यैः संयुक्तां सम्यगार्चयेत् ॥ ३९ ॥

तत् तद् वेद्युत्तरे देशे क्षुद्रपीठादि वासनम् ।
भद्रपीठे विशेषोस्ति तस्धाने चाधिवासयेत् ॥ ४० ॥

वेदपारयणं कुर्यात् कुम्भस्थापनपूर्वकम् ।
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ४१ ॥

समिधाज्यचरूलाजान् सर्षपांश्च यवातिलान् ।
तत्तमूलषडङ्गैश्च पवमानैः स्त्र्यम्बकैः ॥ ४२ ॥

स्पृष्ट्वा तु जुहुयात् तत्र मूलमन्त्रमनुस्मरन् ।
एवं जागरणं रात्रौ प्रभाते स्नानमाचरेत् ॥ ४३ ॥

प्. ३१७)

तोरणादि घटान् सर्वान् अर्चयेद् गन्धपुष्पकैः ।
क्षुद्रपीठप्रतिष्ठाया स्थानं वक्ष्यामि तच्छृणु ॥ ४४ ॥

प्रासादमध्यमाशृत्य चान्तर्मण्डलमध्यतः ।
दुर्गादि चण्डपीठान्तमग्न्यादीशान्तमर्चयेत् ॥ ४५ ॥

अग्ने वृषस्थलं यत्र तत्र तत्पीठमाचरेत् ।
देशकः तत्पृष्ठे भूतनाथस्य पीठं दत्वा प्रमाणतः ॥ ४६ ॥

द्वारं प्रति विशेषेण द्वारेशं पीठदेशकम् ।
अन्तर्मण्डलमात्रं स्याधर्मेशस्य वृषामृतः ॥ ४७ ॥

इन्द्रपीठं मुखायामे भद्रपीठोभ्रमानतः ।
तस्धानसीमसम्बन्धम् अन्तर्मण्डलमानतः ॥ ४८ ॥

अग्न्यादि स्थापयेत् सप्तदिक्षु सोमेशमध्यतः ।
नैरुते दण्डमानेन विष्णुपीठं प्रतिष्ठयेत् ॥ ४९ ॥

ऐशान्यां हस्तमानेन ब्रह्मपीठं प्रतिष्ठयेत् ।
द्वितिर्यवरणे पीठोस्वेवमेवं प्रकल्पयेत् ॥ ५० ॥

भद्रपीठप्रतिष्ठा तु प्रोक्त प्राकारलक्षणं ।
आचार्यं पूजयेत् पश्चाद् वस्त्रहेमाङ्गुलियकैः ॥ ५१ ॥

अध्येत्रं परिचारांश्च यथावित्तानुसारतः ।
पर्यष्टिनोत्तरियाद्यैरुष्णिषैर्मण्डितेन च ॥ ५२ ॥

पूर्वे तु स्थापितघटान्सर्वतोद्य समन्वितम् ।
शिरसा वाहयित्वाथ कृत्वा धामप्रदषिणं ॥ ५३ ॥

प्. ३१८)

तत् तन् मूलसमुच्चार्य तत् तत्पीठेऽभिषिच्य च ।
भद्रपीठो विशेषोऽस्ति मन्त्रन्यासं समाचरेत् ॥ ५४ ॥

गोपुरस्य विधिं वक्ष्ये शृणुध्वं तत्प्रभञ्जन ।
अन्तर्मण्डलमारभ्य मर्याद्याद्यान्तसलके ॥ ५५ ॥

शोभार्थ रक्षरार्थं च द्वारशालिदिमं चरेत् ।
द्वारशाला द्वारशोभा द्वारप्रासादहर्म्यकम् ॥ ५६ ॥

द्वारगोपुरमित्येते पञ्चधा परिकीर्तितम् ।
द्वादशालादिहर्म्यन्तं शोभार्थरक्षणार्थकम् ॥ ५७ ॥

किञ्चिद् भेदं विशेषेण महागोपुर * * ते ।
एकादि त्रितलान्तं च स्नानार्थं संप्रकल्पयेत् ॥ ५८ ॥

युगादि सप्तपर्यन्तं वस्त्रमाभरणाय च ।
अष्टादि पञ्क्तिपर्यन्तं शयनार्थं प्रकल्पयेत् ॥ ५९ ॥

रुद्रादि त्रयोदशान्तं गौसभार्षादि कल्पयेत् ।
त्रितालादिषु भूम्यान्तं द्वारप्रासादमाचरेत् ॥ ६० ॥

षट् तालदष्टपर्यन्तं द्वारहर्म्यं प्रकल्पयेत् ।
कलाभूम्यवसानं च महागोपुरमिष्यते ॥ ६१ ॥

अथवा सर्वसालेषु मुनि संख्यतलं भवेत् ।
सलानमपि सर्वासां मित्येवं परिकल्पयेत् ॥ ६२ ॥

उपपीठसमायुक्तं केवलं वामसूकरम् ।
उपपीठसमायुक्तं पञ्चांशं तु विभाजिते ॥ ६३ ॥

प्. ३१९)

अधिष्ठानं शिवांशं तु द्व्यंशं वा चरणायतम् ।
एकांशप्रस्तरोत्सेधं अधिष्ठानमुभांशकेत् ॥ ६४ ॥

उपपीठक्रमेणैव कुम्भपीठ प्रकल्पयेत् ।
अश्रमायाम उत्सेधं विस्तारात् संप्रवक्ष्यते ॥ ६५ ॥

मूलहर्म्यविशालं तु चतुर्गुणमुदाहृदम् ।
पञ्चषड्भागमानं तु गोपुरं संप्रकल्पयेत् ॥ ६६ ॥

विस्तारमष्टधा कृत्वा द्वादशांशं दशांशकम् ।
शिवांशं रोपयेद् धीमान्नेकांश रहितं क्रमात् ॥ ६७ ॥

पञ्चषट्सप्तभागस्तु गुणितास्संप्रकीर्तितम् ।
शालादिगोपुरान्तं च विस्तारमिह कथ्यते ॥ ६८ ॥

प्रासादमानमेवं हि हस्तामानं शृणु क्रमात् ।
पञ्चहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ॥ ६९ ॥

यथा श्रद्धानुसारेण कल्पयेत् तु विचक्षणः ।
पञ्चधा गोपुरे कार्यं क्रमेण विनिवेशयेत् ॥ ७० ॥

सप्तहस्तसमारभ्य द्वेकहस्तविवर्धनात् ।
हस्त सप्तति यवच्च यथामानं प्रकल्पयेत् ॥ ७१ ॥

नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ।
अशितिद्वयहस्तान्तं पञ्चधा परिकल्पयेत् ॥ ७२ ॥

रुद्रहस्तं समारभ्य त्वशित्यन्तं प्रकल्पयेत् ।
विस्तारमेवमाख्यातं मायामं मधुना शृणु ॥ ७३ ॥

प्. ३२०)

सार्धपादं सपादं वा सत्रिपादमथापि वा ।
द्विगुणं द्विगुणार्धं च त्वयामं कल्पयेद् बुधः ॥ ७४ ॥

अस्तं त्रिपादमर्धं वा वृद्धिहानिं च कारयेत् ।
आयादि शोभनार्थं च विस्तारे तु विशेषतः ॥ ७५ ॥

पद्बाह्ये पदमध्ये तु पदाभ्यन्तरमेव वा ।
आयादि शुभसंयुक्तं तत्र मानं प्रकल्पयेत् ॥ ७६ ॥

विस्तारात् कल्प्यञ्चोत्सेधं विस्तारं रसथा भजेत् ।
शात्योत्सेधं तु धर्मांशं कल्पयेत् तु विचक्षणः ॥ ७७ ॥

विस्तारे तु नवांशं तु द्वादशांशं तु शोभया ।
त्रिपादाधिकप्रासादं भज्यं द्विगुणमुत्तमम् ॥ ७८ ॥

द्विगुणं द्विगुणार्धं च गोपुरं तु प्रकल्पयेत् ।
उत्तरादिशिखान्तं च वा मस्तकादिं त मथापि वा ॥ ७९ ॥

कुटकोष्ठादि निव्रञ्च मानसूत्राद् बहि क्रमात् ।
प्रासादोक्तपदात् तत्र निवृच्चेशं च कथ्यते ॥ ८० ॥

त्रिभागे द्वयमेवं वा चतुर्भागे द्विभागिकम् ।
सप्तभागे त्रिभागं च सालनिष्क्रान्तमेव हि ॥ ८१ ॥

त्रिहस्तं तु समारभ्य यवद्दशकरान्तकम् ।
द्वारविस्तारमेवं तु क्रमेणैव तु कल्पयेत् ॥ ८२ ॥

सार्धपादं सपादं वा त्रिपादसहितं तु वा ।
द्विगुणं तु तदुत्सेधं द्वारमानं विधीयते ॥ ८३ ॥

प्. ३२१)

द्व्यङ्गुलादि च सप्तान्तं मध्यान्निव्रं प्रकल्पयेत् ।
लिङ्गस्य मध्याद्वामे तु द्वारमध्ये प्रकल्पयेत् ॥ ८४ ॥

द्वादशाङ्गुलमारभ्य पञ्चाशच्च स्मृतं भवेत् ।
त्रिभगेनैकभागं वा पञ्चभागेकमेव वा ॥ ८५ ॥

स्तम्भनिष्क्रान्तमेवं हि अधोदुम्बरमुन्नतम् ।
द्वारस्तम्भप्रमाणेन उपनाद्युत्तरान्तकम् ॥ ८६ ॥

द्वारोच्चं वसुभागं तु वेदाङ्गमुपपीठकम् ।
अधिष्ठानं च द्व्ययंशेन द्व्ययंशतिलपायनम् ॥ ८७ ॥

अष्टनन्दशांशं तु उपपीठं त्रियंशकम् ।
त्रिभागेनैकभागेन अधिष्ठानोच्छ्रयं भवेत् ॥ ८८ ॥

द्वयंशं तलिपायामं प्रथमं च प्रकल्पयेत् ।
उपपीठोदयान्तं च स्थानमानं विधीयते ॥ ८९ ॥

पूर्वे परे च बाले च द्वारस्धम्भं प्रकल्पयेत् ।
पूर्वे कवाटबन्धं स्यादपरे तु विवर्जयेत् ॥ ९० ॥

कवटद्वारयोगं च धामोक्त विधिवत् ततः ।
पंक्तित्रयं समारभ्य रुद्रपंक्त्यन्तविस्तृतम् ॥ ९१ ॥

पंक्तिद्वयं वा चैकं वा पंक्तिमानं प्रकल्पयेत् ।
विस्तारे नवभागे तु पञ्चांशं नालगेहकम् ॥ ९२ ॥

शेषं कुड्यविशालं स्यात् तदर्थं वापि कल्पयेत् ।
शेषं तु भित्तिविस्तारमेकभौम प्रकल्पयेत् ॥ ९३ ॥

प्. ३२२)

विस्तारं सप्तभागे तु आयामं च तथा भवेत् ।
त्रयंशं ग्रभगेहं स्यात्पादं भित्तिविशालकम् ॥ ९४ ॥

कर्णकूटं शिवांशस्याच्छलयामं द्वयंशकम् ।
हारान्तरद्वयंशेनविस्तारायाममेव च ॥ ९५ ॥

द्वितालं त्विति विख्यातं त्रितालं त्वधुनोच्यते ।
दशांशं द्विभजेदीर्घं विस्तारं च तथा भवेत् ॥ ९६ ॥

त्रियंशं गर्भगेहं स्याद् देकांशग्रहपिण्डिका ।
आलिन्द्रं द्वेकभागेन हाराव्यासं शिवांशकम् ॥ ९७ ॥

कर्णकूटं शिवांशेन शालादीर्घं त्रियंशकम् ।
एकांशं पञ्चरव्यासमर्धांशं हरयोन्नरम् ॥ ९८ ॥

एवमेव क्रमेणैव द्वितालं पूर्ववद् भवेत् ।
त्रितालं द्वितिविख्यातं चतुर्भुममधशृणु ॥ ९९ ॥

एकादियुगभूम्यन्तं निष्कान्तं भित्तिकं विना ।
द्वितालादि कलान्तं च सार्धकोटि समन्वितम् ॥ १०० ॥

एकांशमर्धमथवा सार्धकोटिविशालकम् ।
मध्यकोष्ठांशसंयुक्तं सार्धकोटि सुभद्रकम् ॥ १०१ ॥

विस्तारे रुद्रभागं तु नालागेह त्रियंशकम् ।
द्वयंशं भित्तिविस्कम्भमंशेना धारिकं भवेत् ॥ १०२ ॥

हाराव्यासमथार्धांशं बाह्ये भित्तिरुदाहृदम् ।
विस्तारं दशधा कृत्वा कर्णकूटविशांशकम् ॥ १०३ ॥

प्. ३२३)

चतुरंशं कोष्ठादिर्घं शेषं हारसपञ्जरम् ।
कर्णकूटांशकं त्यक्त्वा आयामे तु विशेषतः ॥ १०४ ॥

षोडशांश विभज्याथ द्वयंशं पार्श्वकोष्ठकम् ।
शालादीर्घं षडंशं तु अर्धांशेन तु पञ्जरम् ॥ १०५ ॥

शेषं हारान्तरं प्रोक्तं एवमेव क्रमेण तु ।
त्रियोदशांशं विस्तारे नालं गेहे त्रियंशकम् ॥ १०६ ॥

एकांशे त्रिधपिण्डस्तु अंशेनाण्डानिकं भवेत् ।
हारदीर्घं च मेकांशं बाह्यभित्तिविशालकम् ॥ १०७ ॥

रसभूम्यादि भूम्यन्तं कल्पयेत् कल्पवित्तमम् ।
द्वादशाङ्गुलविस्तारमेकांशं कूटविस्मृतम् ॥ १०८ ॥

पञ्चांशं कोष्ठदीर्घं तु शेषं हारा सपञ्जरम् ।
कर्णकूटांशकं त्यक्त्वा आयामे तु विशेषतः ॥ १०९ ॥

शालायामं तु सप्तांशं शेषं हारासपञ्जरम् ।
रसभूमिरिति ख्यातं सप्तभूमिरथोच्यते ॥ ११० ॥

त्रयोदशांशं कृत्वाथ एकांशं कूटविस्तृतम् ।
शालादीर्घं तु भूतांशं शेषं हारान्तरं भवेत् ॥ १११ ॥

कर्णकूटांशकं त्यक्त्वा आयामे तु विशेषतः ।
त्रयोविंशांशमायामं रसांशं कोष्ठदीर्घिकम् ॥ ११२ ॥

द्वयंशं पार्श्वकोष्ठं च एकांशं चैव पञ्जरम् ।
शेषं हारसमायुक्तं सप्तभूमिमिति स्मृतम् ॥ ११३ ॥

प्. ३२४)

विस्तारं पूर्ववत् कृत्वा एकांशं कर्णकूटकम् ।
शालाशं भूतभागं तु शेषं हार सपञ्जरम् ॥ ११४ ॥

आयामे तु विशेषेण कर्णकूटांशकं त्यजेत् ।
त्रयोविंशतिभागं तु पार्श्वकोष्ठद्वयंशकम् ॥ ११५ ॥

शालायामं तु सप्तांशं सार्धांशपञ्जरं भवेत् ।
एकांशाधिकं कोष्ठं च शेषं हारा सपञ्जरम् ॥ ११६ ॥

कर्णकूटांशकं त्यक्त्वा दीर्घमेवं विधीयते ।
एवं रसादीभूम्यन्तं त्रियंशं गर्भगेहकम् ॥ ११७ ॥

शेषं पूर्ववदुद्यष्टं नवभूम्यन्तमुच्यते ।
पञ्जरम् ॥ ११८ ॥

शेषं हारान्तरं प्रोक्तं नवभूमिरिति स्मृतम् ।
विस्तरे सप्तदाशांशं एकांशं कूटविस्तृतम् ॥ ११९ ॥

सप्तांशं कोष्ठदीर्घं स्याच्छेषं हारा सपञ्जरम् ।
द्वात्रिंशदीर्घमेवं तु द्वयंशं पार्श्वकोष्ठकम् ॥ १२० ॥

दशांशं कोष्ठमेवं तु अर्धांशेनैव पञ्जरम् ।
शेषं हारान्तरं प्रोक्तं दशभौमं प्रकल्पयेत् ॥ १२१ ॥

विस्तारे तु चतुर्विंशदेकांशं कर्णकूटकम् ।
द्वयंशं पार्श्वकोष्ठं च रसांशं कोष्ठदैर्घ्यकम् ॥ १२२ ॥

अर्धांशं पञ्जरं व्यासं शेषहारान्तरमतम् ।
दीर्घमेवं प्रकर्तव्यं कर्णकूटांशकं विना ॥ १२३ ॥

प्. ३२५)

आयामे च द्वयंशं तु अष्टांशं कोष्ठमायतम् ।
पक्षांशं पार्श्वकोष्ठं च पञ्जरं तु त्रिपादकम् ॥ १२४ ॥

शेषं हारान्तरं प्रोक्तं रुद्रभूमिरिति स्मृतम् ।
एकमर्धं त्रिपादं वा पञ्जरस्य तु दीर्घकम् ॥ १२५ ॥

शेषं हारान्तरं प्रोक्तं कल्पये तु यथाविधिः ।
त्रिसप्तति विभागं तु एकांशं कर्णकूटकम् ॥ १२६ ॥

युगांशं पार्श्वकोष्ठं च दशांशं मध्यकोष्ठकम् ।
अर्धांशं पञ्जरं प्रोक्तं शेषं हारान्तरं स्मृतम् ॥ १२७ ॥

अष्टत्रिंशांशमायामं द्वयंशं पार्श्वकोष्ठकम् ।
शालायामं तु भान्वाशनन्दाशं पञ्जरं भवेत् ॥ १२८ ॥

शेषहारासमं प्रोक्तं कर्कभूमिरिति स्मृतम् ।
त्रीं विंशदंशेन विस्तारं एकांशं कूटविस्तरम् ॥ १२९ ॥

द्वयांयाशं पार्श्वकोष्ठं च दशांशांकोष्ठमेव च ।
एकांशपञ्जरं प्रोक्तं त्रयोदशतलं क्रमात् ॥ १३० ॥

द्वाविंशतिश्च विस्तारं एकांशं कूटविस्तरम् ।
शालादीर्घं तु रुद्रांशं पार्श्वकोष्ठद्वयंशकम् ॥ १३१ ॥

पञ्चरर्थेन कर्तव्यशेषं हारा समं भवेत् ।
चत्वार्यंशं विभज्याथ अर्कांशं कोष्ठमेव च ॥ १३२ ॥

द्वयंशं पार्श्वकोष्ठं च अर्धांशेन तु पूजनम् ।
शेषं हारान्तरं चैव चतुर्दशतलं मतम् ॥ १३३ ॥

प्. ३२६)

विस्तारं विशदंशं तु एकांशं कर्णकूटकम् ।
नन्दांशं कूटमेवं तु पार्श्वकोष्ठद्वयंशकम् ॥ १३४ ॥

अर्धांशं पञ्जरं प्रोक्तं शेषं हारान्तरं तमम् ।
आयामे तु विशेषेण पञ्चाशद्भागमेवं हि ॥ १३५ ॥

विंशद्भागं च कोष्ठं च द्वयंशं पार्श्वकोष्ठकम् ।
त्रिपादं पञ्जरं प्रोक्तं शेषं हारान्तरं क्रमात् ॥ १३६ ॥

एकोनत्रिंश विस्तारं एकांशं कूटविस्तरम् ।
पार्श्वकोष्ठद्वयंशं च दशांशं मध्यकोष्ठकम् ॥ १३७ ॥

एकांशं पञ्जरं प्रोक्तं शेषं हारान्तरस्मृतम् ।
षष्ठ्यंशं विभजेत् तत्रात्रैदशं मध्यकोष्ठकम् ॥ १३८ ॥

द्वयशं पार्श्वकोष्ठं च एकांशं पञ्जरं भवेत् ।
शेषं हारान्तरं प्रोक्तं र्दन्तिमानमिदं परम् ॥ १३९ ॥

प्रस्थरे पञ्चभूम्यादि वेशनं च ततः शृणु ।
सुभद्रं वा विभद्रं वा पस्थरम कल्पयेद् बुधः ॥ १४० ॥

कण्यकूटादिशालानां भद्रमेवं विधीयते ।
गण्डमानमधोवक्ष्ये शृणुध्वं तत्प्रभञ्जनम् ॥ १४१ ॥

उक्तारादिशिखान्तं च भूमिभागं च कल्पयेत् ।
सार्धांशं तु कपोतोच्चं मेकांशं गलमेव च ॥ १४२ ॥

पादोनत्रंशशिखरे शिखमानं तु शेषकम् ।
एवमेव क्रमेणैवा एकभौममिति स्मृतम् ॥ १४३ ॥

प्. ३२७)

उत्तरादि शिखान्तं च नन्दभागमिति स्मृतम् ।
एकांश पञ्चमानं तु सार्धपक्षंशकं घटम् ॥ १४४ ॥

शिखशेषं प्रकर्तव्यं द्वितलं च यथा क्रमम् ।
उत्तरादि शिखान्तं च त्रयोदशांशमेव च ॥ १४५ ॥

मञ्चं सार्धांशमानं च सार्धद्व्यंशांशमघ्रिकम् ।
प्रस्तरोच्चं सपादाशं द्वयंशं पादमेव च ॥ १४६ ॥

कपोतोच्चं त्वें कपादं तत्समं गलमेव च ।
सार्धपक्षं शकं प्रोक्तं शेषं घ्युदयं स्मृतम् ॥ १४७ ॥

उत्तरादि शिखान्तं च रन्द्रभाग विभाजिते ।
पञ्चमानं सपादांशं द्वयंशं चरणायतम् ॥ १४८ ॥

कपोतोच्चं शिवांशं च सार्धपक्षांशकं शिरः ।
शेषं स्तूप्यदयं प्रोक्ता द्वितलं ज्वीति विद्यते ॥ १४९ ॥

उत्तरादि शिखान्तं च त्रयोदश विभाजिते ।
सार्धांश पञ्चमानं स्यात्सार्धद्व्यांशाङ्घ्रि तुङ्गकम् ॥ १५० ॥

कपोतोच्चं सपादांशं पक्षांशं पाददैर्घ्यकम् ।
मञ्चमानं शिवांशं च शश्यम्भं गलमुच्यते ॥ १५१ ॥

शिखरं सार्धपक्षंशं शेषं स्धुप्युदयं भवेत् ।
त्रितलं ह्येवमाख्यातं चतुर्भुमिमध शृणु ॥ १५२ ॥

स्थूप्यात्युत्तरसिद्धान्तं मषादिश विभाजिते ।
मदो न द्वयंशमञ्चोञ्चं पक्षांशं चरणायतम् ॥ १५३ ॥

प्. ३२८)

व्योमांशं मञ्चमानं स्याद्गलं तत्सममुच्यते ।
पादोनत्रिंशशिखरं शेषं स्थूप्यादयं भवेत् ॥ १५४ ॥

चतुर्भुमिरितिप्रोक्तं बाणभूममध शृणु ।
उत्तरादि शिखान्तं च पञ्चविंशति भागया ॥ १५५ ॥

पक्षांशं मञ्चमानं स्यार्धाग्न्यंशाङ्घ्रितुङ्गकम् ।
सपादोंशकपोतोच्चं गुणांशं तलिपायतम् ॥ १५६ ॥

सार्धांशं मञ्चमानं स्यात्सार्धपक्षांशमघ्रिकम् ।
सपादांशकपोतोच्चं पक्षांशं तलिपायतम् ॥ १५७ ॥

कपोतोच्चं सार्धं पादांशगलतत्सममुच्यते ।
युगांशं शिखरोत् तुङ्गं शेषं स्थूप्यादयं भवेत् ॥ १५८ ॥

पञ्चभूमिमिति प्रोक्तं रसभूममथोच्यते ।
उत्तरादिशिखान्तं च एकत्रिंशांशकं भवेत् ॥ १५९ ॥

सपादद्व्यमञ्चोच्चं युगांशं शरणायतम् ।
पक्षांशं मञ्चमानं तु सार्ध ह्यंशं घ्रितुङ्गकम् ॥ १६० ॥

पादोनद्व्यंशमञ्चोच्चं गुणांशं चराणायतम् ।
सार्थांशमञ्चमानं तु सार्धपक्षांशमघ्रिकम् ॥ १६१ ॥

सपादांशकपोतोच्चं कलांशं चरणायतम् ।
व्योमाशं मञ्चमानं तु सपादांशं गलोदयम् ॥ १६२ ॥

शिखरं युगभागं तु शेषं स्थूप्यादयं भवेत् ।
रसभूमिमिति प्रोक्तं सप्तभूमिमध शृणु ॥ १६३ ॥

उत्तरादि शिखान्तं च अष्टत्रिंशति भागया ॥ १६३½ ॥

प्. ३२९)

सार्थद्वयं मशं चोर्चं सार्धवेदांशमङ्घ्रिकम् ।
सपादद्वयं शमं चोच्चं युगांशं तलिपायतम् ॥ १६४ ॥

पक्षंशंमंच मां तु चार्धाग्न्यंशांघ्रितुङ्गकम् ।
सपादद्व्यंशमञ्चोच्चं वेदांशं चरणायतम् ॥ १६५ ॥

पक्षांशप्रस्थरोत्सेधं युगपादादिकं भवेत् ।
स्थाणु त्रिपादमच्चोर्चं मग्न्यर्धं तलिपातकम् ॥ १६६ ॥

सार्धांशं मञ्चमानं तु त्रिंशं पादाधिकं भवेत् ।
सपादांश कपोतोच्चं त्रिभागं गलमुच्यते ॥ १६७ ॥

शिखरे पञ्चभागे तु शेषं स्थूप्यादयं भवेत् ।
सप्तभूमिमिति प्रोक्तं वसुभूमिमधशृणु ॥ १६८ ॥

पञ्चांश द्व्येधमाधिक्यं भागं कृत्वा ग्रहोन्ततम् ।
द्विपादद्वंशमञ्चोर्चं रसार्धं तिलपायतम् ॥ १६९ ॥

सपादद्व्यंशं मञ्चोच्चभूतांशं तलिपायतम् ।
सपादद्व्यंशं चोर्चं वेदार्धं चरणायतम् ॥ १७० ॥

पक्षांशमञ्चमानं तु युगांशं चाङ्घ्रितुङ्गकम् ।
पादोन द्व्यंशमञ्चोर्चं गुणार्धं चरणायतम् ॥ १७१ ॥

सार्धंशं मञ्चमानं तु द्विगुणं चाङ्घ्रितुङ्गकम् ।
सपादंश कपोतोच्चं पक्षार्थं चरणायतम् ॥ १७२ ॥

सपादंश कपोतोर्चं गुणांशं गलमुच्यते ।
शिखरे पञ्चभागे तु शेषं स्थूप्यादयं भवेत् ॥ १७३ ॥

प्. ३३०)

वसुभौममिति प्रोक्तं नन्दभौममध शृणु ।
उत्तरादि शिखान्तं च षड्यंशं विभजेत् ततः ॥ १७४ ॥

द्विपादद्व्यंशमञ्चोच्चं भूतार्धं चरणायतम् ।
द्विपादद्व्यंशत्कपोतं च पञ्चाशच्चरणोदयम् ॥ १७५ ॥

सपादद्व्यंशमञ्चं तु युगांशं तलिपायतम् ।
द्व्यशं प्रस्थरं चैवमग्न्यर्थं तालिपायतम् ॥ १७६ ॥

त्रिपादांशं कपोतोच्चं गुणांशं चरणायतम् ।
सार्धं शमञ्चमानं तु द्व्यशार्थं शरणायतम् ॥ १७७ ॥

सपादंशकपोतोच्चं द्व्यंशं चरणायतम् ।
अंशप्रस्तरमानं तु त्रियंशं गलमुच्यते ॥ १७८ ॥

शिखरे पञ्चभागे तु शेषं स्थूप्यादयं भवेत् ।
उत्तरादिशिखान्तं च चतुःषष्ट्यंशकं भवेत् ॥ १७९ ॥

सपादत्रिशमञ्चोच्चं कौशिकार्धाङ्घ्रितुङ्गकम् ।
गुणांशमञ्चमानं तु सार्धभूतांशमङ्घ्रिकम् ॥ १८० ॥

पादोनद्व्यंशमञ्चोर्चं भूतांशं तलिपायतम् ।
कपोतं सार्धपक्षांशं सार्धवेदांशमघ्रिकम् ॥ १८१ ॥

सपादद्व्यंशमञ्चोच्चं वेदांशं चरणायतम् ।
सपादांशं कपोतोच्चं गलं तत्सममुच्यते ॥ १८२ ॥

शिखरे युगभागे तु शेषं स्थूप्यादयं भवेत् ।
दशभूमिमिति प्रोक्तं रुद्रभूमिमध शृणु ॥ १८३ ॥

प्. ३३१)

सप्ततियुगभागं तु उत्तरादिशिखान्तकम् ।
सर्धाग्न्यंशं कपोतोच्चं तलिपं सार्धषट्ककम् ॥ १८४ ॥

सपादात्रयंशमञ्चोच्चं कौशिकांशाङ्घ्रितुङ्गकम् ।
कपोतोच्चं गुणांशं तु सार्धभूतांशमङ्घ्रितम् ॥ १८५ ॥

पादोन त्रयंशमञ्चोच्चं भूतांशं चरणायतम् ।
कपोतं सार्धपक्षांशं सार्थवेदांशमघ्रिकम् ॥ १८६ ॥

सपादद्व्यंशमञ्चोच्चं वेदांशं चरणायतम् ।
पक्षाशं मञ्चमानं तु सार्धाग्न्य * घ्रितुङ्ग * ॥ १८७ ॥

पादोनद्व्यंशमञ्चोच्चं गुणांशं चरणायतम् ।
सार्धांशं मञ्चमानं तु सार्धपक्षांशमघ्रिकम् ॥ १८८ ॥

सपादांशं कपोतोच्चं कलांशं चरणायतम् ।
मञ्चमानं सपादांशं गलं तत्सममुच्यते ॥ १८९ ॥

शिखरं वेदभागं तु शेषं स्थूप्यादयं भवेत् ।
रुद्रभूमिमिति प्रोक्तं भानुभूमिमथ शृणु ॥ १९० ॥

पञ्चाधिकमशित्यंशंमुत्तरादिशिखान्तकम् ।
त्रिपादद्व्यंशमञ्चोच्चं थात्वांशं तलिपायतम् ॥ १९१ ॥

सार्धाग्न्यशं कपोतोच्चं वरणं सार्धषट्ककम् ।
सपादत्र्यंशमञ्चोच्चं षडंशं तलिपायतम् ॥ १९२ ॥

कपोतोच्चं गुणांशं तु सार्धभूतांशमङ्घ्रिकम् ।
पादो न त्र्यंशमञ्चोच्चं भूतांशं तलिपायतम् ॥ १९३ ॥

प्. ३३२)

सार्धपक्षांशमञ्चोच्चं सार्धवेदांशमघ्रिकम् ।
सपादद्व्यंशमञ्चोच्चं वेदांशं चरणायतम् ॥ १९४ ॥

पक्षांशं मञ्चमानं तु सार्धाग्न्यंशाङ्घ्रितुङ्गकम् ।
पादोनद्व्यंशमञ्चोच्चं गुणांशं तलिपायतम् ॥ १९५ ॥

सार्धांशं मञ्चमानं च सार्धपक्षांशमघ्रिकम् ।
सपादांशं कपोतोच्चं पक्षांशं चरणायतम् ॥ १९६ ॥

मञ्चमानं सपादांशं गलं तत्सममेव च ।
शिखरं वेदभागं तु शेषं स्थूप्यादयं भवेत् ॥ १९७ ॥

भानुभूमिमिति प्रोक्तं त्रयोदशतलं शृणु ।
उत्तरादिशिखान्तं च षण्णवत्यंशकं भवेत् ॥ १९८ ॥

युगांशं मञ्चमानं तु सार्धभूतांशमङ्घ्रिकम् ।
त्रिपादत्र्यंशमञ्चोच्चं विस्तारं चरणायतम् ॥ १९९ ॥

सार्धाग्न्यंशकपोतोच्चं तलिपं सार्धषट्ककम् ।
सपादं त्र्यंशमञ्चोच्चं षडंशं तलिपायतम् ॥ २०० ॥

गुणांशं मञ्चमानं तु सार्धबूतांशमङ्घ्रिकम् ।
पादोन त्र्यंशमञ्चोच्चं भूतांशं चरणायतम् ॥ २०१ ॥

कपोतं सार्धपक्षांशं सार्धवेदांशमघ्रिकम् ।
सपादद्व्यंशमञ्चोच्चं युगांशं चरणायतम् ॥ २०२ ॥

पादो न द्व्यंशमञ्चोर्चं गुणांशं चरणायतम् ॥ २०३ ॥

प्. ३३३)

सार्धांशं मञ्चमानं च सार्धपक्षांशमघ्रिकम् ।
सपादादंशमञ्चोच्चं पक्षांशं चरणायतम् ॥ २०४ ॥

शिवांशं मञ्चमानं च सपादांशं गलोदयम् ।
शिखरं युगभागं तु शेषं स्थूप्यादयं भवेत् ॥ २०५ ॥

त्रयोदशतलं प्रोक्तं मनुभूमिमथ शृणु ।
उत्तरादि शिखान्तं च अष्टाधिकशताधिकम् ॥ २०६ ॥

सपादयुगमञ्चोच्चं वस्वंशं चरणायतम् ।
वेदांशं मञ्चमानं तु सार्धसप्तांशमङ्घ्रिकम् ॥ २०७ ॥

त्रिपादग्न्यंशमञ्चोच्चं सप्तांशं चरणायतम् ।
सार्धाग्न्यंशं कपोतोर्च्चं तलिपं सार्धषट्ककम् ॥ २०८ ॥

सपादत्र्यंशमञ्चोच्चं षडंशं तलिपायतम् ।
गुणांशमञ्चमानं तु सार्धभूतांशमङ्घ्रिकम् ॥ २०९ ॥

पादोन त्र्यंशमञ्चोच्चं भूतांशं चरणायतम् ।
सार्धपक्षांशकर्मं च सार्धपक्षांशमघ्रिकम् ॥ २१० ॥

सपादद्व्यंशमञ्चोच्चं वेदांशं चरणायतम् ।

पादो न द्व्यंशमञ्चाच्चं गुणांशं तलिपायतम् ।
सार्धांशं मञ्चमानं तु सार्धपक्षांशमघ्रिकम् ॥ २१२ ॥

स * * * * * * * * * शं चरणायतम् ।
श * शमञ्चमानं तु गलं तत्सममेव च ॥ २१३ ॥

प्. ३३४)

शिखरं वेदभागं तु शेषं स्थूप्यादयं भवेत् ।
मन्मभूमिति प्रोक्तं तिथिभौममध शृणु ॥ २१४ ॥

एकविंश शतान्तं तु * * * * * * * * ।
पञ्चमानं युगांशं तु सार्धपक्षांशमघ्रिकम् ॥ २१५ ॥

सपादयुगमञ्चोच्चं वस्वंशं तलिपायतम् ।
युगांशमञ्चमानं तु सार्धसप्तमशङ्घ्रिकम् ॥ २१६ ॥

त्रिपादाग्न्यंशम * * * * * शरणायतम् ।
सार्धाग्न्यंश कपोतोच्चं तलिपं सार्धषट्ककम् ॥ २१७ ॥

सपादात्रयंशकं चोच्चं षडंशं तिलपायतम् ।
गुणांशमञ्चमानं तु * * * * * मघ्रिकम् ॥ २१८ ॥

पादोन त्र्यंशमञ्चोच्चं भूतांशं चरणायुतं ॥ २१८½ ॥



अपूर्णः

"https://sa.wikisource.org/w/index.php?title=सूक्ष्मागमः&oldid=210779" इत्यस्माद् प्रतिप्राप्तम्