सूत्रार्थरत्नावली/चतुर्थोऽध्यायः/चतुर्थः पादः

← तृतीयः पादः सूत्रार्थरत्नावली
चतुर्थः पादः
[[लेखकः :|]]

॥ श्रीः ॥
॥ हरिः ॥
॥ अथ चतुर्थः पादः ॥

॥ भोगमाहास्मिन्पादे ॥

1.अधिकरणं ॥

अत्र मुक्तस्य ब्रह्मानतिक्रमेणैव भोग्यानुभवः साध्यते ॥

<4-4-1>
(1) ॥ संपद्याविहाय स्वेन शब्दात् ॥

ननु मुक्तो ब्रह्मातिक्रम्य मुक्तौ भोगान्भुंक्ते। एतं सेतुं तीर्त्वेति [छां. 8-4-2.] ब्रह्मातिक्रमानंतरं रूपाविर्भावस्योक्तत्वेनानतिक्रम्य स्थितस्य स्वरूपानुभवायोगात्। अतो मुक्तस्य ब्रह्‌मातिक्रमनियमान्न तद्गम्यमिति प्राप्ते सूत्रमाह ॥

॥ संपाद्याविहाय स्वेन शब्दादिति ॥ अस्यार्थः ॥ ज्ञानी संपद्य ब्रह्म प्राप्य। अविहाय ब्रह्मानतिक्रम्य। स्वेन आविर्भूतस्वरूपेणावस्थितः सन् भोगान्भुंक्ते। कुतः। शब्दात् स एवं विदिति (सौपर्णं.) श्रुतेरित्यर्थः ॥

एवंच ब्रह्म संपद्याविहायैव भोगान्भुंक्ते। स एवमिति श्रुतेः। परंज्योतिरिति श्रुतेश्च। एतमिति [छां. 8-4-2.] श्रुतेर्ब्रह्मप्राप्तयेन्यतरणस्यैव तदर्थत्वनाविरोधात्। अतो मुक्तस्य ब्रह्मादिक्रमाभावात्तदेव गम्यमिति सिद्धं ॥
</4-4-1>
॥ इति संपद्याधिकरणं ॥

2.अधिकरणं ॥

अत्र ब्रह्म प्राप्य तदविहायैव भोगभोक्तुर्मुक्तत्वं साध्यते।

<4-4-2>
(2) ॥ मुक्तः प्रतिज्ञानात् ॥

ननु स तत्र पर्येतीति श्रुत्युक्तो न मुक्तः। पर्येतीति क्रियाप्रतीतेः। मुक्तस्य कृतकृत्यार्थत्वेन क्रियाऽसंभवात्। न चामुक्तस्यैवं विधभोगासंभवः। प्रागसंभवेऽपि गवत्प्राप्त्यनंतरं संभवात्। न च श्रुत्युक्तस्यामुक्त्त्वे स्वेन रूपेणेति [छां. 8-3-4.] वाक्यविरोधः। तत्र निर्गुणोपासकस्य स्वरूपाविर्भावाभिधानात्। स तत्रेति {छां. 8-12-3.] दहरविद्योपासस्यामुक्तस्यैव भोगाभिधानात्। अतः श्रुत्युक्तस्यामुक्तत्वान्न मुक्तस्य भोग इति प्राप्ते सूत्रितं ॥

॥ मुक्तः प्रतिज्ञानादिति ॥ अस्यार्थः ॥ स तत्र पर्येतीति श्रुतौ मुक्त एवोच्यते। कुतः। प्रतिज्ञानात् मुक्तादन्यस्य दिव्यभोगं प्रतिषिध्याहरह इति (बृहत्.) श्रुतौ मुक्तस्यैव ब्रह्मप्राप्त्या दिव्यभोगोक्तेरित्यर्थः ॥

एवंच निर्दिष्टश्रुतौ मुक्तस्यैवोक्तत्वात्। मुक्तत्वं विनैतद्भोगासंभवात्। स्वरूपाविर्भावोक्तेश्च। एकप्रकरणत्वसंभवे भिन्नप्रकारणत्वकल्पनाऽयोगात्। अन्यथाऽतिप्रसंगात्। अतो युक्त एव मुक्तस्य भोग इति सिद्धं ॥
</4-4-2>
॥ इति मुक्ताधिकरणं ॥

3.अधिकरणं ॥

अत्र मुक्तप्राप्यस्य ज्योतिषो ब्रह्मत्वं साध्यते।

<4-4-3>
(3) ॥ आत्मा प्रकरणात् ॥

ननु परंज्योति [छां. 8-3-4.] शब्दोक्तो न विष्णुः। किंत्वादित्यो भवेत्। स तेजसीति [प्र. 5-5.] श्रुत्या समाख्यानात्। एवंच न मुक्तस्य ब्रह्मसमीपे भोग इति प्राप्ते सूत्रमाह ॥

॥ आत्मा प्रकरणादिति ॥ अस्यार्थः ॥ परंज्योतिः शब्देन आत्मा परमात्मैवोच्यते न सूर्यः। कुतः। प्रकरणात् अस्य वाक्यस्य परमात्मप्रकरणत्वादित्यर्थः ॥

एवंच य आत्मेति [छां. 8-1-5.] भगवत एवारभ्याधीतत्वेनास्य तत्प्रकरणात्वात्। प्रकरणस्य समाख्यातो बलवत्त्वात्। सूर्यमंडलप्राप्त्यनंतरं पापकर्मविनाशांगीकारेण स तेजसीति वाक्यस्य किंस्तुध्नप्राप्तिपूर्वकालिकसूर्यप्राप्तिपरत्वेन सावकाशत्वात्। परंज्योतिःशब्दस्यान्यत्राभावाच्च। अतः परं ज्योतिर्ब्रह्मैवेति तत्प्राप्त्याविहायैव मुक्तो भोगान्भुंक्त इति सिद्धं ॥
</4-4-3>
॥ इति आत्माधिकरणं ॥

4.अधिकरणं ॥

अत्र सायुज्यभाजां भगवद्भुक्तभोगभोक्तृत्वं समर्थ्यते ।

<4-4-4>
(4) ॥ अविभागेन दृष्टत्वात् ॥

ननु मुक्ताः परमात्मनाऽभुक्तभोगान् भुंजते। अवाप्तमहापुरुषार्थत्वात्। अन्यथा कदाचिन्मुक्तानां भोगेच्छायामप्यवाप्तकामत्वेन परमात्मनस्तदनिच्छायां मुक्तानां भोगो न स्यात्। परमात्मभोगं विना तेषां भोगायोगात्। ततश्च भगवदभुक्तभोगभोक्तृत्वान्न तस्य सर्वभोक्तृत्वमिति प्राप्ते सूत्रमाह ॥

॥ अविभागेन दृष्टत्वादिति। अस्यार्थः ॥ अविभागेन परमात्मभुक्ताः क्रमेणैव मुक्तैः भोगाः भुज्यंते। कुतः। दृष्टत्वात् यानेवाहमिति (चतुर्वेदशिखायां.) श्रुतेरित्यर्थः ॥

एवंच भुक्तानेव भोगान्भुंजंते मुक्ताः। यानेवाहं शृणोमीति श्रुतेः। मुक्ताः प्राप्येति [भविष्यत्पर्वणि.] स्मृतेश्च। अतो मुक्तानां भगवद्भुक्तभोगभोक्तृत्वाद्युक्तं तस्य सर्वभोक्तृत्वमिति सिद्धं ॥
</4-4-4>
॥ इति अविभागाधिकरणं ॥

5.अधिकरणं ॥

अत्र ब्रह्मप्राप्तस्य सायुज्यमुक्तस्य भोगः समर्थ्यते।

<4-4-5>
(5) ॥ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥

ननु न मुक्तानां भोगो युक्तः। शरीराभावात्। तेषां देहसद्भावांगीकारे मुक्तत्वव्याघातात्। अतो मुक्तौ भोगासंभवादपुरुषार्थत्वमिति प्राप्ते सूत्रितं ॥

॥ ब्राह्मेण जैमिनिरुपन्यासादिभ्य इति ॥ अस्यार्थः ॥ ब्राह्मेण ब्रह्मसंबंधिदेहेनैव। मुक्तो भोगान्भुंक्ते। कुतः। उपन्यासादिभ्यः ब्रह्मणेति (माध्यंदिनायन.) श्रुतेः। आदि पदोक्तादत्त इति स्मृतेर्युक्तेश्चेति जैमिन्याचार्यो मन्यत इत्यर्थः ॥

एवंच मुक्तानां देहाभावेऽपि ब्राह्मेण देहेन भोगस्य युक्तत्वात्। निर्दिष्टश्रुतिस्मृत्योश्च। जैमिन्युक्तस्यापि प्रामाणिकत्वेन बादरायणोक्तेरविरोधात्। अतो मुक्तौ भोगसंभवाद्युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धं ॥
</4-4-5>

<4-4-6>
(6) ॥ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॥

एवं देहाभावमभ्युपगम्य मुक्तस्य भोगं समर्थ्य देहसद्भावमभ्युपगम्य तत्समर्थयत्सूत्रमुपन्यस्यति ॥

॥ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिरिति ॥ अस्यार्थः ॥ चितिमात्रेण ज्ञानैकस्वरूपदेहेन। मुक्तो भोगान्भुंक्ते तदात्मकत्वात्। चिन्मात्रदेहस्यैव मुक्तस्वरूपत्वात्। तस्य च संसृत्यहेतुत्वादित्यौडुलोमिराचार्यो मन्यत इत्यर्थः ॥

एवंच मुक्तानां चिन्मात्रेण पृथग्विद्यमानत्वात्। तेषां शरीरस्य चैतन्यस्वरूपेण पृथग्विद्यमानत्वात्। तेषां चिदात्मकत्वाच्चितिमात्रशरीरस्य च मुक्तस्वरूपत्वात्स्वरूपस्य चाकृत्रिमत्त्वेन संसारानापादकत्वात्। सर्वदेहपरित्यागेन ब्रह्मदेहाद्भिन्नचितिमात्रेण मुक्ता भुज्यंते। सर्वं वेति [उद्दालक.] श्रुतेः। इत्यौडुलोमिराचार्यो मन्यते। अतो मुक्तौ भोगः संभवतीति सिद्धं ।.
</4-4-6>

<4-4-7>
(7) ॥ एवमुपन्यासात्पूर्वभावादविरोधं बादरायणः ॥

ननु न सूत्रद्वयोक्तपरिहारौ युज्येते। देहाभावाभावयोर्विरुद्धत्वादित्याशंकां पराकुर्वत्सूत्रं पठति ॥

॥ एवमुपन्यासात्पूर्वभावादविरोधं बादरायण इति ॥ अस्यार्थः ॥ एवमौडुलोम्युक्तप्रकारास्योपन्यासात् स व एष इति (सौपर्ण.) श्रतौ उक्तत्वात्। पूर्वभावात् पूर्वस्मिन् जैमिन्युक्तपक्षेऽपि भावात् प्रमाणसद्भावात्। अविरोधं पक्षद्वयस्याविरोधं। बादरायणाचार्यो मन्यत इत्यर्थः ॥

एवंच बादरायणाचार्य उभयमतयोरविरोधं मन्यते। सर्वं वा इति [उद्दालक.] श्रुतौ मुक्तस्य चिच्छरीरमात्रोक्तावपि स वा एष इति श्रुतौ [उद्दालक.] औडुलोम्युक्तचिच्छरीरभोगस्याप्युपन्यासात्। चिन्मात्रस्य ब्राह्मेण भोग इति जैमिन्युक्तस्य च प्रमाणेषु भावेन प्रमिते च विरोधाभावात्। प्रथमस्य चिन्मात्रदेहविषयत्वात्। द्वितीयस्य तु जडदेहाभावविषयत्वात्। अतो मुक्तौ भोगसंभवाद्युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धं ॥
</4-4-7>
॥ इति ब्राह्माधिकरणं ॥

6.अधिकरणं ॥

अत्र मुक्तस्य संकल्पमात्रसाध्यभोगः समर्थ्यते ॥

<4-4-8>
(8) ॥ संकल्पादेव च तच्छ्रुतेः ॥

ननु तत्तदुपायसाध्यसाधनसाध्यो मुक्तभेगः। ओकसि स्थितभोगत्वात्। पृथिव्याद्योकसि स्थितसंसारिभोगवत्। अन्यथा लोकविरोधात्। ततश्च संकल्पसाध्यत्वाभावान्मुक्तेरपुरुषार्थत्वमिति प्राप्ते सूत्रितं ॥

॥ संकल्पादेव च तचछ्रुतेरिति ॥ अस्यार्थः ॥ चो विरुद्धपक्षव्यावृत्यर्थः। संकल्पादेव स्वेच्छानुसारेणैव मुक्ता भोगान् भुंजते। कुतः। तच्छ्रुतेः। तस्मिन्नर्थे स यदीति श्रुतेरित्यर्थः ॥

एवंच मुक्तानां भोगादिषु प्रयत्ननिरपेक्षत्वात्। स यदि .xxxलोककाम इति [छां. 8-2-1.] श्रुतेः। न च लोकविरोधः। निर्देषे भगवदोकसि तथात्वस्यैव युक्तत्वात्। अतो मुक्तभोगस्य संकल्पमात्रसाध्यत्वाद्युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धं ॥
</4-4-8>
॥ इति संकल्पाधिकरणं ॥

7.अधिकरणं ॥

अत्र ब्रह्मप्राप्तिमतां मुक्तानां स्वाधमनियम्यत्वराहित्येन भोगः साध्यते।

<4-4-9>
(9) ॥ अत एव चानन्याधिपतिः ॥

ननु मुक्ताः स्वावरनियम्याः। सर्वाधिपतिसदननिविष्टत्वात्। राजसदननिविष्टामात्यादिवत्। दृश्यंते ह्यमात्या अपि राजशासननिविष्टा नीचैरपि प्रतिहारैर्नियम्यमानाः। अन्यथा लोकविरोधः स्यात्। अतो मुक्तस्याधमनियम्यत्वान्मुक्तेः संसारसमानधर्मत्वमिति प्राप्ते सूत्रितं ॥

॥ अत एव चानन्याधिपतिरिति ॥ ॥ अस्यार्थः ॥ च शब्दो विरुद्धसंकाव्यावर्तकः। अनन्याधिपतिः मुक्तः स्वोत्तमस्वकीयान्याधिपतियुक्तो न। कुतः। अत एव सत्यसंकल्पादेवेत्यर्थः ॥

एवंच सर्वेषां परमात्माधिपतित्वात्। प्राणादिनामपर्यंतदेवानां क्रमेणाधिपतित्वात्। यैर्ज्ञानं सुप्रतिष्ठितं तेषामाचार्याणामप्यधिपतित्वात्। ततोऽन्यस्य नीचाधिपतित्वाभावात्। सत्यसंकल्पात्। लोके ह्यनपेक्षितस्यैव भावात्। तच्च मुक्तस्य सत्यसंकल्पादेवायुक्तत्वात्। परमोऽधिपतिरिति [वाराह.] स्मृतेः। अतो मुक्तस्याधमाधिपतिशून्यत्वाद्युक्तं मुक्तेः संसारवैलक्षण्यमिति सिद्धं ॥
</4-4-9>
॥ इति अनन्याधिपत्यधिकरणं ॥

8.अधिकरणं ॥

अत्र परमेश्वरं प्राप्तानां भोगानुपपत्तिः परिह्रियते ॥

<4-4-10>
(10) ॥ अभावं बादरिराह ह्येवं ॥

ननु न मुक्तानां भोगो युज्यते। देहभावाभावयोर्विरोधात्। मुक्तस्य बाह्यदेहांगीकारे दुःखप्रसंगात्। तदनंगीकारे भोगासंभवः। अशरीरेण भोगायोगात्। न च चिच्छरीरेण भोगोपपत्तिः। सुप्त्यादौ विद्यमानस्य तस्यापि भोगायतनत्वादर्शनात्। न ब्राह्मेण देहेन तदुपपत्तिः। परदेहस्य परं प्रति भोगायतनत्वायोगात्। अतः कथमपि मुक्तानां निर्दुःखभोगायोगादपुरुषार्थत्वं मुक्तेरिति प्राप्ते सूत्रमाह ॥

॥ अभावं बादरिराह ह्येवमिति ॥ अस्यार्थः ॥ प्राकृतदेहाभावमंगीकृत्य चिन्मात्रदेहेन मुक्तस्य भोगोऽस्ति। एवं बादरिराचार्यो मन्यते। कुतः। हि यस्मात्। अभावं प्राकृतशरीराभावं। अशरीरो वावेति (कौंठरव्य.) श्रुतिराह। तस्मादित्यर्थः ॥

एवंच चिन्मात्रदेहसद्भावात्। सुप्त्यादौ विद्यमानस्याज्ञानाद्यावृतत्वेन तदा भोगायतनत्वाभावेप्यज्ञाननिवृत्त्यनंतरं तत्संभवात्। न हि प्रतिबद्धकारणं कार्यं न जनयतीत्येतावता तदुपरमेऽपि कार्यं न जनयतीति सांप्रतं। न च दुःखप्रसंगः। बाह्यदेहाभावात्। अशरीरो वावेत्याम्नानादिति बादरिराचार्यो मन्यते। तथा च युक्त एव मुक्तान ां भोग इति सिद्धं ॥
</4-4-10>

<4-4-11>
(11) ॥ भावं जौमिनिर्विकल्पाम्नानात् ॥

मुक्तानांदेहसद्भावमभ्युपगच्छत्सूक्षमुपन्यस्यंति ॥

॥ भावं जैमिनिर्विकल्पाम्नानादिति ॥ अस्यार्थः ॥ जैमिनिः मुक्तानां भाव चिन्मात्रातिरिक्तदेहसद्भावं मन्यते। कुतः। विकल्पाम्नानात् विकल्पस्योभयविधदेहस्याम्नानात्। चिता वाऽचितावेति (उद्दालक) श्रुत्या प्रतिपादनादित्यर्थः ॥

एवंच जैमिनिराचार्यः कदाचिन्मुक्तस्यापि कस्यचिदुत्तमस्य भोगार्थमिच्छया प्राकृतदेहस्यापि भावं मन्यते। तत्र श्रुतिप्रमाणसद्भावात्। ततश्च मुक्तानां भोगोऽस्तीति सिद्धं ॥
</4-4-11>

<4-4-12>
(12) ॥ द्वादशाहवदुभयं बादरायणोऽतः ॥

नन्वेतन्मतद्वयस्य परस्परविरुद्धत्वात्। शरीरभावाभावयोरसंभावात्किं तत्स्वमतमित्याकांक्षाया सूत्रं पठति ॥

॥ द्वादशाहवदुभयं बादरायणोऽत इति ॥ अस्यार्थः ॥ बादरायणः उभयविधं प्राकृतदेहभावाभावाख्यं। मतं स्वमतं मन्यते। कुतः। अतः प्रमाणसद्भावात्। कथमेतद्युज्यते। द्वादशाहवत्। यथा द्वादशात्मकः क्रतुरहीनसत्रोभयात्मकः तथैवेत्यर्थः ॥

एवंच शरीरभावाभावयोरसंभवाभावात्। प्रत्युत द्वादशाहपरिसमाप्यस्य यागस्येच्छयैककर्तृत्वेऽहीनत्वमनेकेषां कर्तृत्वे सत्रत्त्वमिव मुक्तानामिच्छया शरीरभावाभावयोरुपपत्तेः। ततश्च मतद्वयस्याविरोध इति सिद्धं ॥
</4-4-12>

<4-4-13>
(13) ॥ तन्वभावे संघ्यवदुपपत्तेः ॥

ननु भवतु देहभावाभावरयोरविरोधः तथाऽपि कथं भोगोपपत्तिः। देहत्वे सदुःखादिः स्यात्। न तेद्भोगायोग इत्यनुपपत्तेरुक्तत्वादिति प्राप्ते समादधत्सूत्रमाह ॥

॥ तन्वभावे संघ्यवदुपपत्तेरिति ॥ अस्यार्थः ॥ संध्यवत् यथा स्वप्नावस्थायां बाह्यदेहाभावेऽपि भोगसंबधः तद्वन्मुक्तावपि। तन्वभावेऽपि प्राकृतदेहाभावेऽपि। उपपत्तेः। भोगस्य युक्तत्वाद्देहाभावपक्षो युज्यत इत्यर्थः ॥

एवंच शरीराभावेऽपि भोगस्य स्वप्नवदुपपत्तेः संध्यं तृतीयमिति [बृ. 6-3-9.] श्रुतेः। अत उक्तं युक्तमिति सिद्धं ॥
</4-4-13>

<4-4-14>
(14) ॥ भावे जाग्रद्वत् ॥

ननु संध्यवज्जाग्रद्वद्भोग इव सुषुप्त्यादिवद्भोगाभावोऽपि किं न स्यादिति प्रतिदृष्टांतस्यापि वक्तुं शक्यत्वात्। देहाभावे स्वप्नवद्देहसद्भावे जाग्रद्वद्भोग इत्येतत्कुत इति प्राप्ते सूत्रमाह ॥

॥ भावे जाग्रद्वत् ॥ अस्यार्थः ॥ जाग्रद्वत् यथा जाग्रदवस्थायां। देहसद्भावेऽपि भोगसंभवः। तद्वन्मुक्तावपि। भावे प्राकृतदेहसद्भावेऽपि भोगो युज्यत इत्यर्थः ॥

एवंच स्वप्नावस्थापन्नानां देहाभिमानेन विनाऽपि प्राकृतेन यथा भोगो युज्यते। एवं मुक्तस्य स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित्स्वीकृत्य जागरितवद्भुक्त्वा त्यागः कदाचनेति [ब्रह्मवैवर्त.] स्मृतेः। अतो मुक्तानां भोगोऽस्तीति सिद्धं ॥
</4-4-14>

<4-4-15>
(15) ॥ प्रदीपवदावेशस्तथा हि दर्शयति ॥

ननु शरीरदशायां जाग्रद्वन्मुक्तानां बाह्यदेहेन भोगोऽभिमतः। तथा सति दुःखमपि भवेदिति प्राप्ते समादधत्सूत्रं पठति ॥

॥ प्रदीपवदावेशस्तथा हि दर्शयतीति ॥ अस्यार्थः ॥ प्रतदीपवत् यथा प्रदीपस्य दीपिकादिप्रवेशः तद्गततैलादिभोगः कार्ष्ण्याद्यभोगश्च। तद्वन्मुक्तानामावेशः जडशरीरप्रवेशः। तत्र साधुभोगानुभवः दुःखाद्यननुभवश्चास्ति। कुतः। हि यस्मात्। तीर्णोहीति (बृ. 6-3-22.) श्रुतिः। तथा दर्शयति तथा प्रतिपादयति। तस्मादित्यर्थः ॥

एवंचोक्तनिदर्शनवन्मुक्तस्य बाह्यशरीरानुप्रविष्टत्वेऽपि सुखस्यैव भोगसद्भावात्। अतो मुक्तानां निर्दुःखभोगानुभव इति सिद्धं ॥
</4-4-15>

<4-4-16>
(16) ॥ स्वाप्ययसंपत्योरन्यतरापेक्षमाविष्कृतं हि ॥

ननु तीर्णोही[बृ. 6-3-22.]त्येतद्वाक्यं स्वर्गादिविषयं किं न स्यात्। बाधकाभावात्। तथा च न मुक्तानामदुःखत्वे प्रमाणमेतत्। स्वर्गलोक इत्यादिना स्वर्गे दुःखाभावसिद्धेरिति प्राप्ते सूत्रितं ॥

॥ स्वाप्यसंपत्त्योरन्यतरापेक्षमाविष्कृतं हीति ॥ अस्यार्थः ॥ स्वर्गे लोक इति (कठ. 1-12.) वाक्य स्वाप्ययसंपत्त्यारेन्यतरापेक्षं अन्यतरविषयः। कुतः। हि यस्मात्। अस्य चात्र पिताऽपितेति (बृ. 6-3-22.) श्रुत्या सुप्तिमुक्तिविषयत्वं आविष्कृतं प्रकटीकृतं। तस्मादित्यर्थः ॥

एवंचोक्तं युक्तमिति मुक्तानां निर्दुःखभोगानुभवो युक्त एवेत्युपपन्नं मोक्षस्य पुरुषार्थत्वमिति सिद्धं ॥
</4-4-16>
॥ इति अभावाधिकरणं ॥

9.अधिकरणं ॥

अत्र ब्रह्मप्राप्तस्य मुक्तस्य भोगेयत्ता समर्थ्यते।

<4-4-17>
(17) ॥ जगद्व्यापारवर्जम् ॥

ननु मुक्ता अपि पारमेश्वरजगद्‌व्यापारमाप्नुवंति। सर्वान्कामानिति [ऐ.आ. 5-4.] श्रुतेः। न च सर्व सब्दसंकोचः। बाधकाभावात्। अन्यथा सत्यकामत्वव्याघातः। कामिताप्राप्तौ दुःखप्रसंगश्च। अतो मुक्तानां जगज्जन्मादिकर्तृत्वादयुक्तं लक्षणसूत्रमिति प्राप्ते सूत्रमाह ॥

॥ जगद्व्यापारवर्जमिति ॥ अस्यार्थः ॥ मुक्तः जगत्सृष्ट्यादिव्यापारवर्जं यथा भवति तथा सर्वान्कामानाप्नोतीत्यर्थः ॥

एवंच मुक्तानां सर्वकामावाप्तौ प्रमाणाभावात्। सर्वान्कामानिति श्रुतेर्योग्यकामावाप्तेरेवार्थाभिधायकत्वात्। अतो मुक्तानां जगद्‌व्यापाराभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</4-4-17>

<4-4-18>
(18) ॥ प्रकरणादसंनिहितत्वाच्च ॥

ननु सर्वान्कामानिति [ऐ.आ. 5-4.] श्रुतेरीश्वरपरत्वेन जीवपरत्वाभावात्। अनया श्रुत्या मुक्तस्य जगद्‌व्यापारसिद्धिरित्येवोत्तरस्य युक्तत्वादिति प्राप्ते सूत्रितम् ॥

॥ प्रकरणादसंनिहितत्वाच्चेति ॥ अस्यार्थः ॥ च शब्दः साध्यसमुच्चये। सर्वान्कामानिति श्रुतौ जीव उच्यते। कुतः। प्रकरणात् अस्य वाक्यस्य जीवप्रकरणत्वात्। तथा च न तत्रासंकोचेन जीवस्य सर्वकामभोग उपयुज्यते। किंतु संकोचेनैव। कुतः। असन्निहितत्वात् जीवानां जगद्व्यापारसामर्थ्यविदूरत्वादित्यर्थः ॥

एवंच सर्वान्कामान इति श्रुतेः संकोचेनैव जीवपरत्वमित्युत्तरस्य युक्तत्वात्। श्रुतेर्जीवपरत्वात्। शरीरभेदादुत्क्रम्येति जीवप्रकरणात्। श्रुतेः संकोचः कुत इति चेत्। जीवस्य तादृशसामर्थ्यविधुरत्वात्। स्वाधिकानंदप्राप्ताविति [वाराह.] स्मृतेश्च। अतो मुक्ताना जगद्‌व्यापाराभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</4-4-18>

<4-4-19>
(19) ॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमंडलस्थोक्तेः ॥
नन्वस्य्तेव मुक्तानां जगदैश्वर्यं। सर्वस्मै देवा इति [तै.उ. 1-5.] प्रत्यक्षोपदेशादित्यादिनाक्षिप्य समादधत्सूत्रं व्याचष्टे ॥

॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमंडलस्थोक्तेरिति ॥ अस्यार्थः ॥ मुक्तानां जगदैश्वर्यमस्तीत्यंगीकार्यं। कुतः। प्रत्यक्षोपदेशात् ता यो वेदेति (तै.उ. 1-5.) श्रुत्या स्फुटं मुक्तस्याखिलदेवतापूज्यत्वस्य प्रतिपादनादिति चेन्न। कुतः। आधिकारिकमंडलस्थोक्तेः अत्र वाक्ये मुक्तहिरण्यगर्भस्यैव मुक्तस्वस्वाधिकारनियुक्तदेवतासमूहपूज्यत्वाभिधानादित्यर्थः ॥

एवंचानया श्रुत्या सर्वमुक्तानां सर्वजगदैश्वर्यसिध्यंगीकारे तस्याश्चतुर्मुखविषयत्वेन बाधकात्। चतुर्मुखस्य तदंगीकारे तस्य मुक्ताधिकारिमंडलाधिपत्यस्यैवाभिधानेन सर्वाधिपत्यनभिधानात्। आत्मेत्येव परमिति [गारुड.] वचनाच्च। तथा चोक्तं युक्तमिति सिद्धं ॥
</4-4-19>

<4-4-20>
(20) ॥ विकारावर्ति च तथा हि दर्शयति ॥

ननु ब्रह्मादिदेवानां मुक्तनियामकत्वमेव कुतोंऽगीक्रियते। संसारिनियामकत्वमपि किं न स्यादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

॥ विकारावर्तिच तथा हि दर्शयतीति ॥ अस्यार्थः ॥ चो नभोऽनुकर्षणार्थः ॥ मुक्तनां विकारावर्ति। विकारं संसारं। आवर्तयतीति प्रवर्तयतीति। विकारवर्ति। संसारविषयकव्यापारो न। कुतः। इममिति (छां. 4-15-6.) श्रुतिस्तथा दर्शयति प्रतिपादयति। तस्मादित्यर्थः ॥

एवंच निर्दिष्टश्रुत्या स्वाधिकारेणेति [वाराह.] वचनेन च मुक्तानां संसारविषयकव्यापाराणां निषेधादतो मुक्तानां जगद्‌व्यापाराभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</4-4-20>
॥ इति जगद्‌व्यापाराधिकरणं ॥

10.अधिकरणं ॥

अत्र ब्रह्मप्राप्तानां मुक्तानां भोगादिना वृद्धिह्रासो निराक्रियते।

<4-4-21>
(21) ॥ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॥

ननु मुक्तानामप्यानंदादीनां वृद्धिह्रासौ विद्येते। एतत्सामेत्यादिना [तै.उ. 3-10.] तस्याप्युपासनादिश्रवणात्। किंच भोगानां स्त्रीभिर्वायानैर्व [छां. 8-12-3.]त्यादिना वृद्धिह्रासौ दृश्येते। कारणानुगुणत्वात्कार्यस्यानंदादीनामपि तावंगीकर्तव्यौ। मुक्तानामपि वृध्यादिसद्भावात्संसारसमानधर्मत्वेन मुक्तेरपुरुषार्थत्वमिति प्राप्ते सूत्रं पठति ॥

॥ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमान इति ॥ अस्यार्थः ॥ मुक्तस्य यथा प्रकारेणैवावस्थितिः न तु वृद्धिह्रासौ स्तः। कुतः। यतः स एष इत्यादि (जाबाल.) श्रुतिः स्थितिमेकप्रकारेणैवावस्थानमाह। न केवलमेतावात्किंतु प्रत्यक्षानुमाने च ज्ञानिप्रत्यक्षकारणाभावलिंते चैवं श्रुत्युक्तार्थः। दर्शयतः ज्ञापयतः। अत इत्यर्थः ॥

एवंच जाबालश्रुतेः महतां प्रत्यक्षान्मुक्तो न वृध्यादिमान् तत्कारणशून्यत्वादिति लिंगाच्च। तथा चैवमेकप्रकारेणावस्थानस्य ज्ञापितत्वात्. न ह्रास इति [ब्रह्मवैवर्त.] स्मृतेश्च। अतो मुक्तानां वृध्याद्यभावेन न संसारसमानधर्मत्वं मुक्तेरिति सिद्धं ॥
</4-4-21>

<4-4-22>
(22) ॥ भोगमात्रसाम्यलिंगाच्च ॥

ननु न मुक्तानंदादिवृद्धौ ह्रासे च कारणाभावः। कदाचिद्भोगवृद्धेः कदाचित्तदभावस्य प्रमितत्वात्। किं माभूध्रासो वृद्धिस्तु भविष्यति। तस्य सत्यकामत्वेन कामिताशेषप्राप्त्या वृद्धिसंभवात्। न च नासौ कामयतीति युक्तं। आनंदवृद्धेरिष्टत्वेन कामनानंगीकारायोगादिति प्राप्ते सूत्रं पठति ॥

॥ भोगमात्रसाम्यलिंगाच्चेति ॥ अस्यार्थः ॥ अन्यत्राविशेषं विना भोगमात्रस्य विशेषे सत्यपि मुक्तस्य साम्यशब्दितैकप्रकारोक्तिरूपलिंगात् न भोगविशेषः। तद्वृध्यादौ कारणमिति न मुक्तो वृध्यादिमानित्यर्थः ॥

एवंचैतमानंदमयमिति [तै.उ. 2-8.] श्रुतौ भोगानां वृद्धौ ह्रासे च मुक्तानंदसाम्याभिदानेन मुक्तिभोगानां वृद्धिह्रासयोस्तदानंदवद्धिह्रासो प्रत्यकारणत्वात्। योग्यस्य प्राप्तत्वात्। अयोग्यकामनायाश्च न चायोग्यं विमुक्तोपीत्यनेन निषिद्धत्वेन कामानंगीकारस्यायुक्तत्वात्। अवृद्धिह्रासरूपत्वमिति [कूर्म.] वचनात्। कादाचित्कविशेषस्य त्वभ्युपगंतव्यत्वात्। अतो मुक्तानां वृध्याद्यभावेन न संसारसमानधर्मत्वं मुक्तेरिति सिद्धं ॥
</4-4-22>
॥ इति स्थित्यधिकरणं ॥

॥1.अधिकरणं ॥

अत्र ब्रह्म प्राप्यभोगान् भुंजानस्य मुक्तस्यापुनरावृत्तिः समर्थ्यते।

<4-4-23>
(23) ॥ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥

ननु मुक्तः पुनरावृत्तिमान्। स्वस्थानं विहायान्यत्रगमनात्। स्वर्गादिगतवत्। न च स्वर्गं गतस्य युगमन्वंतरादिमात्रवासित्वाद्युक्ता पुनरावृत्तिर्न मुक्तस्य सतस्यानंतकालवासित्वादिति वाच्यं। समस्तस्यापि कालस्य कदाचित्समाप्तिसंभवात्। न च कालस्यानंतत्वात्समाप्त्ययोगः। अनंतस्यापि कालस्य भारतयुद्धे त्रयोदश्याः पंचदशीत्ववदेकैकस्यास्तिथेरनेकतिभ्यात्मकत्वेन समाप्तिसंभवात्। अतः पुनरावर्त्तिसद्भावादपुरुषार्थता मुक्तेरिति प्राप्ते सूत्रं पठति ॥

॥ अनावृत्तिः शब्दादनावृत्तिः शब्दादिति ॥ अस्यार्थः ॥ मुक्तस्यानावृत्तिः पुनरावृत्तिर्नास्ति। कुतः। शब्दात् न च पुनरावर्तत इति (छां. 8-15-1.) श्रतेरित्यर्थः ॥ द्विरुक्तिरुक्तार्थस्यैवमेवेत्यवधारणार्था ॥

एवंच मुक्तो न पुनरावृत्तिमान्। न च पुनरावर्तत न च पुनरावर्तत इति शब्दात्। सर्वान्कामानिति [ऐ.आ. 2-5-15.] श्रुतेश्च। किंच सत्यकामस्य मुक्तस्य न मुक्तेः परावृत्तिर्युक्ता। कामनाविरहात्। अनंतकालस्थायित्वाच्च न पुनरावृत्तिः। न चानंतस्यापि कालस्य समाप्त्यनंतरं पारवृत्तिरस्त्विति वाच्यं। अनंतकालसमाप्तिमभिधायानंतरमिति पुनः कालसद्भावोक्तेर्व्याहतत्वात्। अतो मुक्तानां पुनरावृत्तेरभावाद्युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धं ॥
</4-4-23>
॥ इति अनावृत्त्यधिकरणं ॥
॥ इति चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥
॥ इति चतुर्थाध्यायः समाप्तः ॥