सूत्रार्थरत्नावली/चतुर्थोऽध्यायः/द्वितीयः पादः

← प्रथमः पादः सूत्रार्थरत्नावली
द्वितीयः पादः
[[लेखकः :|]]
तृतीयः पादः →

॥ श्रीः ॥
॥ हरिः ॥
॥ अथ द्वितीयः पादः ॥

देवानां मोक्ष उत्क्रांतिश्चास्मिन्पादे उच्यते।

1.अधिकरणं ॥

अत्र वाचो मनसि लयः समर्थ्यते।

<4-2-1>
(1) ॥ वाङ्मनसि दर्शनाच्छब्दाच्च ॥

ननु न वाङ्मनसि लीयते। उभयोः समत्वात्। नियामकाभावात्। मनः पूर्वरूपमिति मनसः प्राधान्यमिव वाक् पूर्वरूपमिति वाचोऽपि प्राधान्यश्रवणात्। अतो वाचो मनसि लयाभावेन मोक्षाभावादनियम इत्युक्तव्याधात इति प्राप्ते सूत्रितं ॥

॥ वाङ्मनसि दर्शनाच्छब्दाच्चेति ॥ अस्यार्थः ॥ वाक् वागभिमानिन्युमाषदगृहीता वारुणी सौपर्णी च। मनसि मनोऽभिमानि रुद्रशब्दितशेषगरुडे च विलीयते। कुतः। वाचो मनोऽधीनत्वादिति शेषः। तत्कथं। दर्शनात् तस्य प्रत्यक्षसिद्धत्वात्। किंच शब्दाच्च तथा श्रुतेश्चेत्यर्थः ॥

एवंच तस्येति [छां 6-15-1.] शब्दात्। प्रत्यक्षत एव वाचो मनोवशत्वदर्शनेन तत्र तल्लयस्य संभावितत्वात्। अत्र पूर्वोत्तरवर्णदेवतात्वविषये गुणप्रधानभावे च मुनिमतविवाद एवोच्यते न स्वयं किंचिदभिदीयत इति वाङ्मनसयोः साम्याभावेनोभयोर्ग्राह्यत्वात्। विशेषानुक्तेः प्राधान्यविषये तु ऋषिपुत्रमतस्यैव ग्राह्यत्वात्। मनसेति युक्त्या मनःपूर्वकस्य विशेषश्रवणात्। प्रत्यक्षानुसारित्वाच्च। अत एव ज्ञानिनां मोक्षनियमो युक्त इति सिद्धं ॥
</4-2-1>

<4-2-2>
(2) ॥ अत एव च सर्वाण्यनु ॥

ननु वाचो लयनिर्णयेऽपि न सर्वदेवानां मोक्षः। लयानिश्चयादित्याशंकां समादधत्सूत्रमाह ॥

॥ अत एव च सर्वाण्यन्विति ॥ अस्यार्थः ॥ च शब्दोऽप्यर्थः ॥ च सर्वाणि सर्वाणि दैवतान्यपि। अनु यथाऽनुकूलं। स्वस्वयोग्येषु देवेषु लीयंते। कुतः। अत एव अग्निविति (गौपवन.) श्रुतेरेवेत्यर्थः ॥

एवंच निर्दिष्टश्रुत्या यथाऽनुकूलं सर्वदेवानां लयनिर्णयेन युक्त एव ज्ञानिनां मोक्षनियम इति सिद्धं ॥
</4-2-2>
॥ इति वाङ्मनोधिकरणं ॥

2.अधिकरणं ॥

अत्र मनसः प्राणे लयः समर्थ्यते।

<4-2-3>
(3) ॥ तन्मनः प्राम उत्तरात् ॥

ननु न प्राणे मनो लीयते। तत्समत्वात्। दृश्यते हि प्राण इव मनसोऽपि प्रवर्तकत्वं। न च तदनुपपन्नत्वान्न तत्र लयः। तस्य भगवदुत्पन्नत्वश्रवणात्। ततश्च भगवति लयस्य प्रतिवादिनाऽनंगीकारात्। अंगीकृतस्य प्राणे लयस्यानुपपन्नत्वात् इति प्राप्ते सूत्रं पठति ॥

॥ तन्मनः प्राण उत्तरादिति ॥ अस्यार्थ ॥ पूर्वोक्तमनोभिमानि शेषः सुपर्णश्च। प्राणे तच्छब्दितचतुर्मुखे। लीयते। कुतः। उत्तरात् मनः प्राण (छां. 6-15-1.)इत्युत्तरवाक्यादित्यर्थः ॥

एवंच मनः प्राण इति श्रवणात्। न च समत्वाचत्तत्र लयोऽनुपपन्नः। मन उत्क्रामदित्यादिना नीचोच्चभावश्रवणात्। न च तदनुत्पन्नत्वात्तत्र लयासंभवः। वायोरिति [कौंडिन्य.] रुद्रस्य तस्मादुत्पत्तिश्रवणेन मनः प्राणयोः साम्याभावात्। प्राणद्वारा भगवदुत्पन्नत्वार्थकत्वेन भगवत उत्पन्नत्वोक्तिविरोधाभावात्। ततश्च मनः प्राणे लीयत इति सिद्धं ॥
</4-2-3>
॥ इति मनः प्राणाधिकरणं ॥

3.अधिकरणं ॥

अत्र प्राणशब्दोक्तचतुर्मुखस्येश्वरे लयः समर्थ्यते।

<4-2-4>
(4) ॥ सोऽध्यक्षे तदुपगमादिभ्यः ॥

ननु न प्राणो परमात्मनि लीयते। तस्यातदधीनत्वात्। तस्यानन्याधीनत्वे बहुश्रुतिसद्भावेन चक्षुरादिवदित्यादौ तदधीनत्वमुक्तमिति समाधानायोगात्। बहुबाधविरुद्धत्वेन वैपरीत्यस्यैवोचितत्वात्। महांतमिति तस्य लयाभावोक्तेश्च। अतः प्राणस्य लयाभावान्न कस्यापि मोक्ष इति प्राप्ते सूत्रमाह ॥

॥ सोऽध्यक्षे तदुपगमादिभ्य इति ॥ अस्यार्थः ॥ सः चतुर्मुखः। अध्यक्षे अधिपतौ परमात्मनि लीयते। कुतः तदुपगमादिभ्यः परमात्मप्राप्त्यादिप्रतिपादक सर्व इति श्रुत्यादिभ्य इत्यर्थः ॥

एवंच हिरण्यगर्भस्य भगवदधीनत्वात्। निरवकाशबहुश्रुतिसद्भावेन तदनिर्णयाभावात्। अनधीनत्वश्रुतीनांत्वीश्वरान्याधीनत्वाभावपरत्वेन सावकाशत्वात्। प्राणस्य तेजसीतिस्मृतेस्तेजसो द्वारमात्रपरत्वेन तत्र लयपरत्वाभावात्। अतो विरिंचस्य लयसद्भावादुक्तः सर्वज्ञानिनां मोक्ष इति सिद्धं ॥
</4-2-4>
॥ इति अध्यक्षाधिकरणं ॥

4.अधिकरणं ॥

अत्र प्राग्विशिष्योक्तेभ्योऽन्येषां देवानां पृथिव्यादिसमस्तभूतेषु लयः समर्थ्यते ॥

<4-2-5>

नन्वग्नावेव सर्वेषां देवानां लयोऽस्तु। न तु सिद्धांत्यभिमतो विभागेन भूतेषु लयः। अग्नौ सर्व इति [गौपवन.] श्रुतेः। विपर्यये च प्रमाणाभावात्। अतोऽशेषदेवानामग्नौ लयादुक्तमयुक्तमिति प्राप्ते सूत्रमाह ॥

॥ भूतेषु तच्छ्रुतेरिति ॥ अस्यार्थः ॥ विशिष्योक्तेभ्योऽन्येभ्यो देवाः। भूतेषु पंचभूतेषु। लीयंते। कुतः। तछ्रुतेः। भूतेषु देवा इति (बृहत्.) श्रतेश्चेत्यर्थः ॥

एवंच विशिष्योक्तेभ्योऽन्येषां योग्यतानुसारेण तत्तद्भूतेषु लयस्य भूतेष्विति श्रुतावुक्तत्वात्। भूतेष्विति निरवकाशबहुवचनश्रवणाबलेनाग्नाविति श्रुतेः संकोचनीयत्वेन तदविरोधात्। ततश्च सर्वेषामग्नौ लयाभावेन पंचभूतेषु देवानां लय इति सिद्धं ॥
</4-2-5>
॥ इति भूताधिकरणं ॥

5. अधिकरणं ॥

अत्र देवानां सर्वभूतेषु लयः समर्थ्यते।

<4-2-6>
॥ नैकस्मिन् दर्शयतो हि ॥

नन्वग्नावेव सर्वेषां देवानां लयो भवेत्। अग्नाविति [गौपवन.] श्रुतेः। सर्वेषां देवानाम्नावग्नेर्वायाविति लयांगीकारेण भूतेषु लयस्यांगीकृतत्वात्। अतोऽधमानामुत्तमेषु लयाभिधानादित्युक्तव्यवस्थाऽनुपपत्तिरिति प्राप्ते सूत्रमाह ॥

॥ नैकस्मिन् दर्श,योत हीति ॥ अस्यार्थः ॥ नैकस्मिन् अग्नावेव सर्वे देवाः न लीयंते। किंतु यथायोगं सर्वभूतेषु। कुतः। हि यस्मात्। दर्शयतः पृथिव्यामृभव इति ऋभवः पृथिव्यामिति मोहपनिषच्चतुर्वेदशिखे च तथा प्रतिपादयतः। तस्मादित्यर्थः ॥

एवंच निर्दिष्टश्रुतिभ्यां पंचस्वपि लयाभिधानात्। का तर्ह्यग्नाविति श्रुतेर्गतिरिति चेत्। एतच्छ्रुतिबलेनाग्नाविति श्रुतौ सर्वशब्दं संकुच्याग्नौ सर्वदेवानां लययोग्यानामेव वक्तुमुचितत्वात्। अतोऽग्नावेव सर्वेषां लयाभावादुक्तव्यवस्था युक्तेति सिद्धं ॥
</4-2-6>
॥ इति एकस्मिन्नधिकरणं ॥

6.अधिकरणं ॥

अत्र प्रकृतेर्विष्णौ लयाभावः साध्यते।

<4-2-7>
(7) ॥ समना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥

ननु प्रकृतिः परमात्मनि लीयते। तेजः परस्यां देवतायामिति [छां. 6-15-5.] श्रुतेः। उत्ताना वै इति श्रुत्या देवगवानामुत्तानानां वहनासिद्धिवत्प्रकृतेर्लयश्रवणेऽपि तदधीनत्वेऽसंभावितत्वात्तदसिद्धिः ॥ ततश्च भगवति लयसद्भावादधिकारिणां प्राणावसानत्वोक्तिरयुक्तेति प्राप्ते सूत्रितं ॥

॥ समना चासृत्युपक्रमादमृत्वं चानुपोष्य ॥ अस्यार्थः ॥ आद्यश्चो नभः समाकर्षणार्थः। द्वावेति श्रुतिसमुच्चयो द्वितीयः। तथा च लक्ष्मीर्न लीयते। कुतः। यतस्तस्याः अनुपोष्य परमात्मानमनुपास्यैवामृतत्वं। नित्यमुक्तत्वं तत्कुतः। असृत्युपक्रमात् कदाऽपि संसारोपक्रमाभावात्। सोऽपि कुतः। यतःसमाना देशतः कालतःसमो ना परम पुरुषो यस्याःसा समना तस्मादित्यर्थः ॥

एवंच नित्यमुक्तत्वात्। संसारसंबंधाभावात्। विभुत्वात्परमात्मवत्। सीतारुक्मिण्यादिरूपेणापि नित्यत्वात्। द्वौ वा वेति [बृहत्.] श्रुतेः। ततश्च प्रकृतिर्न परमात्मनि लीयत इति सिद्धं ॥
</4-2-7>

<4-2-8>
(8) ॥ तदपीतेः संसारव्यपेदशात् ॥

नैतावता साम्यमित्युक्तसाध्ये हेतुतया सूत्रं पठति ॥

॥ तदपीतेः संसारव्यपदेशादिति ॥ अस्यार्थः ॥ तस्यां प्रकृतौ। अपीतेः लयस्य। संसारव्यपदेशात्। विलीन इति (सौपर्ण.) संसारहेतुत्वश्रुतेर्न मोचकेश्वर साम्यं प्रकृतेरित्यर्थः ॥

एवंच मूलरूपवत्सीताद्यवताराणामपि नित्यत्वेन गर्भवासादिरूपसंसारसंबंधस्यासंभवात्। न चैतावतासाम्यं। प्रकृतौ लीनस्य संसाराभिधानात्। परमात्मनि लीनस्य मुक्तत्वाभिधानात्। तथा च प्रकृतिर्भगवति न लीयत इति सिद्धं ॥
</4-2-8>

<4-2-9>
(9) ॥ सूक्ष्मं प्रमाणतश्च तथोपलब्धे ॥

हेत्वंतरेण प्रकृतिपुरुषयोः सर्वसामम्यं प्रतिषेधत्सूत्रं व्याचष्टे ॥

॥ सूक्ष्मं प्रमाणतश्च तथोपलब्धेरिति ॥ अस्यार्थः ॥ प्रकृतेरपि सूक्ष्मं ब्रह्म। प्रमाणतः ज्ञानानंदादिगुणपरिमाणतश्चाधिकं। कुतः। तथोपलब्धेः॥ सर्वेत इति (तुरश्रुतिः.) तथाश्रुतेः। अतोऽपि प्रकृतेर्न ब्रह्मसर्वसाम्योमत्यर्थः ॥

एवंच प्रकृतेरपि परमात्मनः सूक्ष्मत्वस्य ज्ञानानंदादिगुणपरिमाणाधिकस्य चाभिधानात्। तथा च प्रकृतेर्न ब्रह्मसर्वसाम्यमिति सिद्धं ॥
</4-2-9>

<4-2-10>
(10) ॥ नोपमर्देनातः ॥

ननु यदि प्रकृतेर्न पुरुषेण सर्वसाम्यं तर्हि नित्यमुक्तत्वादिसाम्यमपि न स्यात्। ब्रह्मादिवत्। ततश्च तयोः साम्यवचनानामसाम्यवचनानां च सद्भावेन न किंचिदपि सिध्यतीति प्राप्ते सूत्रमाह ॥

॥ नोपमर्देनात इति ॥ अस्यार्थः ॥ अतः साम्यतदभावयोः साधितत्वात्। नोपमर्देन स्वातंत्र्यादिगुणबाधेन। प्रकृतेः परमात्मना नित्यमुक्तत्वादिनैव साम्यमित्यर्थः ॥

एवंचैतस्य विशेषगुणा ज्ञानानंदादिपरमाणाधिक्यगुणादयस्तेषामनुपमर्देन नित्यमुक्तत्वादिना साम्यांगीकारे बाधकाभावात्। देशतः कालतश्चेति [भविष्यत्पर्वणि.] स्मृतेः। ततश्च प्रकृतेर्नित्यमुक्तत्वादिना भगवतः साम्यमिति सिद्धं ॥
</4-2-10>

<4-2-11>
(11) ॥ अस्यैव चोपपत्तेरूष्मा ॥

श्रुतिरूपयुक्त्यंतरेण किंचित्साम्यं प्रतिपादयत्सूत्रं पठति ॥

॥ अस्यैव चोपपत्तेरूष्मेति ॥ अस्यार्थः ॥ उष्मावत्त्वानुष्मावत्त्वप्रतिपादिका द्विधाहीदमिति (सौपर्ण.) श्रुतिरप्यस्यैव किंचित्साम्यरूपार्थस्यैवोपतत्तेर्घटनायोपपादिका भवतीत्यर्थः ॥

एवंचोष्मा शब्देन घ्राणनाद्यविषयत्वाद्यनुकूलसामर्थ्यस्योच्यमानत्वात्। चेतनजातस्योष्मावदनूष्मावदिति द्वैविद्यात्। तत्र चक्षुराद्यगोचरत्वानुकूलसामर्थ्यवत्त्वाद्भगवत ऊष्मनामवत्त्वोक्तत्वात्। अनूष्मवत्प्रकृतिः। तस्यां देशकालव्याप्तिनित्यमुक्तत्वादिसाम्यस्योपपत्तेः। तथा च प्रकृतेः किंचित्साम्यमिति सिद्धं ॥
</4-2-11>

<4-2-12>
(12) ॥ प्रतिषेधादिति चेन्न शारीरात् ॥

नन्वसमो वा एष पर इति [चतुर्वेदशिखायां.] साम्यप्रतिषेधात्। न प्रकृतेस्तस्य किंचित्साम्यमित्याक्षिप्य समादधत्सूत्रमाचष्टे ॥

॥ प्रतिषेधादिति चेन्न शारीरादिति ॥ अस्यार्थः ॥ प्रतिषेधात् ईश्वरस्यान्यसाम्यप्रतिषेधात्। प्रकृतेर्देशकालव्याप्तत्यादिनाऽपि परमात्मसाम्यं। नेति चेन्न। कुतः। यतः शारीरात् जीवेनैवेश्वरस्य साम्यं प्रतिषिध्यते न प्रकृतितः। अत इत्यर्थः ॥

एवंच शारीरादेव तत्र साम्यस्य प्रतिषिद्धत्वात्। शरीरमात्रमधिकृत्य तदभिमानितया स्थिताच्छरीरकृतोत्पत्तिनाशयुक्ताज्जीवादीश्वरस्य साम्यस्य प्रतिषिद्धत्वात्। न तु प्रकृतेरित्यवधारणार्थः। ततश्च प्रकृतेः किंचित्साम्यमिति सिद्धं ॥
</4-2-12>

<4-2-13>
(13) ॥ स्पष्टो ह्येकेषां ॥

नन्वसमो वेति [चतुर्वेदशिखायां.] श्रुतेः सामान्यरूपत्वादत्र परमात्मनः शारीरेण साम्यं प्रतिषिध्यते न प्रकृतेरिति प्राप्ते समादधत्सूत्रं व्याचष्टे ॥

॥ स्पष्टो हेयेकेषामिति ॥ अस्यार्थः ॥ हि यस्मात्। एकेषां शाखासु प्रकृतेः अथेति (माध्यंदिनायन श्रुतौ.) समाऽसमात्ववादः स्पष्टोऽस्ति तस्मादित्यर्थः ॥

एवंच केचिद्धर्मेण समाः सर्वधर्मैरसमाश्चेतना इति माध्यंदिनायनानां समादिवादस्य स्पष्टत्वात्। ततश्च शारीराद्धि साम्यं प्रतिषिध्यत इति सिद्धं ॥
</4-2-13>

<4-2-14>
(14) ॥ स्मर्यते ॥

न केवलं साम्यश्रुतेर्विशेषश्रुतिबलाच्च संकोचः। किंतु विशेषस्मृत्यापीत्याह सूत्रकृत् ॥

॥ स्मर्यत इति ॥ अस्यार्थः ॥ कृष्णादिभिरुक्तार्थे मत्स्य इति (वाराहे.) स्मर्यतेचेत्यर्थः ॥

एवंच विष्णोरभेदान्मत्स्याद्यावतराणां समत्वात्। ब्रह्मादिचेतनानामसमत्वात्। प्रकृतेस्तु समाऽसमात्वात्। तथा च प्रकृतेर्नित्यमुक्तत्वादिना लयाभावाद्युक्तं प्राणावसानत्वमधिकारिणामिति सिद्धं ॥
</4-2-14>
॥ इति समनाधिकरणं ॥

7.अधिकरणं ॥

अत्र चतुर्मुखेतरदेवानां परमात्मनि लयः समर्थ्यते।

<4-2-15>
(15) ॥ तानि परे तथा ह्याह ॥

ननु न देवाः परमात्मनि लीयंते। तत्प्रतिबिंबत्वशून्यत्वात्। किंतु प्राणे। तत्प्रतिबिंबत्वात्। श्रूयते हि देवानां प्राणप्रतिबिंबत्वं परमात्मप्रतिबिंबाभावश्च। प्रतिबिंब इत्यादिना हिरण्यगर्भेतरदेवानां तस्मिन्प्रविष्टानामामात्यभृत्यन्यायेन तस्य लयकाले बहिर्भावं कृत्वा तस्यैकस्यैव परमात्मनि लयात्। अतो न दैवानां मोक्ष इति प्राप्ते सूत्रितं ॥

॥ तानि परे तथा ह्याहेति ॥ अस्यार्थः ॥ तानि सर्वाणि दैवतानि चतुर्मुखद्वारा। परे परमात्मनि। लीयंते। कुतः। हि यस्मात्। तथाऽऽह सर्व इति (कौषारव।) श्रुतिः तथाऽऽह। तस्मादित्यर्थः ॥

एवंच प्राणस्य भगवतः प्रतिबिंबत्वात्। सर्वे देवा इति श्रुतेः। अतो देवानां प्राणद्वारा परमात्मनि लयसद्भावादुक्तं युक्तमिति सिद्धं ॥
</4-2-15>
॥ इति पराधिकरणं ॥

8.अधिकरणं ॥

अत्र देवादिमुक्तानामीश्वराधीनत्वं समर्थ्यते।

<4-2-16>
(16) ॥ अविभागो वचनात् ॥

ननु मुक्ताः स्वतंत्रा न पराधीनाः। मुक्तत्वात्। एते देवा इति [गौपवनश्रुतौ.] सायुज्यभाजां सत्यकामत्वश्रुतेश्च। अतो मुक्तानां स्वातंत्र्यात्परमेश्वरस्य सर्वोत्तमत्वोक्तिर्विरुद्धेति प्राप्ते सूत्रमाह ॥

॥ अविभागो वचनादिति ॥ अस्यार्थः ॥ भगवदिच्छा तद्भक्तेच्छानां। अविभागो विषयैक्यं। न तु विरोधः। कुतः। वचनात् एते देवा इति श्रतेरित्यर्थः ॥

एवंच परतंत्रा एव मुक्ताः। मुक्तत्वात्। स्वतंत्रस्य संसारायोगात्। नापि मुक्तौ स्वातंत्र्ये मुक्तिर्नाम घटते। न हि प्रेक्षापूर्वकारिणो निगडबद्धं स्वाधीनं संतं मुक्तौ स्वातंत्र्यसंभवे मोचयंति। अपि तु मुक्तावपि स्वाधीनमेव। येनेह मुक्तौ स्वतंत्रात् प्रेक्षापूर्वकारी परमेश्वरो मोचयतीति प्रतिद्येमहि। न च श्रुतिविरोधः। श्रुत्या परमेश्वरकामानुसारिकामत्वरूपपारिभाषिकसत्यकामत्वस्यैवाभिधानात्। कामेनेति [तै.आ. 3-15-4.] श्रुतेः। मुक्तानामिति [ब्राह्मे.] स्मतेश्च। अतो मुक्तानां स्वातंत्र्याभावेन परमेश्वरस्यैव सर्वोत्तमत्वमिति सिद्धं ॥
</4-2-16>
॥ इति विभागाधिकरणं ॥

9.अधिकरणं ॥

अत्र प्रतीकालंबनाप्रतीकालंबनतदितरमनुष्याणां मुक्त्यर्थं देहोत्क्रमणस्याज्ञानिमरणविलक्षणत्वं समर्थ्यते।

<4-2-17>
(17) ॥ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यत्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥

ननु ज्ञानिचरममरणं प्रारब्धनिबंधनत्वात्तत्पूर्वमरणवत्पृथक्‌जननमरणदर्शनसदृशं। ततश्च ज्ञानिनां देहादुत्क्रमणस्य पामरमरणवदेव वैलक्षण्याभावान्न ज्ञानमतिशयवदिति प्राप्ते सूत्रं पठति ॥

॥ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यातच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकयेति ॥ अस्यार्थः ॥ तस्मिन्नुत्क्रांतिकाले। तदोकोऽग्रज्वलनं। तस्य परमात्मनः। ओकसः आश्रयभूतस्य हृदयस्याग्रे ज्वलनं भवति। अथ तत्प्रकासितद्वारः तेन प्रकाशेन विद्योतितमार्गः सन्। देहाज्जीव उत्क्रामति। ननु कथमेतद्यज्यते। विद्यासामर्थ्यात्। ज्ञानसामर्थ्यात्। तच्छेषत्यनुस्मृतियोगाच्च विद्यांगप्राप्यस्मरणसाहित्याच्च। किंच हार्दानुगृहीतः हृदयस्थभगवदनुग्रहगृहीतः। सन् याति। कया शताधिकया सुषुम्ना नाड्येत्यर्थः ॥

एवंच ज्ञानसामर्थ्यात्। तस्य हृदयस्याग्रं प्रद्योतते। परमात्मा तत्प्रकाशीतद्वारं जीवमादाय सुषुम्नया नाड्या निष्क्रामति। प्राण एनमनुव्रजति तस्य हैतस्येति [बृ. 6-4-2.] श्रुतेः। न च ज्ञानसामर्थ्यात्पूर्वं मरणस्याप्येवं विधत्वप्रसंगः। गत्यनुस्मरणरूपसहकारिविरहात्। अतो ज्ञान्युत्क्रमणस्याज्ञमरणवैलक्षण्येन ज्ञानमाहात्म्यं युक्तमिति सिद्धं ॥
</4-2-17>

<4-2-18>
(18) ॥ रश्म्यनुसारीति ॥

ननु यदि प्रकाशितनाडीद्वारो निष्क्रामति तर्ह्यज्ञवन्नाड्यंतस्तमसैव गमनं स्यात्। यद्यंतरप्यस्ति प्रकाशस्तर्हि द्वारपदवैयर्थ्यमित्याशंकां परिहरत्सूत्रं पठित्वा तच्छेषमात्रं पूरयति ॥

॥ रश्म्यानुसारीति ॥ अस्यार्थः ॥ रश्म्यानुसारी अंतस्थितादित्यप्रकाशानुसारी सत् जीवो निष्क्रामतीत्यर्थः ॥

एवंच ज्ञानिनो नाड्यंतस्तु सौररश्मिप्रकाशेनेश्वरमनुसृत्य देहाद्गमनात् द्वारपदावैयर्थ्यात्। सहस्रं वेति [पौत्रायण.] श्रुतेः। अत उक्तं युक्तमिति सिद्धं ॥
</4-2-18>

<4-2-19>
(19) ॥ निशि नेति चेन्न संबंधात् ॥

ननु रात्रौ सौररश्मीनामभावेन देहारंभककर्मक्षये मरणाभावात्। तदा पर्यवसितकर्मणां केषांचित्ज्ञानिनामपेक्षितोत्क्रमणस्य केषांचित्ज्ञानिनामेवं केषांचिदनेवमिति वैलक्षण्यस्य चायुक्तत्वादित्याक्षिप्य समादधत्सूत्रं पठति ॥

॥ निशि नेति चेन्न संबंधादिति ॥ अस्यार्थः ॥ ननु निशि आदित्यरश्मीनामभावात्। ज्ञानिनः उत्क्रमणं। नेति चेन्न। नस्यादिति चेन्न। कुतः। संबंधात् सूर्यरश्मीनां सर्वदा संबंदादित्यर्थः ॥

एवंच रात्रौ बाह्यादित्याभावेऽपि अंतरादित्यस्य सत्त्वात्। तद्रश्मिसंबंधस्य सर्वदा नाडीषु सद्भावेन रात्रावेव मरणोपपत्तेः। तथा च ज्ञानिनां रात्रौ मरणं भवतीति सिद्धं ॥
</4-2-19>

<4-2-20>
(20) ॥ यावद्देहभावित्वाद्दर्शयति च ॥

ननु नाडीरश्मिसंबंधः सर्वदाऽस्तीति नाम किं। सदातन उत देहपातपूर्वकालीनः। आहोस्विद्यावद्देहभावी। पक्षत्रयस्याप्यसंभवः। सदा नाडीनामभावात्। कदाचित्ज्ञानिनोऽपि तमसोत्क्रांतिप्रसंगात्। तन्नियमे प्रमाणाभावात्। इति प्राप्ते समागदधत्सूत्रमाह ॥

॥ यावद्देहभावित्वाद्दर्शयति चेति ॥ अस्यार्थः ॥ यावद्देहभावित्वात् रश्मिसंबंधस्य यावच्छरीरभावित्वात्। रात्रावपि ज्ञानिनः उत्क्रमणं युक्तं। कुतः। च यतः। दर्शयति संसृष्ट इति (माध्यंदिनायन.) श्रुतिः तथा प्रतिपादयति अत ईत्यर्थः ॥

एवंच निर्दिष्टुश्रुत्या ज्ञानिनो रात्रौ मरणमस्तीति सिद्धं ॥
</4-2-20>

<4-2-21>
(21) ॥ अतश्चायनेऽपि हि दक्षिणे ॥

ननु व्यर्थोऽयं ज्ञानिनो रात्रावुत्क्रमणसंभवप्रतिपादनायासः। दक्षिणे मरणादिति वचनात्। मोक्षार्थं तेषां दक्षिणायनोत्क्रांत्ययोगात्। तद्वद्रात्रावप्युत्क्रांत्यभावोपपत्तेरिति प्राप्ते सूत्रमाह ॥

॥ अतश्चायनेऽपि हि दक्षिण इति ॥ अस्यार्थः ॥ च शब्दः प्रतिज्ञाद्वयसमुच्चये। अपि दक्षिणे मरणादिति स्मृतिसत्वेऽपि। दक्षिणे अयने। दक्षिणायनकाले। ज्ञानिनः उत्क्रांतिर्युक्ता। कुतः। अतः सौररश्मिसहस्रनाडीसंबंधस्य तदाऽपि सत्त्वात्। हि यतः। एवं अतः दक्षिणायन दृष्टांतेन रात्रावुत्क्रांत्यभावो न वाच्य इत्यर्थः ॥

एवंच दक्षिणे मरणादिति स्मृतेर्दक्षिणायनसंज्ञिकनाडीमरणस्य। स्वर्गहेतुत्वं। उत्तरायणसंज्ञिकनाडीमरणस्य जनोलोकादिहेतुत्वमित्यर्थत्वात्। शतं पंचैवेति [नारायणाध्यात्म.] वचनात्। ये साद्यो विष्णुलोकं गच्छंति ते सुषुम्नया निष्क्रामंति। त उत्तरायणरश्मिभिर्निर्गच्छंतीति विवेकसद्भावात्। अतो ज्ञानिनामुत्क्रमणस्याज्ञमरणवैलक्षण्यात्ज्ञानमाहात्म्यं युक्तमिति सिद्धं ॥
</4-2-21>
॥ इति तदोकोऽधिकरणं ॥

10.अधिकरणं ॥

अत्र गत्यनुस्मरणादेरावश्यकत्वं समर्थ्यते।

<4-2-22>
(22) ॥ योगिनः प्रति स्मर्येति स्मार्ते चैते ॥

ननु न गत्यर्थं विद्यागत्यनुस्मृती अपेक्षिते। अग्निर्ज्योतिरिति [भ.गी. 8-24,25.] स्मृतौ केवलकालमरणाद्यधीनत्वस्योक्तत्वात्। लोके फलानुस्मरणाभावेऽपि फलदर्शनेन तथैवात्रापि कल्प्यत्वाच्च। ततश्च न ज्ञानं संपुर्णमोक्षसाधनमिति प्राप्ते सूत्रं पठति ॥

॥ योगिनः प्रति स्मर्येति स्मार्ते चैत इति ॥ अस्यार्थः ॥ चो यतः। एते ब्रह्मचंद्रगती। योगिनः प्रति ज्ञानकर्मयोगिनः प्रति स्मर्येते स्मृत्या उच्येते। स्मार्ते च स्वानुस्मृतिसाध्ये च। गतीत्यादिना (अध्यात्म्ये.) स्मर्येते। अतस्तयोर्न केवलं कालादिकृतत्वमित्यर्थः ॥

एवंच स्मृत्युक्ते एते गती ज्ञानकर्मयोगाभ्यामेव स्मर्येते। न कालस्मरणात्। अग्निर्ज्योंतिरिति [भ.गी 8-24.] श्लोके ब्रह्मविद इति विशेषणात्। धूमो रात्रिरिति [भ.गी. 8-25.] श्लोके योगीति विशेषणात्। न च लोकानुसारिता। सर्वथा लोकानुसारित्वस्य छिदादावप्यभावेनादोषत्वात्। कथंचित्साम्यस्येहापि भावात्। अतो विशिष्टोत्क्रमणस्य विद्यादिसापेक्षत्वाद्युक्तं ज्ञानस्य संपूर्णमोक्षसाधनत्वमिति सिद्धं ॥
</4-2-22>
॥ इति योग्यधिकरण ॥
॥ इति चतुर्थाध्यायस्य द्वितीयः पादः ॥