सूत्रार्थरत्नावली/तृतीयोऽध्यायः/तृतीयः पादः

← द्वितीयः पादः सूत्रार्थरत्नावली
तृतीयः पादः
[[लेखकः :|]]
चतुर्थः पादः →

॥ श्रीः ॥
॥ हरिः ॥
॥ अथ तृतीयः पादः ॥

उपासनाऽस्मिन्पाद उच्यते।

1.अधिकरणं ॥

अत्र सर्वपरिज्ञानं समर्थ्यते।

<3-3-1>
(1) ॥ सर्ववेदांतप्रत्ययं चोदनाद्यविशेषात् ॥

ननु स्वस्वशाखोक्तमेवांतेन ज्ञेयं न सर्वशाखोक्तं। शाखाप्रतिपाद्यानां नानात्वात्। न च नानात्वेऽपि सर्वेषामेकोपास्यता। अनेकप्रागुक्तन्यायेन मोक्षासिद्धिप्रसंगात्। ततश्च सर्वशाखानिर्णायकं ब्रह्ममीमांसाशास्त्रमनुपादेयमिति प्राप्ते पराकुर्वत्सूत्रमाह ॥

॥ सर्ववेदांतप्रत्ययं चोदनाद्यविशेषादिति ॥ अस्यार्थः ॥ पूर्वसूत्रे पूर्वपदोदितं ब्रह्म सर्ववेदांतप्रत्ययं। बहुव्रीहिः। यथाशक्ति सर्ववेदविषयकश्रवणाद्युत्पन्ननिर्णयजन्यज्ञानविषयं। कुतः। चोदनाद्यविशेषात् आत्मेत्यादि (बृ. 3-4-7.) विधीनामादिपदोदितानामत्र ह्येत (बृ. 3-4-7) इत्यादिवाक्योक्तयुक्तीनां चाविशेषात्। सर्वाधिकारिकसाधरणत्वादित्यर्थः ॥

एवंच सर्ववेदश्रवणमननाद्युत्पाद्यज्ञानमेव ब्रह्म सर्वैरुपास्यं। श्रोतव्यो मंतव्य (बृ. 4-4-5.) इत्यादिविधीनां सर्वसाधारणत्वात्। न हि काण्वादिशाखासु तैरेवेदं ज्ञेयं नान्यैरित्युच्यते येन साधारण्यं न स्यात्। अतो भगवत्ध्यानार्थं सर्ववेदोक्तं ज्ञेयमिति सर्वोपादेयं सास्त्रमिति सिद्धं ॥
</3-3-1>

<3-3-2>
(2) ॥ भेदान्नेति चेदकस्यामपि ॥

नन्वेकस्यां शाखायामनंतं ब्रह्मेत्युच्यते। अपरस्यां विज्ञानमिति सत्त्वान्वयपरित्यागेनोच्यते। सत्यत्वभावाभावाभ्यां प्रतिपाद्यं भिद्यते। किं च वस्त्वैक्येंऽशे पौनरुक्त्यं स्यात्। शाखांतरोक्तस्यैव ज्ञानरूपत्वादेः शाखांतरेऽभिधानात्। ततश्च सर्वशाखानिर्णायकं ब्रह्ममीमांसाशास्त्रमनुपादेयमिति प्राप्ते सूत्रितं ॥

॥ भेदान्नेति चेदकस्यामपीति ॥ अस्यार्थः ॥ चेदिति नेति भेदादिति अपीति चावर्तते। तर्हीति शाखायामिति च लभ्यते। तथा च चेद्यदि सर्वशाखोक्तार्थानां भेदात् पृथक्त्वात्। एकैकेन सर्वशाखोक्तं ज्ञेयं न। किंतु स्वस्वशाखोक्तमेवेत्युच्यते। तर्हि अपि स्वस्वशाखोक्तमपि। न ज्ञेयं स्यात्। कुतः। एकस्यामपि भेदात् अर्थभेददर्शनात्। अथ यदि तत्र धर्मभेदादेकस्मिन् धर्मिणि भिन्नधर्मविधानात्। प्रसंगभेदाच्चेति परिहार उच्यते तस्य सर्वशाखोक्तपरिज्ञानेऽपि सम इत्यर्थः ॥

एवंच वादिनाऽप्येकत्वेनाभ्युपगते एकशाखाप्रतिपाद्येप्युपदेशादिभेददर्शनेन व्यभिचारात्। यदपि वस्त्वैक्येंऽशेपौनरुक्त्यमिति। तन्न। एकस्यामपि शाखायामुक्तानामेव गुणानां पुनरभिधानेन समानं। यदि तत्र धर्म्यनुवादेन धर्मविधानान्नोपदेशबेदः। नापि पौनरुक्त्यं। प्रसंगभेदानुवादकत्वाद्वोच्यते। तच्छाखांतरेऽपि समानं। ततश्च सर्वशाखाप्रतिपाद्यमेकमेव वस्त्विति सिद्धं ॥
</3-3-2>

<3-3-3>
(3) ॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॥

ननु लोके शाखाभेदस्य प्रसिद्धत्वाद्विधेरपि विशेषनिष्ठताऽऽवश्यकीत्यत्रसूत्रोक्तहेतोरसिद्धेः। किंचानुष्ठानापेक्षया ज्ञानमात्रस्य सुलभत्वात् यदा सर्ववेदोक्तशक्यकर्मानुष्ठाने सर्वेषामधिकारसद्भावस्तदा तदुक्तब्रह्मज्ञाने सुतरामित्याशंकायां प्रथमसूत्रस्यैव हेत्वंतराभिधायकसूत्रमाह ॥

॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्चेति ॥ अस्यार्थः ॥ स्वाध्यायस्य स्वाध्यायोऽध्येतव्य इति (तै.आ. 2-15.) विधेः। तथात्वेन सर्वसाधारण्येनाध्ययनविधायकत्वेन। समाचारे सर्ववैदिककर्मकरणे। अधिकारात् सर्वेषामधिकारसद्भावाच्च। हीति सूचितायाः वेदः कृत्स्नोऽधिगंतव्य इति स्मृतेश्च एकैकेनापि सर्वशाखाध्ययनेन ब्रह्म ज्ञातव्यमित्यर्थः ॥

एवंच स्वाध्यायोऽध्येतव्य इत्यध्ययनविधेः सामान्यात्। अध्ययनस्य च ज्ञानार्थत्वात्। ततश्च सर्वेषां सर्ववेदोक्तज्ञानेऽधिकार इति सिद्धं ॥
</3-3-3>

<3-3-4>
(4) ॥ सलिलवच्च तन्नियमः ॥

ननु यदि सर्वशाखोक्तप्रकारेण जानतो ध्यानाधिकारस्तर्ह्यधमाधिकारिणां ध्यानाभावः प्राप्त इत्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

॥ सलिलवच्च तन्नियम इति ॥ अस्यार्थः ॥ चोऽवधारणे। तन्नियम इत्यत्र पंचमी तत्पुरुषकर्मधारयौ। सलिलवत् सलिलमिव। तन्नियमः यथा सर्वेषां सलिलानां प्रतिबंधाभावमपेक्ष्यैव समुद्रैकाश्रयत्वनियमः। तथाऽत्रापि तस्याः पुरुषशक्तिमपेक्ष्यैव तन्नियमः। सर्ववेदोक्तप्रकारेण ध्यानेन ब्रह्म ज्ञातव्यमिति नियम इत्यर्थः ॥

एवंच सर्वेषां सर्ववेदोक्तकर्माधिकारस्तावद्दृश्यते। ततो ज्ञानाधिकारोऽपि मंतव्यः। विशेषाभावात्। यानि चेमानि विरुद्धकर्माणि सामगो बटुर्मुडोऽन्यः शिखीत्यादीनि तानि चैकशाखागतविरुद्धधर्मवद्विकत्पेन भवंति। न च मंदानां ज्ञानाभावः। यथा नदीनामि(आग्नेये.)त्यादिवाक्यानां बाधकाभावे समुद्रायतनत्वनियमतात्पर्यवच्छ्रवणादिविधीनामपि यथाशक्ति सर्वश्रवणविधौ तात्पर्यांगीकारात्। ततश्चोक्तं युक्तमिति सिद्धं ॥
</3-3-4>

<3-3-5>
(5) ॥ दर्शयति च ॥

चोदनाद्यविशेषादित्युक्तिसमर्थितार्थं श्रुतिस्मृतिभ्यांच साधयत्सूत्रं पठति ॥

॥ दर्शयति चेति ॥ अस्यार्थः ॥ श्रुतिः स्मृतिश्च सर्वशाखोक्तमार्गेण ब्रह्म ज्ञातव्यमित्यर्थं। दर्शयति ज्ञापयतीत्यर्थः ॥

एवंच सर्वैश्च वेदैरिति (चतुर्वेदशिखायां) सर्वान्वेदानिति (ब्रह्मतर्के.) च श्रुतिस्मृत्योर्भगवतः सर्वैरेव वेदैर्न त्वल्पवेदैर्जिज्ञास्यत्वेन विष्णुमपरोक्षतो ज्ञातुं मुमुक्षोः सर्ववेदानां श्रवणमननादिना ज्ञातव्यत्वस्योक्तत्वात्। अतो भगवत्ज्ञानार्थं सर्ववेदोक्तं ज्ञेयमिति सर्वोपादेयं शास्त्रमिति सिद्धं ॥
</3-3-5>
॥ इति सर्ववेदाधिकरणं ॥

2.अधिकरणं ॥

अत्र ज्ञानार्थं सार्वत्रिकगुणोपसंहारः समर्थ्यते।

<3-3-6>
(6) ॥ उपसंहारोऽर्थाभेदाद्विधिशेषत्वसमाने च ॥

नन्वीश्वरः सर्ववेदोक्तगुणोपसंहारेण ज्ञेय एव। न तु ध्यातव्यः। अशक्यत्वात्। अनंतवेदोदितानंतगुणानां स्वभुजवद्युगपद्वुद्धावारोहरूपोपसंहारस्याशक्यत्वेन तत्पूर्वकोपासनस्याप्यशक्यत्वात्। ततश्च तदर्थमापाद्यं सर्वज्ञानं व्यर्थमिति प्राप्ते सूत्रितं ॥

॥ उपसंहारोऽर्थभेदाद्विधिशेषत्वसमाने चेति ॥ अस्यार्थः ॥ विधिशेषवत् विधिविहितस्येव। यथा विधिविहितत्वात्संध्यावंदनादिकमवश्यं कर्तव्यं तथा। अर्थाभेदात्। भेदो विभागः। सर्ववेदार्थभूतानामानंदादिगुणानामण्हतपाप्मत्वादिदोषाभावानां चाभेदात् अविभागात्। तानविभज्येति यावत्। उपसंहारः सर्वगुणानामप्येकबुध्यारोहणरूपोपसंहारः। उपास्य एक इति श्रुतौ (भाल्लवेय.) विहितत्वात्कर्तव्यः। सोऽपि समाने च समानविषय एव। ये ब्रह्मणि योग्याः पूर्णत्वाविरोधिनो गुणाः। तद्विषय एव। न त्वयोग्यरोदनादौ। तथा सत्यनर्थप्राप्तेरित्यर्थः ॥

एवंच सर्ववेदार्थानामानंदादिगुणानामपहतपाप्मत्वादिदोषाभावानां च केषांचिदुपसंहारः केषांचिन्नेति विभागमकृत्वोपसंहारेण परमात्मा ध्यातव्यः। सर्वे गुणा एव ह्युपास्या इति विहितत्वात्। अन्यथा विहितसंध्यावंदनाद्यकरणे प्रत्यवायः स्यात्। अपि च तात्पर्यविषयीभूता धर्मा एवोपास्या नत्वतात्पर्यविषयीभूताः। सोऽरोदीदित्यादिना प्रतीता रोदनादयो दुःखकार्याणां तेषां परमेश्वरेऽयोगात्। अयोग्योपासनस्यानर्थहेतुत्वात्। अतः सर्वगुणोपसंहारस्य कर्तव्यत्वात्सार्थकमेव सर्वपरिज्ञानमिति सिद्धं ॥
</3-3-6>

<3-3-7>
(7) ॥ अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ॥

नन्वात्मेत्येवोपासीतेति [बृ. 3-4-7.] गुणांतरोपसंहारनिषेधेनात्मत्वमात्रोपासनस्य विहितत्वात्। सर्वगुणोपसंहारे विहितक्रियालोपप्रसंग इति प्राप्ते सूत्रमाह ॥

॥ अन्यथात्वं च शब्दादिति चेन्नाविशेषादिति ॥ अस्यार्थः ॥ अन्यथात्वं सर्वगुणोपसंहारः कार्य इत्युक्तस्यान्यथाभावः। तस्याकर्तव्यत्वमेवावश्यमंगीकार्यं। कुतः। शब्दात् आत्मेत्येवोपासीतेत्यनुपसंहार श्रुतेरिति चेन्न। अविशेषात् एते गुणा नोपसंहार्या इति विशेषप्रमाणाभावात्। सर्वैर्गुणैरित्यविशेषेणोपसंहारे तु विशेषप्रमाणसद्भावाच्चेत्यर्थः। आत्मेत्येवेत्येवकारस्त्वयोग व्यवच्छेदग इति भावः ॥

एवंचैते गुणा नोपसंहर्तव्या इति प्रमाणाभावात्। सर्वैर्गुणैरेक एवेशितोपासितव्यो न तु दोषैः कथंचिदिति विशेषवचनाच्च। निरवकाशैतच्छ्रुतिविरोधादेवात्मेत्येवोपासीतेत्यवधारणस्यानात्मत्वरूपदोषव्यवच्छेदकत्वमेव न तु गुणांतरव्यवच्छेदकत्वमिति तदपि नानुपसंहारे प्रमाणं अतः सर्वगुणोपसंहारः कर्तव्य इति सिद्धं ॥
</3-3-7>

<3-3-8>
(8) ॥ न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥

ननु नायं सर्वगुणोपसंहारो युक्तोऽशक्यत्वादित्याशंकामभ्युपगमवादेन परिहरन् न वेति सूत्रमुपसंहारः कार्यइत्त्येतयोरनुवृत्यध्याहाराभ्यां व्याचष्टे ॥

॥ न वा प्रकरणभेदात्परोवरीयस्त्वादिवदिति ॥ अस्यार्थः ॥ परोवरीयस्त्वादिवत् यथा स एष (छां. 1-9-2.) इत्युक्तानां निरवधिकसर्वोत्तमत्वरूपपरोवरीयस्त्वादिगुणानामेवोपासनार्थमुपसंहारो न सर्वगुणानां। तद्वत्सर्वगुणोपसंहारो न कर्तव्यो वा। कुतः। प्रकरणभेदात् परोवरीयो वैश्वानरादिप्रकारणभेदात्। अन्यथा तन्न स्यादित्यर्थः ॥

एवंचास्त्वनुपसंहार एव सर्वगुणानां। प्रकरणभेदात्। अन्यथा प्रकरणानि न भिद्येरन्। सर्वाण्यपि प्रकरणान्युपलक्षणतया सर्वगुणपराणीति सर्वोपसंहृतिः कार्यैवेति न मंतव्यं। परोवरीयस्त्वादिप्रकरणस्य श्रूयमाणगुणमात्रपरत्वात्। अन्यतैकेनैव शब्देन सर्वगुणोपलक्षणसंभवेनोद्गीथादिशब्दवैयर्थ्यं स्यात्। अत उक्तं युक्तमिति सिद्धं ॥
</3-3-8>

<3-3-9>
(9) ॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥

ननु कर्तव्य एव सर्वगुणोपसंहारः। सर्ववेदानां भगवन्नामत्वेन गुणाभिधायित्वात्। गुणाभिधानस्यैव ध्यानार्थत्वादिति प्राप्ते परिहरत्सूत्रमाह ॥

॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपीति ॥ अस्यार्थः ॥ संज्ञातः सर्वविद्यानां भगवन्नामत्वेन तद्गुणोक्तिरूपत्वात्। सर्वविद्योक्तगुणोपसंहारः कार्य इति चेत्। तदुक्तं तत्र चोद्ये तदिष्टमेवेति समाधानं तेनोपसंहारसूत्रेणोक्तमित्यर्थः ॥ न केवलं युक्तिसिद्धमेतत्। किंतु तदपि तस्मिन्नर्थे नाम वा एता इति (कौंडिन्यश्रुतिः.) प्रमाणमप्यस्ति। तु अस्त्येवेत्यर्थः ॥

एवं चास्तु। अस्माभिरपि सर्वगुणोपसंहारस्योक्तत्वेनेष्टत्वात्। नाम वेति कौंडिन्यश्रुतौ विहितत्वेन प्रामाणिकवाच्च। अतः सर्वगुणोपसंहारस्य कर्तव्यत्वात्सार्थकमेव सर्वपरिज्ञानमिति सिद्धं ॥
</3-3-9>
॥ इति उपसंहाराधिकरणं ॥

3.अधिकरणं ॥

अत्र प्रागुक्तोपसंहारानुपसंहारयोः पुरुषभेदेन कर्तव्यत्वं समर्थ्यते।

<3-3-10>
(10) ॥ प्राप्तेश्च संमजसं ॥

ननु न युक्तौ प्रागुक्तोपसंहारानुपसंहारौ। विरोधात्। विरुद्धयोर्युगपदनुष्ठानमेकेन न संभवति। न चाधिकारिभेदादुभयोपपत्तिः। नियामकाभावादिति प्राप्ते सूत्रमाह ॥

॥ प्राप्तेश्च समंजसमिति ॥ अस्यार्थः ॥ उपसंहारानुपसंहारयोः कर्तव्यत्वं। समंजसं युक्तं। कुतः। प्राप्तेः तत्तद्योग्यपुरुषभेदेन तयोर्व्यवस्थितत्वादविरोधप्राप्तेश्चेत्यर्थः ॥

एवंचोपपन्नावेवोपसंहारानुपसंहारौ। यस्य युगपत्स्वभुजाविव यावंतो गुणा स्पष्टं प्रतिभासंते। रुद्रादीनां तु तत्तद्योग्यतानुसारेणेति विवेकः। अतस्तयोः सामंजस्याद्युक्तं पूर्वोक्तमिति सिद्धं ॥
</3-3-10>
॥ इति प्राप्त्यीधकरणं ॥

4.अधिकरणं ॥

अत्र बहुगुणोपसंहारस्य फलातिशयोक्त्या कर्तव्यता समर्थ्यते ॥

<3-3-11>
(11) ॥ सर्वाभेदादन्यत्रेमे ॥

ननु न बहुगुणोपसंहारः कर्तव्यः। उपासनातारतम्यानुसारिफलतारतम्ये प्रमाणाभावादिति प्राप्ते सूत्रं पठति ॥

॥ सर्वाभेदादन्यत्रेणे इति ॥ अस्यार्थः ॥ इमे सर्वगुणोपसंहारकर्तृब्रह्मादयः। अन्यत्र तदनुपसंहर्तृभ्योऽन्यत्र। तत्फलविलक्षणमहाफले भवंति तद्भाजो भवंति। कुतः। सर्वाभेदात्। सर्ववेदोक्तगुणानां अविभागेनोपसहंर्तृत्वेनोपासनादित्यर्थः ॥

एवंच कर्तव्य एव बहुगुणोपसंहारः। साधनतारतम्ये फलतारतम्यनियमात्। वेदोक्तमहोपासनवतामतिशयफलाभावायोगात्। अतो बहुगुणोपसंहारः कर्तव्य इति सिद्धं ॥
</3-3-11>
॥ इति सर्वाभेदाधिकरणं ॥

5.अधिकरणं ॥

अत्र सर्वमुमुक्षुसाधारणोपास्यगुणा निर्णीयंते।

<3-3-12>
(12) ॥ आनंदादयः प्रधानस्य ॥

ननु न संत्येव साधारणतयोपास्या गुणाः क्लृप्ताः। नियामकाभावात्। ततश्च क्लृप्त्यभावेन प्राथमिकोपासनासंभवात्। उपासनामात्रासंभव इति प्राप्ते सूत्रितं ॥

॥ आनंदादयः प्रधानस्येति ॥ अस्यार्थः ॥ आनंदादयः आनंदो ज्ञानं सच्छब्दोदितं निर्दोषत्वं आत्मपदोदितस्वामित्वमित्येते चत्वारो गुणाः। प्रधानस्य मोक्षस्यार्थे सर्वमुमुक्षुभिः उपास्या इत्यर्थः ॥

एवंच क्लृप्ता एव सर्वमुमुक्षूपास्या गुणाः। सर्वेषां मुक्तावानंदज्ञानदुःखाभावानामपेक्षितत्वात्। तत्सिद्धये तत्त्वविदा तावदुपास्याः। यत्त्वात्मत्वापर्यायं स्वामित्वं स्वयं बंधानुस्मरणस्य भगवत्प्रीतिसाधनत्वात्तदप्युपास्यं। एवंच प्राथमिकोपास्यनिर्णयात्सर्वाप्युपासना युक्तैवेति सिद्धं ॥
</3-3-12>
॥ इति आनंदाधिकरणं ॥

6.अधिकरणं ॥

अत्र ब्रह्मोपासने प्रियशिरस्त्वादिगुणानां सर्वाधिकारिसाधारण्यनिरासेन सर्वेषां चतुर्गुणनियमः समर्थ्यते।

<3-3-13>
(13) ॥ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥

ननु प्रियशिरस्त्वादयोऽपि सर्वोपास्याः। आनंदादिघटितत्वात्। अन्यथाऽऽनंदादेः सम्यगनुपासितत्वेन मोक्षासिद्धिः स्यात्। ततश्च चत्वार एव गुणाः सर्वोपास्या इत्ययुक्तमिति प्राप्ते सूत्रमुपन्यस्यति ॥

॥ प्रियशिरस्त्वाद्यप्राप्तिरुपवयापचयौ हि भेद इति ॥ अस्यार्थः ॥ सर्वेषामधिकारिणां। प्रियशिरस्त्वाद्यप्राप्तिः। तस्य प्रियमेव शिर (तै.उ. 2-5-2.)इत्यादि श्रुत्युक्त प्रियशिरस्त्वादिगुणोपासनयोग्यता नास्ति। किंतु केषांचिदेव। कुतः। हि यस्मात्। तेषां भेदे फलभेदे फलतारतम्ये हि प्रसिद्धा। नैव सर्वेति (वाराहे.) स्मृतिरस्ति। यस्माच्च भेदे फलभेदसित्ध्यर्थं उपचयापचयौ उपासने वृद्धिह्रासौ। तारतम्यमिति यावत् अपेक्षितौ तस्मादित्यर्थः ॥

एवंच न प्रियशिरस्त्वादयः सर्वोपास्याः। आनंदादिविशेषत्वावलंबनेन तेषामुपासने सर्वेषां सर्वगुणोपास्तिप्रसंगात्। सर्वगुणानामप्यानंदादिचतुष्टयविशेषत्वस्य वक्तुं शक्यत्वात्। न च प्रियशिरस्त्वाद्यनुपासने मोक्षाभावः। यथा योग्यान् गुणपूगानिति श्रुतेर्विशेषानुपासनेऽपि योग्यगुणोपासनामात्रेण फलप्राप्तिसंभवात्। अतः प्रियशिरस्त्वादीनामसाधारण्याच्चत्वार एव सर्वोपास्या इति सिद्धं ॥
</3-3-13>
॥ इति प्रियशिरस्त्वाधिकरणं ॥

7.अधिकरणं ॥

अत्र देवगंधर्वपर्यंतानां ब्रह्मवाणीतरदेवादीनां प्रियशिरस्त्वादिबहुगुमोपासनं समर्थ्यते।

<3-3-14>
(14) ॥ इतरे त्वर्थसामान्यात् ॥

ननु विरिंचेतरदेवतादिभिश्चत्वार एव गुणा उपास्या नाधिकाः। सर्वमुमुक्षुणा चतुर्गुणोपासनयोग्यताया निर्णीतत्वात्। अधिकस्यानिर्णयात्। अतो मध्यमगुणानामनुपास्यत्वात्। तदुपसंहारानुपपत्तिरिति प्राप्ते सूत्रितं ॥

॥ इतरे त्वर्थसामान्यादिति ॥ अस्यार्थः ॥ तु शब्द एवार्थे। अर्थसामान्यात्। ल्यब्‌लोपनिमित्तां पंचमी। उपासनस्य स्वस्वप्राप्यफलसाम्यमपेक्ष्य इतरे चतुर्भ्यः सर्वेभ्यश्चेतरे मध्यमाः गुणाः देवादिभिरुपसहर्तव्या एवेत्यर्थः ॥

एवंच चतुर्गुणाधिका गुणा देवादिभिरुपास्या एव। तदपेक्षितप्राप्यफलनिर्णयं प्रथमतः कृत्वा पश्चात्साधननिर्णयं विधाय ब्रह्मणोऽन्यस्य वा सर्वज्ञस्य गुरोरुपदेशेन योग्यतानिर्णयोपपत्तेः। अतो मध्यमगुणानामपि देवाद्युपास्यत्वाद्युक्तं तदुपसंहाराभिधानमिति सिद्धं ॥
</3-3-14>
॥ इचि इतराधिकरणं ॥

8.अधिकरणं ॥

अत्र सर्वगुणोपसंहारानुपसंहारयोः कर्तव्यत्वे प्रमाणमुच्यते।

<3-3-15>
(15) ॥ आध्यानाय प्रयोजनाभावात् ॥

ननु न सर्वगुणोपसंहारो कर्तव्यः। प्रमाणाभावात्। अनुपसंहारिणामपि चतुर्गुणोपासकानां मोक्षस्य जायमानत्वेनैकः परत इति श्रुत्यविरोधात्। व्यबिचारिणश्च साधनत्वायोगेन असाधनं। साधनतया प्रतिपादयतो वाक्यस्याप्रामाण्यात्। न च सर्वविद्यानां भगवद्गुणाभिधायकत्वेन तदुपसंहारः कर्तव्य इति वाच्यं। गुणानां नानास्थानेषूक्तत्वेन तदभिधानस्योपसंहारार्थत्वाभावेनोपसंहारस्य निष्फलत्वेन भगवद्गुणाभिधानस्य तदर्थत्वायोतत्राप्रामाण्यात्। तथा च नोपासनं युक्तमिति प्राप्ते सूत्रितं ॥

॥ आध्यानाय प्रयोजनाभावादिति ॥ अस्यार्थ ॥ वेदेषु सर्वगुणोक्तिरुपसंहारश्च आध्यानाय सम्यग्ज्ञानध्यानार्थं। क्लृप्तो भवेत्। कुतः। प्रयोजनाभावात्। गुणोक्तेस्तदुपसंहारस्यच ध्यानंविना प्रयोजनाभावादित्यर्थः ॥

एवंच कर्तव्य एवोपसंहारः। सर्वविद्यानां भगवन्नामत्वेन तद्गुणाभिधायकत्वात्। तस्य च प्रयोजनांतराभावेनोपसंहारपूर्वकाध्यानार्थत्वात्। न चोपसंहारो निष्फलः। आनंदातिशयलक्षणफलसद्भावात्। तथा च विरिंचेतरैः कतिपयगुणानुपसंहारेण कतिपयगुणोपसंहारः कार्यः। आत्मेत्येवोपासीते [बृ. 3-4-7.]त्याद्यनुपसंहारप्रमाणस्य विद्यमानत्वात्। अत उपासनं युक्तमिति सिद्धं ॥
</3-3-15>

<3-3-16>
(16) ॥ आत्मशब्दाच्च ॥

एवं सर्वगुणोपसंहारं प्रमाणेन समर्थ्यानुपसंहारं च समर्थयत्सूत्रमुपन्यस्यति ॥

॥ आत्मशब्दाच्चेति ॥ अस्यार्थः ॥ आत्मेत्येवोपासीते(बु. 3-4-7.)त्यत्रात्मेति भावप्रधानं सावधारणं च। आत्मत्वमात्रोपास्तिविधायकः शब्द आत्मशब्दः। आत्मेत्येवोपासीतेति शब्दः। तस्माद्गुणांतरव्यावृत्तिपूर्वमात्मत्वोपास्तिविधायकशब्दादनुपसंहारश्च सिध्यतीति चार्थः ॥

एवंचोपासनाक्षिप्ताल्पगुणोपसंहारे निर्दिष्टश्रुतेः प्रमाणत्वात्। अन्यथा गुणांतरव्यावृत्तिपूर्वकमात्मात्वोपासनस्यैवात्र विधानादसंगतेः। न चावधारणस्यान्यथात्वमिति सूत्रेऽयोगव्यवच्छेदकत्वस्योक्तत्वात्कथमन्ययोगव्यवच्छेदकत्वमुच्यत इति वाच्यं। उपसंहारानुपसंहारवद्‌ब्रह्मादीन् उत्तमाधिकारिणः प्रत्ययोगव्यवच्छेदकत्वमधमाधिकारिणः प्रत्यन्ययोगव्यवच्छेदकत्वमित्यधिकारिभेदेनाविरोधकत्वात्। अत उपसंहारानुपसंहारयोः कर्तव्यत्वादुपासनं युक्तमिति सिद्धं ॥
</3-3-16>
॥ इति आध्यानाधिकरणं ॥

9.अधिकरणं ॥

अत्रोपासनायामानंदादिचतुर्गुणनियमः समर्थ्यते।

<3-3-17>
(17) ॥ आत्मगृहीतिरितरवदुत्तरात् ॥

नन्वात्मत्वमेव सर्वोपास्यं नानंदादयश्चत्वारः। आत्मेत्येवेति [बृ. 3-4-7.] सावधारणवचनात्। इतरगुणहानेनात्मत्वमात्रोपासनस्य सुशकत्वात्। शोघ्रेणेश्वरापरोक्ष्यसिद्धिगुणलाभाच्च। अत आत्मत्वस्यैव सर्वोपास्यत्वादानंदादयः प्रधानस्येत्युक्तमयुक्तं चेदित्यासंकां पारेरत्सूत्रं पठति ॥

॥ आत्मगृहीतिरितरवदुत्तरादिति ॥ अस्यार्थः ॥ यतः इतरवत् सत्यं ज्ञानादि (तै. 2-1.) वाक्ये सत्यादिपदैरन्येषां गुणानामिवात्मगृहीतिः आत्मैवेति वाक्येप्यात्मशब्देन चतुर्णां गुणानां ग्रहणं संभवति। कुतः। उत्तरात् अत्रह्येत (बृ. 3-4-7) इत्युत्तरवाक्याच्च। अतो न चतुर्गुणोपास्त्युक्तेस्तद्विरोध इत्यर्थः ॥

एवांचानंदादयश्चत्वारोऽप्युपास्या एव। आत्मशब्दस्य सत्यादिशब्दवदत्र ह्येते सर्व इत्युत्तरवाक्यबलाद्बव्हर्थकत्वेनानंदाद्यभिधायकत्वात्। अतो विरोधाभावादुक्तं युक्तमिति सिद्धं ॥
</3-3-17>
॥ इति आत्मगृहीत्यधिकरणं ॥

10.अधिकरणं ॥

अत्रात्मशब्दस्य पूर्वोक्तमनुपसंहारमानत्वमाक्षिप्य समाधीयते।

<3-3-18>
(18) ॥ अन्वयादिति चेत्स्यादवधारणात् ॥

ननु सर्वोपास्या गुणाः। नासाधारण्येनात्मशब्दोक्ताः। तस्य सर्वगुणाभिधायकत्वात्। ततश्च नास्यानुपसंहारप्रमाणत्वमिति प्राप्ते सूत्रमाह ॥

॥ अन्वयादिति चेत्स्यादवधारणादिति ॥ अस्यार्थः ॥ नन्वात्मेति वाक्यस्यानुपसंहारमानत्वमयुक्तं। कुतः। अन्वयात्। आत्मशब्दे सर्वगुणानामन्वयात्। इति चेत् स्यात् यत्परोक्तं तत्तथास्यादेव। तथाऽपि नानुपपत्तिः। कुतः। अवधारणात् आत्मेत्येवेत्यवधारणात्। न चानिर्णयः। आत्मशब्दो हि ब्रह्मादीन्प्रत्येव सर्वगुणान्वदति नान्यान्प्रतीति निर्णयोपपत्तेरित्यर्थः ॥

एवंच सत्यमात्मशब्दः सर्वगुणाभिधायकः। तथाऽपि न सर्वन्प्रति। किं नाम तत्तद्योग्यतानुसारेण तांस्तान्प्रति गुणाभिधायकः। ततश्चात्मशब्देन यस्य यावंतो गुणाः प्रतिभासंते तेन तावंतो गुणा उपास्या इत्यामशब्दोक्त गुणानां सर्वोपास्यत्वादुक्तं युक्तमिति सिद्धं ॥
</3-3-18>
॥ इति अन्वयाधिकरणं ॥

11.अधिकरणं ॥

अत्रालौकिकगुणानामेवोपसंहार्यत्वं समर्थ्यते।

<3-3-19>
(19) ॥ कार्याख्यानादपूर्वं ॥

ननु भगवद्गुणा लौकिकत्वेनैव ध्यातव्याः। अन्यथाऽलौकिकानामननुभूतत्वात्। वासनाभावेन स्मृतिरूपध्यानात्रभावप्रसंगात्। कर्तव्यं च ध्यानं। अतो लौकिका एव भगवद्गुणा इति प्राप्ते सूत्रमाह ॥

॥ कार्याख्यानादपूर्वमिति ॥ अस्यार्थः ॥ कार्याख्यानात् ध्यानकार्यस्य मोक्षस्यालौकिकत्वोक्तेः। अपूर्वं अलौकिकं गुणजातं। ध्यातव्यमित्यर्थः ॥

एवंचालौकिका एव भगवद्गुणा ध्यातव्याः। तत्ध्यानकार्यस्य मोक्षस्यालौकिकत्वात्। न चालौकिकगुणाप्रतीतेस्तत्ध्यानाभावप्रसंगः। लक्षणमुखेनेंद्रादिरिवोपदेशेन तत्प्रतीत्युपपत्तेः। अतोऽलौकिका एव ध्यातव्या इति युक्तं पूर्वोक्तं भगवद्गुणानामलौकिकत्वमिति सिद्धं ॥
</3-3-19>
॥ इति कार्याधिकरणं ॥

12.अधिकरणं ॥

अत्रोपासनस्य स्वसदृशफलप्रदत्वसिध्यर्थं ब्रह्माणीब्रह्मणोरुपासनस्य समविषमत्वं समर्थ्यते।

<3-3-20>
(20) ॥ समान एवं चाभेदात् ॥

ननु भगवदुपासनं न स्वानुसारिफलप्रदस्वभावं। ब्रह्माणीब्रह्मोपासने स्वानुसारिफलजनकत्वाभावात्। न हि यज्जातीयं यज्जनकं न भवति तज्जातीयं तज्जनकस्वभाववदिति क्यते वक्तुं। वेत्रबीजस्य कदलीकांडजननस्वाभाव्यापातात्। न च हेतोः समुचितदेशसिध्यभावः संकनीयः। तयोर्ह्युपासनं समं विषमं वा भवेत्। न तु समविषमं। विरुद्धत्वात्। फलं तु समविषमं। स्थानसाम्येऽपि गुणतारतम्यसद्भावात्। अत उपासनानुसारिफलनियमाभावादितरेत्वर्थसामान्यादित्युक्तमिति प्राप्ते सूत्रितं ॥

॥ समान एवं चाभेदादिति ॥ अस्यार्थः ॥ एवं च एवमपि। ब्रह्मगुणानामलौकिकत्वेऽपि। वाण्याः समाने योग्यगुणविषय एवोपसंहारः न त्वयोग्यक्रियासु। तत्रत्वभेदात् अभेदमपेक्ष्य त्रिविक्रमत्वादिकादाचित्कक्रियास्तत्सजातीयनित्यविक्रांत्यादिष्वंतर्भाव्योपसंहारो भवे दित्यर्थः ॥

एवंचोपासनं स्वानुसारिफलप्रदमेव। ब्रह्माणीब्रह्मणोरुपासनत्वस्य समविषमत्वेन तयोरुपासनानुसारिफलस्यैवभावात्। तथा च यथोपासनं मुक्तौ फलसद्भावादुक्तं युक्तमिति सिद्धं ॥
</3-3-20>

<3-3-21>
(21) ॥ संबंधादेवमन्यत्रापि ॥

ननु न विरिंचस्यापि सदा त्रिविकमत्वादिविशेषक्रियोपसंहारो युज्यते। तासामनित्यत्वेन ध्यानकालेऽभावादित्याशंकां पराकुर्वंत्सूत्रमाह ॥

॥ संबंधादेवमन्यत्रापीति ॥ अस्यार्थः ॥ हिरण्यगर्भस्य तु अन्यत्रापि त्रिविक्रमत्वादिक्रियाविशेषेऽपि। एवं सर्वदोपसंहारो युज्यते। कुतः। संबंधात् क्रियाणां ब्रह्मणा तादात्म्यरूपसंबंधेन नित्यत्वादित्यर्थः ॥

एवंच ब्रह्माणी हि ब्रह्मवत्सर्वान्गुणानुपसंहृत्येवोपास्ते। त्रिविक्रमादींस्तु नित्यविक्रांत्यादिक्रियास्वंतर्भाव्यैव न तु पृथक्। योग्यताविरहात्। ब्रह्मा तु त्रिविक्रमादींस्तु सदोपसंहृत्योपास्ते। त्रिविक्रमत्वादिरपि ब्रह्मस्वरूपत्वान्नित्य एव। अतो यथोपासनं मुक्तौ फलसद्भावादुक्तं युक्तमिति सिद्धं ॥
</3-3-21>
॥ इति समानाधिकरणं ॥

13.अधिकरणं ॥

अत्रात्मशब्दोक्तगुणोपासनस्य सर्वैः कर्तव्यत्वं समर्थ्यते।

<3-3-22>
(22) ॥ न वा विशेषात् ॥

ननु नात्मेत्येवोपासीतेति विधिः सर्वाधिकारिसाधारणः। अनंतगुणाभिधायकात्मशब्दघटितत्वात्। न चात्मशब्दस्योत्तमान्प्रति सर्वगुणाभिधायकत्वेऽपि तदितरान्प्रति तदभावेन तत्तद्योग्यगुणाभिधायकत्वादिति सर्वसाधारणमुपपन्नमिति वाच्यं। असंभवात्। न हि शब्दो बुद्धिमान्। येनोत्तमत्वाधिकारिविशेषं प्रति सर्वगुणान्बोधयित्वाऽनुत्तमत्वादपरं प्रत्यल्पानेव बोधयतीति स्यात्। ततश्चानुपसंहारप्रमाणत्वोक्तिरयुक्तेति प्राप्ते सूत्रितं ॥

॥ न वा विशेषादिति ॥ अस्यार्थः ॥ आत्मेति वाक्यस्थात्मशब्देन सर्वगुणानां ग्रहणं न वाऽभ्युपगम्यते। कुतः। विशेषात् अधिकारियोग्यताविशेषमपेक्ष्य तस्य तद्योग्यगुणाभिधायकत्वादित्यर्थः ॥

एवंच विधिरयं सर्वाधिकारिसाधारणः। तांस्तान्प्रति तत्तद्योग्यगुणाभिधायकत्वात्। न चासंभवः। अधिकारमपेक्ष्य तत्त्वमस्यादिवाक्यस्य [छां. 6-8-7.] प्रमाऽप्रमाजनकत्ववत्सर्वगुणाभिधायकस्याप्यात्मशब्दस्य तद्योग्यतामपेक्ष्यैव गुणबोधकत्वसंभवात्। तस्मादात्मशब्दोक्तसर्वगुणानां सर्वोपास्यत्वमिति सिद्धं ॥
</3-3-22>

<3-3-23>
(23) ॥ दर्शयति च ॥

ननु चतुर्गुणोपासकस्याप्यात्मशब्दात्पंचगुणानमप्येवं बोधसंभवेन न प्रातिस्विकनियमायोगात्। उपासनानुपपत्तिरिति प्राप्ते विशेषादिति युक्तिसिद्धार्थं श्रुत्याऽपि समर्थयत्सूत्रं पठति ॥

॥ दर्शयति चेति ॥ अस्यार्थः ॥ सर्वानिति (भाल्लवेय.) श्रुतिः स्वोक्तार्थं प्रतिपादयतीत्यर्थः ॥

एवंच यस्य युगपत्स्वभुजाविवात्मशब्देन यावंतो गुणाः प्रतीयंते तावंत एवोपास्या इति नियमसंभवात्। सर्वान् गुणानिति श्रुतेः। तस्मादात्मशब्दोक्तगुणानां सर्वोपास्यत्वादुक्तं युक्तमिति सिद्धं ॥
</3-3-23>
॥ इति न वाऽधिकरणं ॥

14.अधिकरणं ॥

अत्र संभृत्यादिगुणस्य सर्वोपास्यत्वं नेत्युच्यते।

<3-3-24>
(24) ॥ संभृतिद्युव्याप्त्यपि चातः ॥

ननु संभृतिद्युव्याप्ती सर्वेषां मनुष्यादीनामुपास्ये मुमुक्षुत्वात् देवादिवत्। तत्फलयोः स्वाधमफलभरणप्रकाशव्याप्त्योर्भाव्यत्वात्। न चैवं सर्वगुणोपास्तिप्रसंगः। तत्फलानिच्छुत्वात्। ततश्च चतुर्गुणोपासननियमभंग इति ॥ यद्वा ॥ देवादयो न संभृतिद्युव्याप्त्युपासनायोग्याः। प्रमाणाभावात्। न च मुमुक्षुत्वात्तदुपासनाधिकारसिद्धिरिति वाच्यं। यदि मुमुक्षुत्वाद्देवाः संभृत्याद्युपासनाधिकारिणः स्युस्तर्हि मनुष्या अपि तथा स्युरविशेषादिति तर्कबाधात्। अत एव न तत्फलेच्छुत्वाद्देवानामधिकारसिद्धिः। ततश्च देवानां मनुष्येभ्योऽतिशयासिद्धिरिति। एवं पूर्वपक्षद्विकप्राप्ते समादधत्सूत्रमाह ॥

॥ संभृति द्युव्याप्त्यपि चात इति ॥ अस्यार्थः ॥ अपि पदेन नञः समाकर्षः। च शब्द एवार्थः। संभृतिद्युव्याप्ती सम्यग्भरणप्रकाशव्याप्ती। न सर्वस्योपास्ये। किंतु देवाद्युपास्ये एव। कुतः। अत एवाधिकारियोग्यतायां विशेषसद्भावादेवेत्यर्थः ॥

एवंच संभृतिद्युव्याप्ती न सर्वोपास्ये। मनुष्याणां तत उपासनायोग्यताविरहात्। न च मुक्तावपेक्षितप्रकाशाद्यसिद्धिः। भगवद्रूपप्रतीतिविषयीकृतप्रकाशादिनैव तत्सिद्धेः। ततश्च नोक्तचतुर्गुणोपासननियमभंगः ॥ यद्वा ॥ देवादयः संभृताद्युपासनावंतः। देवाधिकारेऽन्याधिकाराद्विशेषसद्भावात्। देवादीनामुपास्यास्तु संभृतिद्युपासनासद्भावान्नातिशयभंग इति सिद्धांतद्वयमुक्तं भवति ॥
</3-3-24>
॥ इति संभृत्यधिकरणं ॥

15.अधिकरणं ॥

अत्र सर्वविद्यातो गुणोपसंहारः कर्तव्य इति साध्यते।

<3-3-25>
(25) ॥ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥

ननु न विप्रकीर्णगुणोपसंहृतिः कार्या। प्रयोजनाभावात्। न च स्वयोग्यगुणोपासनायोपसंहृतिरिति वाच्यं। उत्तमानां बहुगुणाबिदायकैकविद्योक्तगुणोपसंहारमात्रेण मंदानामल्पगुणाभिधायकैकविद्योक्तगुणोपसंहारमात्रेणैव तत्सिद्धेः। अत उपसंहारवैयर्थ्यान्न सर्वज्ञानोपयोग इति प्राप्ते सूत्रितं ॥

॥ पुरुषविद्यायामपि चेतरेषामनान्मानादिति ॥ अस्यार्थः ॥ पुरुषविद्यायामपि सर्वविद्योत्तमत्वेन प्रतिज्ञातायामपि। पुरुषसूक्ताख्यविद्यायां केषांचिदेवोक्तत्वादितरेषां तत्रोक्तेभ्योऽन्येषां च गुणानामनाम्नानात्। कर्तव्य एव सर्वविद्यागुणोपसंहार इत्यर्थः ॥

एवंच कार्या एव विप्रकीर्णगुणोपसंहृतिः। सर्वगुणोपासकानामुत्तमानां भावात्। सर्वोत्तमायामपि पुरुषसूक्ताख्यविद्यायां सर्वगुणानामनाम्नानात्। मंदापेक्षितनामप्येकत्रोक्तिनियमाभावाच्च। अतो सर्वतो गुणोपसंहारस्य कर्तव्यत्वादुक्तं युक्तमिति सिद्धं ॥
</3-3-25>
॥ इति पुरुषाधिकरणं ॥

16.अधिकरणं ॥

अत्र भेदनादिगुणानां सर्वोपास्यत्वं निरस्यते।

<3-3-26>
(26) ॥ वेधाद्यर्थभेदात् ॥

नन्वग्ने त्वचं यातुधानस्य भिंधीत्यादिनोक्ता [ऋ. 10-87-4,5.] भेदनादिगुणाः सर्वोपास्याः। तत्फलस्य दुष्टनिग्रहस्य सर्वापेक्षितत्वात्। अतो वेधादीनां सर्वोपास्यत्वान्न चतुर्गुणोपासननियम इति प्राप्ते सूत्रितं ॥

॥ वेधाद्यर्थभेदादिति ॥ अस्यार्थः ॥ अर्थभेदात् वेधाद्युपासफलस्य हिंसादेर्यत्यादियोग्यफलाद्विलक्षणत्वात् वेधादि भिंधि वित्वि शृणीही(बृहत्तंत्रे)त्युक्तवेधादिकं न सर्वोपास्यमित्यर्थः ॥

एवंच नवेधादयः सर्वोपास्याः। तत्फले भेदनादौ यत्यादीनामनधिकारात्। अतो वेधादीनां सर्वोपास्यत्वाभावान्नाभिहितनियमो भज्यत इति सिद्धं ॥
</3-3-26>
॥ इति वेधाधिकरणं ॥

17.अधिकरणं ॥

अत्रोपासनस्य मुक्तावप्यनुवृत्तिः समर्थ्यते।

<3-3-27>
(27) ॥ हानौ तूपायनशब्दशेषत्वात्कुशाच्छंदस्तुत्युपगानवत्तदुक्तं ॥

ननु न मुक्तेनोपासना क्रियते। मुक्तस्योपासनविध्यंगीकारे फलप्राप्तिप्रसंगात्। मुक्तत्वाभावप्रसंगाच्च। तदनंगीकारे च प्राप्तव्यफलप्रसंगात्। प्राप्तव्यमंतरापेक्षावत्प्रवृत्यनुपपत्तेः। ततश्च सोपाधिकमेवोपासनमिति मुक्तिसाधनत्वादेवोपासनं कार्यं न तूपासने आदरातिशय इति प्राप्ते सूत्रमाह ॥

॥ हानौ तूपायनशब्दशेषत्वात्कुशाच्छंदस्त्युत्युपगानवत्तदुक्तमिति ॥ अस्यार्थाः ॥ तुरवधारणे यतः हानौ बंधहानिरूपमुक्तौ। तदुक्तं मुक्तानामेतत्सामेति (तै. 3-10.) श्रुता वुपासनमुक्तं। अतो मोक्षेऽपि तेषामुपासनमस्त्येव। तदपि कशाच्छंदस्तुत्युपगानवदेव न विधितः। यथा नियतब्रह्मयज्ञानां नियतसंध्योपासनानंतरमपि कुशैराच्छंदेन स्वेच्छयैव स्तुत्युपगान इवोभयत्र नाम्नोरध्ययनं। तथा स्वेच्छयैव न विधितः। कुतः। उपायनशब्दशेषत्वात्। उपायनं मोक्षः। उपासनविधीनां मोक्षवाक्यशेषत्वादित्यर्थः। तथा च मोक्षार्थोपासनाविधयः कथं तत्रापि ता विदध्युरित्यर्थः ॥

एवंचानुष्ठेयमेव मुक्तावुपासनं। एतत्सामेति वचनात्। न च विधिबद्धत्वेन संसारसमानधर्मत्वं मुक्तेः। विनाऽपि विधिं स्वेच्छयैवोपासनमित्यंगीकारात्। दृश्यते च नियतब्रह्मयज्ञशब्दस्वाध्यायानंतरमपि स्वेच्छयैव कुशैराच्छादनेनैव द्विजन्मनामध्ययनादि। अत उक्तं युक्तमिति सिद्धं ॥
</3-3-27>

<3-3-28>
(28) ॥ सांपराये तर्तव्याभावात्तथा ह्यन्ये ॥

ननु मुक्तस्योपासनं न स्वेच्छया किंतु मोक्षे तदा तदा प्राप्तानिष्टपरिहारार्थमेव। कस्यापि निष्फलप्रवृत्तेरदर्शनादित्याशंकां परिहरत्सूत्रं पठति ॥

॥ सांपराये तर्तव्याभावात्तथा ह्यन्य इति ॥ अस्यार्थः ॥ सांपराये मोक्षे। उपासनं स्वेच्छयैवेत्यंगीकार्यं। नत्वनिष्टनिवृत्त्यर्थं। कुतः। तर्तव्याभावात्। मुक्तैः परिहर्तव्यानिष्टस्यैवाभावात्। तदपि कुतः। हि यस्मात्। अन्ये शाकिनः तथा तीर्णोहीति (बृ. 6-3-22.) श्रुतिं पठंति। तस्मादित्यर्थः ॥

एवंच सांपराये तर्तव्याभावात्। अपि च मुक्तैर्योगाद्यप्यनुष्ठीयते। किमुतोपासनं। कृष्णौ मुक्तैरिति भारतवचनात्। अतो मुक्तावप्युपासनानुवृत्तैर्निरूपाधिकं तत्संसारे कर्तव्यमिति सिद्धं ॥
</3-3-28>
॥ इति हान्यधिकरणं ॥

18.अधिकरणं ॥

अत्र मुक्तानां कर्मणि नियमाभावः समर्थ्यते।

<3-3-29>
(29) ॥ छंदत उभयाविरोधात् ॥

ननु मुक्ता नियमेनानुष्ठानवंतः। विष्णुपूजात्मकत्वात्कर्मणि शक्तत्वाच्च तेषां। अन्यथा नियमेनोपासनमपि न ते कुर्युः। अविशेषात्। अतो मुक्तानां कर्मोपासनयोः साम्यात्प्राक् न कर्मणोऽतिशयोपासनं कार्यमिति प्राप्ते सूत्रितं ॥

॥ छंदत उभयाविरोधादिति ॥ अस्यार्थः ॥ मुक्ताः छंदतः स्वेच्छामनुसृत्यैव कर्म कुर्वंति न विधितः। कुतः। उभयाविरोधात्। कर्मकरणाकरणयोः विधिबंधप्रत्यवाययोः अभावादित्यर्थः ॥

एवंच न मुक्तानां कर्मणि नियमः। अपि तु स्वेच्छया कदाचित्कुर्वंति कदाचिन्न कुर्वंति। नियमेनानुष्ठानप्रयोजकयोर्विधिबंधप्रत्यवाययोराभावात्। अतो मुक्तस्य कर्मनियमाभावात्संसारेप्युपासनमाधिक्येन कर्तव्यमिति सिद्धं ॥
</3-3-29>

<3-3-30>
(30) ॥ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥

ननु मुक्तानां विधिबंधप्रत्यवायाभाव एव कुतो येन कर्मण्यनियम इत्यतः समादधत्सूत्रमाह ॥

॥ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोध इति ॥ अस्यार्थः ॥ हिर्हेतौ। उभयथा हि बंधप्रत्यवाययोरभावादेव। गतेः मुक्तेः। पुरुषार्थत्वं। अन्यथा मुक्तौ बंधप्रत्यवाययोर्भावे। विरोधः मुक्तेः संसारसमत्वेनापुरुषार्थत्वरूपविरोधः स्यादित्यर्थः ॥

एवंच मुक्तेः कर्मनियमाभावांगीकार एव मुक्तेः पुरुषार्थत्वादन्यथा तन्न स्यात्। अतः संसारेप्युपासनमाधिक्येन कार्यमिति सिद्धं ॥
</3-3-30>

<3-3-31>
(31) ॥ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥

ननु विध्याद्यभावो मुक्तानां कर्मनियमसंभावनायैव भवति। न तूपपादनाय। ईश्वरकर्मणि व्यभिचारात्। अत उपपादकाभावादनुपपन्न एवासौ नियम इति प्राप्ते सूत्रमाह ॥

॥ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवदिति ॥ अस्यार्थः ॥ यथा लोके यागांगविष्णुक्रमणस्य क्रियानुष्ठाननियमः न यागसंपूर्त्त्यनंतरमपि अस्ति। किंतु कदाचिदेव। तथा मुक्तानां कदाचित्कर्म कुर्वंति न वेत्येवं तावदुपपन्नः युक्तः। कुत एतत्। तल्लक्षणार्थोपलब्धेः तल्लक्षणस्य परंपरया कर्मसाध्यस्यार्थस्य मोक्षस्य। उपलब्धेः प्राप्तत्वादित्यर्थः ॥

एवंचोपपन्न एव स्वेच्छया कदाचित्कर्म कुर्वंति कदाचिन्नेत्येवं भावः। तत्फलस्य मोक्षस्य प्राप्तत्वात्। तत्फलस्य च प्राप्त्यनंतरमप्रवर्तकत्वात्। यथा लोके यागपूर्तिलक्षणफलस्य यागपूर्त्यनंतरं विष्णुक्रमणादौ न प्रवर्तकत्वं किंत्विच्छयैव प्रवर्तकत्वं। अत्र प्रयोगः। मुक्ता न कर्मानुष्ठाननियमवंतः। विशेषहेत्वभावे सति प्राप्ततत्फलत्वात्। यजमानवदिति। अतो मुक्तस्य कर्मनियमाभावेन संसारेप्युपासनमाधिक्येन कार्यमिति सिद्धं ॥
</3-3-31>
॥ इति छंदाधिकरणं ॥

19.अधिकरणं ॥

अत्रोपासनोत्पन्नब्रह्मज्ञानानां सर्वेषां मोक्षनैयत्यं साध्यते।

<3-3-32>
(32) ॥ अनियमः सर्वेषामविरोदाच्छब्दानुमानाभ्यां ॥

ननु न सर्वेषां ज्ञानिनां मोक्षः। केषांचित्ज्ञानिनां स्वोत्तमद्रोहशापाभ्यामयोग्यतोत्पादात्। न ह्ययोग्यानां तत्प्राप्तिः संभवति। तथा सत्ययोग्यानामपि सर्वगुणोपसंहारप्रसंगात्। अतः सर्वेषां ज्ञानिनां मोक्षाभावेन न निःशंकोपासनं कर्तव्यमिति प्राप्ते सूत्रितं ॥

॥ अनियमः सर्वेषामविरोधाच्छब्दानुमानाभ्यामिति ॥ अस्यार्थः ॥ अनियमः अपरोक्षज्ञानिनां मध्ये केषांचिन्मोक्षः केषांचिन्नेत्येवंरूपव्यवस्थाऽभावो ज्ञायते। कुतः। सर्वेषामपि मोक्षे। अविरोधात् निषेधकाभावात्। किंच शब्दानुमानाभ्यां न कश्चिदिति श्रुतेः (कौंडिन्य.) तन्मूलकानुमानाच्चेत्यर्थः ॥

एवंचात्स्येव सर्वेषां ज्ञानिनां मोक्षः। केषांचिदेव मोक्षो न सर्वेषामिति वदन् प्रष्टव्यः। किं बाधकसद्भावान्न सर्वेषां मोक्ष उत साधकाभावात्। नाद्यः। तदभावात्। न चायोग्यतोत्पादको बाधकः। ये ज्ञानविषया इति वचनादयोग्यतोत्पादानंगीकारात्। न द्वितीयः। न कश्चिदिति श्रुतिविरोधापत्तेः। विप्रतिपन्ना ज्ञानिनो मोक्षवंतः ज्ञानित्वात्संमतवदित्यनुमानाच्च। बाधकाभावेन श्रुतिमूलकत्वेन चोपसंहारानुमानाबाधात्। अतो ज्ञानिनां मोक्षस्य नियतत्वान्निःशंकमुपासनं कार्यमिति सिद्धं ॥
</3-3-32>
॥ इति अनियमाधिकरणं ॥

20.अधिकरणं ॥

अत्रोपासनेऽधिकारनियमः समर्थ्यते।

<3-3-33>
(33) ॥ यावदधिकारमवस्थितिराधिकारिकाणां ॥

ननु नोपासनावंतोऽधिकारनियमवंतः। प्रमाणाभावात्। न च मुक्तावानंदतारतम्यान्यथानुपपत्तिः प्रमाणं। तारतम्यप्रामाणिकत्वेप्युपासनाप्रयत्नतारतम्येनैवान्यथासिद्धेः। अत उपात्स्यधिकारनियमाभावेनेति प्राप्ते सूत्रितं ॥

॥ यावदधिकारमवस्थितिराधिकारिकाणामिति ॥ अस्यार्थः ॥ आधिकारिकाणां योग्यतानुसार्युपासनशीलानां ब्रह्मादीनां स्वस्वाधिकारानुसारेणैव मुक्तौ। अवस्थितिः अवस्थितानामुपासनावत्तारतम्येनैव मुक्तौ तेषां फलमित्यर्थः ॥

एवंचात्स्येव नियमः। अयमेतद्गुणोपासने योग्योऽयं नेति तेन विना श्रुत्युक्तानंदतारतम्यकथनस्याप्ययोगात्। प्रयत्नतारतम्यस्यापि योग्यतातारतम्याधीनत्वात्। अधिकाराधिको यत्न इति वचनात्। ततश्चोपासनाधिकारे नियमादुक्तं युक्तमिति सिद्धं ॥
</3-3-33>

<3-3-34>
(34) ॥ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तं ॥

ननु मुक्तावानंदतारतम्यमेव नोपपद्यते। असमत्वे मुक्तानां परस्परविरोधप्राप्तेः। लोके तथा दर्शनात्। तारतम्यश्रुतीनां तु संसारविषयत्वात्। तदंगीकारे मुक्तौ द्वेषेर्ष्यादिप्रसक्तेश्च। अत उपात्स्यधिकारनियमाभावेन प्राप्तेश्च समंजसमित्याद्ययुक्तमिति प्राप्ते सिद्धांतितं ॥

॥ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तमिति ॥ अस्यार्थः ॥ तु शब्दोऽप्यर्थः। अक्षरधियां ब्रह्मज्ञानिनां। विषमत्वेप्यविरोधः विरोधो नास्ति। कुतः। ब्रह्मधीत्वात्। किंच सामान्यतद्भावाभ्यां सर्वेषां दोषाभावात् उत्तमेभ्यः अधमानां उपकाराभावाच्च। कथं। औपसदवत् सच्छिष्यवत्। किंच तदुक्तं। तत् असमत्वेऽपि विरोधो नास्तीत्येतन्नानेति तुरश्रुतावुक्तमतोऽप्यविरोध इत्यर्थः ॥

एवंच विरोधाप्रसंगात्। विरोधे हि विषयलंपट्यां मात्सर्यादयोऽनुपकारित्वं च हेतवः। न च मुक्तेषु संभवंति। ब्रह्मधीत्वात्। निर्दोषत्वाच्च। अनुपकारित्वमपि नास्तीति प्रतियोगिसत्वस्य प्रमाणसिद्धत्वात्। तस्मादुपासनाधिकारे नियमादुक्तं युक्तमिति सिद्धं ॥
</3-3-34>
॥ इति यावदधिकरणं ॥

21.अधिकरणं ॥

अत्रोपासनाधिकारिणां प्राणावसानत्वं समर्थ्यते।

<3-3-35>
(35) ॥ इयदामननात् ॥

ननु नाधिकारिणः प्राणावसानाः। प्राणः स्वोत्तमाधिकारिनियम्यः। अधिकारित्वात्। नामादिवत्। इत्यनुमानविरोधात्। अतोऽधिकारिणां प्राणावसानात्वाभावेन हिरण्यगर्भ एव सर्वगुणोपास्तियोग्य इत्युक्तमयुक्तमिति प्राप्ते सूत्रितं ॥

॥ इयदामननादिति ॥ अस्यार्थः ॥ अधिकारितारतम्यं इयदेव प्राणावधिकमेव। कुतः। आमननात्। प्राणो वावेति (कौंठरव्य.) श्रुतेरित्यर्थः ॥

एवंच प्राणावसानत्वमेवाधिकारिणः। निर्दिष्टश्रुतेः। अनुमानस्य च बाधितविषयत्वेन बाधाभावात्। ततश्चाधिकारिणां प्राणावसानत्वेन स एव सर्वगुणोपास्तियोग्य इति सिद्धं ॥
</3-3-35>

<3-3-36>
(36) ॥ अंतरा भूतग्रामवदिति चेत्तदुक्तं ॥

उक्तमाक्षिप्य समादधत्सूत्रं पठति ॥

॥ अंतरा भूतग्रामवदिति चेत्तदुक्तमिति ॥ अस्यार्थः ॥ भूतग्रामवत् यथा नामादिप्राणसमूहे एकस्भादेक उत्तमो दृष्टः। तथा अंतरा परमात्मानं श्रियं च विना प्राणादुत्तमोस्त्विति चेन्नेति शेषः। यतस्तदुक्तं। तत्र प्राणादुत्तमाभावे। नहीति (कौंठरव्य.) प्रमाणमुक्तं। अत इत्यर्थः ॥

एवंचोक्तानुमानस्य प्राणो वावेति श्रुतिबाधितत्वेनाविरोधात्। अत उक्तं युक्तमिति सिद्धं ॥
</3-3-36>

<3-3-37>
(37) ॥ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥

ननु प्राणो वावेति श्रुतिबलेन न प्राणस्य सर्वोत्तमत्वं वक्तुं शक्यं। तथा सतीश्वरद्वयायोगेन प्राण परमात्मनोरैक्यप्रसंगादिति प्राप्ते सूत्रमाह ॥

॥ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवदिति ॥ अस्यार्थः ॥ अन्यथा प्राणादप्युत्तमत्वाभावे। प्राणपरमात्मनोर्भेदानुपपत्तिरिति चेन्न। कुतः। यतः उपदेशवत् यथा श्रुतावुक्तं तथांऽगीक्रियते। अतो नोक्तदोष इत्यर्थः ॥

एवंच छंदोगश्रुत्युक्तप्रकारेण सर्वशब्दस्य संकोचमंगीकृत्य प्राणस्य सर्वाधिकार्युत्तमत्वं ततो महालक्ष्म्यास्ततः परमात्मन उत्तमत्वांगीकारात्। अतोऽधिकारिणां प्राणावसानत्वेन स एव सर्वगुणोपास्तियोग्य इति सिद्धं ॥
</3-3-37>
॥ इति इयदामननाधिकरणं ॥

22.अधिकरणं ॥

अत्रोपासनाधिकारिणः प्राणात्परमेश्वरस्योत्तमत्वं प्रसाध्यते।

<3-3-38>
(38) ॥ व्यतिहारो विशिंषंति हीतरवत् ॥

ननु न विष्णोः सर्वोत्तमत्वं युक्तं। प्राणस्योत्तमत्वमुक्त्वा तदुत्तमत्वानभिधानात्। न हि सत्यपि प्राणादुत्तमेतदनभिधाने कारणमस्ति। येनानुक्तिमगण्य्य प्राणादुत्तमत्वं विष्णोः प्रतीमः। न च सत्यपदोदितस्य विष्णोः प्राणादुत्तमत्वं युक्तमिति वाच्यं। प्रकरणभेदकाभावेन सत्यत्वस्य प्राणविशेषणत्वात्। ततश्च न विष्णोः सर्वोपास्यत्वमिति प्राप्ते सूत्रमाह ॥

॥ व्यतिहारो विशिंषंति हीतरवदिति ॥ अस्यार्थः ॥ व्यतिहारः प्राणप्रकरणादनंतरं विष्णोः प्रकरणात् प्राक् प्रश्नप्रतिवचनयोरध्याहारः कार्यः। कुतः। हि यस्मात्। इतरवत् नामादितो वागादिकमिवप्राणवादिनः सकाशात् सत्याख्यविष्णुवादिनः छंदोगा एष तु वेति (छां. 7-16.) तु शब्देन विशिंषंति व्यावर्तयंति। तस्मादित्यर्थः ॥

एवंच युक्तमेव विष्णोः सर्वोत्तमत्वं। न च नामादाविव प्रश्नप्रतिवचनाभावात्प्राणादुत्तमाभावे तात्पर्यमिति वाच्यं। प्रायपाठबलेन प्रश्नप्रतिवचनस्यानुमातुं शक्यत्वात्। न च प्रकरणभेदकाभावान्न प्रश्नप्रतिवचनाध्याहार इति वाच्यं। तु शब्दस्य प्रकरणभेदकस्य सद्भावात्। ततश्च प्रश्नप्रतिवचनसंधानपूर्वकं मंत्रद्रष्ट्रा विष्णोः प्राणादुत्तमत्वस्योक्तत्वात्तस्य सर्वोपास्यत्वं युक्तमिति सिद्धं ॥
</3-3-38>
॥ इति व्यतिहाराधिकरणं ॥

23.अधिकरणं ॥

अत्र प्राणाद्विष्णोरेवोत्तमत्वं साध्यते।


<3-3-39>
(39) ॥ सैव हि सत्यादयः ॥

ननु न केवलं प्राणात्सत्यपदोक्तो विष्णुरेवोत्तमः। अपि तु बहवः। सत्यादप्युपरि विज्ञानमिति श्रद्धानिष्ठाकृतिसुखभूमाहंकारात्मनामुक्तत्वात्। सत्यादीनामभेदे प्रमाणाभावात्। अतः प्राणादपि बहूनामुत्तमत्वात्तस्य विष्णुं विना सर्वोत्तमत्वं विष्णोर्निरुपचरितसर्वोत्तमत्वं न युक्तमिति प्राप्ते सूत्रितं ॥

॥ सैव हि सत्यादय इति ॥ अस्यार्थः ॥ हि यस्मात्। सत्याद्याः अह मात्मांता पदार्थाः। सैव ईश्वराख्य परदेवतैव। तस्मात्प्राणाधिकाः बहवः न। किंतु श्रीस्तदीशावेवेत्यर्थः ॥

एवंच सत्यादीनां सर्वेषां परदेवतात्वात्। न चाभेदोक्त्यभावः। सत्यमिति प्रश्ने यथा वै इति तद्‌व्याप्तार्थांतरोपदेशस्य कथमप्ययोगेन विज्ञानस्य सत्यगुणत्वाभिधायकत्वात्। गुणस्य च गुण्यभिन्नत्वात्। स वा एष [छां. 7-15-4.] इत्यादिनाऽहंकारात्मज्ञानान्मोक्षाभिधानात्। स एवाधास्तादिति पूर्णत्वाभिधानाच्च। किंच सर्वेषां सत्यादीनां श्रुत्यंतरे सत्यं पूर्णमित्यादिना पूर्णत्वस्य भगवल्लक्षणत्वोक्त्या ततोऽपि सर्वेषां तदैक्यं। अतः सत्यादीनामात्मांतानां भगवत्स्वरूपत्वेन स एव प्राणादुत्तम इत्युक्तमुपपन्नमिति सिद्धं ॥
</3-3-39>
॥ इति सत्याधिकरणं ॥

24.अधिकरणं ॥

अत्र श्रिय उपासनानधिकारित्वं साध्यते।

<3-3-40>
(40) ॥ कामादितरत्र तत्र चायतनादिभ्यः ॥

ननु भवत्येव प्रकृतिरधिकारिणी। न च नामादिष्वपठितत्वादिति वाच्यं। असिद्धेः। न च श्रवणप्रसंगः। अनुच्चारितमेव तद्वाक्यं ऋष्यभिप्रेतमस्तीत्यंगीकारात्। न च संसारित्वासिद्धिः। सीतारुग्मिण्यदिर्जननमरणादिदर्शनेन तत्सिद्धेः। ततश्च नाधिकारिणां प्राणावसानत्वमिति प्राप्ते सूत्रितं ॥

॥ कामादितरत्र तत्र चायतनादिभ्य इति ॥ अस्यार्थः ॥ लक्ष्मीः तत्र भगवत्समीपे स्थिता सती। इतरत्रच भूम्यादावपि। कामात् ईश्वरेच्छयैवावतारान्करोति। कुतः। आयतनादिभ्यः सर्वगतत्वप्रतिपादक सर्वायतनेत्यादिश्रुत्यादिब्य इत्यर्थः ॥

एवंच प्रकृतिर्नाधिकारिणी। अबद्धत्वात्। न च जननादिना तत्सिद्धिः। सीतारुग्मिण्यादेः प्रादुर्भूतत्वेनोत्पत्तेरभावात्। सर्वायतना सर्वकालेति वत्सश्रुतेः। अतः प्रकृतेरधिकारित्वाभावाद्युक्तं प्राणावसानत्वमिति सिद्धं ॥
</3-3-40>

<3-3-41>
(41) ॥ आदरादलोपः ॥

ननु रमाया असंसारित्वे कृतकृत्यत्वेन भगवदुपासनाद्यभावः स्यात्। न चासौ युक्तः। यदर्चितं ब्रह्मेत्यादिप्रमाणविरुद्धत्वात्। आत्रार्चितमुपासितं पूजितं चेत्युक्तेरित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

॥ आदरादलोप इति ॥ अस्यार्थः ॥ आदरात् भगवति निरुपाधिकभक्त्यतिशयात्। अलोपः श्रियो भगवदुपासनाभावो नेत्यर्थः ॥

एवंच श्रीर्नित्यमुक्ताऽबद्धाऽपि निरुपाधिकसर्वातिशयितभक्तिवशान्नियमेन तस्या भगवदुपासनोपपत्तेः। यथा श्रीरिति [बृहत्तंत्रं.] वचनात्। अत उक्तं युक्तमिति सिद्धं ॥
</3-3-41>


<3-3-42>
(42) ॥ उपस्थितेस्तद्वचनात् ॥

ननु न रमाया नित्यमुक्तत्वं युक्तं। कारणाभावात्। न च स्वत एव तत्। तस्या अस्वातंत्र्यादिति प्राप्ते परिहरत्सूत्रमुपन्यस्यति ॥

॥ उपस्थितेस्तद्वचनादिति ॥ अस्यार्थः ॥ श्रियो नित्यमुक्तत्वं युज्यते। कुतः। उपस्थितेः हरिसमीपे सदा स्थितेः। श्रियो नित्यसमीपस्थत्वं च। तद्वचनात् द्वावेताविति (गौपवचनश्रुतिः) नित्यसंबंधित्ववचनात्। ज्ञायत इत्यर्थः ॥

एवंच द्वाविति श्रुतिवचनाद्रमायाः समीपस्थितेः सिद्धत्वात्। अतिशयितभगवत्प्रसादाख्यकारणसद्भावात्। अतस्तस्या नित्यमुक्तत्वेनाधिकारिकत्वाभावाद्युक्तं प्राणावसानत्वमिति सिद्धं ॥
</3-3-42>
॥ इति कामाधिकरणं ॥

25.अधिकरणं ॥

अत्र श्रवणमनननिदिध्यासनरूपस्य समस्तस्याप्युपासनस्य कर्तव्यत्वं समर्थ्यते।

<3-3-43>
(43) ॥ तन्निर्धारणार्थनियमस्तदृष्टेः पृथग्घ्यप्रतिबंधः फलं ॥

ननु श्रवणमनने एव कार्ये। ताभ्यामेवाज्ञानसंशयविपर्यनिवृत्तौ स्वकारणादेव दर्शनसंभवात्। अथोच्येत। अज्ञानप्रतिबंधकानां दृढत्वात्ध्यानेनैव प्रतिबंधकनिवृत्तिरिति। तर्हि ध्यानेनैव ज्ञानमस्तु। न ज्ञानार्थं श्रवणमनने। न च समुचितानां ज्ञानहेतुत्वे मानमस्ति। न च ज्ञानोत्पादे श्रवणमननयोरुपयोगोऽस्ति। अतः समस्तोपासनस्यावश्याकर्तव्यत्वेन तद्विधानवैयर्थ्यमिति प्राप्ते सूत्रमाह ॥

॥ तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्घ्यप्रतिबंधः फलमिति ॥ अस्यार्थः ॥ यतस्तन्नर्धारणार्थनियमः वेदार्थनिश्चयो वेदार्थनियमश्चेत्येतद्रूपं। श्रवणमननफलं ध्यानफलभूतायाः। तद्दृष्टेः ब्रह्मदर्शनात्। पृथगेन भिन्नमेव। अतो न ब्रह्मदृष्टिः श्रवणादिना भवतीत्यर्थः। तथापि न श्रवणमननवैयर्थ्यं। कुतः। हि यस्मात्। अप्रतिबंधः ब्रह्मदृष्टिप्रतिबंधकनिवृत्तिः। तन्नश्चयः तन्नियमद्वारा श्रवणमननयोः फलं। अतो ध्यानसाध्यापि दृष्टिः प्रतिबंधकनिवृत्तिद्वारा श्रवणादिसाध्या भवति। तदर्थं श्रवणादिकमपि कार्यमेवेत्यर्थः। हि शब्देन आत्मा वाऽर इति (बृ. 4-4-5.) श्रुतिः सूचिता ॥

एवंच कर्तव्यमेव समस्तोपासनं। न श्रवणमननमात्रं। तयोस्तत्त्वज्ञानवेदार्थनिर्णयरूपदर्शनातिरिक्तफलहेतुत्वेनदर्शनहेतुत्वाभावात्। ध्यानस्य च दर्शनहेतुत्वेनावश्यकत्वात्। न चैवं श्रवणमननाभावप्रसंगः। तयोः साक्षाद्दर्शनहेतुत्वाभावेऽपि प्रतिबंधकीभूताज्ञानसंशयविपर्ययनिवृत्तिद्वारा दर्शनोपयोगित्वेनावश्यकत्वात्। न च तत्र प्रमाणाभावः। दर्शनार्थ श्रोतव्य इति विहितत्वात्। श्रुत्वा मत्वेति [ब्रह्मतर्के.] स्मृतेश्च। अतः समस्तोपासनस्य कर्तव्यत्वाद्युक्तं तद्विधानमिति सिद्धं ॥
</3-3-43>
॥ इति निर्धारणाधिकरणं ॥

23.अधिकरणं ॥

अत्र भगवत्ज्ञानसाधनश्रवणाद्युपासनस्य सेतिकर्तव्यताकत्वं साध्यते।

<3-3-44>
(44) ॥ प्रदानवदेव हि तदुक्तं ॥

ननु श्रवणादिकमेव ज्ञानसाधनं। न गुरुप्रदानपूर्वकं। आत्मावेति श्रुतौ श्रवणादीनामेव ज्ञानत्वाभिधानात्। न हि श्रवणादित्रयमुक्त्वाविशिष्यगुरुप्रदानस्यानुक्तौ कारणमस्ति। किंच गुरुप्रसादस्य श्रवणाद्यंगत्वेऽनुष्ठितश्रवणादेरपि गुरुकोपेन ज्ञानाभावः स्यात्। तथा च जातापरोक्षस्य मोक्षाभावः स्यादविशेषादिति प्राप्ते सूत्रितं ॥

॥ प्रदानवदेव हि तदुक्तमिति ॥ अस्यार्थः ॥ प्रदानवत् प्रीतिपूर्वकं गुरुपदेशयुक्तमेव श्रवणादिकं ज्ञानसाधनं न केवलं। कुतः। हि यतः। तदुक्तं तस्य ज्ञानस्य गुरुप्रसादार्धानत्वं आचार्यवानिति (छां. 6-14-2.) श्रुतावुक्तमत इत्यर्थः ॥

एवंच गुरुप्रदानयुक्तमेव श्रवणादिकं मोक्षसाधनं। आचार्यवान्पुरुषो वेदेति वचनात्। न चात्मावेति श्रुतौ श्रवणादेरिव गुरुप्रदानस्याप्युक्तिप्रसंगः। गुरुप्रदानस्य श्रवणाद्यंगत्वेन तत्समकक्षित्वाभावात्। न चानुष्ठितश्रवणादेरपि ज्ञानाभावो ज्ञानिनोऽपि मोक्षाभावो गुरुकोपेन स्यादिति वाच्यं। तत्ज्ञानमोक्षयोरीश्वरकल्पितत्वात्। न चैवं गुरुशापो विफलः। ज्ञानादिह्रासहेतुत्वात्। ज्ञानिनो गुरुशापोपीति ये ज्ञानविषया इति चोक्तेः। अतो गुरुप्रदानस्यावश्यकत्वाद्युक्तमेव श्रवणादिकं कर्तव्यमिति सिद्धं ॥
</3-3-44>
॥ इति प्रदानाधिकरणं ॥

27.अधिकरणं ॥

अत्रेतिकर्तव्यतारूपगुरुप्रसादस्य बलीयस्त्वं समर्थ्यते।

<3-3-45>
(45) ॥ लिंगभूयस्त्वात्तद्धि बलीयस्तदपि ॥

ननु विशिष्टशिष्यप्रयत्न एव बलवान्। प्रधानत्वात्। न गुरुप्रसादः। इतिकर्तव्यतारूपत्वात्। माभूद्वाऽऽधिक्यं साम्यं तु स्यात्। न शिष्यप्रयत्नस्य दौर्बल्यं। गुरुशिष्ययोः। पुरुषत्वसाम्यात्। अतो गुरुप्रसादस्याप्राबल्यान्नावश्यकत्वमिति प्राप्ते सूत्रमाह ॥

॥ लिंगभूयस्त्वात्तद्धि बलीयस्तदपीति ॥ अस्यार्थः ॥ तत् गुरुप्रसादपूर्वकप्रदानमात्रं। बलीयः अतिशयेन बलवत्। कुतः। लिंगभूयस्त्वात् वृषभहंसजलवायसरूपेभ्यो वाय्वग्निवरुणेभ्यो श्रुतविद्येनापि सत्यकामेन गुरुप्रदानादिरूपलिंगबाहुल्यदर्शनात् तथाऽपि तदपि श्रवणादिकमपि कार्यं। कुतः। श्रेतव्य इति (बृ. 4-4-5.) श्रुतेरित्यर्थः। हि शब्दः श्रुतिसूचकः ॥

एवंच गुरुप्रसादो बलवानेव न दुर्बलः। नापि समः। लिंगभूयस्त्वात्। दौर्बल्यमनुमातुं न शक्यं। न च गुरुप्रसादस्य प्राबल्याभावे तद्युज्यते न चेतिकर्तव्यतात्वाद्दौर्बल्यमनुमातुं शक्यं। लिंगभूयस्त्वेन बाधितविषयत्वात्। तथोपकोसलोप्यग्न्यादिभ्यो विद्यां श्रुत्वाऽपि गुरुं प्रार्थयते। तथा ऋषभादिभ्यो विद्यां श्रुत्वाऽपि सत्यकामो गुरुं प्रार्थयते। यागीयहिंसांगे तु व्यभिचाराच्च। न च तावताऽलमिति नं मंतव्यं। अपि वाऽऽत्मेति वचनेन तस्यानुष्ठेयत्वात्। अतो गुरुप्रसादपूर्वकं प्रदानस्य प्राबल्यात्तदपेक्षितमिति सिद्धं ॥
</3-3-45>
॥ इति लिंगभूयस्त्वाधिकरणं ॥

28.अधिकरणं ॥

अत्र पूर्वप्राप्तादन्योऽपि गुरुः स्वीकार्य एवेति समर्थ्यते।

<3-3-46>
(46) ॥ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत ॥

ननु प्रथम प्राप्त एव गुरुः स्वीकार्यो न तु तत्परित्यागेनान्यः। परित्याग कारणीभूतपातित्यादिदोषाभावात्। न च प्रथमप्राप्तगुर्वसाध्यफललाभायान्यः स्वीकार्य इति वाच्यं। गुरुस्वीकार्येणैव तदुपपत्तेः। न हि गुरुस्वीकारस्यासाध्यं नास्ति येनान्यः स्वीकार्यः स्यात्। अन्यथैकलव्यस्य विद्याप्राप्तिर्न स्यात्। पातित्यादिदोषं विनापि गुरुपरित्यागे च दोषप्राप्तेश्च। अतः पूर्वप्राप्त एव गुरुरिति नियमात्क्वचित्सर्वज्ञगुरोः प्रथम प्राप्तत्वाभावे प्रागुक्तं न युज्यत इति प्राप्ते सूत्रितं ॥

॥ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवादिति ॥ अस्यार्थः ॥ क्रियामानसवत् मानसक्रियारूपध्याने विकल्पः तथा पूर्वविकल्पः पूर्वप्राप्तेन गुरुणा समस्य पश्चात्प्राप्तस्य गुरोः। विकल्पः ग्राह्ये वा नवेति विकल्पः स्यात्। न तु स्वीकार्य एवेति विधिः। कुतः। प्रकरणात्। प्रकृष्टानुग्रहमपेक्ष्य गुरोः स्वीकार्यत्वादित्यर्थः ॥

एवंच न पूर्व प्राप्त एव गुरुरिति नियमः। पश्चात्तनः समग्रानुग्रहं करोति चेत्सोऽपि ग्राह्यः। गुरुपरिग्रहस्य समग्रानुग्रहार्थत्वात्। गुरुप्रसादमंतरा गुरुस्वीकारादिमात्रेण मोक्षादिलक्षणमहाफलाभावात्। समग्रानुग्रहं कर्ता पूर्वस्मादुत्तमश्चेत्पूर्वानुज्ञां विना निःसंशयं स्वीकार्य एव। समश्चेत्पूर्वानुज्ञया स्वीकार्यः। नोचेन्न स्वीकार्यः। इति विकल्पः स्यात्। मानसक्रियावत्। अधमश्चेन्न स्वीकार्य एव पूर्वस्मादुत्तम इति [बृहत्तंत्रं.] श्रुतेः। अतः सर्वज्ञगुरुस्वीकारस्योपपन्नत्वेन तदुक्तप्रकारेणोपासनं कर्तव्यमिति सिद्धं ॥
</3-3-46>

<3-3-47>
(47) ॥ अतिदेशाच्च ॥

हेत्वंतरेण समोत्तमगुरुस्वीकारं समर्थयत्सूत्रमाह ॥

॥ अतिदेशाच्चेति ॥ अस्यार्थः ॥ पूर्वगुरुणैव स्वसमोत्तमगुरुस्वीकारायातिदेशात्। यथे(पौष्यायणश्रुतिः.)त्यातिदिश्यमानत्वात्। युक्तमेव पश्चात्तनस्वीकरणमित्यर्थः ॥

एवंचाचार्योपासनं नाम सविनयमंते स्थितिः। तस्योपचारो नामाभीष्टकरणादिरित्यर्थकत्वात्। ब्रह्मोपास्व ब्रह्मोपचरस्वेति पौष्यायणश्रुतावतिदेशात्। अतः सर्वज्ञगुरुस्वीकारस्योपपन्नत्वेन तदुक्तप्रकारेणोपासनं कार्यमिति सिद्धं ॥
</3-3-47>
॥ इति विकल्पाधिकरणं ॥

29.अधिकरणं ॥

अत्रोपासनस्य कर्तव्यतासमर्थनाय ज्ञानमेव मुक्तिहेतुरिति समर्थ्यते।

<3-3-48>
(48) ॥ विद्यैव तु निर्धारणात् ॥

ननु न भगवत उपासनं कार्यं। व्यर्थत्वात्। न च ज्ञानार्थमुपासनं। तस्यापि व्यर्थत्वात्। न च मोक्षार्थं ज्ञानं। ज्ञानस्य मोक्षसाधनत्वानिश्चयात्। यथा ज्ञानस्य मोक्षसाधनत्वं श्रूयते तथा कर्मणोऽपि कर्मणैव ही[गी. 3-20.]त्यादि मोक्षसाधनत्वं स्मर्यते। न च पुरुषार्थसाधनत्वसंदेहेऽपि कृष्यादाविव ज्ञानोपासनादौ प्रवृत्तिः संभवतीति वाच्यं। अल्पवित्तव्ययायाससाध्ये तत्र तथा संभवेऽपि बहुवित्तव्ययायाससाध्यपारत्रिकप्रवृत्तेः संदेहमात्रेणायोगात्। ततो ज्ञानस्य मोक्षसाधनत्वानिर्णयान्न ज्ञानोपासनं कार्यमिति प्राप्ते सूत्रितं ॥

॥ विद्यैव तु निर्धारणादिति ॥ अस्यार्थः ॥ नान्यःपंथा इति (श्वे. 3-8.) निर्धारणात् अन्यनिषेधेन ज्ञानस्यैव मोक्षसाधनत्वनिश्चयात्। विद्यैव मोक्षसाधनं न कर्मादिकमित्यर्थः। श्रुतेः प्राबल्यद्योतकस्तु शब्द ॥

एवंच कार्यमेव ज्ञानार्थमुपासनं। तमेवं विदित्वेति श्रुतेः। कर्मवचनादपि प्राबल्येन विद्यैव मोक्ष इत्यवधारण संभवात्। अतो ज्ञानस्य मुक्तिसाधनत्वात्तदर्थमुपासनं कर्तव्यमिति सिद्धं ॥
</3-3-48>

<3-3-49>
(49) ॥ दर्शनाच्च ॥

नन्वेवं तर्हि ध्यानवैयर्थ्यं भवेत्। श्रवणेनैव मननरूपविचारसंभवात्। तन्मात्रेण मोक्षसंभवादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

॥ दर्शनाच्चेति ॥ अस्यार्थः ॥ न केवलं परोक्षज्ञाप्तिरूपविद्यैव मोक्षः। किंतु दर्ज्ञनाच्च ब्रह्मसाक्षात्कारादपि। अतो न ध्यानवैयर्थ्यमित्यर्थः ॥

एवंच परोक्षज्ञानेन मोक्षानुक्तेर्येन मननेनैव कृतत्वात्ध्यानवैयर्थ्यं स्यात्। किंनामोपासनाजनितेनापरोक्षज्ञानेनेत्यभ्युपगमात्। न च तमेवं विदित्वेति सामान्यश्रुतिसद्भावेन ज्ञानमेव मोक्षसाधनं तत्त्वपरोक्षज्ञानमेवेति नियमो नियामकाभावादिति वाच्यं। दृष्ट्‌वैवेति [कौशिक.] श्रुतिबलेन साधारणश्रुतेरप्यपरोक्षज्ञानपरतया व्याख्ये यत्वात्। अतो ज्ञानस्य मोक्षसाधनत्वेन तदर्थमुपासनं कर्तव्यमिति सिद्धं ॥
</3-3-49>
॥ इति विद्याधिकरणं ॥

30.अधिकरणं ॥

अत्र यत्साधनं भगवदुपास्तिः तस्य ज्ञानस्य मोक्षसाधनत्वं समर्थ्यते।

<3-3-50>
(50) ॥ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥

ननु कर्मसाध्य एव मोक्षः। कर्मणैव संसिद्धिरिति वचनात्। श्रुतिस्मृत्योः सावधारणत्वेऽपि भगवद्वाक्यत्वेन स्मृतेरेवबलवत्त्वात्। ततः श्रुतेः स्मृतिबाधितत्वेन ज्ञानस्य मोक्षसाधनत्वाभावेन न तदर्थमुपासनं कार्यमिति प्राप्ते सूत्रितं ॥

॥ श्रुत्यादिबलीयस्त्वाच्च न बाध इति ॥ अस्यार्थः ॥ मोक्षस्य ज्ञानसाध्यत्वेऽबाधः कर्मणैवेति स्मृतिविरोधो नास्ति। कुतः। श्रुत्यादिबलीयस्त्वात्। ज्ञानस्य मोक्षसाधकत्वोपपादकत्वमेवं विदित्वेत्यादि श्रुतिलिंगादेरतिबलत्वेन स्मृतिगतैव शब्दस्यायोगव्यवच्छेदार्थत्वोपपत्तेरित्यर्थः ॥ एतत्सूचनाय च शब्दः ॥

एवंच विद्यैव मोक्षः। तमेवं विदित्वेति [श्वे. 3-8.] नान्यः पंथा इति [श्वे. 3-8.] निर्धारणात्। तमेवं विदित्वेति वचनात्परोक्षज्ञानेनैव मोक्ष इति न मंतव्यं। दृष्ट्‌वैव तं मुच्यत इति वचनाद्विदित्वेति श्रुतेरप्यपरोक्षज्ञानपरताया एव ग्राह्यत्वात्। न च कर्मणैवेति सावधारणाया ईस्वरवचनेन बलवत्या स्मृत्या बाधः। तमेवं विदित्वेति श्रुतेर्न कर्मभिरिति तत्त्वज्ञानप्रार्थनर्लिगस्य कर्मणा बध्यत इति युक्तिमद्भगवद्वचनस्य च ततो बलवत्त्वात्। न च कर्मणैवेति स्मृत्यप्रामाण्यं। अवधारणस्य कर्मयोगाव्यवच्छेदार्थकत्वात्। अतो ज्ञानस्यैव मोक्षहेतुत्वेन कर्तव्यैवोपासनेति सिद्धं ॥
</3-3-50>
॥ इति श्रुत्यधिकरणं ॥

31.अधिकरणं ॥

अत्र ब्रह्मज्ञानसाधनोपासनस्य भक्तिपूर्वकत्वं समर्थ्यते।

<3-3-51>
(51) ॥ अनुबंधादिभ्यश्च ॥

ननु न ज्ञानार्थं भक्तिरपेक्षिता। प्रसादस्य ज्ञानहेतुत्वे सहायानपेक्षत्वात्। सर्वलक्षणसंपन्न इति [नारायणतंत्रे.] वचनात्। न चैवमुपासनाभावः ज्ञानस्योपासनाऽन्वयव्यतिरेकदर्शनेन प्रसादस्योपासनातिरिक्तापेक्षत्वस्य प्रमाणार्थत्वात्। न चोपासना भक्तिमंतरेण संभवतीति वाच्यं। द्वेषेणापि ध्यानसंभवात्। द्वेषाच्चैद्यादय इति वचनात्। अतो द्वेषेण वा भक्त्या वोत्पन्नेनोपासनेन गुरुप्रसादलक्षणसहकारिवाशात्ज्ञानसंभवेन न तदर्थं भक्त्यादिकमावश्यकमिति प्राप्ते सूत्रितं ॥

॥ अनुबंधादिभ्यश्चेति ॥ अस्यार्थः ॥ न केवलं श्रवणादिना। नापि प्रबलगुरुप्रसादेन ब्रह्मदर्शनं भवति। किंत्वनुबंधशब्दितहरिगुरुभक्तिशमादिभ्यश्चेत्यर्थः ॥

एवंच न केवलं ज्ञानार्थं श्रवणादिकं गुरुप्रसादश्चापेक्षितः। किंतु भक्त्यादिकमपि प्रसादार्थं ज्ञानार्थं चापेक्षितं। सर्वलक्षणसंपन्न इति वचनात्। अतो भक्त्यादेर्ज्ञानार्थमपेक्षितत्वादुक्तं युक्तमिति सिद्धं ॥
</3-3-51>
॥ इति अनुबंधाधिकरणं ॥
32.अधिकरणं ॥

अत्रोपासनासाध्यज्ञाने विशेषतारतम्यं समर्थ्यते।

<3-3-52>
(52) ॥ प्रज्ञांतरपृथक्त्ववदृष्टिश्च तदुक्तं ॥

ननु सर्वेषामेकप्रकारमेवापरोक्षज्ञानं। भक्त्या मामभिजानातीत्यनेन सर्वेषां पूर्णज्ञानेन मोक्षस्य चाभिधानात्। अतः सर्वेषां दर्शनसाम्यादुक्तं मुक्ततारतम्यमयुक्तमिति प्राप्ते सूत्रमाह ॥

॥ प्रज्ञांतर पृथक्त्ववद्दृष्टिश्च तदुक्तमिति ॥ अस्यार्थः ॥ प्रज्ञांतरं प्रज्ञाविशेषः। ध्यानमिति यावत्। तस्य पृथक्त्ववत् अनेकप्रकारत्त्ववत्। तदनुसारेण दृष्टिश्च ब्रह्मदृष्टिरपि अनेकप्रकारा न स्रेवषामेकविधा। किंच तदुक्तं दृष्टेरनेकविधत्वं अंतर्दृष्टय इति (कमठ.) श्रुतावुक्तंचेत्यर्थः ॥

एवंचानेकप्रकारमेवाधिकारिणां भगवद्दर्शनं। तत्साधनस्योपासनस्यानेकप्रकारत्वात्। फलस्य च साधनानुसारित्वात्। न चैवं संपूर्णदर्शनाभावाद्विरिंचेतरेषां मोक्षाभावः। यथायोग्य दृष्टेरेव मोक्षहेतुत्वेन स्वयोग्यदर्शनेन सर्वेषां मोक्षसंभवात्। अतो ज्ञानविशेषसद्भावाद्युक्तं मोक्षतारतम्यमिति सिद्धं ॥
</3-3-52>
॥ इति प्रज्ञांतराधिकरणं ॥

33.अधिकरणं ॥

अत्रोपासनस्य बिंबशब्दितयोग्यात्मरूपविषयकस्यैव मुक्तिसाधनत्वं समर्थ्यते।

<3-3-53>
(53) ॥ न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥

ननु यत्किंचिद्रूपदर्शनमेव मोक्षसाधनं। भगवतः पूर्वरूपेष्वपि साम्यात्। अतो यत्किंचिद्रूपदर्शनस्य मोक्षसाधनत्वान्न बिंबोपासनानियतिरपेक्षिता सिद्यतीति प्राप्ते पराकुर्वत्सूत्रमाह ॥

॥ ना सामान्यापप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिरिति ॥ अस्यार्थः ॥ मृत्युवत् मृत्युमात्रानंतरं यथा न मुक्तिः। किंतु चरममृतिविशेषानंतरमेव। तद्वदत्रापि भगवद्रूपाणां साम्येऽपि उपलब्धेः। भगवद्दष्टिसामान्यात् साधारणरूपापरोक्षज्ञानात्। न सर्वेषां मुक्तिः किंतु स्वस्वबिंबदर्शनादेव। न चैवं सामान्यदर्शनस्य वैफल्यं। तस्य महरादिलोकप्राप्तिसाधनत्वात्। न चैतावता तस्य मोक्षहेतुत्वं प्राप्नेति। हि यतः। लोकपत्तिः लोकप्राप्तिमात्रं न मुक्तिः। तस्मादित्यर्थः ॥ हीत्यनेन सन्मान्यदर्शने(नारायणतंत्रे)त्यादिप्रमाणप्रसिद्धिश्च सूचिता ॥

एवंच भगवद्रूपाणां सामान्येन सामान्यतो दर्शनेन न सर्वेषां मुक्तिः। किं नाम स्वबिंबदर्शनादेव। दर्शनेनात्मयोग्येनेति [अध्यात्मे.] वचनात्। न च दर्शनांतरवैयर्थ्यं। सामान्यदर्शनादितिवचनबलेन तेषां महरादिलोकप्राप्तिहेतुत्वात्। स्वयोग्यज्ञानस्यैव मोक्षहेतुत्वात्। मृत्युत्वसाम्येऽपि लिंगभंगस्यैवानंदाविर्भावहेतुत्वात्। न च लोकप्राप्तिरेव मोक्षः। महरादिलोकं गतानां प्रयलानंतरं मोक्षश्रवणात्। अतो बिंबदर्शनस्यैव मोक्षसाधनत्वात्तदेवोपास्यमिति सिद्धं ॥
</3-3-53>
॥ इति न सामान्याधिकरणं ॥

34.अधिकरणं ॥

अत्रानुबंधादिभ्य इत्यत्र दर्शनसाधनतयोपासनासाहित्येनोक्तभक्तेः स्वातंत्र्यं निरस्यते।

<3-3-54>
(54) ॥ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबंधः ॥

ननु भक्त्यैवापरोक्षजानं। न परमात्मप्रसादेन। भक्तिरेवैनं मोचयतीति [माठर.] श्रुतेः। ततः साधनसामर्थ्येनैव दर्शनसंभवान्न तस्याव्यक्तत्वमिति प्राप्ते सूत्रमाह ॥

॥ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबंध इति ॥ अस्यार्थः ॥ तुरपि यद्यपि। परेण च परमात्मनैव। ब्रह्मदर्शनं तथाऽपि शब्दस्य भक्तिरेवैनमिति श्रुतेः। तद्विध्यं परमात्मन इव भक्तेः स्वातंत्र्येण ब्रह्मदर्शनहेतुत्ववाचित्वं युज्यते। कुतः। दर्शनादौ करणत्वादिति हेतुरुपस्कर्तव्यः। यद्वा। परेण वाच्येन निमित्तेन शब्दस्य भक्तिरिति श्रुतेः। ताद्विध्यं युक्तमित्यर्थः। तर्हि कथं भक्तिरिति वाक्येन सत्स्वप्यन्यसाधनेषु अनुबंधो भक्तिः विशिष्योच्यत इत्यत उक्तं। भूयस्त्वादिति। तस्याः साधनेषु। भूयस्त्वात् प्राधान्यात्। तदभिप्रायेणानुबंधो भक्तिर्विशिष्योच्यत इत्यर्थः ॥

एवंच भक्त्या प्रसन्नपरमात्मनैवापरोक्षज्ञानं। एतैरुपायैरिति श्रुत्या स्वेच्छयैव भक्तापरोक्षसिध्यर्थं ब्रह्मधामशब्दवाच्यवायुप्रवेशोक्तेः। न च पूर्वश्रुतिविरोधः। भगवत्प्रसादसाधनेषु भक्तेः प्राधान्याभिप्रायेण भक्तिरेवैनं मोचयतीत्यभिधानात्। अतो दर्शनादेः पुरुषसाध्यत्वाभावाद्युक्तमव्यक्तत्वं ब्रह्मण इति सिद्धं ॥
</3-3-54>
॥ इति परेणाधिकरणं ॥

35.अधिकरणं ॥

अत्रोपासनस्यानादियोग्यतासापेक्षत्वं समर्थ्यते।

<3-3-55>
(55) ॥ एक आत्मनः शरीरे भावात् ॥

ननु नोपासनाऽनादियोग्यतासापेक्षा। इंद्राद्यंशजीवानामुत्पत्तिमत्त्वेन तद्योग्यताया अनादिनित्यत्वाभावात्। न चेंद्रादियोग्यतैवार्जुनादीनां योग्यता। अंशस्यंशिमार्गवृत्तित्वाभावात्। ज्ञानादिभेदेन तयोर्भिन्नत्वात्। ततश्चोपासनस्यानादियोग्यतानपेक्षत्वात्तदव्यवस्थितमिति प्राप्ते सूत्रमाह ॥

॥ एक आत्मनः शरीरे भावादिति ॥ अस्यार्थः ॥ अंशांशीति पदयोरर्थ एक एव अंशांशिनोरैक्यमेव। कुतः। आत्मनः अंशिनः। इंद्रादिशरीरे कर्मनिर्मितशरीरे। अंशस्यार्जुनादेः। भावात् तदभिमानितया सत्वादित्यर्थः ॥

एवंचात्स्येव सर्वेषामुपासनादावनादियोग्यतासापेक्षा। न चार्जुनादीनामुत्पत्तिमत्त्वेनानादियोग्यताभावः। तेषामंश्यभिन्नत्वेन तद्योग्यताया एव तद्योग्यतात्वात्। तदैक्यं चांशोंश्यभिन्नः। तत्कर्मनिर्मितशरीरवृत्तित्वादित्यनुमानसिद्धं ॥ अतः सर्वेषामुपासनादावनादियोग्यताऽपेक्षितेति युक्ता तद्‌व्यवस्थेति सिद्धं ॥
</3-3-55>

<3-3-56>
(56) ॥ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥

ननु ज्ञानादिभेदादंशांशिनोर्भेद एव युक्तो नाभेद इत्यात्शंकां परिहर्तुं सूत्रमुपन्यस्यति ॥

॥ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवदिति ॥ अस्यार्थः ॥ उपलब्धिवत् ज्ञानसुखादौ परस्परं भेद इव। अंशांशिनोरपि। व्यतेरिको भेद इति तु न। कुतः। तद्भावभावित्वात् अशंस्यांशिकृतभावशब्दितोपसनाजन्यफलानुभवित्वात्। अन्यथा तन्न स्यादित्यर्थः ॥

एवंचांशिनि सुखिनि दुःखिन्यंशस्य तदनुसंधानाभावाद्भेद इति शंकाया अनुदयात्। अन्यथाऽसिद्धेः। अंशिन्यंशगतसर्वानुसंधानभावात्। अंशस्याचिंत्येश्वरशक्तिवशात्सर्वानुसंधानाभावेऽपि प्रधानसाधनोपासनादिफलानुसंधानात्। अतः सर्वेषामुपासनादावनादियोग्यतासापेक्षतेति सिद्धं ॥
</3-3-56>
॥ इति एकाधिकरणं ॥

36.अधिकरणं ॥

अत्र भगवदुपास्तेर्यथायोग्यं ब्रह्माद्यंगदेवतोपास्तेर्युक्तत्वेन कर्तव्यता प्रतिपाद्यते।

<3-3-57>
(57) ॥ अंगावबद्धास्तु न शाखासु हि प्रतिवेदं ॥

ननु केवलमेव ब्रह्मोपासनं कार्यं। तमेवैकं जानथेति [मुं. 2-2-5.] वचनात्। ततश्चान्यदेवानामनुपास्यत्वात्। तदभिधायकवेदवैयर्थ्यमिति ॥ यद्वा ॥ कार्यैवांगदेवतोपासना। परंतु ब्रह्मादिषु ये गुणास्ते सर्वदेवेषूपसंहर्तव्याः। ये चाग्न्यादिषु प्रतीता गुणास्तेऽपि सर्वेषु देवेषूपसंहर्तव्याः। ततश्च तारतम्याभाव इति। प्राप्ते सूत्रितं ॥

॥ अंगावबद्धस्तु न शाखासु हि प्रतिवेदमिति ॥ अस्यार्थः ॥ तु शब्दो विशेषे। अंगावबद्धाः हरेरंगाश्रिताः। देवा अपि तत्परिवारत्वेन देवैरुपास्याः। तदुपसंहारे तु विशेषोऽस्ति। कः। देवानां प्रतिवेदं सर्ववेदगतासु शाखासु उक्तं यद्‌ब्रह्माद्यंगदेवतावबद्धगुमजातं तत्सर्वं रुद्रादिषु नोपसंहार्यं। किंतु योग्यमेवेत्येवं रूप इत्यर्थः ॥ हीत्यनेन समत्वाद्वेति(ब्रह्मतर्के.) स्मृतिप्रसिद्धिः सूचिता

एवंच कार्यमेवांगदेवतोपासनं। न च श्रुत्यादिविरोधः। प्राधान्ये तदुपासनस्य निषिद्धत्वात्। ततश्च न तद्विधायकवेदवैयर्थ्यं। अपि च। कार्यैवांगदेवतोपासना। परंतु ब्रह्माद्युत्तमेषु प्रतीता गुणा नाधमेषूपसंहर्तव्याः। अयोग्यत्वात्। ततश्च न तारतम्यहानिरिति सिद्धं ॥
</3-3-57>

<3-3-58>
(58) ॥ मंत्रादिवद्वाऽविरोध ॥

एवमेकत्र प्रतीतानां सर्वगुणानामन्यत्रोपसंहाराभाव उक्तः। इदानीमुपसंहाराभ्युपगमेऽपि न विरोध इत्याह सूत्रकृत् ॥

॥ मंत्रादिवद्वाऽविरोधादिति ॥ अस्यार्थः ॥ मंत्रादिवत् यथाऽग्न्याद्यधमदेवतावाचिमंत्रविद्यानां ब्रह्माद्यत्तमदेवतावाचित्वं तथाऽविरोधः अधमगुणानामुत्तमेषूपसंहारेऽपि विरोधो नास्तीति वाऽभ्युपगम्यत इत्यर्थः ॥

एवंच कार्यमेवांगदेवतोपासनं। अधमगुणानामुत्तमेषु सद्भावेप्युत्तमगुणानामधमेष्वभावात्। अतो यथायोग्यमंगदेवतानामुपास्यत्वात्सर्वं युक्तमिति सिद्धं ॥
</3-3-58>
॥ इति अंगावबद्धाधिकरणं ॥

37.अधिकरणं ॥

अत्र भूमगुणस्य सर्वोपासकसाधारणत्वं समर्थ्यते।

<3-3-59>
(59) ॥ भूम्नः क्रुतवज्ज्यायस्त्वं तथा च दर्शयति ॥

ननु न भूमगुणः सर्वोपास्यः। वैयर्थ्यात्। न हि कस्यापि निरतिशयपर्यायं भूमत्वनिष्ठं। न चानंदविशेषणत्वादुपास्यत्वं। प्रियशिरस्त्वादौ व्यभिचारात्। अतो भूमत्वस्य सर्वोपास्यत्वाभावाल्लौकिकतयोपासनमिति प्राप्ते सूत्रमाह ॥

॥ भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयतीति ॥ अस्यार्थः ॥ क्रतुव्त यथा क्रतुशब्दितप्रायणीयाद्यंगजातस्य। विकृतिकृतिषु अनुवृत्तिं अनुष्ठेयत्वं च। तथा भूम्नः पूर्णत्वगुणस्येतरगुणेभ्यो। जायस्त्वं विशिष्टत्वं। आनंदादिगुणेष्वनुवृत्तितयोपासनस्य सफलत्वं सर्वोपास्यत्वं चेत्येवं रूपं युज्यते। कुत एतत्। हि यस्मात्। भूमैव देव इति (गौपवन.) श्रुतिः। तथा दर्शयति प्रतिपादयति। तस्मादित्यर्थः ॥

एवंच सर्वैरप्युपास्यो भूमगुणः। यथा खलु दीक्षाप्रायणीयोदयनीयसवनत्रयावभृथात्मकस्य क्रतोः सर्वयागेष्वनुवर्तन एव साफल्यात्। अन्यथा वैफल्यात्। ज्यायस्त्वं। तथा भूमत्वस्य सर्वज्ञत्रानंदादिषु सहभावेनोपासन एवेष्टफलसिद्धेर्ज्यायस्त्वात्। अतः सर्वैरानंदाद्याः पुर्णगुणत्वेनोपास्या इति न लौकिकतयोपासनमिति सिद्धं ॥
</3-3-59>
॥ इति भूमाधिकरणं ॥

38.अधिकरणं ॥

अत्राधिकारिणां भूमगुणस्य नानाप्रकारेण प्रतीतेः समर्थ्यते।

<3-3-60>
(60) ॥ नाना शब्दादिभेदात् ॥

ननु सर्वेषां भूमत्वमेकप्रकारेणैव प्रतीयते। भूमत्वे विशेषाभावात्। विशेषाभावेऽपि तारतम्येन प्रतीत्यंगीकारे मिथ्योपासनप्रसंग इत्येकप्रकारेणोपास्यत्वान्नोक्ततारतम्यमिति प्राप्ते सूत्रमाह ॥

॥ नानाशब्दादिभेदादिति ॥ अस्यार्थः ॥ भूमगुणः सर्वैर्यथायोग्यं नानाप्राकरेणोपास्यः। नत्वेकप्रकारेण। कुतः। शब्दादिभेदात् शब्दादिप्रमाणैरधिकारिभेदात्। भूमगुणस्य नानाप्रकारेण प्रतीतेरित्यर्थः ॥

एवंच नानाप्रकारेणैव भूमत्वस्य प्रतीतेः। शब्दादिभिः प्रमाणैस्तत्प्रतीतेरेवेष्टव्यत्वात्। शब्दादीनां च तत्तद्योग्यतानुसारेणार्थप्रत्यायकत्वात्। न च भूमत्वे विशेषानुपपत्तिः। आनंत्ये तारतम्यवद्भूमत्वे तारतम्योपपत्तेः। अतो भूमत्वदृष्टावधिकारिणां विशेषसद्भावाद्युक्तं तारतम्यमिति सिद्धं ॥
</3-3-60>
॥ इति नानाशब्दाधिकरणं ॥

39.अधिकरणं ॥

अत्र बिंबातिरिक्तरूपोपासनस्याकर्तव्यता निरस्यते।

<3-3-61>
(61) ॥ विकल्पो विशिष्टफलत्वात् ॥

ननु नाधिकारिणा नृसिंहाद्युपासनं कार्यं। तस्य मोक्षहेतुत्वाभावात्। फलांतरस्यानपेक्षितत्वात्। प्रत्युत बिंबोपासनविरोधित्वाच्च। ततश्च तत्प्रतिपादकविद्यावैर्थ्यमिति प्राप्ते सूत्रितं ॥

॥ विकल्पो विशिष्टफलत्वादिति ॥ अस्यार्थः ॥ विकल्पः स्वस्वमोक्षसाधनान्यनृसिंहाद्युपासनं कार्यं न वेति द्विविधप्रकारः स्यात्। कुतः। विशिष्टफलत्वात्। तथोपासनस्य दुरितनिवृत्तिरूपफलविशेषमपेक्ष्य कर्तव्यत्वेन तदनुसारेण विकल्पस्यैव युक्तत्वादित्यर्थः ॥

एवंच नृसिंहाद्युपासनस्य न कर्तव्येति न भवति किंतु बिंबोपासनमनुष्ठाय विशिष्टफलापेक्षाचेत्कर्तव्यं। न चेन्न कर्तव्यमिति विकल्पः। न च नृसिंहाद्युपासनाभावे दुरितनिवृत्त्यसिद्धिः। द्वितीयया स्वबिंबोपासनयाऽपि दुरितनिवृत्तिसिद्धेः। ततश्चान्योपासनस्यापि कर्तव्यत्वान्न तद्विद्याया वैयर्थ्यमिति सिद्धं ॥
</3-3-61>
॥ इति विकल्पाधिकरणं ॥

40.अधिकरणं ॥

अत्र ज्ञानसाधनोपासनस्यैवावश्यकत्वं न कामसाधनभगवद्रूपगुणविषयोपासनस्येति साध्यते।

<3-3-62>
(62) ॥ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥

ननु कामसाधनभगवद्रूपोपासनं तदनुगुणोपसंहारेणावश्यकं। तत्साध्यस्य धनादेर्ज्ञानहेतुत्वात्। अतः काम्योपासनस्यावश्यकत्वाद्‌व्यर्थः प्रथम पाद इति प्राप्ते सूत्रमुपन्यस्यति ॥

॥ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावादिति ॥ अस्यार्थ ॥ काम्यास्तु काम्यरूपे कामितसाधनभगवद्गुणास्तु। यथाकामं स्वस्वफले कामानुसारेण। समुच्चीयेरन्न वा अमुमुक्षुभिरुपसंहर्तव्याः मुमुक्षुभिस्तु नोपसंहर्तव्या इति। वा व्यवस्थितविकल्पः स्यात्। कुतः। पूर्वहेत्वभावात् मुमुक्षूणां मोक्षेच्छापूर्वकालीनपूर्वसूत्रोक्तान्यकामाख्यहेत्वभावात्। एवं मुमुक्षुभिरेवेश्वरप्रीत्यर्थमुपसंहार्या फलार्थं नोपसंहार्या इति वा विकल्पः स्यादित्यर्थः ॥

एवंच कामसाधनरूपे कामसाधनगुणाः स्वस्वकामानुसारेणोपसंहर्तव्या न वेति विकल्प एव न तु नियतिः। विकल्पश्चामुमुक्षुभिः कार्यं मुमुक्षुभिर्नेति। मुमुक्षूणां च कामनाविरहात्। अथवा मुमुक्षुष्वेवायं विकल्पः। फलार्थं न कार्यं। ईश्वरप्रसादार्थं कार्यमिति। अतः कामनोपासनस्य वैकल्पिकत्वेन सार्थक्यं वैराग्यपादस्येति सिद्धं ॥
</3-3-62>
॥ इति कामाधिकरणं ॥

41.अधिकरणं ॥

अत्रांगाश्रितत्वेन देवतोपास्तेः कर्तव्यता समर्थ्यते।

<3-3-63>
(63) ॥ अंगेषु यथाऽऽश्रयभावः ॥

ननु नांगाश्रितदेवतोपासनं मुमुक्षुणा कर्तव्यं। अधिकारिविशेषं लक्षीकृत्य तत्फलोद्देशेनानभिहितत्वात्। न चैवमप्यधिकारिविशेषः कल्पयितुं शक्यः। कल्पकाभावात्। न च कल्पकाभावेऽपि कल्पना युक्ता। चोदनाद्यविशेषादित्युक्तव्याघातात्। ततश्च निरधिकारिकत्वादंगाश्रितत्वेन देवतोपासनं न कर्तव्यमिति प्राप्ते परिहरत्सूत्रमाह ॥

॥ अंगेषु यथाऽऽश्रयभाव इति ॥ अस्यार्थः ॥ अंगेषु भगवदंगेषु। यथाऽऽश्रयभावः चक्षोः सूर्योऽजायतेत्यादौ यथा यथाऽऽश्रयत्वमुक्तं तथा तैरुपासनं कर्तव्यमित्यर्थः ॥

एवंच चक्षोः सूर्योऽजायते[ऋ. 10-90-13.]त्यादिना यथा यथा भगवदंगाश्रयत्वमुक्तं तथोपासनं कार्यं। अन्यथा तदुक्तिवैयर्थ्यात्। अतो देवानामंगाश्रितत्वेनोपास्यत्वात्सार्थक्यं तद्विधानमिति सिद्धं ॥
</3-3-63>

<3-3-64>
(64) ॥ शिष्टेश्च ॥

युक्त्यंतरेण देवानामंगाश्रितत्वेनोपास्तिमभिदधत्सूत्रं पठति ॥

॥ शिष्टेश्चेति ॥ अस्यार्थः ॥ यस्मिन्निति (पौत्रायण.) श्रुतिविहितत्वाच्च तथोपासनं कर्तव्यमित्यर्थः ॥

एवंच न केवलं चक्षोरित्यादावंगाश्रयत्वेनोक्त्यन्यथाऽनुपपत्त्यांऽगाश्रितत्वेनोपास्तिः कार्या। किंतु शिक्षाविधायक यस्मिन्नेति श्रुतौ तथा विधानात्कार्या। अत उक्तं युक्तमिति सिद्धं ॥
</3-3-64>

<3-3-65>
(65) ॥ समाहारात् ॥

ननु निरधिकारिकत्वात्तद्विधानादिवैयर्थ्यस्यैवोचितत्वाच्च नांगदेवतोपासनं युक्तमित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

॥ समाहारादिति ॥ अस्यार्थः ॥ समाहारशब्देनोपसंहारफलश्रुतिर्गृह्यते। देवानां स्वस्वजनकांगत्वरूपगुणोपसंहारे फलवचनाच्च। तैस्तथोपसंहृत्योपासनं कर्तव्यमित्यर्थः ॥

एवंच काषायणानां समाहरश्रुतिवचनात्संहरेतेति समाहारपदघटितश्रुतेरंगदेवतोपासनस्य परमस्थानरूपसायुज्यप्राप्तिलकत्वावगमात्। निरधिकारिकत्वाभावेन तद्विधानादिवैय्रथ्यकल्पनाया अभावेन च देवैरेवांगदेवतोपास्तिः कार्येति सिद्धं ॥
</3-3-65>

<3-3-66>
(66) ॥ गुणसाधारण्यश्रुतेश्च ॥

हेत्वंतरेणांगदेवतोपासनस्य कर्तव्यतां समर्थयत्सूत्रमुपन्यस्यति ॥

॥ गुणसाधारण्यश्रुतेश्चेति ॥ अस्यार्थः ॥ गुणानां भगवद्‌गुणानां। साधारण्यस्य सर्वोपास्यत्वस्य। श्रुतेः साधारण्यादिति (मांडव्य.) श्रुत्युक्तत्वाच्च। देवैस्तथोपासनं कार्यमित्यर्थः ॥

एवंच ज्ञानानंदादिगुणानां सूर्याद्याश्रयचक्षुष्ट्‌वादीनां भगवद्गुणत्वात्। भगवद्गुणानां चोपास्यत्वेनैते उपास्या एते तु नेति विभागं विहाय योग्यानां सर्वेषामुपास्यत्वस्य निर्दिष्टश्रुतावुक्तत्वात्। अत्रांगाश्रितत्वेन देवतोपासनं। देवताश्रयत्वेन तद्गुणबिंबगुणत्वेन च परमात्मोपासनं। तयोः समनियतत्वात्। समाहारात्, गुणसाधारण्यश्रुतेः, दर्शनाच्च, इत्येतेषां विरोधाभावात्। देवैरांगाश्रितत्वेनांगदवताभावनायाः कर्तव्यत्वात्। अतो देवानां भगवदंगाश्रितत्वेनोपासनमुक्तमुपपन्नमिति सिद्धं ॥
</3-3-66>
॥ इति अंगाधिकरणं ॥

42.अधिकरणं ॥

अत्रांगदेवतोपास्तेः सर्वशाखानुक्तत्वेन प्राप्तकर्तव्यत्वशंकानिरासेन कर्तव्यता समर्थ्यते।

<3-3-67>
(67) ॥ न वाऽतत्सहभावश्रुतेः ॥

ननु भगवदंगाश्रयत्वेनोपासनं न केनापि कर्तव्यं। तथोपासनस्य तत्तद्योग्यगुणोपासननिरूपणपरासु सर्वशाखासु तत्तद्योग्यगुणोपासनैः सहानुक्तत्वात्। अतोंऽगदेवतोपासनस्याकर्तव्यत्वादुक्तमयुक्तमिति प्राप्ते सूत्रमाह ॥

॥ न वाऽतत्सहभावश्रुतेरिति ॥ अस्यार्थः ॥ अंगदेवतोपासनं देवान्यैर्न कार्यं। किंतु देवैरेवेति वा व्यवस्थितविकल्पः स्यात्। कुतः। अतत्सहभावश्रुतेः। तत्सह श्रुतेरभावात्। सर्वशाखागतगुणोपासनेन सहांगदेवतोपासनस्य श्रवणादित्यर्थः ॥

एवंच न कर्तव्य एव सर्वैर्भगवदंगेषु अंगदेवतोपसंहारः। किं नाम देवैरेव कर्तव्यः। सर्वशाखास्वनुक्तेः क्वचिदेवोक्तेः। अतो देवानां भगवदंगाश्रितत्वेनोपासनमुक्तमुपपन्नमिति सिद्धं ॥
</3-3-67>

<3-3-68>
(68) ॥ दर्शनाच्च ॥

देवैरेव भगवदंगाश्रितत्वेनोपासनं कर्तव्यं नान्यैरित्येतमेवार्थं युक्तिसिद्धं श्रुत्याऽपि समर्थयत्सूत्रं पठित्वा तां श्रुतिमुदाहरति सूत्रकृत् ॥

॥ दर्शनाच्चेति ॥ अस्यार्थः ॥ सत्यो ज्ञान इति (कमठ.) श्रुतौ अस्यार्थस्य दर्शनात् उक्तत्वाच्च देवैरेवांगदेवतोपास्तिः कार्या नान्यैरित्यर्थः ॥

एवंच न केवलं युक्तेः किंतु सत्यो ज्ञान इति श्रुतेश्चांगदेवतोपसंहारो देवेतरैर्न किंतु देवेरैव कार्यः। अतो देवानां भगवदंगाश्रितत्वेनोपासनमुक्तमुपपन्नमेवेति सिद्धं ॥
</3-3-68>
॥ इति न वाऽधिकरणं ॥
॥ इति तृतीयाध्यायस्य तृतीयः पादः ॥