सूत्रार्थरत्नावली/तृतीयोऽध्यायः/प्रथमः पादः

सूत्रार्थरत्नावली
प्रथमः पादः
[[लेखकः :|]]
द्वितीयः पादः →

।। श्रीः ।।
।। हरिः ॐ ।।
।। अथ तृतीयाध्यायः ।।
।। साधनविचारोऽयमध्यायः ।।
।। अथ प्रथमः पादः ।।

वैराग्यार्थे गत्यादि निरूपणाऽस्मिन्पादे क्रियते ।।

%1.अधिकरणं ।।%

अत्र भगवत्प्राप्तिसाधनवैराग्याय जीवस्य भूतावियोगः समर्थ्यते।

<3-1-1>
%(1) ।। ॐ ।। तदंतरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्यां ।। ॐ ।।%

ननु नानुष्ठेयमेव साधनं। फलार्थं हि साधनमनुष्ठेयं। फलं च बंधनिवृत्तिः। न मरणादतिरिच्यते। भूतसंबंधो हि बंधः। भूतबंधस्तु संसार इति [वाराहे.] वचनात्। न च मरणार्थमेव साधनमनुष्ठेयं। वैराग्याद्यननुष्ठानेऽपि मरणदर्शनात्। ततश्च शास्त्रमिदं व्यर्थमिति प्राप्ते सूत्रितं ।।

%।। ॐ ।। तदंतरप्रतिपत्तौ रंहति परिष्वक्तः प्रश्ननिरूपणाभ्यामिति ।।% अस्यार्थः ।। तदंतरप्रतिपत्तौ शरीरांतरप्राप्त्यर्थं। जीवः संपरिष्वक्तः पृथिव्यादिभूतसंयुक्त एव रंहति इमं देहं परित्यज्य लोकांतरं गच्छतीति ज्ञायते। कुतः। प्रश्ननिरूपणाभ्यां वेत्थ यथेति (छां. 5-3-9.) श्वेतकेतुमृषिंप्रति प्रवाहणस्य राज्ञः प्रश्नात्। तथा इति त्विति प्रवाहणोक्तपरिहाराच्चेत्यर्थः ।।

एवंच बंधनिवृत्तिरूपफलसद्भावात्। न च मरणमेव बंधनिवृत्तिः। मरणे भूतसंपरिष्वक्तस्यैव जीवस्य गमनांगीकारात्। तत्र वेत्येति प्रश्नवाक्ये तस्यैव परिहारवाक्ये च मृतस्य भूतपरिष्वंगाभिधानात्। भूतानां विनिवृत्तिरिति [भारते.] वचनं तु भूतभागविनिवृत्यभिमतमितिं न तद्विरोधः। अतो मरणमात्रेण मोक्षायोगात्। अनुष्ठेयमेव साधनमिति सार्थकमेव शास्त्रमिति सिद्धं ।।
</3-1-1>
।। इति तदंतराधिकरणं ।।

%2.अधिकरणं ।।%

अत्र भगवत्प्राप्तिसाधनवैराग्यार्थं जीवस्य समस्तभूतपरिष्वक्तस्य गतिः समर्थ्यते।
<3-1-2>
%(2) ॐ ।। त्र्यात्मकत्वात्तु भूयस्त्वात् ।। ॐ ।।%

ननु जीवेन सह आप एव गच्छंति न सर्वाणि। आपः पुरुषेति श्रुतेः। अन्यथा भूतानाति श्रुतिः स्यात्। अतो मृतस्य समस्तभूतबंधाभावात्मरणमेव मोक्ष इति व्यर्थमेव वैराग्यादीति प्राप्ते सूत्रितं ।।

%।। ॐ ।। त्रयात्मकत्वात्तु भूयस्त्वादिति ।।% अस्यार्थः ।। जीवः सर्वभूतपरिष्वक्त एव गच्छति। नाद्भिरेव। आप इति विशेषोक्तिस्तु त्र्यात्मकत्वात् अपां क्षितिसलिलानलात्मकत्वात्। तेप्वप्यपां भूयस्त्वात् बाहुल्यात्। युज्यते। अतो न तद्विरोध इत्यर्थः ।।

एवंच आपि इति पुनुरुत्पत्तिश्रवणात्। न च सर्वभूतपरिष्वंगाभावे पुनुरुत्पत्तिर्युज्यते। भूतबंधस्यैव संसारत्वेन तदभावे मुक्तत्वापातात्। एकभूतस्य चाबंधकत्वात्। न च विशेषश्रुतिविरोधः। अपां त्रिवृत्कृतपृथिव्यप्तेजसो हेतुत्वेनाप्‌ग्रहणेनैव सर्वेषां प्राप्तेः। न चापामिव भूतेजसोरपि त्रिवृत्कृतभूतत्रयकारणत्वेन शब्दांतरमपहायाप्‌शब्दस्यैव ग्रहणे कारणाभाव इति। सर्वशरीरेषु संभूयापां बहुत्वस्यैव नियामकत्वात्। अतोऽस्ति सर्वभूतानां जीवं परिष्वज्य गमनमिति स्वाभाविकमरणेन मुक्त्यभावादनुष्ठेयं वैराग्यादीति सिद्धं ।।
</3-1-2>
।। इति त्र्यात्मकत्वाधिकरणं ।।


%3.अधिकरणं ।।%

अत्र वैराग्यसिध्यर्थं जीवस्य भूतैः सह गतिः समर्थ्यते।

<3-1-3>
%(3) ॐ ।। प्रामगतेश्च ।। ॐ ।।%

ननु न भूतानि सह गच्छंति। प्रमाणामावात्। न च प्रश्नव्याख्याने प्रमाणं। तयोरपि भूतैः सह गमनाप्रतीतेः। आर्थिककल्पनायाश्च विशेषप्रमाणमंतरेणासंभवात्। अतः स्वाभाविकमरणमेव मुक्तिरित्यलं वैराग्यादिभिरिति प्राप्ते सूत्रमाह ।।

%।। ॐ ।। प्राणगतेश्चेति ।।% अस्यार्थः ।। भूतव्याप्तप्राणशब्दितेंद्रियाणां जीवेन सह गमनश्रवणाच्च। जीवो भूतसंपरिष्वक्त एव गच्छतीत्यर्थः ।।

एवंच भूतानि जीवेन सह गतिमंति तत्सहगंतृप्राणव्यापकत्वात् इत्यनुमानसद्भावात्। न च व्याप्त्यभावः। यत्र वाव भूतानीति [भाल्लवेय.] श्रुत्या भूतानां प्राणानां च परस्परव्याप्यव्यापकभावामिधानात्। अतः समस्तभूतानां जीवपरिष्वंगसिद्धेन मरणमात्रेण मोक्षोऽतोऽपेक्षितं वैराग्यादीति सिद्धं ।।
</3-1-3>
।। इति प्राणगत्यधिकरणं ।।

%4.अधिकरणं ।।%

अत्र प्राणानां जीवेन सहगतिः समर्थ्यते।

<3-1-4>
%(4) ॐ ।। अग्न्यणात्। तथा च प्राणानां गत्यभावेन साधकाभावाद्भूतानामपि न सह गतिरिति मरणमेव मोक्ष इति व्यर्थं वैराग्यादीत्याक्षिप्य समादधत्सूत्रं पठ
ति ।।

%।। ॐ ।। अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वादिति।% अस्यार्थः ।। अग्न्यादिगतिश्रुतेः प्राणानां यत्रेति अग्न्यादीन् प्रति गमनस्योक्तेर्न जीवेन सह गमनमिति चेन्न। कुतः। भाक्तत्वात्। यत्रेति श्रुतेः प्राणभागविषयत्वादित्यर्थः ।।

एवंच एतैर्वाव नेति श्रुतिसद्भावात्। प्राणानां भागेनाग्न्यादौ गत्यंगीकारेणाग्निमिति विशेषश्रुतेरविरोधः। पुरुषस्य मताविति [ब्राह्मे.] वचनात्। पुनः शरीरप्राप्तिसमयेऽग्न्यादौ प्रविष्टानां भागानां जीवसहगतभागेषु प्रवेशांगीकारेण सर्वापगमाभावात्। तथा च भूतानामपि मरणकाले भागेन जीवेन सह गतिः। भागेनाग्न्यादिगतिर्भवति। पुनः शरीरप्राप्तौ जीवेन सह गतेषु भूतभागेष्वग्न्यादीन्प्रति गतानां भूतभागानां प्रवेशो भवतीति विवेकात्। अतोऽस्ति प्राणानां जीवेन सह गतिस्ततो भूतानामपीति न मरणमात्रेण मोक्षोऽतोनुष्ठेयं साधनमिति सिद्धं ।।

</3-%5.अधिकरणं ।।%

अत्र भूतानां जीवेन सह गतिराक्षिप्य समाधीयते।

<3-1-5>
%(5) ॐ ।। प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ।। ॐ ।।%

ननु जीवेन सह भूतानां गमनं भवेत्। तस्मिन्नेतस्मिन्नितीत्युपक्रमे [छां. 5-4-2.] श्रद्धासहितस्यैव होमाभिधानात्। भूतानामपि सह गतावुपक्रमे तथोक्तिप्रसंगात्। अतो भूतानां सहगत्यभावेन भूतानां विनिवृत्तिरेव मोक्ष इति वदतो मरणस्यैव मोक्षत्वप्रसंगाद्‌व्यर्थं वैराग्यागीत्याक्षिप्य समादधत्सूत्रं पठति ।।

%।। ॐ ।। प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेरिति।।% अस्यार्थः ।। प्रथमे तस्मिन्नित्युपक्रमे। प्रथमे द्युनामके। प्रथमाग्नौ होमश्रवणात् भूतानां जीवसाहित्यश्रवणाभावाच्च। न जीवो भूतसहितो गच्छतीति चेन्न। कुतः। हि यतः। ता एव प्रस्तुता आप एवोपक्रमगतश्रद्धशब्देनोच्यंते। अतः। तत्कुतः। उपपत्तेः। आपः पुरुषवचसो भवंति (छां. 5-9-1.) त्युपसंहारोपपत्तेरित्यर्थः ।।

एवंच प्रथमाग्नौ भूतसहितस्य होमश्रवणेन भूतानां सहगतेर्वक्तव्यत्वात्। श्रद्धशब्दस्य जहत्स्वार्थलक्षणयाप्‌श्रद्धाविशिष्टजीववाचित्वात्। उपसंहारेऽपां जीवेन सह गतिश्रवणात्। उपसंहारानुसारेणैवोपक्रमस्य नेयत्वात्। न चागमनमात्रविषयत्वमुपसंहारस्येति वाच्यं। मरणकाले तत्परित्यागानुक्तेः। मध्ये संयोगमनभिधायाप इत्यनुवादेन सह गमनस्यैव कल्प्यत्वात्। अतो भूतानां जीवेन सह गतिसद्भावान्मरणस्य मुक्तित्वाभावेनापेक्षितं वैराग्यादिसाधनमिति सिद्धं ।।
</3-1-5>
।। इति प्रथमाधिकरणं ।।

%6.अधिकरणं ।।%

अत्र जीवस्य भूतैः सह गतिः समर्थ्यते।

<3-1-6>
%(6) ॐ ।। अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ।। ॐ ।।%

ननु मास्तु भूतानां जीवेन सह गमनं। तथा श्रुत्यभावात्। न चापां प्राणानां च सहगतिः श्रूयतेऽतोऽर्थाद्भूतगतिरपि श्रुता भवतीति। अपां प्राणानां चेति श्रुतौ साक्षाच्छ्रवणाभावेनार्थिकश्रुतेरपलपनीयत्वात्। वैदिकेऽर्थे साक्षाच्छ्रवणसद्भावादेव युक्तीनां प्रवृत्तेर्युक्त्याऽपि न तत्सिद्धिः। ततश्च मरणस्यैव मोक्षत्वप्रसंगादननुष्ठेयमेव वैराग्यादीत्याक्षिप्य पराकुर्वत्सूत्रं पठति ।।

%।। ॐ ।। अश्रुतत्वादितिचेन्नष्टादिकारिणां प्रतीतेरिति ।।% अस्यार्थः ।। अश्रुतत्वात् भूतानां जीवेन सह गमनस्याग्निं वागप्येतीतिवत्प्रत्यक्षश्रवणाभावान्न तेषां सह गमनमिति चेन्न। कुतः। अथैनमिति (कौंडिण्य.) श्रुत्या इष्टादिकारिणां यागहोमकृतां। प्रतीतेः प्रत्यक्षत एव भूतवियोगसहयोगयोरवगमादित्यर्थः ।।

एवंच प्रत्यक्षश्रुत्यभावेनाश्रवणमंगीकृत्य भूतानामसहगतेर्मंतव्यत्वायोगात्। आर्थिकश्रवणस्याप्यश्रवणबाधकत्वात्। यजमानमरणे भूतानां सहगतेर्विस्पष्टमभिहितत्वेन दृष्टांतेन सर्वत्रापि भूतगतिसिद्धेश्च। अतोऽस्त्येव भूतानां जीवेन सह गतेरिति मरणे मोक्षाभावादनुष्ठेयमेव वैराग्यादीति सिद्धं ।।
</3-1-6>
।। इति अश्रुतत्वाधिकरणं ।।

%7.अधिकरणं ।।%

अत्र भगवत्प्राप्त्यर्थं कर्मणामस्थिरफलकत्वोक्त्या वैराग्यादेरावश्यकसाधनत्वं समर्थ्यते।

<3-1-7>
%(7) ॐ ।। भाक्तंवाऽनात्मवित्त्वात्तथा हि दर्शयति ।। ॐ ।।%

ननु नानुष्ठेयं मुमुक्षुणा वैराग्यादि। कर्मणैव मोक्षसिद्धेः। अपामसोममिति [ऋ. 8-48-3.] श्रुतेः। न चोमयोरपि साधनत्वाद्वैराग्यादिकमप्यनुष्ठेयमिति वाच्यं। सति हि लघीयस्तुपाये गुरूपायस्यानादर्तव्यत्वात्। अतः सुशकेन कर्मणा मोक्षसिद्धौ वैराग्यादिना कृत्याभावादिति प्राप्ते सूत्रितं ।।

%।। ॐ ।। भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयतीति ।।% अस्यार्थः ।। काम्यकर्मिणां उक्तममृतत्वं भाक्तं अमुख्यं। कुतः। अनात्मवित्त्वात् तेषामब्रह्मज्ञानित्वात्। वा शब्देन जिज्ञासुज्ञानिकृताकाम्यकर्मजन्यामृतत्वमपि न संसारनिवृत्तिरूपमुख्यामृतत्वरूपं। किंतु अंतःकरणशुद्‌ध्यानंदातिशयरूपनिरतिशयपरममुख्यमिति पक्षद्वयं सूचयति। कुत एतत्। हि यस्मात्। अमृतो वेति, स एनमिति, (बृ. 3-4-15.) कर्मणेति, आत्मानमिति च श्रुतिः तथोक्तान् दर्शयति प्रतिपादयति। तस्मादित्यर्थः ।।

एवंच वैराग्याद्यननुष्ठाने मोक्षासिद्धेः। नचैवं श्रुतिंविरोधः। कर्म हि काम्यमकाम्यं चेति द्विविधं। अकाम्यमपि ज्ञानात्पूर्वभाविपश्चाद्भावि चेति द्विविधं। तत्सर्वमपि श्रुत्यर्थएव। अधिकारिभेदात्। यदा श्रुतिः काम्यकर्मपरा न तदा मुख्यामृतत्वं किंतु बहुकालजीवनरूपभाक्तमर्थमाह। यदा तु ज्ञानात्पूर्वभाव्यकाम्यकर्मपरा तदा मुख्याऽमृतत्वसाधनत्वमेवाह। किं नाम न साक्षात्किंतु कर्मणा शुद्धसत्त्वस्य वैराग्यादिद्वारा मोक्षसाधनत्वमाह। यदातु ज्ञानोत्तरकर्मपरा तदा ज्ञानेन सिध्यति मोक्षेऽतिशयाधायकत्वमाहेति व्यस्थायाः सद्भावात्। कथमपि कर्मणा साक्षान्मुख्यमोक्षसाधनत्वानभिधायकत्वात्। अतो वैराग्याद्यनुष्ठानमंतरेण मोक्षासिद्धेर्न तत्प्रतिपादकशास्त्रवैयर्थ्यमिति सिद्धं ।।
</3-1-7>
।। इति भाक्ताधिकरणं ।।

%8.अधिकरणं ।।%

अत्र वैराग्यादिसाधनस्यावश्यानुष्ठेयत्वं समर्थ्यते।

<3-1-8>
%(8) ॐ ।। कृतत्ययेऽनुशयवान् दृष्टस्मृतिभ्यां ।। ॐ ।।%

ननु वैराग्यादिनाऽलं। कृतस्य कर्मणो भोगेनैव क्षये बीजाभावेन संसाराभावसंभवात्। न च भोगकाले पुनः कर्मांतरानुष्ठानसंभवेन संसारान्निवृत्तिरिति वाच्यं। इह लोके भोगसमये कर्मानुष्ठाननियमेऽपि स्वर्गादौ तदभावेन तत्रैव सर्वकर्मणां भोगेन क्षये संसारान्निवृत्तिसंभावत्। कर्मणां भिन्नदेशकालविपाकत्वेऽपि यज्ञाद्याराधितभगवत्प्रसादेन भवन्मते सौभर्यादिवत्स्वर्गादावेव सर्वकर्मक्षयो नानुपपन्नः। ततश्च वैराग्यादेरनावश्यकत्वमिति प्राप्ते सूत्रितं ।।

%।। ॐ ।। कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यामिति ।।% अस्यार्थः ।। कृतात्यये कृतस्य कर्मणः स्वर्गादौ भोगेनात्यये क्षये सति। पुनरनुशयवान् भुक्तशेषवानेवेमं लोकं प्रत्यागच्छतीति ज्ञायते। कुतः। दृष्टस्मृतिभ्यां। ततः शेषेणेति दृष्टशब्दितश्रुतेः। भुक्तशेषेति स्मृतेश्चेत्यर्थ ।।

एवंच निर्दिष्टश्रुतिस्मृतिभ्यां स्वर्गाद्यापादककर्मण एव सामस्त्येन क्षयाभावेन सुतरां सर्वक्षयासंभवात्। एकस्य कर्मणो भोगावसरे पुनरनंतकर्मानुष्ठानेन भोगेनासमाप्तेर्द्वित्रावर्तनेषु सर्वक्षयाभावात्। आचतुर्दशमाद्वर्षादिति स्मृतेः। अतो वैराग्यादिसाधनमावश्यकमिति सिद्धं ।।
</3-1-8>
।। इति कृतात्ययाधिकरणं ।।

%9.अधिकरणं ।।%

अत्र स्वर्गादागतिप्रकारो निरूप्यते।

<3-1-9>
%(9) ॐ ।। यथेतमनेवंच ।। ॐ ।।%

ननु गमनप्रकारेणैवागमनं जीवस्य भवेत्। यथेतमेवेति श्रुतेः। येन यथा स्वर्गं प्रति जीवो गतः समार्गस्तावज्जीवस्य स्मृतिविषयः। न च स्मृतिमात्रपरित्यागेन मार्गांतरेणागमने कारणमस्तीति तेनैवायातीति वक्तव्यं। ततश्चातिक्लेशाभावान्न स्वर्गे वैराग्यमापादनीयमिति प्राप्ते सूत्रितं ।।

%।। ॐ ।। यथेतमनेवंचेति ।।% अस्यार्थः ।। जीवेन यथा येन मार्गेण स्वर्गादिकं। इतं प्राप्तं। तथा तेन। अनेवं अन्येन मार्गेण च। जीव इमं लोकमागच्छतीत्यर्थः ।।

एवंच धूमादभ्रमिति [काषायण.] विशेषश्रुतिसद्भावात्। आकाशपर्यंतं गत्यनुसारेणागमनस्यांगिकारेण पूर्वश्रुतेस्तत्परत्वेनाविरोधात्। आगमने जीवस्य स्वातंत्र्याभावेन युक्तेरप्रयोजकत्वेन तदविरोधात्। तस्मादागमनादावतिक्लेशयुक्तत्वेन स्वर्गफलेऽपि विरक्तेन भवितव्यमिति सिद्धं ।।
</3-1-9>
।। इति यथैताधिकरणं ।।

%10.अधिकरणं ।।%

अत्र गतागतस्य कर्मफलत्वं समर्थ्यते।

<3-1-10>
%(10) ॐ ।। चरणादिति चेन्न तदुपलक्षणार्थेतिकार्ष्णाजिनिः ।। ॐ ।।%

ननु चरणफलमेव गतागतं न यज्ञादिकर्मणः। तद्य इहेति श्रुतेः। [छां. 5-10-7.] चरणस्य च स यथा कारीति श्रुतेराचार इति स्मृतेश्च कर्मणोऽन्यत्वात्। न चाथ इम इति [छां. 5-10-3.] श्रुतेर्गतागतं यज्ञफलमेव न चरणफलमिति। इष्टापूर्त्तेदत्तमित्युपशब्देन यज्ञसमीपवर्त्तिवाचिना चरणभमभिधायेष्टापूर्त्त इत्यनेन यज्ञं चाभिदायोभयफलस्यते धूममभिसंभवंतीत्यादिना द्विविधस्वर्गाभिधानेनाथ इति श्रुतेश्चरणफलत्वात्। अतो गतागतस्यान्यफलत्वात्कर्मणा पुनरावृत्तिशून्यस्वर्गसिद्धेर्न वैराग्यादिना कृत्यमिति प्राप्ते सूत्रितं ।।

%।। ॐ ।। चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिरिति ।।% अस्यार्थः ।। गतागतं न यज्ञादेर्भवति। किंतु चरणात् यज्ञांगभूताचारादेव। चरणाचराश्रुतेरिति चेन्न। कुतः। यतः श्रुतिः तदुपलक्षणार्थाजहत्स्वार्थलक्षणया यज्ञाचारोभयप्रतिपादिकेति कार्ष्णजिनिराचार्यो मन्यते। अत इत्यर्थः।।

एवंच नान्यः पथा इति [तै.आ. 3-12-7.] श्रुत्या गतागतशून्यफलस्य कर्मसाध्यताया निषिद्धत्वात्। इष्टापूर्त्तामिति [मुं. 1-2-10.] श्रुत्या त्रैविद्यामामिति स्मृत्याच गतागतस्य कर्मफलत्वोक्तेश्च। न च तद्य इहेति श्रुतिविरोधः। तस्याः श्रुतेरुदाहृतश्रुत्याद्यनुरोधेन जहत्स्वार्थलक्षणया यज्ञाद्यर्थत्वोपपत्तेः। अथ यज्ञेनेति विस्पष्टश्रुतेश्च। अपि चैवं कार्ष्णाजिनिराचार्यो मन्यते। अतो गतागतस्य कर्मफलत्वाभाव इति सिद्धं ।।
</3-1-10>

<3-1-11>
%(11) ॐ ।। आनर्थक्यमिति चेन्न तदपेक्षत्वात् ।। ॐ ।।%

उक्तमाक्षिप्य समादधत्सूत्रं व्याचष्टे ।।

%ॐ ।। आनर्थक्यमिति चेन्न तदपेक्षत्वादिति ।।% अस्यार्थः ।। उपलक्षणार्थत्वे चरणशब्दस्यानर्थक्यं। कुतः। रमणियकपूयपदाभ्यामेव कर्मोपलक्षणसंभवादिति चेन्न। कुतः। तदपेक्षत्वात्। तस्य साध्वसाधुयज्ञादिमत्त्वस्य तदपेक्षत्वात् आचारादिसापेक्षत्वात्। तथा च तद्बोधार्थं तत्पदसार्थक्यं संभवतीत्यर्थः ।।

एवंच चरणवैयर्थ्यप्रसंगे यज्ञाद्युपलक्षणत्वमेव नेत्यंगीकारे श्रुत्यादिविरोधस्योक्तत्वात्। यज्ञाद्युपलक्षणत्वमंगीकृत्य चरणकृत्यमात्रं चेद्यज्ञादिकारिणां साध्वसाधुचरणाभ्यमेव रमणीयत्वं भवतीति ज्ञापनाय चरणपदमित्यभ्युपगमात्। अतो गतागतस्य कर्मफलत्वात्क्लेशसाधनं तस्मिंस्तत्साध्ये च विरक्तेन भवितव्यमिति सिद्धं ।।
</3-1-11>

<3-1-12>
%(12) ॐ ।। सुकृतदुष्कृते एवेति तु बादरिः ।। ॐ ।।%

प्रकारांतरेण चरणश्रुतिं व्याकुर्वत्सूत्रं पठति।।

%।। ॐ ।। सुकृतदृष्कृते एवेति तु बादरिति ।।% अस्यार्थः ।। सुकृतदुष्कृते साध्वसाधुकर्मणी। एव श्रुतिस्थचरणशब्दवाच्येन तु तदंगाचरणमिति बादरिराचार्यो मन्यत इत्यर्थः ।। तु शब्दात् स्वसिद्धातोऽपि स एवेति सूचयति ।।

एवंच चरणपदस्य यज्ञादिवाचकमेव। धर्म कुरुतेत्यर्थस्यांगीकारेऽपि बाधाबाधात्। चरतीति प्रयोगात्। करोतिचरत्योः पर्यायत्वेन धर्मशब्दाभिधेये पुण्यसाधने यज्ञादिसर्वकर्मणि निष्पन्नकृतशब्दाभिधेयत्वस्य सर्वसिद्धत्वेन तत्पर्यायत्वे कर्मणि ल्युडंतस्य चरणशब्दस्यापि क्तेरवर्जनीयत्वात्। अपि चैवमेव बादरिराचार्यो मन्यते। अतो गतागतस्य कर्मफलत्वात्क्लेशसाधने तस्मिंस्तत्साध्ये च विरक्तेन भवितव्यमिति सिद्धं ।।
</3-1-12>
।। इति चरणाधिकरणं ।।

%11.अधिकरणं ।।%

अत्रानिष्टादिकारिणामपि गतागतादि दुःखमस्तीति समर्थ्यते ।।

<3-1-13>
%(13) ॐ ।। अनिष्टादिकारिणामपि च श्रुतं ।। ॐ ।।%

नन्विष्टादिपुण्यकृतामेव गतागतादिक्लेशः। तेषां विधिनिषेधभीतियुक्तत्वात्। बिभ्यन्पतति पादपादिति न्यायात्। किंच कामनाहि कर्मांगसंगमेव च कर्मफलहेतुर्न तु व्यंग्यं। कामनावंतश्च ते इष्टादिकारिणस्तु स्वात्मानं स्वयमेव विधिनिषेधाभ्यां बध्नंति। उपनीतस्यैव विधिनिषेधविषयत्वात्। अनुपनीतास्तु मत्ताः। न ह्युपनीतं प्रत्यहरहः संध्यामित्यादि शास्त्रं प्रवर्तत इति शक्यते वक्तुं। शूद्रादीनां तत्प्रसंगात्। अतः पुण्यपापकृतामेव गमनागमनादिदुःख न तु पापमात्ररतानां मत्तानां किंतु मोक्ष एवेति पुण्ये तत्फले च विरक्त्या भवितव्यं न तु पापमात्रानुष्ठान इति प्राप्ते सूत्रमाह ।।

%।। ॐ ।। अनिष्टादिकारिणामपि च श्रुतिमिति ।।% अस्यार्थः ।। च शब्दो दुःखांतरसमुच्चये। न केवलमिष्टादिकारिणामेव गतागतं किंत्विष्टशब्दितयागादिकर्मविरुद्धपापकारिणामपि। कुतः। यतः। श्रुतं। तद्य इहेति (भाल्लवेयं.) श्रुत्या तथोक्तं। अत इत्यर्थः ।।

एवंच न पुण्यपापे संकल्य्यानुष्ठितानामेव गतागतादिक्लेशः। किं नाम पापमेवानुरक्तानां मत्तानामपि। उक्तश्रुत्या प्रत्येकं गतागतक्लेशाभिधानात्। अतो युक्तमुक्तमिति सिद्धं ।।
</3-1-13>

<3-1-14>
%(14) ॐ ।। संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ।। ॐ ।।%

न केवलमनिष्टादिकारिणां गतागतमात्रं। किं नामातिदुःखं पूर्वसूत्रे चशब्देन सूचितमन्यदस्तीत्यर्थं प्रतिपादयत्सूत्रमुपन्यस्यति ।।

%।। ॐ ।। संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनादिति ।।% अस्यार्थः ।। तु शब्दोऽवधारणे। सप्तमी द्वितीयार्थे। संयमने नरके। सम्यग्यमशासनमनुभूयैव स्थितानामितरेषामिष्टादिकारिभ्योऽन्येषां मध्ये। आरोहावरोहौ। केषांचिदारोहः नरकादुत्थानं केषांचिदवरोहः ततोऽपि नचिस्थाने नित्यनरके पातो भवति। कुतः। तद्गतिदर्शनात्। तेषां अनिष्टादिकारिणां। तद्गतेः एवंविधगतेः। दर्शनात् सर्व इति (कौंठरव्य) श्रुतावुक्तत्वादित्यर्थः ।।
</3-1-14>
।। एवंचोक्तं युक्तमिति सिद्धं ।।

<3-1-15>
%(15) ॐ ।। स्मरंतिच ।। ॐ ।।%

उक्तार्थं स्मृत्या समर्थयत्सूत्रं पठति ।।

%।। ॐ ।। स्मरंति चेति ।।% अस्यार्थः ।। स्मृतिकर्तारः उक्तमर्थं गच्छंतीत्यादिस्मृतिभिः प्रतिपादयंति चेत्यर्थः ।।

एवं न च भयकामनाद्यभावविरोधः। अबिभ्यता फलकामनाशून्येनाप्युपभुयक्तस्य विषयस्य मरणहेतुत्वदर्शनात्। अतोऽनिष्टादिकारिणामपि महानर्थत्वेन मोक्षशाया दूरोत्सारितत्वाद्भिवितव्यं तत्रापि विरक्तेनेति सिद्धं ।।
</3-1-15>
।। इति अनिष्टाधिकरणं ।।

%12.अधिकरणं ।।%

अत्र भगवद्वेषादिफलस्य नरकस्य नित्यत्वं समर्थ्यते।

<3-1-16>
%(16) ॐ ।। अपि सप्त ।। ॐ ।।%

ननु नरकं न निर्गत्य दुःखसाधनं। यावदिंद्राश्चतुर्दशेत्यादाववधिमत्त्वश्रवणात्। न चोभयं युक्तं। विरोधात्। न च पुरुषभेदेन व्यवस्था। चकार नरकं शून्यमिति शून्यताऽभिधानात्। ततश्च संयमने त्वनुभूय केषांचिदवरोह इति प्रागुक्तमयुक्तमिति नेतरपापेभ्यो भगवद्विद्वेषेऽतिशयेन वैराग्येण भाव्यमिति प्राप्ते सूत्रितं ।।

%।। ॐ ।। अपि सप्तेति ।।% अस्यार्थः ।। स्मर्तारः रौरवादिसप्तविधनपि नरकान् रौरव इति (भारते.) स्मृतिभिः प्रतिपादयंतीत्यर्थः ।।

एवंच भवेदेवं यद्यकमेव नरकं स्यात्। न चैवं। किं नाम रौरवोऽथेति वचनात्सप्तनकाणि। चकरा नरकमिति रौरवादि पंचनरकविषयाणि। नैवेत उतिष्ठंतइत्यादीनि [कौंठरव्य.] तामिस्रांधंतमिस्रविषयाणि। अन्यानि च बहूनि क्षुद्रनरकाणि। तान्यप्यनित्यफलदानि। अतो भगवद्वेषादिकफलस्य नित्यनरकत्वादितरपापेभ्योऽतिशयेन तत्रैव वैवार्गयेणभवितव्यमिति सिद्धं ।।
</3-1-16>
।। इति अपिसप्ताधिकरणं ।।

%13.अधिकरणं ।।%

अत्र नरकस्य सदुःखत्वं समर्थ्यते।

<3-1-17>
%(17) ॐ ।। तत्रापि च तद्व्यापारादविरोधः ।। ॐ ।।%

ननु न नरकं सदुःखं। ईश्वरस्यापि दुःखप्रसंगात्‌। भूलोकस्य स्वस्थितानां सर्वेषां दुःखजननस्वभावाभावेन भूलोके सहावस्थितयोर्जीवेशयोर्जीवस्यैव दुःखं नेश्वरस्येति शक्तिवैशेष्यादितिवत् तथा संभवेऽपि नरकस्य स्वस्थितानां सर्वेषां दुःखजननस्वभावत्त्वेन वैषम्यायोगात्। न च तत्रेश्वराभावान्न दुःखप्रसंगः। सर्वं विसृजतीति [कौषरव.] श्रुत्येश्वरस्य कार्यमात्रं प्रति कारणत्वेन तत्रेश्वराभावे सुतरां दुःखायोगात्। ततश्चोभयथाऽपि दुःखाभावसंभवान्न तत्र वैराग्येण भाव्यमिति प्राप्ते सूत्रितं ।।

%।। ॐ ।। तत्रापि च तद्‌व्यापारादिविरोध इति ।।% अस्यार्थः ।। च शब्दो दुःखानुभवं विनैवेत्यर्थसूचकः। तथा च तत्रापि ईश्वरस्य नरके स्थित्वा तत्स्थजीवानियंतृत्वे सर्वमिति श्रुतिविरोधः। तन्नियंतृत्वे दुःखभोक्तृत्वमित्युभयविरोधो नेत्यर्थः ।।

एवंच नरकेपीश्वरव्यापारांगीकारेणाकारणत्वदोषाभावात्। नरकस्यापि तद्वशत्वेनादुःखानुभवेनैव तत्प्रेरकत्वेन तस्य दुःखप्राप्त्यभावात्। सस्वर्ग इति [पौत्रायण.] श्रुतेः नरकेपीति स्मृतेश्च [भागवततंत्रे.]। तथा च नरकस्य स दुःखत्वात्तत्रैव वैराग्येण भाव्यमिति सिद्धं ।।
</3-1-17>
।। इति तत्राप्यधिकरणं ।।

%14.अधिकरणं ।।%

अत्र जीवानां गतिस्वातंत्र्यं निराक्रियते।

<3-1-18>
%(18) ॐ ।। विद्याकर्मणोरिति तु प्रकृतत्वात् ।। ॐ ।।%

ननु भवंत्येव जीवा गत्यादिफले स्वतंत्राः। अथैतयोरिति [छां. 5-10-8.] वचनात्। न हि स्वातंत्र्याभावे गच्छंति न गच्छंतीति व्यपदेशो युज्यते। न च जीवानां स्यातंत्र्यमप्रतिपादितमिति वाच्यं। साधनफलवदीश्वरदत्त्स्वातंत्र्यांगीकारात्। अतो मूले लब्धफलो नैव शाखाग्रं गंतुमिष्यतीति न्यायात् फल एव स्वातंत्र्यात् किं वैराग्यसाधनेनेति प्राप्ते सूत्रितं ।।

%।। ॐ ।। अविद्याकर्मणोरिति तु प्रकृतत्वादिति ।।% अस्यार्थः ।। तु शब्दोऽवधारणे। अथैतयोः पथोरिति श्रुतावेतयोरित्यस्य ज्ञानकर्मणोरित्येवार्थः। न तु धूमार्चिरादि मार्गयोरेति। येन जीवस्य फलस्वातंत्र्यं स्यात्। कुतः। प्रकृतत्वात्। तद्य इत्थमिति (छां. 5-10-1) तयोरपि प्रकृतत्वादित्यर्थः ।।

एवंच जीवानां गत्यादिस्वातंत्र्यं प्रमाणाभावात्। अथैतयोरिति श्रुतिगतैतयोरिति शब्दस्य तद्य इत्थमिति विद्याकर्ममार्गयोरपि प्रकृतत्वात्तत्परमर्शकत्वेनास्य वाक्यस्य साधने स्वातंत्र्यनिर्देशात्मकत्वात्। न च विद्याकर्ममार्गवद्देवयानपितृयानयोरपि प्रकृतत्वेन कस्यायं परामर्श इति संदेहेनानिर्णयः। विद्यापथ इति वचनेन परामर्शकनिर्णयोपपत्तेः। अतः फले स्वातंत्र्याभावादपेक्षितं वैराग्यादिसानधनमिति सिद्धं ।।
</3-1-18>
।। इति विद्याधिकरणं ।।

%15.अधिकरणं ।।%

अत्रांधंतमसस्य दुःखमात्रत्वं समर्थ्यते।

<3-1-19>
%(19) ॐ ।। न तृतीये तथोपलब्धेः ।। ॐ ।।%

नन्वधंतमोऽपि सुखयुक्तमेव। दुःखयुक्तत्वात्। दुःखं हि सुखाविना भूतं। यत्र दुःखं तत्रसुखमिति वचनात्। अतोंऽधंतमस्यपि सुखसद्भावान्न तत्रातिवैराग्यमपेक्षितमित्याशंकां परिहरत्सूत्रमाह ।।

%।। ॐ ।। न तृतीये तथोपलब्धेरिति ।।% अस्यार्थः ।। तृतीये तिर्यग्यातनातम इत्युक्ताधोगतिषु तृतीये तमसि। न सुखमस्तीति शेषः। कुतः। तथोपलब्धेः तथा प्रतीतेरित्यर्थः ।।

एवंचाथाविद्वानकर्मेति श्रुतिसद्भावात्। नांधेतमसि मग्नानामिति [भविष्यत्पर्वणि.] स्मृतेश्च। अतोंऽधेतमसि सुखलेशाभावाद्भवितव्यं तत्र तत्साधने च विरक्तेरिति सिद्धं ।।
</3-1-19>

<3-1-20>
%(20) ॐ ।। स्मर्यतेऽपि च लोके ।। ॐ ।।%

एतमेवार्थं स्मृत्यनुमानाभ्यां च साधयत्सूत्रमुपन्यस्यति ।।

%।। ॐ ।। स्मर्यतेऽपि च लोके इति ।।% अस्यार्थः ।। अंधे तमसि सुखराहित्यं नांधेतमसीति स्मृतिकर्त्रा स्मर्यते च स्मृत्या च प्रतिपाद्यते। किंचैतत् लोकेऽपि लोकदृष्टव्याप्तिकानुमानेनापि सिद्धमित्यर्थः ।।

एवंच तिर्यक्ष्विति स्मृतेः [भविष्यत्पर्वणि.] विमताः न सुखवंतः। ईश्वरेण तथानिष्टत्वात्। यो यथा नेश्वरेणेष्टः तथा। शृंगित्वेनानिष्टः शिखी न शृंगीत्यनुमानस्य च सद्भावात्। ईश्वरेण तथानिष्ठत्वं च तदप्रियत्वहेतुसिद्धं। अतोंऽधे तमसि सुखलेशाभाव इति सिद्धं ।।
</3-1-20>

<3-1-21>
%(21) ॐ ।। दर्शनाच्च ।।%

प्रत्यक्षेणाप्येतमर्थं साधयत्सूत्रमाह ।।

%।। ॐ ।। दर्शनाच्चेति ।।% अस्यार्थः ।। तृतीये सुखराहित्यं हिरण्यगर्भप्रत्यक्षाच्च सिद्धमित्यर्थः ।।

एवंच नारायणप्रसादेन समृद्धज्ञानचक्षुषा परमुखमंतरेण स्वयमेव सुखाभावस्य चतुर्मुखदर्शनवचनात् [पाद्ये.]। अतोंऽधे तमसि सुखलेशाभाव इति सिद्धं ।।
</3-1-21>

<3-1-22>
%(22) ॐ ।। तृतीये शब्दावरोधः संशोकजस्य ।। ॐ ।।%

अर्थापत्त्याप्येतमर्थं समर्थयत्सूत्रमुपन्यस्यति ।।

%।। ॐ ।। तृतीये शब्दावरोधः संशोकजस्येति ।।% अस्यार्थः ।। तृतीय इत्यावर्तते। तृतीये तमसि। तत्रापि तृतीये अंधे तमसि तद्विषये। यः शब्दः। तेन संशोकजस्य सम्यक् शोकजस्य। मोहस्यावरोधः प्राप्तिर्भवतीत्यर्थः ।।

एवंचाधरंतमश्रवणमात्रेण तच्छ्राविणां मोहप्राप्त्यन्यथाऽनुपपत्त्या तत्रत्यदुःखस्य निरवधिकत्ववत् सुखलेशासामानाधिकरण्यातिशयसिद्धेश्च। अतोंऽधे तमसि सुखलेशाभाव इति सिद्धं ।।
</3-1-22>

<3-1-23>
%(23) ॐ ।। स्मरणाच्च ।। ॐ ।।%

ननु तृतीयतमःस्वरूपश्रवणे श्रोतॄणां मोहप्राप्तिरित्येतत्कुतोऽवगम्यते। यदन्यथाऽनुपपत्त्या तत्र सुखाभावावगम इत्याशंकां परिहरत्सूत्रं पठति ।।

%।। ॐ ।। स्मरणाच्चेति ।।% अस्यार्थः।। तमस्त्रैविध्यस्य तृतीयतमसः श्रवणे श्रोतृमोहप्राप्तिश्च महातम इति (कौर्मे.) स्मृत्या तदुभयं सिद्धमित्यर्थः ।।

एवं न च श्रवणमात्रेण तच्छ्राविणां मोहप्राप्तिरसिद्धेति। महातमस्त्रिधेति स्मरणात्। अतोंऽधे तमसि सुखलेशाभाद्भवितव्यं तत्र तत्साधने च विरक्तेरिति सिद्धं ।।
</3-1-23>
।। इति न तृतीयाधिकरणं ।।

%16.अधिकरणं ।।%

अत्र कर्मिणि धूमादिभावो निवार्यते ।।
<3-1-24>
%(24) ॐ ।। तत्सावाभाव्यापत्तिरुपपत्तेः ।। ॐ ।।%

ननु कर्मिणो धूमादिप्राप्तिर्वा तदैक्यं वा भवतीत्यभ्युपेयं। धूमो भूत्वेति [छां. 5-10-5.] वचनात्। अनेन वाक्येन सामानाधिकरण्यबलाद्धूमादिभावतदप्राप्त्योः प्रतीतेः। स्नेहवशाद्रजपुत्रस्य राजपदप्राप्तिवत्। अर्जुनस्येंद्रतादाम्यवच्चोभयोरप्युपपन्नत्वात्। अतः प्रकारद्वयेऽपि सकृदनुष्ठितयज्ञानामाकल्पसमाप्तिरमसुखसंभवाद्‌व्यर्थं कर्मणि तत्फले च वैराग्यमिति प्राप्ते सूत्रकृदाह ।।

%।। ॐ ।। तत्स्वाभाव्यापत्तिरुपपत्तेरिति ।।% अस्यार्थः ।। कर्मणि तत्स्वाभाव्यापत्तिः। तस्य धूमादिदेवस्य। स्वभावस्य स्वभावसदृशस्वभावस्य। प्राप्तिरेव। न तदैक्यं तत्पद प्राप्तिर्वा। कुतः। उपपत्तेः। अन्यस्यान्यैक्यादृष्टस्यास्यैवार्थस्य युक्तत्वादित्यर्थः ।।

एवंचान्यस्यान्याभावासंभवात्। तत्पदस्य नियताधिकारिभिर्ज्ञानेनैव प्राप्यत्वात्। युगपदनेककर्मिसमवायेऽनेकेषामेकपदप्राप्त्ययोगाच्च। तस्मात्तद्गतौ गतिस्तत्स्थितौ स्थितिरित्यादिरूपतत्स्वाभाव्यापत्तिरेवेति श्रुत्यर्थः। अतो धूमाद्यैक्याभावाद्युक्तं तत्कर्मतत्फलयोर्वैराग्यमिति सिद्धं ।।
</3-1-24>
।। इति तत्स्वाभाव्याधिकरणं ।।

%17.अधिकरणं ।।%

अत्र स्वर्गादवरूढस्य कर्मिणोऽचिरेण गर्भवासादिप्राप्तिः समर्थ्यते।

<3-1-25>
%(25) ॐ ।। नातिचिरेण विशेषात् ।। ॐ ।।%

ननु कर्मो स्वर्गान्निर्गतः कल्पांतरे देहं प्राप्नोति। यथेतमाकाशमि[छां. 5-10-5.]त्यादावागमनवेलायां बहुस्थानप्राप्तिश्रवणात्। तद्गमनं च नाचिरेण संभवति। तत्र तत्र तत्तत्स्वाभाव्येनातिमहासुखे संभवति तद्विहायागमने प्रयोजनाभावात्। न च पुण्याल्पत्वाद्बहुकालावस्थानानुपपत्तिः। देवतासांनिध्यसद्भावेन तत्रावस्थानकारणदेवताप्रसादार्जनोपपत्तेः। न हि प्रेक्षावान् वदान्यमहाप्रभुसांनिध्ये सत्यनाराध्य स्वाभीष्टं न प्राप्नोतीति संभवति। न च तथा सति कल्पांतेऽपि न शरीरप्राप्तिरिति वाच्यं। कल्पांते स्वपरिचितदेवताया मुक्तत्वेन देवतांतरस्य परिचयाभावेनाराधनायोगात्। ततश्च कामानुष्ठानेनैवाकल्पसुखसद्भावात्किंकर्मणि तत्फले च वैराग्येणेति प्राप्ते सूत्रं पठति ।।

%।। ॐ ।। नातिचिरेण विशेषादिति ।।% अस्यार्थः ।। स्वर्गान्निर्गतः कर्मी नातिचिरेण अचिरेणैव। भूमावागत्य ब्राह्मणादियोनिं प्राप्नोति। न चिरेण। कुतः। विशेषात्। तद्य इहेति (छां. 5-10-7) विशेषचनादित्यर्थः ।।

एवंच निर्दिष्टश्रुतेः स्वर्गादिति [नारदीये.] स्मृतेश्च सद्भावात्। कर्मफलस्य क्लप्तकालत्वेनाधिककालस्थायित्वानुपपत्तेः। इह लोक एव च पुण्यार्जनमिति भगवता क्लप्तत्वेन तत्रैव पुनर्देवताराधानानुपपत्तेश्च। अतः कर्मणोऽचिरेणैव गर्भवासादिदुःखसद्भावाद्भवितव्यं कर्मादौ विरक्तिरिति सिद्धं ।।
</3-1-25>
।। इति नातिचिरेणाधिकरणं ।।

%18.अधिकरणं ।।%

अत्र कर्मिणां व्रीह्यादिभावनिमित्तकदुःखाभावः समर्थ्यते।

<3-1-26>
%(26) ॐ ।। अन्याधिष्ठिते पूर्ववदभिलापात् ।। ॐ ।।%

नन्वस्त्येव कर्मिणां दृष्टोत्पत्तिरांतरीयकदुःखातिरिक्तबलवद्‌दुःखं तेषां। त इहेति [छां. 5-10-6.] व्रीह्यादिभावश्रवणात्। तद्भावे तच्छेदनादिना दुःखावश्यंभावात्। तच्चायुक्तं। यज्ञादिनाचेयं श्रुतिर्व्रीहिप्रवेशमात्रपरा न तद्भावपरेति वाच्यं। बाधकाभावे मुख्यार्थत्यागायोगात्। व्रीह्यादिप्रवेशमात्रांगीकारें दुःखानिवारणात्। दुःखिसहवास्थानेऽपि दुःखाभोगे कारणं यज्ञादिकर्मफलमेव। अतो दुःखसाधनतया वेदोपदिष्टकर्मणो दुःखजनकत्वे मोक्षहेतुत्वेनोपदिष्टवैराग्यादावप्यनाश्वासादननुष्ठेयत्वं तस्येति प्राप्ते सूत्रमाचष्टे ।।

%।। ॐ ।। अन्याधिष्ठिते पूर्ववदभिलापादिति ।।% अस्यार्थः ।। कर्मिणो अन्याधिष्ठिते अन्यजीवाभिमन्यमान व्रीह्यादिशरीरे प्रवेश एव न तु न तदभिमानित्वं। येन दुःखं स्यात्। तर्हि ब्रीहियवाइत्यभेदोक्तिः कथमित्यत उक्तं। पूर्ववदिति। यथा धूमो भूत्वेत्यादौ (छां. 5-10-5.) धूमादिभावोक्तिः तथा। कुत एतत्। अभिलापात्। सोऽवाग्गत इति (कौषारव।) श्रुतौ तथाऽभिधानादित्यर्थः ।।

एवंच मानाभावेन न कर्मिणां व्रीह्यादिभावेन दुःखं मंतव्यं। अस्यां श्रुतौ कर्मिणो व्रीह्यादिशरीरप्रवेशमात्राभिधानात्। न च दुःखसहावस्थानेन दुःखप्राप्तिः सहावस्थानस्य प्रयोजकत्वात्। तत्प्रयोजकस्याभावात्। न तु व्रीह्यादिशरीरप्रवेश एव श्रुत्यर्थः। न तद्भाव इति। कुतो निश्चय इति चेति। सोऽवाग्गतः। स्थावरान्प्रविश्येति समाख्यानादिति ग्रहणात्। अतो यज्ञादेः सुखसाधनत्वेनोपदिष्टत्वाद्युक्तं वैराग्यानुष्ठानमिति सिद्धं ।।
</3-1-26>

<3-1-27>
%(27) ॐ ।। अशुद्धमिति चेन्न शब्दात् ।। ॐ ।।%

ननु ज्योतिष्टोमादेर्हिसाविशिष्टत्वेन पापाश्रयत्वाद्‌व्रीह्यादिभावेन दुःखमवर्जनीयमित्याक्षिप्य समादधत्सूत्रमाह ।।

%।। ॐ ।। अशुद्धमिति चेन्न शब्दादिति ।।% अस्यार्थः ।। हिंसारूपत्वाद्यज्ञस्य कर्माशुद्धं दुःखसाधनमिति चेन्न। कुतः। शब्दात् श्रीतवाक्यविहितत्वादित्यर्थः ।।

एवंच बाह्यायाः पापहेतुत्वेऽपि वायव्यं श्वेतमालभेतेत्यादिना [तै.सं. 2-1-1.] विहितहिंसायाः पुण्यहेतुत्वेन यज्ञादेः पापमिश्रत्वाभावात्। हिंसात्ववैदिकेति [वाराहे.] स्मृतेः। अतो यज्ञादेः सुखसाधनतयोपदिष्टस्य दुःखकारणत्वाभावाद्युक्तं वैराग्यानुष्ठानमिति सिद्धं ।।
</3-1-27>
।। इति अन्याधिकरणं ।।

%19.अधिकरणं ।।%

अत्र स्वर्गादवतीर्णस्य पितृप्रवेशः समर्थ्यते।

<3-1-28>
%(28) ॐ ।। रेतःसिग्योगोऽथ ।। ॐ ।।%

ननु न जीवस्य पितृप्रवेशोऽस्ति। मातुरेवेति वचनात्। न च य एव गृही भवतीति श्रुतेर्बाधः। प्रयोजनाभावयुक्तियुक्ततया बलवदेत्छ्रुतिविरुद्धत्वेन तच्छ्रुतेः काकुस्वरेणापि पितृप्रवेशनिषेधपरत्वात्। ततश्चात्यायासाभावेन नातिवैराग्यं कर्मादावपेक्षितमिति प्राप्ते सूत्रितं ।।

%।। ॐ ।। रेतः सिग्योगोऽथेति ।।% अस्यार्थः ।। कर्मिणः प्रथमं रेतः सिग्योगः रेतः सिचा पित्रा योगः संबंधः तत्प्रवेश इति यावत्। अथ अनंतरं। मातृप्रेवेशो भवति न तु प्रथममेवेत्यर्थः ।।

एवंचास्त्येव पितृप्रवेशो जीवस्य ततो रेत इति [र्कौठरव्य.] श्रुतेः। न च पितृप्रवेशो नेत्यर्थः। पितृप्रवेशस्योत्पत्स्यमानसाधारणजीवसंभवात्। ईशक्लप्त्या तस्य संस्कारार्थत्वात्। न च मातुरेवोदरमिति श्रुत्यप्रामाण्यं। पितृप्रवेशानंतरं मातृप्रवेशस्याप्यंगीकारात्। न च मातुरेवेत्यवधारणानुपपत्तिः। स्मृतेः साधारणजीवपरतादशायामवधारणस्यायोगव्यवच्छेदार्थत्वांगीकारात्। गर्भस्थसिद्धशरीरप्रवेशजीवपरतादशायां तु अन्ययोगव्यवच्छेदस्यापि भावात्। अतः पितृप्राप्तेर्विद्यमानत्वाद्भवितव्यं कर्मादावतिवैराग्यमिति सिद्धं ।।
</3-1-28>
।। इति रेतोऽधिकरणं ।।

%20.अधिकरणं ।।%

अत्र जीवस्य पितृद्वारा योनिं प्रविश्य शरीरप्राप्तिः समर्थ्यते।

<3-1-29>
%(29) ॐ ।। योनेः शरीरं ।। ॐ ।।%

ननु स्वर्गादागतस्य वा पितृवन्मातरं योनिद्वारा प्रविश्य कललबुद्‌बुदादिक्रमेण देहप्राप्तिर्नास्ति। किंतु कस्यचित्स्वर्गादागतस्य पितरं प्रविष्टस्य पुण्यवशेन योनिप्रवेशमंतरासंस्पर्शद्वारेण मातृप्रवेशेन देहलाभः। अपरस्य तु पितृप्रवेशं विनैवान्नादिद्वारा मातृप्रवेशएन तल्लाभः। ततोऽप्यतिशयितपुण्यवत्त्वात्। पक्षद्वयेऽपि कललादिक्रमं विना मातृदेहस्थजरायुगतसिद्धदेहप्राप्तिः। अन्यस्य तु बहिर्निर्गतसिद्धदेहप्राप्तिः। परंतु कस्यापि स्वर्गादागतस्य पापिवच्छरीराद्योनिद्वारा मातृशरीरं प्राप्त कललबुद्‌बुदादिक्रमेण देहप्राप्तिरिति नियमो नास्ति। ततश्चात्यायासाभावान्नातिवैराग्येण कृत्यमिति प्राप्ते सूत्रमाह ।।

%।। ॐ ।। योनेः शरीरमिति ।।% अस्यार्थः ।। ल्यब्लोपे पंचमी। कर्मी पितृद्वारा मातृयोनिं प्रविश्यैवाथ तत्र शरीरं लभते न तद्विनेत्यर्थः ।।

एवंच स्वर्गादागतस्यापि पितृप्रवेशस्ततो योनिद्वारा मातृप्रवेशस्ततः कललादिक्रमेण देहप्राप्तिश्चेत्यादिनियमस्य सद्भावात्। दिवः स्थास्नूनिति [पौषायायणश्रुति.] वचनात्। न च देहं गर्भास्थितमिति वाक्यविरोधः। केषांचित्तथाभावस्यापि सत्त्वेन तद्वचनानां तन्मात्रविषयत्वेन यावत्स्वर्गिविषयत्वाभावात्। अतः सामान्यजन्मनि पित्रादिप्रवेशस्य नियमेनापस्वर्गादिरत्र सर्वत्रापि महादुःखाविनाऽभावात्। विरक्तेन भगवान् भजनीय इति सिद्धं ।।
</3-1-29>
।। इति योन्यधिकरणं ।।

।। इति तृतीयाध्यायस्य प्रथमः पादः समाप्तः ।।