सूत्रार्थरत्नावली/प्रथमोऽध्यायः/प्रथमः पादः

सूत्रार्थरत्नावली
प्रथमः पादः
[[लेखकः :|]]
द्वितीयः पादः →

  ॥ ॥
॥ सूत्रार्थरत्नावली ॥
॥ अथ प्रथमाध्यायः ॥
॥ अथ प्रथमः पादः ॥

प्रायेणान्यत्र प्रसिद्धानां नामात्मकशब्दानां परमात्मनि समन्वयः प्रदर्श्यतेऽस्मिन्पादे।
<1-1-1>
1.अधिकरणं ॥

अत्र ब्रह्मजिज्ञासा कर्तव्येति समर्थ्यते।

(1) ॥ अथातो ब्रह्मजिज्ञासा ॥ ॥

ननु शास्त्रमिदमनारंभणीयं। न्यायानुसंधानरूपविचारस्यैवाकर्तव्यत्वात्। तदकर्तव्यं च निर्विषयत्वादिहेतुभ्यः। तथाहि। विषयाभिमतं ब्रह्म न जीवचैतन्याद्भिद्यते। मानाभावात्। मानं भवत्प्रत्यक्षं वाऽनुमानं वाऽऽगमो वा। नाद्यः। घटपटवज्जीवेश्वरयोर्भेदानुपलंभात्। न द्वितीयः। कामगामित्वात्। न तृतीयः। परस्पराश्रयत्वात्। उपक्रमादिभिर्निर्णीततात्पर्यकस्य भेदागमस्य यजमानप्रस्तर इत्याद्यागमस्य प्रतीतार्थाप्रामाण्यप्रसंगेन भेदे प्रामाण्यायोगात्। उपक्रमादिभिर्निर्णीततात्पर्यस्यागमस्य भेदे प्रामाण्यं वाच्यं। तथा च शास्त्रेणोपक्रमाद्यनुसंधानरूपविचारप्रवृत्तौ निर्णीततात्पर्येण वेदेन भेदसिद्धिः। तत्सिद्धौ जीवभिन्नस्य ब्रह्मणः संधिग्धत्वापत्त्या शास्त्रेण प्रवृत्तिरिति। जीवात्मकत्वे च स्प्रकाशत्वेन नित्यसिद्धत्वान्न विषयत्वं। नापि परप्रयोजनं। परप्रयोजनं भवत्स्वर्गाद्यभ्युदयो वा मोक्षो वा स्यात्। नाद्यः। लघूपायेन तत्सिद्धेः। ना पि मोक्षः। जिज्ञासानंतरं मोक्षानुपलंभात्। अस्तु वा जीवव्यतिरिक्तं ब्रह्म। तथाऽपि नापरोक्षद्वारा विचारस्य तद्धेतुत्वं। साक्षात्कृतब्रह्मणामपि वसिष्ठादीनां तदनुपलंभात्। विषयप्रयोजनाभावात्। अथ शब्दोक्ताधिकारिविशेषासंभवेन ब्रह्मजिज्ञासायामधिकारी न विद्यते। अत एव न संबंधोऽपीति प्राप्ते पराकुर्वत्सूत्रमाह ॥

अथातो ब्रह्मजिज्ञासेति ॥ अस्यार्थः ॥ अथ अध्ययनशमदमादिरूपाधिकारसंपत्त्यनंतरं। अतः स्वजन्यज्ञानजन्यमोक्षाख्यफलयुक्तत्वात्। गुणपूर्णस्य ब्रह्मणो विष्णोः जिज्ञासा श्रवणादिरूपो विचारः कर्तव्य इत्यर्थः ॥

एवंच कर्तव्यैव ब्रह्मजिज्ञासा। सप्रयोजनत्वात्। न च निर्विषयत्वेन सत्प्रतिपक्षता। जीवभिन्नस्य ब्रह्मण एव विषयत्वसंभवेन निर्विषयत्वासिद्धेः। न च भेदे मानाभावः। तद्विजिज्ञासस्वेति (तै.उ.3-1-1) श्रुतिसिद्धपूर्णत्वस्यैव मानत्वात्। न च जडेऽसाधारण्यं। जीवासंभावितगुणपूर्णत्वस्यैव हेतुत्वेन विवक्षितत्वात्। न चानुमानस्य कामगामित्वं। भिन्नोऽचिंत्य इति श्रुतिमूलत्वात्। न चोपक्रमाद्यनुसंधानरूपविचारप्रवृत्तौ भिन्नोऽचिंत्य (कोशिक श्रु.) इत्याद्यागमानां भेदे तात्पर्यनिर्णयः। तस्मिन्सति प्रकृतानुमानस्य प्रमाणत्वेन जीवभन्नविषयत्वसिद्धिः। तत्सिद्धौ च विचारप्रवृत्तिरित्यन्योन्याश्रय इति वाच्यं। तात्पर्यसंदेहे सत्येव विचारापेक्षणात्। अन्यथोपक्रमादीनामपि स्वार्थे तात्पर्यनिर्णयायोपक्रमाद्यंतरमन्वेषणीयं स्यादित्यनवस्था। तथा च जीवभिन्नस्य ब्रह्मणः संदिग्धत्वेन न निर्विषयत्वेन सत्प्रतिपक्षः। व्याप्यस्य प्रयोजनस्य सद्भावेन व्यापकस्याधिकारिणोऽपि सिद्धेः। न तदभावेनापि सत्प्रतिपक्षः। ननु साक्षात्कृत ब्रह्मणामपि वसिष्ठादीनां मोक्षानुपलंभेन सत्प्रयोजनत्वमसिद्धमिति चेन्न। अनुपलंभः किं प्रत्यक्षेण। उत प्रत्यक्षमात्रेण। नाद्यः। परमाण्वादीनामप्यभावप्रसंगात्। द्वितीयेऽपि वर्तमानकाले सत्त्वानुपलंभः। उत कदाऽपि। नाद्यः। ज्योतिष्टोमाद्यनुष्ठानभावप्रसंगात्। नात्यः। ब्रह्मप्रलयानंतरं वसिष्ठादीनां मोक्षोपलंभश्रवणात्। अत एव संबंधाभावश्च परास्तः। तदभावेनापि सत्प्रतिपक्षः। तस्माद्विचारः कर्तव्य एवेति शास्त्रमारंभणीयमिति सिद्धं ॥
</1-1-1>
॥ इति जिज्ञासाधिकरणं ॥

<1-1-2>
2.अधिकरणं ॥

अत्र ब्रह्मलक्षणमुच्यते ॥

(2) ॥ जन्माद्यस्य यतः ॥ ॥

ननु जीवेदं ब्रह्म न विष्णुः। जीवप्रापकरूढिसद्भावात्। न च विष्णुप्रापकयोगसद्भावाद्विष्णुरेव ब्रह्म योगाद्रूढेर्मुख्यत्वाद्बाधकं विना मुख्यार्थत्यागायोगात्। न च जिज्ञास्यत्वमेव बाधकं। जिज्ञासापदस्य ज्ञानेच्छावाचकत्वेन विचारार्थकत्वाभावात्। ततश्च जीवस्य ब्रह्मपद मुख्यार्थत्वादस्य ब्रह्मणोजीवत्वे सिद्धे तस्य च स्वप्रकाशत्वेन संदिग्धस्याविचार्यत्वात्प्रकृतानुगुणमेव जिज्ञासापदेन लक्षणीयमिति जिज्ञासाया अविहितत्वान्न ब्रह्मजिज्ञासा संभवतीति प्राप्ते सूत्रं पठति।

॥ ॥ जन्माद्यस्य यत इति ॥ अस्यार्थः ॥ अस्य प्रमितजीवजडात्मकप्रपंचस्य। यतः यस्मात्। जन्मादि सृष्टिस्थितिसंहारनियमनज्ञानाज्ञानबंधमोक्षरूपाष्टकं। भवतीति श्रुतं तदेव ब्रह्म नान्यदित्यर्थः ॥

एवंच ब्रह्मशब्दस्य विष्णौ योगरूढत्वाद्विष्णुरेवेदं ब्रह्म। ब्रह्मशब्दस्य जीवे रूढत्वेऽपि रूढमात्राद्विद्वद्रूढेः प्राबल्येन निर्णयोपपत्तेः। अस्तु वा जीव एवरूढिस्तथाऽपि यतोवेति पूर्ववाक्योक्तकारणत्वपालकत्वसंहारकत्वमुक्तप्राप्यत्वानामयोगप्रसंगेन मुख्यार्थस्यापि त्याज्यत्वात्। न च तेषां जीवे संभवः। य उत्रिधा (ऋ.य1-154-4) त्वित्यादिना तेषां विष्ण्वैकनिष्ठत्वस्य सिद्धत्वाज्जिज्ञासाशब्दो विचारे रूढः। यदि वा लाक्षणिकः। उभयथाऽप्यात्मा वाऽरे इति (बृ.उ.6-5-6) श्रुतिसमाख्यानाद्विचार एवेति तद्विरोधेन न जीऽवोत्र विवक्षितः। ततश्च जीवातिरिक्तस्य ब्राह्मणः प्रागुक्तं जिज्ञास्यत्वं सिद्धं ॥
</1-1-2>
॥ इति जन्माधिकरणं ॥


<1-1-3>
3. अधिकरणं ॥

अत्र पूर्वोक्तजगज्जन्मादिकारणत्वरूपब्रह्मलक्षणस्य रुद्रादिष्वतिव्याप्तिपरिहाराय जगत्कारणे प्रमाणमुच्यते।

(3) ॥ शास्त्रयोनित्वात् ॥ ॥

ननु रुद्रादेरात्माश्रयप्रसंगेन रुद्रादिकारणत्वायोगान्नातिव्याप्तिः। सिद्धांत्यभिमतलक्षणस्य तत्राभावात् सिद्धांत्यनभिमतरुद्रव्यतिरिक्तजगत्कारणत्वोपपादनेनातिव्याप्तिदानस्यानुचितत्वात्। किंच सूत्रकाराभिमतं विष्णुजन्यबंधादियोगित्वं रुद्रादावंगीक्रियते न वा। आद्ये न तस्य कारणत्वसंभवः। बद्धस्य देवदत्तादितुल्यत्वात्। द्वितीयेऽसंभव एव वक्तव्यः। सिद्धांत्यभिमतस्य रुद्राजगन्निष्ठज्ञानाबंधादिकर्तृत्वस्य विष्णावभावादिति चेत्। स्यादयं दोषः। यदि सूत्रकृदभिमतलक्षणस्यातिव्याप्तिरुच्येत। न चैवं। किं नाम मयो वेति (तै.उ.3-1-1) श्रुत्युक्त लक्षणस्यैव। नच रुद्रादिनिष्ठबंधादि कारणत्वं श्रुत्यभिप्रेतं। रुद्रस्य विष्णुसमानत्वेन बंधाज्ञानादिशून्यत्वात्। अविद्यमानरुद्रादिनिष्ठबंधादिकर्तृत्वस्य श्रुत्यर्थत्वे घटस्य बंधादिकर्तृत्वमपि श्रुत्यर्थः स्यात्। ततश्च महदाकर्तृत्वमेव श्रुत्यर्थः। न सूत्रकारोक्तः। तस्य रुद्रादावनुमानेन सिद्धत्वादित्यतिव्याप्तिरेव। अत एव न छलप्रसंगोऽपि। प्रमाणं तु शिवो जगत्कर्ता तदिच्छुत्वे सति तत्कर्तृविष्णुसमानत्वात्। इति मानं। अस्य च सकललोकसिद्धत्वेन नासिध्यादिक्षुद्रोपद्रबः। ततश्च तद्विजिज्ञासस्वेति (तै.उ.3-1-1) वाक्ये रुद्रादिग्रहणे बाधकाभावात्। रूढिसद्भावाच्च। अतो रुद्र एव विवक्षितो न विष्णुरिति प्राप्ते सूत्रमाह ॥

॥ ॥ शस्त्रयोनित्वादिति ॥ अस्यार्थः ॥ शिवो जगत्कर्ता तदिच्छुत्वे सति तत्कर्तृविष्णुसमानत्वादित्याद्यनुमानैर्न रुद्रादेर्जगत्कारणत्वं कल्प्यं। कुतः। शास्त्रयोनित्वात्। शास्त्रं ऋगादिरूपं। योनिः ज्ञप्तिकारणं यस्य तच्छास्त्रयोनित्वं। तस्माज्जगत्कारणं ब्रह्म। शास्त्रेकसमधिगम्यत्वादित्यर्थः।

एवंच विष्णोरेव जगत्कारणत्वं न रुद्रादीनां। रुद्रादिबंधकारणत्वादेरुद्रादावसंभवात्। न च रुद्रादिकारणत्वादि न यतो वेति श्रुत्यर्थ इति वाच्यं। इमानीत्यनेनोत्पत्त्यादिमत्तया प्रमाणप्रमितसर्वपदार्थग्रहणात्। रुद्रस्य चोत्पत्त्यादिमत्तया प्रमाणप्रमितत्वात्। अस्तु वा महदादिकर्तृत्वमेव यतो वेति श्रुत्यर्थः। तथाऽपि न रुद्रादावतिव्याप्तिः। कारणत्वस्य शास्त्रैकसमधिगम्यत्वेनानुमानप्रसत्त्म्यभावात्। वाद्युक्तानुमानस्य प्रतिपक्षासिध्यादिदोषग्रस्तत्वेनासाधकत्वात्। न च सकललोकसिद्धत्वान्नासिद्धिः। अस्मदादीनामसंमतत्वेन सकललोकप्रसिध्यभावात्। पामरप्रतीतेश्चातिप्रसंगेनासाधकत्वात्। तथा च शिवादिग्रहणे श्रुत्युक्तलक्षणासंभवरूपबाधकसद्भावात्। तद्विजिज्ञासस्वेति विष्णुरेव विवक्षित इति स एव जिज्ञास्य इति सिद्धं ॥
</1-1-3>
॥ इति शास्त्रयोनित्वाधिकरणं ॥

<1-1-4>

4.अधिकरणं ॥

अत्र विष्णोरेव जगत्कारणत्वेन शास्त्रगम्यत्वं नेतरेषामपीति समर्थ्यते।

(4) ॥ तत्तु समन्वयात् ॥ ॥

ननु विष्णोरिवान्येषामपि जगत्कारणत्वेन शास्त्रयोनित्वसंगीकार्यं। वेदव्याख्यानरूपपञ्चरात्राद्यागमाद्विष्णौ तात्पर्यावधारणवत्सर्वज्ञवादिप्रणीतवेदव्याख्यानरूपपाशुपताद्यागमाच्छिवादिष्वपि। कारणत्वाभिधायकवेदैकदेशतात्पर्यावधारणात्। सर्ववेदव्याख्यानप्रामाण्यसंभवे पञ्चरात्रादिप्रामाण्यमंगाकृत्य शैवाद्यागमप्रामाण्यनगंकीकारे कारणाभावात्। भागविशेषे विष्णुप्रतिपादकत्वस्य स्पष्टोपलम्भवद्भागाविशेषे शिवादिपरत्वस्य स्पष्टमुपलम्भेन प्रतीतिसध्रीचीनत्वस्योभयत्रसाभ्यात्। न च बहूनां कारणत्वासम्भवः। गुरुतरभारोद्धरणादौ प्रत्येकमसमर्थानां बहूनां कर्तृत्वस्य सर्वानुभवसिद्धत्वात्। न च सर्वे वेदा इत्यादिश्रुतिवरोधः। विष्णुप्रसिद्धशब्दलिंगाद्युपेताः सर्वे वेदा (कठ.2-15) इत्यर्थत्वात्तस्याः। न चैको नारायण (महोपनिषत्) इत्यादिरुद्रादिकारणतानिषेधकवाक्यविरोधः। तेषां विष्णुकारणताप्राशस्त्यपरत्वेनोदितानुदितहोमनिंदावाक्यवच्छिवादिकारणतानिषेधे तात्पर्याभावात्। न चोपक्रमादिविरोधः। उपक्रमादितो व्याख्यानस्य सर्वज्ञप्रणीतत्वेन बलवत्त्वात्। तस्माद्विष्णुवच्छिवादीनामपि कारणत्वेन शास्त्रयोनित्वादतिव्याप्तं जगत्कारणत्वमिति प्राप्ते सूत्रमाह ॥

॥ तत्तु समन्वयादिति ॥ अस्यार्थः ॥ तु शब्द एवार्थे। तदेव विष्ण्वाख्यं ब्रह्मैव। सं मुख्यतः शास्त्रयोनि। न रुद्रादिः। कुतः। समन्वयात् समीचीनोपक्रमादितात्पर्यलिंगादित्यर्थः ॥

एवं च शिवादीनां प्रमाणाभावेन जगत्कारणत्वाभावान्नातिव्याप्तिः। न च शेवाद्यागमनिर्णीततात्पर्यक वेदस्तत्र मानं। उपक्रमादिविरुद्धस्य शिवादौ वेदे तात्पर्यग्राहकस्य शैवाद्यागमस्यामानत्वात्। न च वैपरीत्यं। तेषामंतरंगत्वेन बलवत्त्त्वात्। शैवाद्यागमस्य तात्पर्यावधारणाय चोपक्रमादीनामनुसर्तव्यत्वेन नोपजीव्यत्वाच्च। न च प्रतीतिसध्रीचीनत्वेनागमस्य प्रामाण्यं। उपक्रमाद्यनुसंधानपूर्वकप्रतीतिसध्रीचीनत्वस्याभावात्। आपाततः प्रतीतिसध्रीचीनत्वस्याप्रयोजकत्वात्। उदितहोमादिनिंदाया उदितहोमादेर्विहितत्वेन निंदायां तात्पर्याभावेऽपि शिवादिकारणत्वस्याप्रामाणिकत्वेन तन्निषेधकवाक्यानां स्वार्थे तात्पर्यसद्भावाच्च तस्मादनीतव्याप्तं जन्मादिकारणत्वं ब्रह्मलक्षणमिति सिद्धं ॥
</1-1-4>
॥ इति समन्वयाधिकरणं ॥


5.अधिकरणं ॥

अत्र संशब्दोक्तं वाच्यत्वं कार्त्स्न्यं चाक्षिप्य समाधीयते।

(5) ॥ ईक्षतेर्नाशब्दं ॥ ॥

ननु पूर्वसूत्रे तच्छब्दोक्तं ब्रह्म शब्दगोचरं शास्त्रोक्तकारणं न शास्त्रमुख्यार्थत्वं न। कुतः। अवाच्यत्वात्। मुख्यार्थत्वस्य च यतो वाचो निवर्ततेत्यादि (तै.उ.2-4-1) श्रुतिसिद्धत्वात्। न ह्यवाच्यस्य मुख्यार्थता संभवतीति न शास्त्रोक्तं जगत्कारणत्वं तस्येति प्राप्ते सूत्रमाह ॥

॥ ईक्षतेर्नाशब्दमिति ॥ अस्यार्थः ॥ तत् ब्रह्म। अशब्दं न अशब्दवाच्यं न किंतु वाच्यमेव। कुतः । ईक्षतेः ईक्षतिर्ज्ञानं । तद्विषयत्वादित्यर्थः ॥

एवंचेक्षणीयत्वाऽन्यथाऽनुपपत्त्या वाच्यत्वस्यैव सिद्धत्वेनावाच्यत्वस्यासिद्धेः। नचेक्षणीयत्वमसिद्धमिति वाच्यं। स एतस्मादिति (प्र.5-5-) श्रुतिसिद्धत्वात्। न च वाच्यत्वानुमानस्य यतो वाच इत्यादि श्रुतिबाधः। यतो वाच इति श्रुतेः प्रसिद्धत्वाभिधायकत्वेनावाच्यत्वानभिधायकत्वात्। अप्रसिद्धेरवाच्यमिति (गारुडे) स्मृतेः। ततश्चावाच्यत्वरूपबाधकाभावात्कारणत्वं विष्णोरेवेति सिद्धं ॥
</1-1-5>

<1-1-6>

(6) ॥ ॥ गौणश्चेन्नात्मशब्दात् ॥ ॥

नन्वीक्षणीयत्वहेतोर्व्यधिकरणासिद्धत्वात्। आत्मन्येवामात्मानं पश्येदित्यादिश्रुत्युक्त आत्मा गौणो नाम सत्त्वादिगुणबद्धो जीव एव। अतस्तदन्यथाऽनुपपत्त्या वाच्योऽपि स एव स्यान्न निर्गुणः परमात्मेति प्राप्ते सूत्रमाह ॥

गौणश्चेन्नात्मशब्दादिति ॥ अस्यार्थः ॥ गौणः सत्त्वादिगुणबद्धो जीव एव। स एतस्मादिति (प्र-5-5) ईक्षातिश्रुत्युक्त इति चेन्न। कुतः। आत्मशब्दात् ईक्षणीयवस्तुनि आत्मानं पश्येदित्यात्मशब्दश्रवणादित्यर्थः ॥

॥ एवंच यो गुणैः सर्वत इति द्वे वाव ब्रह्मणा (तलवकारब्राह्मणं) इत्यादिवाक्येष्वात्मशब्दश्रवणात्। तस्य सत्वादिगुणशून्यत्वेनोक्तत्वात्। स एतस्मादिति श्रुतेस्तत्परत्वस्यैव वक्तव्यत्वात्। समाख्यालब्धस्यैव श्रुत्यर्थत्वात्। आत्मपर मुख्यार्थेै निर्गुणे दृश्यतयेक्षतिश्रुतिप्रतिपाद्ये संभवति सत्यमुख्यार्थस्य गौणस्य ग्रहणायोगात्। निर्गुणब्रह्मैवोदितं। अतः स एव वाच्यो न जीव इति सिद्धं ॥
</1-1-6>

<1-1-7>

(7) ॥ ॥ तन्निष्ठस्य मोक्षोपदेशात् ॥ ॥

नन्वात्मशब्दो मुख्यत एव गौणात्मपरःस्यात्। उक्तश्रुतिस्मृतिष्वात्मशब्दस्य निर्गुणे विष्णौ मुख्यत्वेन जीवेष्वमुख्यत्वेनेत्यनुक्तेनात्मानात्मशब्दयोश्चेतनाचेतनविषयत्वसंभवात्। तच्छब्दयोः प्रसिद्धचेतनाचेतनपरत्वे श्रुतेरार्जवं स्यात्। प्रसिद्धार्थापरित्यागाद्रूपशब्दस्यानेकार्थाकल्पनाच्च। दुःखादिदोषस्यौपाधिकत्वेन जीवस्यापि स्वभावतो निर्दोषतया श्रुतेः स्वभावविषयत्वोपपत्तेरित्याशंकां परिहर्तुं सूत्रं पठति ॥

॥ तन्निष्ठस्य मोक्षोपदेशादिति ॥ अस्यार्थः ॥ तन्निष्ठस्य परमात्मज्ञानिनः। मोक्षोपदेशात् यस्यानुवित्त (बृ.उ.6-4-13) इत्यादौ मोक्षस्य श्रुतत्वात्। आत्मशब्दमुख्यवाच्यो न जीव इत्यर्थः।

एवंच गुणबद्धजीवज्ञानिनस्तत्ज्ञानाङ्गुणबंधनिवृत्तिरूपो मोक्षो न संभवति। यस्यानुवित्त इति श्रुतौ ब्रह्मज्ञानिनो मोक्षोपदेशस्य श्रवणात्। अयमात्मा ब्रह्मेति (मां.उ.1-2, बृ.उ.4-5-19) श्रुत्याऽऽत्मशब्दस्य विष्णावेव मुख्यत्वात्। न गौण आत्मा किंतु निर्गुणब्रह्म एवेति सिद्धं।
</1-1-7>

<1-1-8>

(8) ॥ ॥ हेयत्वावचनाच्च ॥ ॥

युक्त्म्यंतरेणात्मशब्दोदितो न गौण इत्याह सूत्रकृत् ॥

॥ हेयत्वावचनाच्चेति ॥ अस्यार्थः ॥ हेयत्वावचनात् ब्रह्मणो मोक्षार्थं प्राधान्येनाज्ञेयत्वरूपहेयत्वस्याप्रतिपादनात् प्रत्युत जानथेति अहेत्ववचनाच्च। न गौण आत्मशब्दवाच्यः ॥ किंतु निर्गुणविष्णुरेवेत्यर्थः ॥

एवंच न केवलं तन्निष्ठस्य मोक्षोपदेशात्किंतु तमेवैकमिति (मुं.उ.2-2-5) श्रुतावात्मनो हेयत्वावचनात्। अन्यावाचो विमुंचथेति मुमुक्षुभिर्हेयत्ववचनाच्च। गौण आत्मशब्दवाच्यो न किंतु निर्गुणो विष्णुरेवेत्याशयः। तथा चात्मशब्दादीक्षतिश्रुत्युक्तोऽपि निर्गुण एवेति सिद्धं। तस्येक्षत्यन्यथाऽनुपपत्त्या वाच्यत्वमिति सिद्धं ॥
</1-1-8>

<1-1-9>

(9) ॥ स्वाप्ययात् ॥ ॥

युक्त्यंतरेणापि निर्गुणस्य विष्णोर्वाच्यत्वमुपपादयत्सूत्रमुपन्यस्यति ॥

॥ स्वाप्ययादिति ॥ अस्यार्थः ॥ स्वस्य स्वस्मिन् अप्ययात् अप्ययपदोक्त लयवचनात्। आत्मानं विलापयतीति श्रुत्युक्तो निर्गुण एव न गौणः। अत एव चासौ शब्दवाच्य इत्यर्थः।

॥ एवंच पूर्णमद इति (बृ.उ.7-1-1) श्रुतौ स्वाप्ययपदोपलक्षितपूर्णत्वस्य वचनात्। स्वस्य स्वस्मिन्नेवाप्ययवचनाच्च। स देव इति (स्कांदे) स्पष्टस्मृतावाच्मन्येव विलापयतीति स्वस्य स्वस्मिन्नेवाप्ययवचनात्। तस्य च हरिगुणनिष्ठतायाः स्मृतौ वचनात्। गौण आत्मनि निर्दोषस्य लयाभावाच्च। अंय निर्गुण एव न गौण इति सिद्ध ॥
</1-1-9>

<1-1-10>

(10) ॥ गतिसामान्यात् ॥ ॥

नन्वस्तु निर्गुणस्य विष्णोर्वाच्यत्वोपपत्तौ सत्यां कारणत्वेन शास्त्र्गग्यत्वं। तथा चोपक्रमादिबलात्प्रसिद्धशाखास्वेव कारणत्वेन प्रतिपाद्यत्वं पर्यवसितं। अप्रसिद्धशाखासु पुनरन्योऽपि कारणत्वेनोच्यतां। न च ता न संति। तासामानंत्येनेयत्ताऽनिश्चयादिति प्राप्ते सूत्रकृदाह ॥

॥ गतिसामान्यदिति ॥ अस्यार्थः ॥ गतेः नानाशाखजन्यज्ञानस्य। सामान्यात् एकरूपत्वश्रवणात्। न विष्णोरन्यः कारणत्वेन शाखांतरप्रतिपाद्य इत्यर्थः ॥

॥ एवंच सर्वे वेदा इति पैंगिश्रुत्या सर्वे वेदा इतिहासाश्च विषयकृतो वा प्रकारकृतो वा विरोधाभावेन ज्ञानरूपमेकमेव ब्रह्मस्वरूपं ज्ञापयंति। एवं सर्वशाखोत्पाद्यज्ञानस्यैकविधत्वोक्तेर्न कासुचिच्छाखास्वन्यथोक्तेश्च विष्णुरेव कारणत्वेन सर्वशाखासु प्रतिपाद्य इति फलितं ॥
</1-1-10>

(11) ॥ श्रुतत्वाच्च ॥ ॥

इतश्च निर्गुणं ब्रह्म वाच्यमिति सिंहावलोकनन्यायेनाह सूत्रकृत् ॥

॥ ॥ श्रुतत्वाच्चेति ॥ अस्यार्थः ॥ एको देव इति (श्वे.6-11) श्रुत्युक्तत्वाच्च नाशाब्दवाच्यं ब्रह्मेत्यर्थः ॥

॥ एवंचैको देवः सर्वभूतेष्विति श्वेताश्वतश्रुतौ सत्त्वादिगुणबंधविधुरस्य निर्गुणस्य वाच्यत्वोक्तेः। अवाच्यस्य पदार्थस्य न श्रुतिपदेनोक्तत्वात्। अवाच्यस्य ब्रह्मणो लक्ष्यत्वकल्पनस्यान्याय्यत्वात्। तस्य सर्वशब्दवाच्यतयैव परेणांगीकृतत्वात्। ततश्चावाच्यत्वरूपबाधकाभावादुपक्रमादिलिंगैर्विचारे क्रियमाणे तस्यैव कारणत्वावगतेर्गतिसामान्याच्च कारणत्वं तस्यैवेति सिद्धं ॥
</1-1-11>
॥ इति ईक्षत्यधिकरणं ॥

6.अधिकरणं ॥

अत्र लोकतोऽन्यत्रप्रसिद्धानंदमयशब्दोपलक्षितगुणिवाचिशब्दानां च ब्रह्मणि समन्वयः क्रियते।

<1-1-12>

(12) ॥ आनंदमयोऽभ्यासात् ॥ ॥

नन्वानंदमयश्चतुर्मुखावभिन्नौ। नामसांकर्यात्। विद्यते खलु चतुर्मुखनिष्ठो ब्रह्मशबद आनंदमये। आनंदमयमधिकृत्यास्ति ब्रह्मेति (तै.उ.2-6-1) ब्रह्मशब्द श्रवणात्। आनंदमयसमानार्थकशतानंदनाम च हिरण्यगर्भे वर्तते। रुद्रो वाऽऽनंदमयः। यश्चासावादित्य (तै.उ.2-8-5) इत्यानंदमयस्य सूर्ये प्रोक्तत्वेन सूर्यांतर्गतत्वस्य च रुद्रलिंगत्वात्। सूर्याधिष्ठातृत्वेन्द्रलिंगत्वादिन्द्रोवा। ब्रृहस्पतिलिंगत्वाद्‌बृहस्पतिर्वा। सोऽकामयतेति (तै.उ.2-6-2) स्वाभिमन्यमानस्य बहुभावकामित्वाच्चित्प्रकृतिर्वा। बहुभावादचित्प्रकृतिर्वा। तत्तद्देहगतसर्वजीवा वा। अन्नरसमय (तै.उ.2-1-3) इत्युक्तजीवप्रायपाठात्। अन्नमयादीनामन्नादिविकाराभिमानित्वेन जीवत्वस्य वक्तव्यत्वात्। न च ब्रह्मशब्दो बाधकः। ब्रह्माणी जीवाः सर्वेऽपीति जीवेऽपि ब्रह्मशब्दश्रवणात्। इति प्राप्ते समादधत्सूत्रमाह।


॥ ॥ आनंदमयोऽभ्यासदिति ॥ अस्यार्थः ॥ आनंदमयादिशब्दवाच्यो विष्णुरेव न प्रकृत्यादिः। कुतः। अभ्यासात् प्रतिप्रकारणमानंदमयादौ ब्रह्मशब्दश्रवणादित्यर्थः ॥

॥ एवंचासन्नैव स भवति। असद्‌ब्रह्मोति चेद्वेद। अस्तिब्रह्मोति चेद्वेदे (तै.उ.2-6-1) त्यादिश्रुतिस्मृतिषु ब्रह्मशब्दस्य विष्णावेव परममुख्यत्वस्योक्तत्वात्। आनंदमयशब्दवाच्योऽपि विष्णुरेवेति सिद्धं ॥
</1-1-12>

<1-1-13>

(13) ॥ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ ॥

नन्वत्र विकारार्थक मयट् शब्दप्रयोगात्। ज़प्रकृतेर्विकारात्मकत्वाच्चेतनप्रकृत्यादीनां च विकाराभिमानित्वात्। प्रकृत्यादीनामेवानंदमयादिशब्दवाच्यत्वं स्यान्नतु परमात्मनः। तस्याविकारित्वादनभिमानित्वादिति प्राप्ते तन्निरासार्थमुक्तमाक्षिप्य समादधत्सूत्रमाह ॥

॥ विकारशब्दान्नेति चेन्न प्राचुर्यादिति ॥ अस्यार्थः ॥ विकारशब्दात् विकारार्थकमयट्‌शब्दात्। आनंदमयादिर्विष्णुर्नेति चेन्न। कुतः। प्राचुर्यात् मयट्‌शब्दस्य प्राजुर्यपदोक्तपूर्णत्वाभिधायकत्वादित्यर्थः ॥

एवंच मयट्‌शब्दस्य प्रचुरानंदत्वात्। अन्नमयादीनामपि ब्रह्मत्वेन तद्गतमयटो विकारार्थकत्वाभावात्। न चान्नमयादिशब्दानामन्नमयादिप्राटचुयार्थकत्वेऽल्पार्थता। अद्यतेऽत्तिचे (तै.उ.2-2-2) त्यादिना सर्वभूतोपजीव्यत्वसर्वात्तृत्वयोरेवान्नमयशब्दार्थत्वात्। उपजीव्यत्वमेवाद्यत्वमित्याशयात्। प्रायपठितमयटामर्थद्वयकल्पनानौचित्यात् आनंदादिस्वरूपे हरौ प्रचुरप्रकाशो रविरितिवद्विशेषेण तथा व्यवहारस्योपपत्तेरानंदमयादिर्विष्णुरेवेति सिद्धं ॥
</1-1-13>

<1-1-14>

(14) ॥ तद्धेतुव्यपदेशाच्च ॥ ॥

आनंदमयमात्रस्य विष्णुत्वे हेत्वंतररूपं प्राचुर्यमेव मय़र्थ इत्यत्र च हेतुं प्रतिपादयत्सूत्रमुपन्यस्यति॥

॥ तद्धेतुव्यपदेशाच्चेति ॥ अस्यार्थः ॥ चःसनमुच्चये। तस्य आनंदमयस्य। विष्णुत्वे लोकचेष्टकत्वाख्यहेतोः। व्यपदेशात् कोह्येवान्यादिति (तै.2-7) श्रुतावुक्तत्वाच्च आनंदमयो विष्णुरेवेत्यर्थः ॥

॥ एवंच न केवलं ब्रह्मशब्दाभ्यासात् किंत्वानंदमयप्रकरणे विष्णोरानंदपूर्णत्वेनानंदमयत्वे प्राचुयंस्यैव मयडर्थत्वे च लोकचेष्टकत्वाख्य हेतूक्तेश्चानंदपूर्णत्वेनैवानंदमयशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-1-14>

<1-1-15>

॥ मांकवर्णिकमेव च गीयते ॥ ॥

ननु ब्रह्मशब्दस्यापरब्रह्माणि जीवेऽप्युपपत्तेः। तस्य परब्रह्माणि मुख्यत्वेऽपि विष्णोरानंदमयावयवत्वोक्त्यादिना बाधकेनामुख्यार्थस्यैव ग्रहणोपपत्तेरिति प्राप्ते सूत्रमाह ॥

॥ ॥ मांत्रवर्णिकमेव च गीयत इति ॥ अस्यार्थः ॥ यतः मांत्रवर्णिकं सस्यं ज्ञानमनंतं ब्रह्मेति [तै.2-1] मंत्रवर्णोक्तं ब्रह्म। गीयते आनंदमयादिशब्दैः प्रतिपाद्यते। अत आनंदमयादिशब्दवाच्यं ब्रह्मैवेत्यर्थः ॥

॥ एवंच सत्यज्ञानादिशब्दानामन्नमयादिशब्दानां चानुसंधाने सत्येकार्थत्वप्रतीतेः। न चानंदमयस्यैव ब्रह्म्तेव ब्रह्मणस्तत्पुच्छत्वोक्तिविरोधः। स शिरः स दक्षिण इति (चतुर्वेदशिखायां) श्रत्याऽवयविन एवावयत्वोक्तेः आनंदमयादिशब्दवाच्यं ब्रह्मैवेति सिद्धं ॥
</1-1-15>

<1-1-16>

॥ ॥ नेतरोऽनुपपत्तेः ॥ ॥

ननु ब्रह्मशब्दस्य साधारणत्वात्। तद्धेतुव्यपदेशस्य विष्णुनिष्ठतया स्पष्टमप्रतिभानात्। मंत्रवर्णसमाख्यायाश्चान्यलिंगादिभ्यो दुर्बलत्वेन सावकाशत्वात्। अनन्यथासिद्धहेत्वंतरस्य चाभावात्। आनंदमयादयो विरिंचादय एव स्युरिति प्राप्ते सूत्रमवतारयति ॥

॥ नेतरोऽनुपपत्तेरिति ॥ अस्यार्थः ॥ इतरः चतुर्मुखादिः न। कुतः। अनुपपत्तेः ब्रह्मविदाप्नोति परमिति [तै.उ.2-2-2] मोक्षजनकज्ञानविषयत्वायोगादित्यर्थः ॥

एवंच ब्रह्मशब्दशतानंदत्वाष्टमूर्तित्वबहुभावादिरूपोक्तप्रापकेनान्नमयादिशब्दैर्विरिंचादिरेव नोच्यते। विष्ण्वन्यविरिंचादिज्ञानान्मोक्षानुपपत्तेः। ब्रह्मविदाप्नोति परमिति श्रुतौ आनंदमयादेर्मुक्तिहेतुज्ञानविषयत्वोक्तेरानंदमयादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-1-16>

<1-1-17>

(17) ॥ ॥ भेदव्यपदेशाच्च ॥ ॥

हेत्वंतरेण ब्रह्मादिनामानंदमयत्वं पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ भेदव्यपदेशाच्चेति ॥ अस्यार्थः ॥ चतुर्मुखादेरानंदमयस्य भेदकधर्मोक्तेश्च। नानंदमय इतर इत्यर्थः ॥

॥ एवंच ते ये शतमित्यत्र (तै.उ.2-4-8) विरिंचस्य रुद्राच्छतगुणानंदत्वोक्तेरानंदमयस्य च यतो वाच (तै.उ.2-4-1) इत्यादिनाऽपरिमितानंदत्वोक्तेः। रुद्रस्य विरिंचाच्छतांशोनानंदत्वोक्तेः। बृहस्पत्यादीनामुत्तरोत्तरापेक्षया शतांशोनानंदत्वोक्तेः। अदृश्यत्वादौ (तै.2-7) प्रकृत्याद्ययोग्यस्वातंत्र्यादिभेदकधर्मश्रवणात्। ब्रह्मादिजीवसमुदायस्य स यश्चायमि (तै.2-8) त्यत्राप्रकृष्टोत्कृष्टसर्वजीवस्थितिरूपभेदकधर्मोक्तेः। तत्त्वमसीत्यादि (छां.6-8) श्रुतीनामर्थोतरकल्पनाच्च। जीवेश्वरयोर्भेदस्य स्थापितत्वादानंदमयादिर्विष्णुरेवेति सिद्धं ॥
</1-1-17>

<1-1-18>

(18) ॥ ॥ कामाच्च नानुमानापेक्षा ॥ ॥

ननु भेदोक्तेः श्रुतिविरोधाभावेऽपि जीवो ब्रह्माभिन्नशेतनत्वाद्ब्रह्मवत्। भेदो मिथ्या भेदत्वाच्चंद्रभेदवत्। विमतानि शरीराणि मद्भोगायतनानि शरीरत्वान्मच्छरीरवदित्याद्यनुमानविरोधः स्यादेवेति प्राप्ते सूत्रमवतारयति ॥

॥ ॥ कामाच्च नानुमानापेक्षेति ॥ अस्यार्थः ॥ अद्वैतश्रुत्यनुकूलानुमानस्याभावात्। केवलानुमानस्य च कामात्। इच्छामनुसृत्य प्रवृत्तत्वात्। नानुमानापेक्षा। अतींद्रियार्थविषये शुष्कानुमानापेक्षा न कार्येत्यर्थः ॥

एवंच प्रत्यक्षादि विरुद्धस्य श्रुतिसहाय्यरहितस्य चानुमानस्य तत्त्वज्ञानं प्रति कारणत्वाभावात्। ईश्वरो न स्वतंत्रश्चेतनत्वाद्देवदत्तादिवदित्यप्यनुमातुं शक्यत्वात्। प्रत्यक्षादिविरुद्धस्यापि प्रमाणत्वे चेतनत्वादेरपि प्रामाण्यंस्यादविशेषादिति विपक्षेबाधकतर्कस्य संभवात्। यथा कामेति स्कांदवाक्ये केवलानुमानस्य कामगामित्वेनोक्तत्वात्। जीवेशयोर्भेदस्य सिद्धत्वेनानंदमयादि ब्रह्मैवेति सिद्धं ॥
</1-1-18>

<1-1-19>

(19) ॥ ॥ अस्मिन्नस्य च तद्योगं शास्ति ॥ ॥

नन्वस्त्वानंदमयेन ब्रह्मणा हिरण्यगर्भादिजीवानां भेदः। तथाऽपि स व्यावहारिको न पारमार्थिको मुक्तावपि। उदाहृतश्रुतीनां सांसारिकभेदपरत्वोपपत्तेरिति प्राप्ते सूत्रमाह।

॥ अस्मिन्नस्य च तद्योगं शास्तीति ॥ अस्यार्थः ॥ युक्तिसमुच्चये च शब्दः। यतः अस्मिन् आनंदमयप्रकरणे। मोक्षेऽपि अस्य जीवस्य। तद्योगं आनंदमयादीनां संबंधं। शास्ति श्रुतिः प्रतिपादयति। अतोऽपि आनंदमयादिर्ब्रह्मैव न देहादिरित्यर्थः ॥

॥ एवंचानिलयनेऽभय (तै.2-7) मित्येतमानंदमयमि (तै.2-8) त्यादिषु ब्रह्मज्ञानिनः सर्वज्ञेन ज्ञैतेनैव चतुर्मुखेन च सह स्वयोग्यकामानां मुक्तौ प्राप्तेः। देहादुत्क्रांतजीवस्य पूर्णानंदस्य परमात्मनः समीपप्रापकत्वोक्तेश्च। जीवेशयोर्भेदः पारमार्थिक इति सिध्याऽऽनंदमयादिरब्रह्मैवेति सिद्धं ॥
</1-1-19>
॥ इति आनंदमयाधिकरणं ॥

7. अधिकरणं ॥

अत्राधिदैवगतान्यत्र प्रसिद्धेंद्रादिनामसमन्वयसिध्यर्थं देहांतःस्थत्वरूपलिंगसमन्वयः क्रियते।

<1-1-20>
(20) ॥ अंतस्तद्धर्मोपदेशात् ॥ ॥

नन्वंतःस्थत्वेन श्रुत्योच्यमान इंद्रो भवेत्। इंद्रश्रुतेः ॥ (तै.आ.3-11-6) सूर्यो वा दिवस्पतित्वलिंगातं। वरुणलिंगाद्वरुणो वा। त्वष्टृश्रुतेस्वष्टा वा। अग्निबृहस्पतिश्रुतिभ्यामग्निबृहस्पती वा न चेंद्रादिशब्दा अन्यत्र नेतुं शक्यंते। तेषां देवेष्वेव रूढत्वात्। तेषामैश्वर्यादिशब्दप्रवृत्तिनिमित्तत्वाच्च न चादृश्यत्वादिलिंगादंतःश्थो विष्णुः। श्रुत्यादिभ्यो लिंगमात्रस्य दुर्बलत्वात्। इति प्राप्ते सूत्रमाह।

॥ ॥ अंतस्तद्धर्मोपदेशादिति ॥ अस्यार्थः ॥ अंतः अंतः प्रविष्टमिति [तै.आ.3-11] हृदयांतः श्रुतं ब्रह्मैव नेंद्रादिः। कुतः। तद्धर्मोपदेशात्। तस्मिन् अंतःश्रुतेः। क्षीराब्धिमध्यवर्त्तित्वप्रलयोदधिस्थितत्वब्रह्मांडवीर्यत्वादिरूपविष्णुधर्माणां अंतः समद्र [तै.आ.3-11-1] इत्यादौ श्रतत्वादित्यर्थः ॥

॥ एवंच निरवकाशलिंगैः सावकाशान्यप्रापकश्चतिलिंगानां बाधोपपत्तेरयमंतःस्थो विष्णुरेवेति सिद्धं ॥
</1-1-20>

<1-1-21>

(21) ॥ भेदव्यपदेशाचाचन्यः ॥ ॥

ननु समुद्रस्थत्वादिलिंगादंतःस्थो विष्णुस्तर्हि तेनांतःस्थेन विष्णुनेंद्रादीनामभेदोऽस्तु। इंद्रादिप्रापकश्रुत्यादेरपि सद्भावात्। श्रुत्यादेश्च स्वभावतो लिंगस्य निरवकाशतया बलक्त्वेनान्यतरबाधेनान्यतरपक्षनिर्णयायोगात् ततश्च पूर्वोत्तरपक्षद्वयेऽन्योन्यं बाध्यबाधकभावशून्ये सति तदन्यथाऽनुपत्त्यांऽतःस्थेन विष्णुनेंद्रादीनामभेदः प्राप्त इत्याशंकां परिहरनन्मूत्रमुपन्यस्याति।

॥ ॥ भेदव्यपदेशाच्चान्य इति ॥ अस्यार्थः ॥ न केवलमंतःस्थो विष्णुः किंत्विंद्रादिभ्योऽन्यश्च। कुतः। भेदव्यपदेशात्। तस्य तदंतर्यामित्वतत्प्रेरकत्वादिरूपभेदकधर्मश्रवणादित्यर्थः ॥

॥ एवंच इंद्रस्यात्मा, (तै.आ.3-11-3) वायोरात्मानं, (तै.आ.3-11-4) अंतरादित्ये, (तै.आ.3-11-6) इत्यादि श्रुतिषु भेदकधर्मश्रवणात्। न चोभयप्रापकान्यथाऽनुपपत्त्यैतत्कल्प्यं निरवकाशेन विष्णुलिंगेन सावकाशान्यप्रापकश्रुतिलिंगानां बाधोपपत्तेः। तस्मादयमंतःस्थो विष्णुरेवेति सिद्धं ॥
</1-1-21>
॥ इति अंतःस्थत्वाधिकरणं ॥

8.अधिकरणं ॥

अत्र भगवति लोकतोऽन्यत्रप्रसिद्धाकाशपदोपलक्षिताधिभौतिकाशेषशब्दसमन्वयः क्रियते।

<1-1-22>
(22) ॥ आकाशस्तल्लिंगात् ॥ ॥

नन्वस्य लोकस्येति श्रुत्युक्ताकाशो भूताकाश एव। आकाशशब्दस्य तत्र रूढत्वात्। न चाथमाकाशो विष्णुः। आकाशशब्दस्य तत्र यौगिकत्वेन सत्प्रतिपक्षतेति वाच्यं। योगस्य हीनबलत्वेनाप्रतिपक्षत्वात्। न चाकाशशब्दप्रवृत्तिनिमित्तस्यावकाशत्वस्य समवायेनाकाशवृत्तित्ववत्स्वातंत्र्यलक्षणेन संबंधेन हरावपि सत्त्वादुभयत्रापि रूढेरविशिष्टतेति न रूढ्या भूताकाशत्वनिर्णय इति वाच्यं। आकाशस्याचेतनत्वाद्भगवदधैनत्वाभावेनाकाशत्वस्य स्वस्वामिभावसंबंधेन तद्वृत्तित्वाभावात्। एवं छंदोगश्रुत्युक्ताकाशे भूताकाशे सति तैत्तरीयश्रुत्युक्तकाशोऽपि रूढिबलादेव भूताकाशः। सर्वाणि हवेति तदाकाशस्य भूतकारणतयोक्तत्वात्। कार्यगतचेष्टायाः कारणाधीनतादर्शनेन को ह्येवान्यादिति (तै.2-7) श्रुत्युक्तजगच्चेष्टकत्वलिंगस्य सावकाशत्वेनाबाधकत्वात्। अत आकाशो न विष्णुरिति प्राप्ते सूत्रितं ॥

॥ ॥ आकाशस्तल्लिंगादिति ॥ अस्यार्थः ॥ आकाशः आकाशशब्दवाच्यो विष्णुरेव। न प्रसिद्धाकाशः। कुतः। तल्लिंगात् छंदोग (छां.1-9) श्रत्युक्ताकाशे परोवरीयस्त्वादिरूपलिंगस्य श्रवणादित्यर्थः ॥

॥ एवंच परोवरीयस्त्वादिनिरवकाशविष्णुलिंगात्। आकाशशब्दस्य महायोगविद्वद्रूढिसद्भावेन तत्रैव मुख्यत्वात्। ततश्च छंदोगश्रुत्युक्ताकाशस्य विष्णुत्वे तैत्तरीयोक्तोऽपि जगच्चेष्टकत्वलिंगबलादेव विष्णुः। चेष्टकत्वस्य कर्तर्येव मुख्यत्वात्। मुख्ये संभवत्यमुख्यग्रहणायोगात्। सर्वचेष्टकत्वस्य सर्वोत्तमत्वव्याप्तत्वेन भूताकाशे सर्वोत्तमत्वस्याभावेन सर्वचेष्टकत्वाभावात्। न चाचेतनस्यापि चेतनानुग्रहेणानंदः संभवति। अप्रामाणिकत्वात्। तस्मादाकाशो विष्णुरेवेति सिद्धं ॥
</1-1-22>
॥ इति आकाशाधिकरणं ॥

9.अधिकरणं ॥

अत्र लोकतोऽन्यत्रप्रसिध्यात्मिकाशेषशब्दोपलक्षकप्राणशब्दस्य ब्रह्मणि समन्वयः क्रियते।

<1-1-23>
(23) ॥ अत एव प्राणः ॥ ॥

नन्वयं प्राणो वायुरेव। प्राणशब्दस्य तत्र रूढत्वात्। विष्णौ रूढेरभावात्प्राणश्रुतेस्तत्र सावकाशत्वाभावात्। यौगिकार्थस्य जीवनकारणत्वस्यान्वयव्यतिरेकाभ्यां वायावेव दर्शनात्। ततश्च प्राणो वायुरेवेति प्राप्ते सूत्रमाह ॥

॥ ॥ अत एव प्राण इति ॥ अस्यार्थः ॥ तद्वैत्वं प्राणोऽभव इत्युक्तप्राणो विष्णुरेव। नान्यः। कुतः। अत एव श्रीश्चत इति [तै.आ.3-13] श्रीपतित्वलिंगादेवेत्यर्थः ॥

एवंच निरवकाश श्रीलक्ष्मीपतित्वलिंगात्। ईशानः प्राणदः प्राण इति विद्वद्रूढेर्महायोगस्य च विष्णौ सत्त्वेन श्रुतेः सावकाशत्वात्। प्राणगतजीवनान्वयव्यातिरकेस्यापि न प्राणेनेति श्रुतेर्भगवदधीनत्वात्। अतः प्राणशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-1-23>
॥ इति प्राणाधिकरणं ॥

10.अधिकरणं ॥

अत्र तत्तत्सूत्रगताशेषशब्दोपलक्षकस्य लोकतोऽन्यत्रप्रसिद्धस्य ज्योतिर्नाम्नो ब्रह्मणि समन्वयः क्रियते।

<1-1-24>
(24) ॥ ॥ ज्योतिश्चरणाभिधानात् ॥ ॥

नन्वाग्निरेवेदं ज्योतिः। तस्य सूक्तस्याग्नि (ऋ.6-9-6) सूक्तत्वात्। न च लिंगात्प्रकरणस्य दुर्बलत्वेन गुहाहितत्व (तै.उ.2-1) लिंगात्प्रकरणबाधः। ज्योतिःश्रुतेरग्नौनिरूढत्वात्। विष्णौ तदभावात्। न च लिंगस्य निरवकाशत्वेन श्रुतिप्रकरणबाधकत्वमिति वाच्यं। लिंगस्यापि जाठरजातवेदसि सावकाशत्वात्। लिंगस्य निरवकाशत्वेऽपि तस्यैविधमेव प्राबल्यं। श्रुतिप्रकरणयोस्त्वनेकप्रयुक्तप्राबल्यात्। श्रुतेश्च स्वभावत्वप्रयुक्तप्राबल्यमपीति श्रुतिप्रकरणाभ्यामेव लिंगस्य बाधो युक्तः। अतो ज्योतिषोऽग्नित्वमिति प्राप्ते सूत्रमाह ॥

॥ ॥ ज्योतिश्चरणाभिधानादिति ॥ अस्यार्थः ॥ ज्योतिः ज्योतिःशब्दवाच्यं ब्रह्मैव न त्वन्यत्। कुतः। चरणाभिधानात् कर्णादीनां विचरणाभिधानात्। ज्योतिषः साकल्येन कर्णादिविदूरत्व (ऋ.7-98-1) श्रवणादित्यर्थः ॥

॥ एवंच कर्णादिविदूरत्वाख्यविष्णुलिंगात्। बहुत्वस्वभावबलवत्त्वरूपोभयविधप्राबल्यादपि निरवकाशत्वप्राबल्यस्य बलवत्त्वेन लिंगेन श्रुतिप्रकरणबाधोपपत्तेः। महायोगविद्वद्रूढिसद्भावेन श्रुतेर्विष्णावेव मुख्यत्वात्। अतो विष्णुरेवेदं ज्योतिस्तस्यैव गुहानिहितत्वं चेति सिद्धं ॥
</1-1-24>
॥ इति ज्योतिरधिकरणं ॥

11.अधिकरणं ॥

अत्राधिवेदगतगायत्र्याद्यशेषशब्दसमन्वयःक्रियते।

<1-1-25>
(25) ॥ छंदोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनं ॥ ॥

ननु गात्रत्री छंद एव। तच्छब्दस्य तत्रैव रूढत्वात्। वाग्वै गायत्रीति (छां.3-12-1) वाक्यविधानात्। न च गायत्र्या भगवदधीनत्वेन गायत्री शब्दस्तत्रैव मुख्य इति वाच्यं। गायत्र्या वेदविशेषत्वान्नित्यत्वेन पराधीनत्वाभावात्। अतो गायत्री छंदोविशेष एवेति प्राप्ते सूत्रं पठति ॥

॥ ॥ छंदोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तताहि दर्शनमिति ॥ अस्यार्थः ॥ छंदोभिधानात्। ननु छंदोगश्रुतिस्थगायत्रीपदेन चतुर्विंशत्यक्षरात्मकछंदसः प्रतिपादनाद्गायत्रीशब्दवाच्यो विष्णुर्नेति चेन्न। कुतः। तथा हि दर्शनं। हि यस्मात्। तथा गानत्राणकर्तृत्वनिमित्तेन। दर्शनं विष्णोः गायत्रीशब्दवाच्यत्वप्रतिपादिका (छां.3-12-1) श्रुतिरस्ति। तस्माद्व्यार्थं गायत्रीपदेन विष्णोरबिधानमित्यत उक्तं। तथेत्यादि। तथा चेतोर्पणनिगदात् विष्णोस्तथा गायत्र्यादिशब्दप्रवृत्तिनिमित्तवत्त्वेन चेतसि अर्पणाय उपासनाय। निगदात् श्रुतौ प्रतिपादनादित्यर्थः। तथा च न वैयर्थ्यमिति भावः ॥

॥ एवंच गानत्राणकर्तृत्वलिंगात्। नच लिंगस्य निरवकाशत्वायोगेन श्रुतिबाधायोगः। गायत्रीश्रुतेः पौराणिकरूढ्या श्रुत्युक्तयोगेन च तत्र मुख्यत्वात्। स्वभावेति वचनाङ्गायत्र्या भगवदधीनत्वात्। गायत्रीशब्दवाच्योविष्णुरेवेति सिद्धं ॥
</1-1-25>

<1-1-26>
(26) ॥ भूतादिपादव्यपदेशोपपत्तेश्चैवं ॥ ॥

हेत्वंतरेणापि गायत्र्या विष्णुत्वं साधयत्सूत्रमुपन्यस्यति ॥

॥ ॥ भूतादिपादव्यपदेशोपपत्तेश्चैवमिति ॥ अस्यार्थः ॥ एवमित्यस्यावृत्तिः। एवं गायत्रीशब्दवाच्यं ब्रह्मेत्येवमेवयुक्तं। कुतः। एवं भूतादिपादव्यपदेशोपपत्तेः। पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवीति (छां.3-12-6) एवं रूपभूतामृतांशवत्त्वोक्तेश्च। तस्य च विष्णावेवोपपत्तेः अन्यत्रानुपपत्तेश्चेत्यर्थः ॥

॥ एवंच छांदोग्ये सैषां चतुष्पदेति(छां.3-12-5)वाक्येन गायत्रीनामकस्य भगवतः प्रागुक्तगायत्रीभूतवाक्‌पृथिवीशरीरहृदयलक्षणषड्‌विधत्वमनूद्यांशचतुष्टयरूपवत्त्वरूपं चतुष्पादत्वं विधाय स्वोक्तार्थ एव पुरुषसूक्तमंत्रः समाख्यारूपत्वेनोदाहृतः। भगवतश्चतुष्पादत्वं ऋङ्‌मत्रेण स्पष्टमानुकूल्येनोक्तं। न च गायत्र्यामिव भूतभिन्नत्वेन विष्णावपि भूतपादत्वोक्तिरनुपपन्ना। सुवर्णकोशमिति (तै.आ.3-19) श्रुतेः। न च पुरुषसूक्तं न विष्णुप्रकरणमितिवाच्यं। तस्मिन्कालै महाराजेति (स्कांदे)स्मृत्या तत्प्रकरणस्य विष्णुत्वनिश्चयात्। अतो गायत्रीशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-1-26>

<1-1-27>
(27) ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ ॥

ननु गायत्रीज्योतिप्रकरणयोरुपदेशभेदेन भिन्नार्थत्वादित्यादिनोक्तमाक्षिप्य समादधत्सूत्रमाह

॥ ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधादिति ॥ आस्यार्थः ॥ उपदेशभेदात् गायत्रीज्योतिषोः द्युस्थत्व (छां.3-12-6) दिवःपरत्व (छां.3-13-7) रूपविरुद्धधर्मबोधकश्रुतिभेदान्नेति चेत्तद्वयं विष्ण्वाख्यमेकं वस्तु न किंतु भिन्नगेवेतिचेन्न। कुतः। उभयस्मिन् श्रुतिवाक्येऽपि एकस्यप्रतिप्दायत्वेऽपि। अविरोधात् त्रिसप्तलोकविवक्षया विरोधाभावादित्यर्थः ॥

॥ एवंच विवक्षाभेदेनैकस्यैव द्युस्थत्वदिवः परत्वयोः संभवेन भिन्नार्थत्वाभावात्। अतो गायत्री विष्णुरेवेति सिद्धं ॥
</1-1-27>
॥ इति छंदोभिधानाधिकरणं ॥

12.अधिकरणं ॥

अत्र लोकतोऽन्यत्रप्रसिद्धप्राणनाम्नो विष्णौ समन्वयः प्रतिपाद्यते।

<1-1-28>
(28) ॥ प्राणस्तथाऽनुगमात् ॥ ॥

ननु तावा एता (ऐ.आ.2-1-4) इत्युक्त प्राणो न विष्णुः। इंद्रियगणे गणितत्वात्। जीवो वा। एष इम लोकमभ्यार्चदिति (ऐ.आ.2-2-1-1) जीवलिंगात्। मुख्यप्राणो वा। ता अहिंसंतेति (ऐ.आ.2-1-4-9) तल्लिंगात्। इति प्राप्ते सूत्रमुपन्यस्यति ॥

॥ ॥ प्राणस्तथाऽनुगमादिति ॥ अस्यार्थः ॥ तथा तद्वैत्वमिति (तै.आ.3-14-4) तैत्तरीयोक्तप्राणवत् ता वा इत्यैतरेयोक्तप्राणोऽपि विष्णुरेव। कुतः। अनुगमात् देवतोपास्यादिविष्णुलिंगब्रह्मशब्दानां असकृच्छ्रवणादित्यर्थः ॥

एवं च स एषोऽसुरित्यत्र (ऐ.आ.2-1-8) दुष्टनिरसनादसुत्वेन प्रकृष्टानंदरूपत्वात्प्राणत्वेन देवानां ज्ञानाद्यैश्वर्यप्रदत्वादसुराणामज्ञानाद्यैश्वर्यहेतुत्वाच्च भूत्यभूतित्वेन च ता वा एता इत्यत्र सर्ववेदोक्तत्वेन तदयं प्राण (ऐ.आ.2-3-8) इत्यत्र देहरथित्वेन तं देवाः प्रामयंत (ऐ.आ.2-1-5) इत्यत्र सर्वदेवतोपास्यत्वेन चोक्तत्वात्। न च पूर्वपक्षिलिंगस्य निरवकाशत्वेनापि प्राबल्यं। ब्राणयंत (ऐ.आ.2-1-5) इत्यत्र सर्वदेवतोपास्यत्वेन चोक्तत्वात्। न च पूर्वपक्षिलिंगस्य निरवकाशत्वेनापि प्राबल्यं। प्राणैः सह गणितत्वस्यांतर्यामिनिष्ठतासंभवात्। प्राबल्येऽप्येकप्रकारेण प्रबलात्पूर्वपक्षिलिंगात्प्रकारद्वयेनापि प्रबलस्य सैद्धांतिक लिंगस्याधिक्येन निर्णयोपपत्तेः। अस्मिन्प्रकरणे एतद्ब्रह्म, (ऐ.आ.2-1-1-1) ब्रह्मणो लोकः, (ऐ.आ.2-1-3-1) ब्रह्मेमं पुरुषं, (ऐ.आ.2-1-4-1) उदरं ब्रह्मेत्याचक्षते, (ऐ.आ.2-1-4-5) अ इतिब्रह्म, (ऐ.आ.2-3-8-7) इत्यादिनिरवकाशब्रह्मशब्दाभ्यासात्। अतोऽयं प्राणो विष्णुरेवेति सिद्धं ॥
</1-1-28>

<1-1-29>
(29) ॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबंधभूमा ह्यस्मिन् ॥ ॥

ननु नायं प्राणो विष्णुः। किंत्विंद्र एव। प्राणो वाऽहमिति (ऐ.आ.2-2-3) वाक्येन बृहतीसहस्रवक्तुर्विश्वामित्रस्येंद्रेण प्राणतयाऽऽत्मनः स्वस्यैवोपदेशादित्याक्षिप्य समादधत्सूत्रमाह ॥

॥ ॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबंधभूमा ह्यस्मिन्निति ॥ अस्यार्थः ॥ द्वितीयार्थे षष्ठी। वक्तुः बृहतीसहस्रवक्तारं। विश्वामित्रं प्रतींद्रेण। आत्मोपदेशात् आत्मनः स्वस्य प्राणतयोपदेशात्। इंद्र एवायं प्राणः न विष्णुरिति चेत् नेतिशेषः। तस्यावृत्तिः अनुगमादित्यनुवर्तते। तथा च प्रागुक्तानुगमहेतोर्नेंद्रः प्राणः। तथा सति उपदेशविरोध इत्यपि न। कुतः। यस्यात् अस्मिन्प्रकरणे भगवतः अध्यात्मसंबंधभूमा इंद्रविश्वामित्रादिरूपबहुदेहसंबंधः उक्तोऽस्ति। तस्मादित्यर्थः ॥ यद्वा ॥ हि यस्मात्। अस्मिन् इंद्रे। अध्यात्मसंबंधभूमा। अधि अधिकस्य। आत्मनः। संबंधस्य आवेशस्य। भूमा बाहुल्यं विद्यते। तस्मादित्यर्थः ॥
</1-1-29>
॥ एवंच प्राणो विष्णुरेवेति सिद्धं ॥

<1-1-30>
(30) ॥ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ॥

ननु यादि प्राणशब्देनेंद्रेणापि विष्णुरेव स्वात्मादिसर्वगततयोच्यते तर्हि मयि प्राण इति निर्देशः स्यात्। न त्वहमिति। विष्णावहमित्यादिरूपोपदेशायागोदिति प्राप्ते परिहरत्सूत्रं पठति ॥

॥ ॥ शास्त्रदृष्ट्या तूपदेशो वामदेववदिति ॥ अस्यार्थः ॥ तु शब्द एवार्थे। वामदेववत् यथांऽतर्यामिविवक्षया वामदेवर्षिः। अहं मनुरभवमिति स्वस्य मनुसूर्याद्यैक्यमाह। तद्वत् शास्त्रदृष्ट्या शास्ति सर्वमिति शास्त्रं अंतर्यामि तद्दृष्टया तद्विवक्षयैवोपदेशः प्राणोऽहमिति व्यपदेशः। नत्वैक्येनेत्यर्थः ॥

॥ एवंचेंद्रस्य प्राणतयाऽऽत्मोपदेशस्यांतर्यामिविवक्षया प्रवृत्तत्वात्। अन्यथा त्वं प्राण इति व्यपदेशानुपपत्तेः। ईश्वरपक्षे त्वहमादिशब्दानां शास्त्रदृंष्ट्या प्रवृत्तत्वेन बाधकाभावात्। तत्तन्नाम्नोच्यते विष्णुरिति (पाद्मे) वचनात्। प्राणोऽयं विष्णुरेवेति सिद्धं ॥
</1-1-30>

<1-1-31>
(31) ॥ जीवमुख्यप्राणलिंगान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिद्द तद्योगात् ॥ ॥

पुनरुक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति ॥

॥ ॥ जीवमुख्यप्राणलिंगान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वाददिह तद्योगादिति ॥ अस्यार्थः ॥ जीवमुख्यप्राणलिंगात् शतायुष्ट्‌वादिजीवलिंगानां इंद्रियदेवैः संवादादिरूपमुख्यप्राणलिंगानां च श्रवणात् ॥ (ऐ.आ.2-2-4) प्राणोऽन्य एव न विष्णुरिति चेन्न। कुतः। अनुगमात्। न च लिंगविरोधः। तल्लिंगानामंतर्यामिवषयत्वेनोपपत्तेरित्यादिकमध्याहार्यं। किमर्थमंतर्यामिकथनमित्यत उक्तं। उपासात्रैविध्यादिति। अंतर्बहिःसर्वगतभेदेन ब्रह्मोपासनस्य त्रिविधत्वात्। इह प्रकरणे। तत्त्रैविध्यस्याश्रितत्वात्। उक्तत्वात्। तद्योगात् तेषामधिकारिणां त्रिविधोपासनायोग्यत्वादित्यर्थः ॥

॥ एवंच तत्तच्छब्दैस्तत्तदधिकारिभेदनोपासनार्थं अंतर्यामिकथनं युक्तमिति भावः। तस्मादयं प्राणो विष्णुरेवेति प्रागुक्तः प्राण आनंदमयश्च स एवेति युक्ता तज्जिज्ञासेति सिद्धं ॥
</1-1-31>
॥ इति पादांत्यप्राणाधिकरणं ॥

॥ इति प्रथमाध्यायस्य प्रथमः पादः ॥