सूर्याष्टकम्
अज्ञातः
१९५३

॥ सूर्याष्टकम् ॥



साम्ब उवाच-
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥ १
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ २
लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं ...॥ ३
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।
महापापहरं देवं तं सूर्यं ....॥ ४
ब्रुंहितं तेजः पुञ्जं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं ...॥ ५
बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं ...॥ ६
तं सूर्यं जगत्कर्तारं महातेज: प्रदीपनम् ।

महापापहरं देवं तं सूर्यं ... ॥ ७
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं ...॥ ८
सूर्याष्टकं पठेन्नित्यं प्रहपीडाप्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ॥ ९
आमिषं मधुपानं च यः करोति रवेर्दिने ।
सप्तजन्म भवेद्रोगी जन्मजन्म दरिद्रता ॥ १०
स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने ।
न व्याधिः शोकदारिद्र्यं सूर्यलोकं स गच्छति ॥

॥ इति श्रीसूर्याष्टकस्तोत्रं सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=सूर्याष्टकम्&oldid=320157" इत्यस्माद् प्रतिप्राप्तम्