सेव्यसेवकोपदेशः
क्षेमेन्द्रः
१९३२

महाकविश्रीक्षेमेन्द्रकृतः

सेव्यसेवकोपदेशः ।

विभूषणाय महते तृष्णातिमिरहारिणे ।
नमः संतोपरत्नाय सेवाविषविनाशिने ॥ १ ॥

उत्सृज्य निजकार्याणि सद्भिर्बाष्पाकुलेक्षणम् ।
सेव्यसेवकसेवानां क्रियतामनुशासनम् ॥ २ ॥

दर्पादेकः परो लोभाद्द्वावन्धौ सेव्यसेवकौ ।
धनोष्मदैन्यविकृती मुखे कः कस्य पश्यति ॥ ३ ॥

दुर्वारमोहलोभान्धो यदि न स्यादयं जनः ।
कः क्रूरक्रोधविधुरं सहेत धनिनां मुखम् ॥ ४ ॥

यः पृथ्वीमपि दर्पान्धो न पश्यति पुरःस्थिताम् ।
स दैन्यलघुतां यातं कथं सेवकमीक्षते ॥ ५ ॥

अगतिं वाहयत्येको बधिरं स्तौति चापरः ।
अहो जगति हास्याय निर्लज्जौ सेव्यसेवकौ ॥६॥

दूरं हुंकारमात्रेण विसृष्टो मार्गणः सदा ।
गुणभ्रष्टः क्रियाहीनो नोद्वेगं याति सेवकः ॥ ७ ॥

मन्ये सुकृतिना तेन भागीरथ्यां कृतं तपः ।
वैराग्यभागी रथ्यां यः सेवासु न विगाहते ॥ ८ ॥

कथितक्लेशवापेन शापेनेव विपाकिना ।
सेवातापेन पच्यन्ते नह्यदुष्कृतिनो नराः ॥ ९ ॥

अदैन्यपुण्यमनसां यशस्तेषां विराजते ।
सेवापङ्ककलङ्कानां यैर्न पात्रीकृतं शिरः ॥ १० ॥

प्रभुप्रणामे जठरं दैन्यमूलं विलोकयन् ।
प्रवेष्टुं सेवकः शङ्के विलक्षः क्षितिमीक्षते ॥ ११ ॥

सेवाध्वजोऽञ्जलिर्मूर्ध्नि हृदि दैन्यं मुखे स्तुतिः ।
आशाग्रहगृहीतानां कियतीयं विडम्बना ॥ १२ ॥

अकालागमनक्रोधविधुरेश्वरचक्षुषा ।
क्षिप्रं स्मर इवायाति सेवको दग्धभूतिताम् ॥ १३ ॥

पुनः सेवावमानानां तेन दत्तं तिलोदकम् ।
प्रविश्य वाहिनीं येन खड्गपात्रीकृतं वपुः ॥ १४ ॥

कणवृत्तिपरिक्लिष्टः कष्टं सेवकचातकः ।
घनाशानिरतो नित्यमुद्ग्रीवः परिशुष्यति ॥ १५ ॥

निःसंतोषः परित्यज्य भ्रमरः पुष्पितं वनम् ।
सेवते दानलोभेन मातङ्गमपि सेवकः ॥ १६ ॥

जडसेवापरिक्लिष्टस्तीव्रदम्भबकव्रतः ।
कृच्छ्रेण क्षणिकां प्रीतिमासादयति सेवकः ॥ १७ ॥

नित्यमुन्नतिकामोऽपि मानभङ्गादधोमुखः ।
यत्सत्यमुभयभ्रष्टस्त्रिशङ्कुरिव सेवकः ॥ १८ ॥

स्वमांसविक्रयासक्तः प्रभुवेतालघट्टितः ।
निःसत्त्वः प्रलयं याति रात्रिसेवासु सेवकः ॥ १९ ॥

भूमिशायी निराहारः शीतवातातपक्षतः ।
मुनिव्रतोऽपि नरकक्लेशमश्नाति सेवकः ॥ २० ॥

सेव्यसेवकोपदेशः । ८१

करोति सेवकः सेवां तावदाशामिवायताम् ।
यावद्भोगरसज्ञेन यौवनेन वियुज्यते ।। २१ ॥

चक्षुर्दार्यञ्जलौ पाणिः स्तुतौ जिह्वा नतौ शिरः ।
अहो नु सेवकैः कायः परोपकरणीकृतः ॥ २२ ॥

हन्त याच्ञावमानेन सेवको लघुतां गतः ।
सेवापङ्कपदे मग्नो यदन्विष्टो न लभ्यते ॥ २३ ॥

अविश्रान्त्याविरक्तस्य दीर्घोच्छ्वासेन शुष्यतः ।
जरेव दुःसहा जन्तोः सेवा संकोचकारिणी ॥ २४ ॥

त्रुट्यति क्लिन्नतन्त्रीव मालेव म्लायति क्षणात् ।
सेवा नारचयत्येव दिनच्छेदेन नश्यति ॥ २५ ॥

सेवासंक्षपिताङ्गानां राजरथ्यासु शुष्यताम् ।
तीव्रतृष्णाविषार्तानां शरणं शमवारिदः ॥ २६ ॥

लोभस्य मोहाध्वनि वृद्धभावे जाता दुराशाशयितस्य सेवा ।
अधोमुखी सा सततं सलज्जा जरत्कुमारीव न कस्य शोच्या ॥ २७ ॥

आशेव शून्येषु विवर्तमाना तृष्णेव संतोषपराङ्मुखीयम् ।
दिवानिशं कर्षणदीर्घरज्जुः सेवा सुराणामपि दैन्यभूमिः ॥ २८ ॥

निसर्गवन्ध्यासु फलाशया ये कुर्वन्ति सेवासु सदा प्रयत्नम् ।
कृषिप्रवृत्ताः शशशृङ्गकोट्या खनन्ति मूर्खाः खलु खस्थलीं ते ॥ २९ ॥

अन्तःस्थितेऽप्यात्मनि यैः क्रियन्ते सेवाप्रवृत्तैः पुरुषैः प्रणामाः ।
दुग्धाब्धिकल्लोलिनि कूलकच्छे तृष्णातुरास्ते जलमर्थयन्ते ॥ ३० ॥

भागीरथीतीरवनान्तरेषु फलावनम्रेषु महाद्रुमेषु ।
क्षुत्तापतृष्णाशमनेषु सत्सु किं दैन्यसेवाव्यसनावमानैः ॥ ३१ ॥

नित्यप्रसक्त्या न सृजत्यवज्ञां न लौल्यगर्हागणनां करोति ।
अत्यन्तयाच्ञासु न याति खेदं भिक्षाभुजां पात्रमतो नु सेव्यम् ॥ ३२ ॥

जयन्ति ते स्वस्ति नमोऽस्तु तेभ्यः प्रभुप्रणामच्युतमानरत्नम् ।
सेवाप्रयासव्यसनेषु मिथ्या रथ्यारजोभागि शिरो न येषाम् ॥ ३३ ॥

किं राजभिर्दुर्जनजन्मजालव्याप्तैरवाप्तैरपि कष्टदृष्टैः ।
सन्त्येव सेव्या भुवि भूभृतस्ते तटेषु येषां मुनयो निविष्टाः ॥ ३४ ॥

तृष्णातुराणां रजसा वृतानां सेवाकुकूलानलतापितानाम् ।
शान्त्यै हितं चन्द्रकिरीटजूटमैत्रीपवित्रं त्रिदशापगाम्भः ॥ ३५ ॥

उत्सृज्य तीव्रं विषयाभिलाषं संतोषपोषं कुशलो भजस्व ।
इत्यर्थ्यमानः सुखसेवयायमात्मैव सर्वं सुधियां ददाति ॥ ३६ ॥

एकस्य जाने सुखभोगभाजः श्लाघ्यस्य सेवाव्यसनं निवृत्तम् ।
सदैव शिश्नोदरवर्जितत्वादयाच्ययाच्ञारहितस्य राहोः ॥ ३७ ॥

सेवाव्रते प्राय इवोपविष्टः सर्वात्मना निश्चितजीवनाशः ।
द्वाःस्थैः प्रयत्नेन निवारितोऽपि न दुर्ग्रहं मुञ्चति नष्टसंज्ञः ॥ ३८ ॥

तमोऽध्वतापेन च चिन्तया च शीतेन दैन्येन च पिण्डिताङ्गः ।
सुखाशया दुःखसहस्रभागी सेवाव्रतं मुग्धमतिर्बिभर्ति ॥ ३९ ॥

गच्छामि गच्छामि दिनं गतं मे दिने गतोऽहं न नृपोऽद्य दृष्टः ।
इति ब्रुवाणस्य सदा जनस्य जीर्णातरां तस्य तनुर्न तृष्णा ॥ ४० ॥

विच्छेदकारी सहसा कथानामनीप्सितो दीप इव प्रविष्टः ।
संसक्तवस्त्रान्तरमक्षिकेव न सेवकः कस्य करोति दुःखम् ॥ ४१ ॥

धूमायमानोऽक्षिविपक्षभूतश्चाटुक्रमोत्पादितकर्णशूलः ।
कुसेवकः पादतलेऽवलग्नः पदे पदे कण्टकतामुपैति ॥ ४२ ॥

एकः खमेव क्षितिमीक्षतेऽन्यः स निर्जनार्थी स च गाढलग्नः ।
स्वस्वार्थिता तस्य भृशं स चार्थी कथं स सेव्यः स च सेवकोऽस्तु ॥ १३ ॥

छायाग्रहो मूर्त इवानुयायी स्थितश्चिरं वृश्चिकनिश्चलश्च ।
अकालपाती सुखकेलिलीलायन्त्रोपलः सेवकदुर्विदग्धः ॥ ४४ ॥

विसृज्यमानोऽप्यनिशं न याति तीव्रोपरोधप्रणयेन मूर्खः ।
भर्तुः प्रसादे विहितप्रयत्नो जातः परं प्रत्युत कोपहेतुः ॥ ४५ ॥

शूत्कारिदीर्घश्वसितानुबन्धैर्निवेदितोद्वेगगतिप्रयासः ।
अतिप्रवेशात्खरमार्गणोऽसौ निरस्यमानो विफलत्वमेति ॥ ४६ ॥

श्रीरत्नचन्द्रवरवाजिगजोर्जितेऽस्मि-
न्गम्भीरराजकुलनाम्नि महासमुद्रे ।
अश्नाति मूढमतिरीश्वरतामवाप्तु-
माशावशात्क्षितिपतेर्बहु कालकूटम् ॥ ४७ ॥

विरम विरम नेयं पान्थ नम्राम्रमाला
बधिर खदिरपाली निष्फलैषा प्रयाहि ।
इति बहुविधमुक्तः सेवकोऽन्यापदेशै-
स्त्यजति न विपुलाशापाशबद्धः कुसेवाम् ॥ ४८ ॥

प्रम्लाना सरसत्वमेति न पुनर्मालेव लग्नातपा
भग्ना काचमयीव संघिघटना योगेन न श्लिष्यति ।
सेवा दीपशिखेव दुर्गतगृहे संधार्यमाणा परं
निःस्नेहा क्षयमेति खेदजनितैरुच्छ्वासमालानिलैः ॥ ४९ ॥

कस्त्वं गत्वर सेवकस्त्वरितता कस्मात्प्रभुर्दृश्यते
लाभः कस्तव तत्र वेत्रिविपुलाघातैः शिरस्ताडनम् ।
किं मृद्गासि मुदा विशालचरणैर्मिथ्यैव रथ्यामिमां
बन्धो वन्ध्यनरेन्द्रभव्यभवनभ्रान्त्या विडम्ब्यामहे ॥ ५० ॥

सुप्ताकर्षणदाम धाम महतो मोहस्य दैन्यस्य वा
सेवाक्लेशमहर्निशं विषहते यो वित्तलेशाशया ।
प्रस्फूर्जद्वडवाग्निगर्भगहनोद्भूतोर्मिमालाकुलं
संक्षुब्धं मकराकरं प्रविशति श्रीरत्नलब्ध्यै न किम् ॥ ५१ ॥

व्यर्थात्यर्थगतागतव्यतिकरैरश्रान्ततीव्रत्वरो
द्वारालोकनतत्परः परिजनैरुत्सार्यमाणः परम् ।
यत्नेनैव पुरः प्रवेशकलनैः क्लेशावमानाश्रयः
सर्वापत्पिशुनः शुनः सदृशतामालप्स्यते सेवकः ॥ ५२ ॥

कूजत्क्रूरकपाटपीडनरुषा दत्तप्रहारैः परं
द्वारावस्थगनाय सुस्थिरभुजैर्द्वाःस्थैर्भृशं भर्त्सितः ।
कुब्जीभूय जनस्य जानुविवरैः क्षिप्रप्रवेशोत्सुकः
पृच्छत्यन्तरनिर्गतानवसरं मौनव्रतान्सेवकः ॥ ५३ ॥

द्वारे रुद्धमुपेक्षते कथमपि प्राप्तं पुरो नेक्षते
विज्ञप्तौ गजमीलनानि कुरुते गृह्णाति वाक्यच्छलम् ।
निर्यातस्य करोति दोषगणनां स्वल्पापराधे यमः
स स्वामी यदि सेव्यते मरुतटे किं नः पिशाचैः कृतम् ॥ ५४ ॥

नित्यं राजकुले न पूज्ययजने तद्द्वारपालार्चनं
भक्तिं भूतिसमुद्भवे न तु भवे ध्यानं धने नात्मनि ।
दृष्टादृष्टविचिन्तनं नरपतौ न स्वोचिते कर्मणि
श्रीहेतोर्बत निष्फलं प्रकुरुते सर्वं जडः सेवकः ॥ ५५ ॥

सा तीव्रं जडनिम्नपातनरता नो नित्यसक्ता त्वरा
रथ्यापङ्ककलङ्कितं न वदनं न द्वारपालैः कलिः ।
यस्मिंस्तच्चिरसेवकः प्रविततं पुण्यं वनं गम्यतां
क्रूरास्ते न भवन्ति तत्र विकृतक्रोधोद्धताः पार्थिवाः ॥ ५६ ॥

हंहो कष्टविनष्ट सेवक सखे खिन्नोऽसि पोषाशया
रागश्चेद्विभवे तदेष कुपतिः क्लीबः किमासेव्यते ।
सेव्यः कोऽपि महेश्वरः स भगवान्यस्य प्रसादेक्षणै-
रक्षुण्णैः करुणास्पदीकृतमरुन्नाथो मरुत्तः कृतः ॥ ५७ ॥

राज्ञामज्ञतया कृतं यदनिशं दैन्यं तदुत्सृज्यतां
संतोषाम्भसि मृज्यतामपि रजः पादप्रणामार्जितम् ।
संतोषः परमः पुराणपुरुषः संविन्मयः सेव्यतां
यत्स्मृत्या न भवन्ति ते सुमनसां भूयो भवग्रन्थयः ॥ ५८ ॥

उत्सृज्य प्राज्यसेवां विजनसुखजुषां भूभुजां व्याजभाजां
छित्त्वाशापाशबन्धान्विमलंशमजलैस्तीव्रतृष्णां निवार्य ।
स्थित्वा शुद्धे समाधौ किमपरममृतं मृग्यतां ज्योतिरन्त-
र्यस्मिन्दृष्टे विनष्टोत्कटतिमिरभरे लभ्यते मोक्षलक्ष्मीः ॥ ५९ ॥

वृत्त्या जीवति लोकः सेवावृत्तिर्निजैव केषांचित् ।
अस्थाने तीव्रतरा निन्द्या तु तदर्थिनां सेवा ॥ ६० ॥

विद्वज्जनाराधनतत्परेण संतोषसेवारसनिर्भरेण ।
क्षेमेन्द्रनाम्ना सुधियां सदैव सुखाय सेवावसरः कृतोऽयम् ॥ ६१ ॥

इति श्रीव्यासदासापराख्यमहाकविश्रीक्षेमेन्द्रकृतः सेव्यसेवकोपदेशः समाप्तः ।


"https://sa.wikisource.org/w/index.php?title=सेव्यसेवकोपदेशः&oldid=286668" इत्यस्माद् प्रतिप्राप्तम्