← चतुर्थः सर्गः सौन्दरनन्दकाव्यम्
पञ्चमः सर्गः
[[लेखकः :|]]
षष्ठः सर्गः →

सर्ग ५

अथावतीर्याश्वरथद्विपेभ्यः शाक्या यथास्वर्द्धि गृहीतवेषाः ।
महापणेभ्यो व्यवहारिणश्च महामुनौ भक्तिवशात्प्रणेमुः ।। ५.१ ।।

के चित्प्रणम्यानुययुर्म्हूर्तङ्के चित्प्रणम्यार्थवशेन जग्मुः ।
के चित्स्वकेष्वावस्थेषु तस्तुः कृत्वाञ्जलीन्विक्षणतत्पराक्षाः ।। ५.२ ।।

बुद्धस्ततस्तत्र नरेन्द्रमार्ग स्रोतो महद्भक्तिमतो जनस्य ।
जगाम दुऊखेन विगाहमानो जलागमे स्रोत इवापगायाः ।। ५.३ ।।

अथो महद्भिः पथि संपतद्भिः संपूज्यमानाय तथागताय ।
कर्तुं प्रञामं न शशाक नन्दस्तेनाभिरेमे तु गुरोर्महिम्ना ।। ५.४ ।।

स्वं चावसङ्गं पथि निर्मुमुक्षुर्भक्तिं जनस्यान्यमतेश्च रक्षन् ।
नन्दं च गेहाभिमुखं जिघृक्षन्मार्गं ततोऽन्यं सुगतः प्रपेदे ।। ५.५ ।।

ततो विविक्तं च विविक्तचेताः सन्मार्गविन्मार्गं अभिप्रतस्थे ।
गत्वाग्रतश्चाग्र्यतमाय तस्मै नान्दीविमुक्ताय ननाम नद्नः ।। ५.६ ।।

शनैर्व्र्जन्नेव स गौरवेण पटावृतांसो विनतार्धकायः ।
अधोनिबद्धाञ्जलिरूर्ध्वनेत्रः सगद्गदं वाक्यं इदं बभाषे ।। ५.७ ।।

प्रासादसंस्थो भवन्तं अन्तःप्रविष्टं अश्रौषं अनुग्रहाय ।
अतस्त्वरावानहं अभ्युपेतो गृहस्य कक्ष्यामहतोऽभसूयन् ।। ५.८ ।।

तत्साधु साधुप्रिय मत्प्रियार्थं तत्रास्तु बिक्षूत्तम भैक्षकाल्सः ।
असौ हि मध्यं नभसो यियासुः कालं प्रतिस्मारयतीव सूर्यः ।। ५.९ ।।

इत्येवं उक्तः प्रणतेन तेन स्नेहाभिमानोन्मुखलोचनेन ।
तादृङ्निमित्तं सुगतश्चकार नाहारकृत्यं स यथा विवेद ।। ५.१० ।।

ततः स कृत्वा मुनये प्रणामं गृहप्रयाणाय मतिं चकार ।
अनुग्रहार्थं सुगतस्तु तस्मै पात्रं ददौ पुष्करपत्त्रनेत्रः ।। ५.११ ।।

ततः स लोके ददतः फलार्थं पात्रस्य तस्याप्रतिमस्य पात्रं ।
जग्राह चापग्रहणक्षंआभ्यां पद्मोपमाभ्यां प्रयतः कराभ्यां ।। ५.१२ ।।

पराङ्मुखस्त्वन्यमनस्कं आराद्विज्ञाय नन्दः सुगतं गतास्थं ।
हस्तस्थपात्रोऽपि गृह यियासुः ससार मार्गान्मुनिं ईक्षमाणः ।। ५.१३ ।।

भार्यानुरागेण यदा गृहं स पात्रं गृहीत्वापि यियासुरेव ।
विमोहयां आस मुनिस्ततस्तं रथ्यामुखस्यावरणेन तस्य ।। ५.१४ ।।

निर्मोक्षबीजं हि ददर्श तस्य ज्ञनं मृदु क्लेशरजश्च तीव्रं ।
क्लेशानुकूलं विषयात्मकङ्च नन्दं यतस्तं मुनिराचकर्ष ।। ५.१५ ।।

संक्लेशपक्षो द्विविधश्च दृष्टस्तथा द्विकल्पो व्यवदानपक्षः ।
आत्माश्रयो हेतुबलाधिकस्य बाह्याश्रयः प्रत्ययगौरवस्य ।। ५.१६ ।।

अयत्नतो हेतुबलाधिकस्तु निर्मुच्यते घट्टितमात्र एव ।
यत्नेन तु प्रत्ययनेयबुद्धिर्विमोक्षं आप्नोति पराश्रयेण ।। ५.१७ ।।

नन्दः स च प्रत्ययनेयचेता यं शिश्रिये तन्मयतां अवाप ।
यस्मादिमं तत्र चकार यत्नं तं स्नेहपङ्कान्मुनिरुज्जिहीर्षं ।। ५.१८ ।।

नन्दस्तु दुःखेन विचेष्टमानः शनैरगत्या गुरुं अन्वगच्छत् ।
भार्यामुखं वीक्षणलोलनेत्रं विचिन्तयन्नाद्रविशेषकं तत् ।। ५.१९ ।।

ततो मुनिस्तं प्रियमाल्यहारं वसन्तमासेन कृताभिहारं ।
निनाय भग्नप्रमदाविहारं विद्याविहाराभिमतं विहारं ।। ५.२० ।।

दीनं महाकारुणिकस्ततस्तं दृष्ट्वा मुहूर्तं करुणायमानः ।
करेण चक्द्राङ्कतलेन मूर्ध्नि पस्पर्श चैवेदं उवाच चैनं ।। ५.२१ ।।

यावन्न हिंस्रः समुपैति कालः शमाय तावत्कुरु स्ॐय बुद्धिं ।
सर्वास्ववस्थास्विह वर्तमानः सर्वाभिसारेण निहन्ति मृत्युः ।। ५.२२ ।।

साधारणात्स्वप्ननिभादसाराल्लोलं मनः कामसुखान्नियच्छ ।
हव्यैरिवाग्नेः पवनेरितस्य लोकस्य कामैर्न हि तृप्तिरस्ति ।। ५.२३ ।।

श्रद्धाधनं श्रेष्ठतमं धनेभ्यः प्रज्ञारसस्तृप्तिर्रसेभ्यः ।
प्रधानमध्यात्मसुखं सुखेभ्यो विद्यारतिर्दुःखतत्मा रतिभ्यः ।। ५.२४ ।।

हितस्य वक्ता प्रवरः सुऋद्भ्यो धर्माय खेदो गुणवान्श्रमेभ्यः ।
ज्ञानाय कृत्यं परमं क्रियाभ्यः किं इन्द्रियाणां उपगम्य दास्यं ।। ५.२५ ।।

तन्निश्चितं भीक्लमशुग्वियुक्तं परेष्वनायत्तं अहार्यं अन्यैः ।
नित्यं शिवं शान्तिसुखं वृणीष्व किं इन्द्रियार्थार्थं अनर्थं ऊढ्वा ।। ५.२६ ।।

जरासमा नास्त्यमृजा प्रजानां व्याधेः समो नास्ति जगत्यनर्थः ।
मृत्योः समं नास्ति भयं पृथिव्यां एतत्त्रयं खल्ववशेन सेव्यं ।। ५.२७ ।।

स्नेहेन कश्चिन्न समोऽस्ति पाशः स्रोतो न तृणासमं अस्ति हारि ।
रागाग्निना नास्ति समस्तथाग्निस्तच्चेत्त्रयं नास्ति सुखं च तेऽस्ति ।। ५.२८ ।।

अवश्यभावि प्रियविप्रयोगस्तस्माच्च शोको नियतं विषेव्यः ।
शोकेन चोन्मादं उपेयिवांसो राजर्षयोऽन्येऽप्यवशा विचेलुः ।। ५.२९ ।।

प्रज्ञामयं वर्म बधान तस्मान्नो क्षान्तिनिघ्नस्य हि शोकबाणाः ।
महच्च दग्धुं भवकक्षजालं संधुक्षयाल्पाग्निं इवात्मतेजः ।। ५.३० ।।

यथौषधैर्हस्तगतैः सविद्यो न दश्यते कश्चन पन्नगेन ।
तथानपेक्षो जितलोकमोहो न दश्यते शोकभुजङ्गमेन ।। ५.३१ ।।

आस्थाय योगं परिगम्य तत्त्वं न त्रासं आगच्छति मृत्युकाले ।
आबद्धवर्मा सुधनुः कृतास्त्रो जिगीषया शूर इवाहवस्थः ।। ५.३२ ।।

इत्येवं उक्तः स तथागतेन सर्वेषु भूतेष्वनुकम्पकेन ।
धृष्टं गिरान्तर्हृदयेन सीदंस्तथेति नन्दः सुगतं बभाषे ।। ५.३३ ।।

अथ प्रमादाच्च तं उज्जिहीर्षन्मत्वागमस्यैव च पात्रभूतं ।
प्रव्राजयानन्द शमाय नन्दं इत्यब्रवीन्मैत्रमना महर्षिः ।। ५.३४ ।।

नन्दं ततोऽन्तर्मनसा रुदन्तं एहीति वैदेहमुनिर्जगाद ।
शनैस्ततस्तं समुपेत्य नन्दो न प्रव्रजिष्याम्यहं इत्युवाच ।। ५.३५ ।।

श्रुत्वाथ नन्दस्य मनीषितं तद्बुद्धाय वैदेहमुनिः शशंस ।
संश्रुत्य तस्मादपि तस्य भावं महामुनिर्नन्दं उवाच भूयः ।। ५.३६ ।।

मय्यग्रजे प्रव्रजितेऽजितात्मन्भ्रात्षृवनुप्रव्रजितेषु चास्मान् ।
ज्ञातींश्तस्मादपि तस्य भावं महामुनिर्नन्दं उवाच भूयः ।। ५.३७ ।।

राजर्षयस्ते विदिता न नूनं वनानि ये शिश्रियिरे हसन्तः ।
निष्ठीव्य कामानुपशान्तिकामाः कामेषु नैवं कृपणेषु सक्ताः ।। ५.३८ ।।

भूयः समालोक्य गृहेषु दोषान्निशाम्य तत्त्यागकृतं च शर्म ।
नैवास्ति मोक्तुं मैत्रालयं ते देशं मुमूर्षोरिव सोपसर्गं ।। ५.३९ ।।

संसारकान्तारपरायणस्य शिवे कथं ते पथि नारुरुक्षा ।
आरोप्यमाणस्य तं एव मार्गं भ्रष्टस्य सार्थादिव सार्थिकस्य ।। ५.४० ।।

यः सर्वतो वेश्मनि दह्यमाने शयित मोहान्न ततो व्यपेयात् ।
कालाग्निना व्याधिजराशिखेन लोके प्रदीप्ते स भवेत्प्रमत्तः ।। ५.४१ ।।

प्रञीयमानश्च यथा वधाय मत्तो हसेच्च प्रलपेच्च वध्यः ।
मृत्यौ तथा तिष्ठति पाशहस्ते शोच्यः प्रमाद्यन्विपरीतचेताः ।। ५.४२ ।।

यदा नरेन्द्राश्च कुटुम्बिनश्च विहाय बधूंश्च परिग्रहांश्च ।
ययुश्च यास्यन्ति च यान्ति चैव प्रियेष्वनित्येष्व्कुतोऽनुरोधः ।। ५.४३ ।।

किं चिन्न पश्यामि रतस्य यत्र तदन्यभावेन भवेन्न दुःखं ।
तस्मात्क्व चिन्न क्षमते प्रस्क्तिर्यदि क्षमस्तद्विगमान्न शोकः ।। ५.४४ ।।

तत्स्ॐय लोलं परिगम्य लोकं मायोपमं चित्रं इवेन्द्रजालं ।
प्रियाभिधान्तं तय्ज मोहजालं छेत्तुं मतिस्ते यदि दुःखजालं ।। ५.४५ ।।

वरं हितोदर्कं अनिष्टं अन्नं न स्वादु यत्स्यादहितानुबद्धं ।
यस्मादहं त्वा विनियोजयामि शिवे शुचौ वर्त्मनि विप्रियेऽपि ।। ५.४६ ।।

बालस्य धार्त्री विनिगृह्य लोष्टं यथोद्धरत्यास्यपुटप्रविष्टं ।
तथोज्जिहीर्षुः खलु रागशल्यं तत्त्वां अवोचं परुषं हिताय ।। ५.४७ ।।

अनिष्टं अप्यौषधं आतुराय ददाति वैद्यश्च यथा निगृह्य ।
तद्वन्मयोक्तं प्रतिकूलं एतत्तुभ्यं हितोदर्कं अनुग्रहाय ।। ५.४८ ।।

तद्यावदेव क्षञसंनिपातो न मृत्युरागच्छति यावदेव ।
यावद्वयो योगविधौ समर्थं बुद्धिं कुरु श्रेयसि तावदेव ।। ५.४९ ।।

इत्येवं उक्तः स विनायकेन हितैषिना कारुणिकेन नन्दः ।
कर्तास्मि सर्वं भगवन्वचस्ते तथा यथाज्ञापय्सीत्युवाच ।। ५.५० ।।

आदाय वैदेहमुनिस्ततस्तं निनाय संश्लिष्य विचेष्टमानं ।
व्ययोजयच्चास्रुपरिप्लुताक्षं केशश्रियं छत्त्रनिभस्य मूर्ध्नः ।। ५.५१ ।।

अथो नतं तस्य मुखं सबाष्पं प्रवास्यमानेषु शिरोरुहेषु ।
वक्राग्रनालं नलिनं तडागे वर्षोदकलिन्नं इवाबभासे ।। ५.५२ ।।

नन्दस्ततस्तरुकषायविरक्तवासाश्चिन्तावशो नवगृहित इव द्विपेन्द्रः ।
पूर्णः शशी बहुलपक्षगतः क्षपान्ते बालात्पेन परिषिक्त इवाबभासे ।। ५.५३ ।।


Sऔन्दरनन्दे महाकाव्ये नन्दप्रव्राजनो नाम पञ्चमः सर्गः ।