सौन्दरनन्दकाव्यम्
प्रथमः सर्गः
[[लेखकः :|]]
द्वितीयः सर्गः →

ॐ नमो बुद्धाय ।।


गौतमः कपिलो नाम मुनि धर्मभृतां वरः ।
बभूव तपसि श्रान्तः काक्षीवानिव गौतमः ।। १.१ ।।

अशिश्रियद्यः सततं दीप्तं काश्यपवत्तपः ।
आशिश्राय च तद्वृद्धौ सिद्धिं काश्यपवत्परां ।। १.२ ।।

हविःषु यश्च स्वात्मार्थं गां अधुक्षद्वसिष्ठवत् ।
तपःशिष्टेषु च शिष्येषु गां अधुक्षद्वसिष्ठवत् ।
माहात्म्याद्दीर्घतपसो यो द्वितीय इवाभवत् ।। १.३ ।।

तृतीय इव यश्चाभूत्कायाङ्गिरसयोर्धिया ।। १.४ ।।

तस्य विस्तीर्णतपसः पार्श्वे हिमवतः शुभे ।
क्षेत्रं चायतनं चैव तपसां आश्रमोऽभवत् ।। १.५ ।।

चारुवीरुत्तरुवनः प्रस्निग्धमृदुशाद्वलः ।
हविर्धूमवितानेन यः सदाभ्र इवाबभौ ।। १.६ ।।

मृदुभिः सैकतैः स्निग्धैः केसरातरपाण्डुभिः ।
भूमिभागैरसंकीर्णैः साङ्गराग इवाभवत् ।। १.७ ।।

शुचिभिस्तीर्थसंख्यातैः पावनैर्भावनैरपि ।
बन्धुमानिव यस्तस्थौ सरोभिः ससरओरुहैः ।। १.८ ।।

पर्याप्तफलपुष्पाभिः सर्वतो वनराजिभिः ।
शुशुभे ववृधे चैव नरः साधनवानिव ।। १.९ ।।

नीवारफलसंतुष्टैः स्वस्थैः शान्तैरनुत्सुकैः ।
अकीर्णोऽपि तपोभृधिभिः शून्यशून्य इवाभवत् ।। १.१० ।।

अग्नीनां हूयमानानां शिखिना कूजतां अपि ।
तीर्थानां चाभिषेकेषु शुश्रुवे यत्र निस्वनः ।। १.११ ।।

विरेजुर्हरिणा यत्र सुप्ता मेध्यासु वेदिषु ।
सलाजैर्माधवीपुष्पैरुपहाराः कृता इव ।। १.१२ ।।

अपि क्षुद्रमृगा यत्र सान्ताश्चेरुः समं मृगैः ।
शरञ्येभ्यस्तपस्विभ्यो विनयङ्शिक्षिता इव ।। १.१३ ।।

संदिग्धेऽप्यपुनर्भावे विदुध्हेष्वागमेष्वपि ।
प्रत्यक्षिण इवाकुर्वंस्तपो यत्र तपोधनाः ।। १.१४ ।।

यत्र स्म मीयते ब्रह्म कैश्चित्कैश्चिन्न मीयते ।
काले निमीयते स्ॐओ न चाकाले प्रमीयते ।। १.१५ ।।

निरपेक्षाः शरिरेषु धर्मे यत्र स्वभुद्धयः ।
संहृष्टा इव यत्नेन तापसास्ते पिरे तपः ।। १.१६
श्राम्यन्तो मुनयो यत्र स्वर्गायोद्युक्तचेतसः ।
तपोरागेण धर्मस्य विलोपं इव चक्रिरे ।। १.१७ ।।

अथ तेजविसदनं तपःक्षेत्रं तं आश्रमं ।
केचिदिक्ष्वाकवो जग्मू राजपुत्रा विवत्सवः ।। १.१८ ।।

सुवर्णस्तम्भवर्ष्माणः सिंहोरस्का महाभुजाः ।
पात्रं शब्दस्य महतः श्रियां च विनयस्य च ।। १.१९ ।।

अर्हरूपा ह्यनर्हस्य महात्मानश्चलात्मनः ।
प्राज्ञाः प्रज्ञाविमुक्तस्य भ्रातृयस्य यवीयसः ।। १.२० ।।

मातृशुल्कादुपगतां ते श्रियं न विषेहिरे ।
ररक्षुश्च पितुः कौत्सास्ते भवन्ति स्म गौतमाः ।। १.२२ ।।

एकपित्रोर्यथा भ्रात्रोः पृथग्गुरुपरिग्रहात् ।
राम एवाभवद्गार्ग्यो वासुभद्रोऽपि गौतमः ।। १.२३ ।।

शाक्रवृक्षप्रतिच्छन्नं वासं यस्माच्च चक्रिरे ।
तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्य इति स्मृताः ।। १.२४ ।।

स तेषां गौतमश्चक्रे स्ववंशसदृशीः क्रियाः ।
मुनिरूर्ध्वं कुमारस्य सगरस्येव भार्गवः ।। १.२५ ।।

कण्वः शाकुन्तलस्येव भरतस्य तरस्विअः ।
वाल्मीकिरिव धीमांश्च धीमतोर्मैथिलेययोः ।। १.२६ ।।

तद्वनं मुनिना तेन तैश्च क्षत्रियपुङ्गवैः ।
शान्तां गुप्तां च युगपद्ब्रह्मक्षत्रश्रियं दधे ।। १.२७ ।।

अथोदकलशं गृह्य तेषा वृद्धिचिकीर्षया ।
मुनिः स वियदुत्पत्य तानुवाच नृपात्मजान् ।। १.२८ ।।

या पतेत्कलशादस्मादक्षय्यसलिलान्महीं ।
धारा तां अनतिक्रम्य मां अन्वेत यथाक्रमं ।। १.२९ ।।

ततः परमं इत्युक्त्वा शिरोभिः प्रणिपत्य च ।
रथानारुरुहुः सर्वे शीघ्रवाहानलङ्क्रृतान् ।। १.३० ।।

ततः स तैरनुगतः स्यन्दनस्थैर्नभोगतः ।
तदाश्रममहीप्रान्तं परिचिक्षेप वारिणा ।। १.३१ ।।

अष्टापदं इवालिख्य निमित्तैः सुर्भीकृतं ।
तानुवाच मुनिः स्थित्वा भूमिपालसुतानिदं ।। १.३२ ।।

अस्मिन्धारापरिक्षिप्ते नेमिचिह्नितलक्षणे ।
निर्मिमीध्वं पुरं यूयं मयि याते त्रिविष्टपं ।। १.३३ ।।

ततः कदाचित्ते वीरास्तस्मिन्प्रतिगते मुनौ ।
बभ्रमुर्यौवनोद्दामा गजा इव निरङ्कुशाः ।। १.३४ ।।

बद्धगोधाङ्गुलीत्राणा हस्तविष्ठितकार्मुकाः ।
शराध्मातमहातूणा व्यायताबद्धवाससः ।। १.३५ ।।

जिज्ञासमाना नागेषु कौशलं श्वापदेषु च ।
अनुचक्रुर्वनस्थस्य दौष्मन्तेर्देवक्रमणः ।। १.३६ ।।

तान्दृष्ट्वा प्रकृतिं यातान्वृद्धान्व्याघ्रशिशूनिव ।
तापसास्तद्वनर्ह्हित्वा हिमवन्तर्ह्सिषेविरे ।। १.३७ ।।

ततस्तदाश्रमस्थानं शून्यर्ह्तैः शून्यचेतसः ।
पश्यन्तो तदाश्रमस्थानरं शून्यं तैः निशश्वसुः ।। १.३८ ।।

अथ ते पुण्यकर्माणः प्रत्युपस्थिरवृद्धयः ।
तत्र तज्ज्ञैरुपाख्यातानवापुर्महतो निधीन् ।। १.३९ ।।

अलं धर्मार्थकामानां निखिलानां स्वाप्तये ।
निधयो नैकविधयो भूरयस्ते गतारयः ।। १.४० ।।

ततस्तत्प्रतिलम्भाच्च परिणामाच्च कर्मणः ।
तस्मिन्वास्तुनि वास्तुज्ञाः पुरं श्रीमन्न्यवेशयन् ।। १.४१ ।।

सरिद्विस्तीर्णपरिखं स्पष्टाञ्चितमहापथं ।
शैलकल्पमहावप्रं गिविरजं इवापरं ।। १.४२ ।।

पाण्डुराट्टालसुमुखं सुविभक्तान्तरापणं ।
हर्म्यमालापरिक्षिप्तं कुक्षिं हिमगिरेरिव ।। १.४३ ।।

वेदवेदाङ्गविदुषस्तस्थुषः षट्सु कर्मसु ।
शान्तये वृद्धये चैव यत्र विप्रानजीत्जपन् ।। १.४४ ।।

तद्भूमेरभियोक्त्éणां प्रयुक्तान्विनिवृत्तये ।
यत्र स्वेन प्रभावेन भृत्यदण्डानजीत्जपन् ।। १.४५ ।।

चारित्रधन्संपन्नान्सलज्जान्दीर्घदर्शिनः ।
अर्हतोऽतिष्ठिपन्यत्र शूरान्दक्षान्कुटुम्बिनः ।। १.४६ ।।

व्यस्तैस्तैस्तैर्गुञैर्युक्तान्मतिवाग्विक्रमादिभिः ।
कर्मसु पतिरूपेषु सैचांस्तान्न्ययूयुजन् ।। १.४७ ।।

वसुमद्भिरविभ्रान्तैरलंविद्यैरविस्मितैः ।
यद्बभासे नरैः कीर्णं मन्दरः किन्नरैरिव ।। १.४८ ।।

यत्र ते हृष्टमनसः पौरप्रीतिच्कीर्षया ।
श्रीमन्त्युद्यानसंज्ञानि यशोधामान्यचीकरन् ।। १.४९ ।।

श्वाः पुष्करिणीश्चैव परमाग्र्यगुणाम्भसः ।
नाज्ञाया चेतनोत्कर्षाद्दिक्षु सर्वास्वचीखनन् ।। १.५० ।।

मनोज्ञाः श्रीमतिः प्रश्ठीः पथिषूपवनेषु च ।
सभाः कूपवतीश्चैव समन्तात्प्रत्यतिष्ठिपन् ।। १.५१ ।।

हस्त्यश्वरथसकीर्णं असंकीर्णं अनाकुलं ।
अनिगूढार्थिविभवं निगूढज्ञानपौरुषं ।। १.५२ ।।

संनिधानं इवार्थानां आधानं इव तेजसां ।
निकेतं इव विद्यानां संकेतं इव संपदां ।। १.५३ ।।

वासवृक्षं गुणवतां आश्रयं शरणैषिआं ।
आनर्तं कृतशास्त्राणां आलानं बाभुशालिनां ।। १.५४ ।।

समाजैरुत्सवैर्दायैः क्रियाविधिभिरेव च ।
अलञ्चक्रुरलंवीर्यास्ते जगद्धाम तत्पुरं ।। १.५५ ।।

यस्मादन्यायतस्ते च कं चिन्नाचीकरन्करं ।
तस्मादल्पेन कालेन तत्तदापूपुरन्पुरं ।। १.५६ ।।

कपिलस्य च तस्यर्षेस्तस्मिन्नाश्रमवास्तुनि ।
यस्मात्ते तत्पुरं चक्रुस्तस्मात्कपिलवास्तु तत् ।। १.५७ ।।

ककन्दस्य मकन्दस्य कुशाम्बस्येव चाश्रमे ।
पुर्यो यथा हि श्रूयन्ते तथैव कपिलस्य तत् ।। १.५८ ।।

आपुः पुरं तत्पुरुहूतकल्पास्ते तेजसार्येण न विस्मयेन ।
आपुर्यशोगन्धं अतश्च शश्वत्सुता ययातेरिव कीर्तिमन्तः ।। १.५९ ।।

तन्नाथवृत्तैरपि राजपुत्रैरराजकं नैव रराज राष्ट्रं ।
तारासहस्रैरपि दीप्यमानैरनुत्थिते चन्द्र इवान्तरीक्षं ।। १.६० ।।

यो ज्यायानथ वयसा गुणैश्च तेषां भ्रात्éणां वृषभ इवौजसा वृषाणां ।
ते तत्र प्रियगुरुवस्तं अभ्यषिञ्चन्नादित्या दशशतलोचनं दिवीव ।। १.६१ ।।

आचारवान्विनयवान्नयवान्क्रियावान्धर्माय नेन्द्रियदुखाय धृतात्परः ।
तद्भ्रातृभिः परिवृतः स जुगोप राष्ट्रं संक्रन्दनो दिवं इवानुष्र्तो मरुद्भिः ।। १.६२ ।।


सौन्दरनद महाकाव्ये कपिलवास्तुवर्णनो नाम प्रथमः सर्गः ।