सौन्दर्यलहरी
शङ्कराचार्यः
१९१०

॥श्रीः॥

॥ सौन्दर्यलहरी॥

शिवः शक्त्या युक्तो यदि भवति शक्त: प्रभवितुं
 न चेदेवं देवो न खलु कुशल: स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
 प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १॥

तनीयांसं पांसुं तव चरणपङ्केरुहभवं
 विरिञ्चिः संचिन्वन्विरचयति लोकानविकलम् ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
 हर: संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २ ॥

अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी
 जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी ।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
 निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ।। ३ ॥

त्वदन्यः पाणिभ्यामभयवरदो दैवतगण-
 स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।
भयात्त्रातुं दातुं फलमपि च वाञ्छासमधिकं
 शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
 पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
 मुनीनामप्यन्तः प्रभवति हि मोहाय महताम ॥ ५॥

धनुः पौंष्पं मौर्वी मधुकरमयी पञ्च विशिखा
 वसन्तः सामन्तो मलयमरुदायोधनरथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-
 मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥

कणत्काञ्चीदामा करिकलभकुम्भस्तननता
 परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।
धनुर्बाणान्पाशं सृणिमपि दधाना करतलैः
 पुरस्तादास्तां न: पुरमथितुराहोपुरुषिका ॥ ७ ॥

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
 मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां
 भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८ ॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं
 स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।
मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं
 सहस्रारे पद्मे सह रहसि पत्या विहरसे ।। ९॥

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
 प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
 स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १० ॥

चतुर्भि: श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
 प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-
 त्रिरेखाभिः सार्धं तव शरणकोणा: परिणताः ॥ ११ ॥

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
 कवीन्द्रा: कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।
यदालोकौत्सुक्यादमरललना यान्ति मनसा
 तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम ॥ १२ ॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं
 तवापाङ्गालोके पतितमनुधावन्ति शतशः ।
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया
 हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ।। १३ ।

क्षितौ षट्पञ्चाशद्विसमधिकपञ्चाशदुदके
 हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।
दिवि द्विःषट्त्रिंशन्मनसि च चतुःषष्टिरिति ये
 मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम ॥ १४ ॥

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां
 वरत्रासत्राणस्फटिकघटिकापुस्तककराम् ।
सकृन्न त्वा नत्वा कथमिव सतां संनिदधते
 मधुक्षीरद्राक्षामधुरिमधुरीणा: फणितयः ॥ १५॥

कवीन्द्राणां चेतःकमलवनबालातपरुचिं
 भजन्ते ये सन्त: कतिचिदरुणामेव भवतीम् ।
विरिञ्चिप्रेयस्यास्तरुणतरश‍ृङ्गारलहरी-
 गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६ ॥

सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभि-
 र्वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः ।
स कर्ता काव्यानां भवति मह्तां भङ्गिरुचिभि-
 र्वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७ ॥

तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभि-
 र्दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः ।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
 सहोर्वश्या वश्याः कति कति न गीर्वाणगणिका: ।।१८।।

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
 हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
 त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ १९॥

किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
 हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
 ज्वरप्लुष्टान्दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
 निषण्णां षण्णामप्युपरि कमलानां तव कलाम ।
महापद्माटव्यां मृदितमलमायेन मनसा
 महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१ ॥

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-
 मिति स्तोतुं वाञ्छन्कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
 मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम ॥ २२ ।।

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
 शरीरार्धं शंभोरपरमपि शङ्के हृतमभूत् ।
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
 कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३ ॥


जगत्सूते धाता हरिरवति रुद्रः क्षपयते
   तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ।
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-
   स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ २४ ॥

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
   भवेत्पूजा पूजा तव चरणयोर्या विरचिता ।
तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे
   स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५ ॥

विरिश्चि: पञ्चत्वं व्रजति हरिराप्नोति विरतिं
   विनाशं कीनाशो भजति धनदो याति निधनम् ।
वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा
   महासंहारेऽस्मिन्विहरति सति त्वत्पतिरसौ ॥ २६ ॥

जपो जल्प: शिल्पं सकलमपि मुद्राविरचना
   गति: प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।
प्रणाम: संवेश: सुखमखिलमात्मार्पणदृशा
   सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७ ॥



सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
 विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।
करालं यत्क्ष्वेलं कबलितवतः कालकलना
 न शंभोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ २८ ॥

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः
 कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम् ।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
 भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ २९ ॥

स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो
 निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।
किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
 महासंवर्ताग्निर्विरचयति नीराजनविधिम ॥ ३० ॥

चतुःषष्टया तन्त्रैः सकलमतिसन्धाय भुवनं
 स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।
पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-
 स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१ ॥



शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरण:
 स्मरो हंसः शक्रस्तदनु च परामारहरयः ।
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
 भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२ ॥

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
 र्निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलया:
 शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ ३३ ॥

शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं
 तवात्मानं मन्ये भगवति नवात्मानमनघम् ।
अत: शेष: शेषीत्ययमुभयसाधारणतया
 स्थित: संबन्धो वां समरसपरानन्दपरयोः ॥ ३४ ॥

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
 त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम ।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
 चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ ३५ ॥



तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
 परं शंभुं वन्दे परिमिलितपार्श्वं परचिता ।
यमाराध्यन्भक्त्या रविशशिशुचीनामविषये
 निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६ ॥

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं
 शिवं सेवे देवीमपि शिवसमानव्यवसिताम ।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-
 र्विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७ ॥

समुन्मीलत्संवित्कमलमकरन्दैकरसिकं
 भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।
यदालापादष्टादशगुणितविद्यापरिणति-
 र्यदादत्ते दोषाद्गुणमखिलमद्भ्यः पय इव ॥ ३८ ॥

तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
 तमीडे संवर्तं जननि महतीं तां च समयाम् ।
यदालोके लोकान्दहति महति क्रोधकलिते
 दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९ ॥


तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
 स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
 निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम ॥ ४० ॥

तवाधारे मूले सह समयया लास्यपरया
 नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
 सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१ ॥

गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
 किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।
स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं
 धनु: शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२॥

धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं
 घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ।
यदीयं सौरभ्यं सहजमुपलब्धं सुमनसो
 वसन्त्यस्मिन्मन्ये वलमथनवाटीविटपिनाम् ॥ ४३ ॥


तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-
 परीवाहः स्रोत:सरणिरिव सीमन्तसरणिः ।
वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-
 द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम ॥ ४४ ॥

अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
 परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।
दरस्मेरे यस्मिन्दशनरुचिकिञ्जल्करुचिरे
 सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५ ॥

ललाटं लावण्यद्युतिविमलमाभाति तब य-
 द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यासन्यासादुभयमपि संभूय च मिथ:
 सुधालेपस्यूति: परिणमति राकाहिमकरः ॥ ४६ ॥

भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि
 त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
 प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७ ॥

अहः सूते सव्यं तव नयनमर्कात्मकतया
 त्रियामां वामं ते सृजति रजनीनायकतया ।
तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः
 समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥४८॥

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः
 कृपाधाराधारा किमपि मधुराभोगवतिका ।
अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया
 ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥४९॥

कवीनां संदर्भस्तबकमकरन्दैकरसिकं
 कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् ।
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-
 वसूयासंसर्गादलिकनयनं किंचिदरुणम् ॥५०॥

शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा
 सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी
 सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥५१॥


गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
 पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
 तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ ५२ ॥

विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया
 विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।
पुनः स्रष्टुं देवान्द्रुहिणहरिरुद्रानुपरता-
 न्ररजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३ ॥

पवित्रीकर्तुं नः पशुपतिपराधीनह्रदये
 दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।
नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं
 त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४ ॥

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
 तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयत:
 परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ ५५ ॥


तवापर्णे कर्णेजपनयनपैशुन्यचकिता
 निलीयन्ते तोये नियतमनिमेषा: शफरिकाः ।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं
 जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६ ॥

दृशा द्राधीयस्या दरदलितनीलोत्पलरुचा
 दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
 वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७ ॥

अरालं ते पालीयुगलमगराजन्यतनये
 न केषामाधत्ते कुसुमशरकोदण्डकुतुकम ।
तिरश्चीनो यत्र श्रवणपथमुल्लङ्घय विलस-
 न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८ ॥

स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
 चतुश्चक्रं मन्ये तव सुखमिदं मन्मथरथम् ।
यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं
 महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥


सरस्वत्या: सूक्तीरमृतलहरीकौशलहरी:
 पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
 झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६० ॥

असौं नासावंशस्तुहिनगिरिवंशध्वजपटि
 त्वदीयो नेदीयः फलतु फलमस्माकमुचितम ।
वहत्यन्तर्मुक्ता: शिशिरकरनिश्वासगलितं
 समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१ ॥

प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचे:
 प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं तद्विम्बप्रतिफलनरागादरुणितं
 तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२ ॥

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
 चकोराणामासीदतिरसतया चञ्चुजडिमा ।
अतस्ते शीतांशोरमृतलहरीमाम्लरुचय:
 पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्जिकधिया ॥ ६३ ॥



अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा
 जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
 सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥

रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभि-
 र्निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः ।
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला
 विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥ ६५ ॥

विपञ्च्या गायन्ती विविधमपदानं पशुपते-
 स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।
तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां
 निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥६६॥

कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
 गिरीशेनोदस्तं मुहुरधरपानाकुलतया ।
करग्राह्यं शंभोर्मुखमुकुरवृन्तं गिरिसुते
 कथंकारं ब्रूमस्तव चुबुकमौपम्यरहितम् ॥ ६७ ॥


भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती
 तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।
स्वतः श्वेता कालागुरुबहुलजम्बालमलिना
 मृणालीलालित्यं वहति यदधो हारलतिका ॥ ६८ ॥

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे
 विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः ।
विराजन्ते नानाविधमधुररागाकरभुवां
 त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ ६९ ॥

मृणालीमृद्वीनां तव भुजलतानां चतसृणां
 चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।
नखेभ्य: संत्रस्यन्प्रथममथनादन्धकरिपो-
 श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥

नखानामुद्योतैर्नवनलिनरागं विहसतां
 कराणां ते कान्तिं कथय कथयामः कथमुमे ।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
 यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम् ॥ ७१ ॥


समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं
 तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् ।
यदालोक्याशङ्काकुलितहृदयो हासजनक:
 स्वकुम्भौ हेरम्ब: परिभृशति हस्तेन झडिति ॥ ७२ ॥

अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ
 न संदेहस्पन्दो नगपतिपताके मनसि नः ।
पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ
 कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ ७३ ॥

वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः
 समारब्धां मुक्तामणिभिरमलां हारलतिकाम ।
कुचाभोगो बिम्बाधररुचिभिरन्त: शबलितां
 प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४ ॥

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
 पयःपारावार: परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव य-
 त्कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ ७५ ॥


हरक्रोधज्वालावलिभिरवलीढेन वपुषा
 गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।
समुत्तस्थौ तस्मादचलतनये धूमलतिका
 जनस्तां जानीते तव जननि रोमावलिरिति ॥७६॥

यदेतत्कालिन्दीतनुतरतरङ्गाकृति शिवे
 कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम् ।
विमर्दादन्योन्यं कुचकलशयोरन्तरगतं
 तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥७७॥

स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता-
 कलावालं कुण्डं कुसुमशरतेजोहुतभुजः ।
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
 बिलद्वारं सिद्धेगिरिशनयनानां विजयते ॥७८॥

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
 नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव ।
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा
 समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥७९॥


कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ
    कषन्तौ दोर्मूले कनककलशाभौ कलयता ।
तव त्रातुं भङ्गादलमिति वलग्रं तनुभुवा
    त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ ८०॥

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-
    न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
    नितम्बप्राग्भार: स्थगयति लधुत्वं नयति च ॥ ८१ ॥

करीन्द्राणां शुण्डान्कनककदलीकाण्डपटली-
    मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
    विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ ८२ ॥

पराजेतुं रुद्रं द्विगुणशरगभौ गिरिसुते
    निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।
यदग्ने दृश्यन्ते दशशरफला: पादयुगली-
    नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ ८३ ॥



श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
 ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
 ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४ ॥

नमोवाकं ब्रूमो नयनरमणीयाय पदयो-
 स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
 पशूनामीशानः प्रमदवनकङ्केलितरवे ॥ ८५ ॥

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
 ललाटे भर्तारं चरणकमले ताडयति ते
चिरादन्तःशल्यं दहनकृतमुन्मूलितवता
 तुलाकोटिक्काणैः किलिकिलितमीशानरिपुणा ॥ ८६ ॥

हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ
 निशायां निद्राणं निशि चरमभागे च विशदौ ।
वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ ८७ ॥


पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
 कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।
कथं वा बाहुभ्यामुपयमनकाले पुरभिदा
 यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ ८८ ॥

नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि-
 स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
 दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ ८९ ॥

ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-
 ममन्दं सौन्दर्यप्रकरमकरन्दं विकिरति ।
तवास्मिन्मन्दारस्तबकसुभगे यातु चरणे
 निमज्जन्मज्जीवः करणचरण: षट्चरणताम् ॥ १० ॥

पदन्यासक्रीडापरिचयमिवारब्धुमनसः
 स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।
अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-
 च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ २१॥


गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः
 शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः ।
त्वदीयानां भासां प्रतिफलनरागारुणतया
 शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२ ॥

अराला केशेषु प्रकृतिसरला मन्दहसिते
 शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।
भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये
 जगत्त्रातुं शंभोर्जयति करुणा काचिदरुणा ॥ ९३ ॥

कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं
 कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
 विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ ९४ ॥

पुरारातेरन्त:पुरमसि ततस्त्वच्चरणयोः
 सपर्यामर्यादा तरलकरणानामसुलभा ।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
 तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ ९५ ॥


कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
 श्रियो देव्याः को वा न भवति पति: कैरपि धनैः ।
महादेवं हित्वा तव सति सतीनामचरमे
 कुचाभ्यामासङ्ग्ः कुरवकतरोरप्यसुलभः ॥ ९६ ॥

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
 हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।
तुरीया कापि त्वं दुरधिगमनिःसीममहिमा
 महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ ९७ ॥

कदा काले मातः कथय कलितालक्तकरसं
 पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।
प्रकृत्या मूकानामपि च कविताकारणतया
 कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ ९८॥

सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते
 रते: पातिव्रत्यं शिथिलयति रम्येण वपुषा ।
चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः
 परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ ९९ ॥


प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
 सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना ।
स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
 त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥१००॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
सौन्दर्यलहरी संपूर्णा ॥

"https://sa.wikisource.org/w/index.php?title=सौन्दर्यलहरी&oldid=289332" इत्यस्माद् प्रतिप्राप्तम्