सौभाग्यतरङ्गिणी

१अ)

ओं नमः श्रीमहात्रिपुरसुन्दर्यै ॥

प्रणम्य चिन्मयीं शक्तिं श्रीमत्त्रिपुरसुन्दरीम् ।
तोमाय तनुते तस्याः श्रीसौभाग्यतरङ्गिणीम् ॥

इह खलु सर्वेषां जन्तूनां सुखं मे भूयाद् दुःखं मेमाभूदिति
सुखोपादिः सादुःखजिहासुं भवतः आत्यन्तिक दुःखनिवृत्ति सुखावासी च
ब्रह्मज्ञानमन्तरेण न भवतः ब्रह्मवेद ब्रह्मैव भवति ।

सीयन्ते चास्य कर्माणि तस्मिनृष्टे पराकरे ।
आनन्दं ब्रह्मणो विद्वान्न विभेति हुतश्चन ॥

अभयं वै जनक प्राप्तोसि तदात्मानमेवा वेदहं ब्रह्मास्मीति तस्मात् तत्
सर्वमभवत् । तत्र को शोकः को मोह एकत्वमनुपश्यतः । तरति शोकमात्म
विदित्वादि श्रुतिभ्यः ब्रह्मज्ञानं शक्ति भ्रक्तिमन्तरेण न भवतीति श्रूयते
पुराणेषु तत्र मार्कण्डेयपुराणे स्तुता संपूजिता
पुष्पैर्धूपगन्धादिभिस्तथा ॥

ददाति वित्तं पुत्रांशु मतिं धर्मे तथा शुभाम् ।
शुभां आत्मनि ययामपि मनिं ददानीति सम्वन्धः । सायाकि?ता च
विज्ञानं तुष्टा ऋद्धिं प्रयच्छति । पूजादिभिस्तुष्टासनीयादिता
चेद्भक्तेच्छानुसारेण ऋद्धिं विज्ञानं चापरो समानं प्रयच्छति । यद्वा
परमौदार्याघाचिता तुष्टासती उभयं प्रयच्छतीत्यर्थः ।

तामुपैहि महाराज शरणं परमेश्वरीम् ।
आराधिता सैव नृणां भोग स्वर्गापवर्गदा ॥

एवकारोऽन्ययोग व्यवच्छेदकः । कूर्मपुराणेपि ।

तस्माद् विमुक्तिमन्विच्छन्पार्वतीं परमेश्वरीं ।
आश्रयेत् सर्वभूतानामात्म भूतां शिवात्मिकां ॥

मामनाश्रित्य यत् तत्वं स्वभाव निर्मलं शिवं ।
ज्ञायते न हि राजेन्द्र तनो मां शरणं व्रज ॥

तथा श्रुतिरपि । अहमेव स्व?यमिदं वदामि जुष्टं देवेभिरुत
मानुषेभिः यं कामये तनुमुयं हृणोमितं ब्रह्माणं तमृषिं तं
सुमेधां । अहं रुद्राय धनु वा तनोमि ब्रह्मद्विषेशवरेहन्त वाड?
अहं जनायशमदं हृणोम्यहं द्यावा पृथिवी आविवेश ॥

अत एव कालिकापुराणे । स्ववियुक्ता वस्त्रा?चार संयुता शुभाः सा च मन्त्रात्
प्रगृह्णा तु स मन्त्री तृदनुज्ञया । तथा विना स्वधर्म यत्किंचिद्
देवताराधनादिकं । परिभ्रश्येत तद् यस्मात् क्षणासैकतहर्म्यवत् । इति । ननु
शूद्राणां मन्त्रेयनधिकारः श्रूयते । यथा महाकपिल पञ्चरात्रे ।

न वेदः प्रणवं त्यक्त्वा मन्त्रो वेद समन्वितः ।
तस्माद् वेदः परो मन्त्रो वेदादंश्यागमः स्मृतः ॥

१ब्)

वश्या कर्मादिकं कर्म दुष्टादुष्ट फलप्रदं ।
वेदेन माध्यते सर्वं श्रद्ध यज्ञादिभिः किल ॥

न वेदेन विना यज्ञा न यज्ञा वेदवर्जिताः ।
तस्माद् वेदः परो मन्त्रो न मन्त्रो वेद उ * तः ॥

न मन्त्रे चाधिकारोस्ति शूद्राणां नियमः परः ।
मन्त्रा भावादमन्त्रेण भाषितं सर्वकर्महीति ॥

सत्यं अस्याष्टा हरयर त्वात् प्रकरणादिति ॥

यद्वा एषां मन्त्रविशेष परत्वं ॥

यथा मेरूयामले प्रासाद मन्त्रं प्रकृत्यः स्त्रीशूद्राणामयं मन्त्रो
नमोन्तश्च शुभावहः । एतजज्ञाद्वा महासेनश्चण्डालानपि दीक्षयेत् । तथा
याज्ञवल्क्य संहितायां ।

न वैदिकं जपेच्छूद्रः स्त्रियश्चैव कदाचन ।
नमोन्तं शिवमन्त्रं वा वैम्हावं(?) वेष्यते वुदैः ॥

नमोन्तमित्युस्यो भयत्र संवन्धः । देवीयामले ।

स्वाहा प्रणवसंयुक्तं मन्त्रं शूद्रे ददद्द्विजः ।
शूद्रो निरयगामी स्याद् विप्रः शूद्रत्व माप्नुयात् ॥

इति ॥

भवेदेतत् तथापि दीक्षा मन्तरेण नाधिकारः । यदुक्तं नारायणीये ।

प्रविश्य विधिक दीक्षामभिषेकावसानिढां ।
श्रुत्वा तत्रं गुरोर्लब्धं सा ये दीप्सितं मनुं ॥

तथा ॥

द्विजानामनुपेताना स्वकर्माध्ययनादिषु ।
यथाधिकारो नास्तीह स्याच्चोपनयनादनु ॥

तथा वा दीक्षितानां चामक(?) देवार्चनादिषु ।
नाधिकारोऽस्त्यतः कुर्याद् आत्मानं शिव संस्कृतं ॥ इति ॥

सा च निषिध्यते सानातयेत(?) ॥

यावत्र्यर्णानि मन्त्राणां श्रूद्राय प्रतिपादयेत् ।
तावत्यों ब्रह्महत्यास्युः स्वयमाह प्रजापतिरिति ॥

सत्यं एतद् वचनस्योच्छिष्टादि दाननिषेधवरसछूद्र परत्वादुक्त युक्तेः ।
पञ्चरात्रश्रवणादौ तु नाधिकारः । तदुक्तं नारदपञ्चरात्रे ।

ब्राह्मण क्षत्रियविशा पञ्चरात्रं विधीयते ॥

शूद्रादीनां न तच्छोद्र पदवीमधिरोहतीति कालिकापुराणे ।

मोहाद्वा कामतः शूद्रः पुराणं संहितां स्मृतिं ।
पठन्नरकमाप्नोति पितृभिः सह पाप हृत् ॥ इति ॥

तथा महाभारते ॥

यदुदं शृणुयान् नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात् किञ्चित् सोऽमुत्रेह च मानवः ॥

वेदान्तयो ब्राह्मणः स्याः क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धिः स्याच्छूद्रः शुखमवाप्नुयात् ॥

अत्राचार्य चरणाः शूद्रः सुखमवाप्नुयात् ॥

श्रवणे नैव न तु जप यज्ञेन तस्माच्छूद्रो यज्ञेनोप *? प्त इति
श्रुते ॥

श्रावयेच्चतुरोवर्णानिति महाभारतादि श्रवणमनु ज्ञायते ।
सुगतिमियो श्रवणाश्च शूद्रयोनिरिति हरिवंशे ।

२अ)

यः शूद्रः शृणुयात् समुवाप्नुयादिति च व्यवहितेन संवन्धः ।
त्रैवर्णिकानां कीर्तयेदिव संवन्धः । इति वदन्ति ।

अतः पुराणमुनि प्रणीतस्तवादिकं न पठनीयमिति । इत्थं च शूद्रादीनां
मन्त्र निषेधो नाम संवन्धेनेति सम्यक विनिगमका भावात् ।
वृषोत्सर्गादावज्ञानां रुद्रादीनामपि जय प्रसक्तश्च । न च पादान्तर योगे
मन्त्रान्तर त्वात्ततत्कार्यसिद्धिरिति वाच्यं । नमस्कारोस्य मन्त्र इति गौतमेन
विहिते तरयावद् वैदिकतान्त्रिकमन्त्रेषु नमो मन्त्रविधानात् तस्यैव तत्
तदपूर्वजनकत्वादिति । अन्यथा श्राद्धा गुण प्रभिन्ना जगतोऽस्य सृष्टि स्थिति
चराचरा । आदित्येन्द्रादि तेजो मन्त्रस्तु तु तन्मयी विभुः ।

न श्वेतरक्त पीतादि वर्णे निधार्य चोच्यते ।
न गुणेषु न भूतेषु विशेषेण व्यवस्थिता ॥

अन्तरान्तर्वहिश्चैव देहिनां देहरूपिणी ।
स्वसंवेद्य स्वरूपा सा देश्यादेशिकदर्शितैः ॥

यषाकाशस्तमा वापि लब्धयानोपलभ्यते ।
पुं नपुंसकयोस्तुल्याप्यङ्गनासुविशिष्यते ॥

प्रधानमिति या मातुर्या शक्तिरिति कथ्यते ।
या युष्मानपि मां नित्यमवष्टभ्या निवर्तते ॥

साहं यूयं तथैवान्य अद्वेयं तत्तु सा स्मृता ।
फलये व्याप्यते तस्यां चराचरमिदं जगत् ॥

सातु कालात्मना सम्यङ्मयैव ज्ञायते सदेति ब्रह्मविष्णुरुद्रान् प्रति
श्रीनारायण वचनं । तथा कालिकापुराणे ।

यद व्यक्तमनिर्देश्यं निष्कलं परमात्मनः ।
रूपं तदैव तत्सूक्ष्मं सकलं च जगन् मयं ॥

विचाराष्टक योगेन संपाद्यैव मुहुर्मुहुः ।
यत् स्थिरी क्रियते तत्वं तत्वरूपं सनातनं ॥

त्वंवितिः परमानन्द परमात्मस्वरूपिणी ।
शक्तित्वं सर्वभूतानां सर्वेषां च * पावनी ॥

सर्वत्रस्या सर्वगादिव्यमूर्ति निया देवी सर्वरूपा पुराख्या(?) ।
कृष्णादीनां सर्वदा मोयित्री सा स्त्रीरूपैः सर्वजन्तोः समन्तात् । तथा
कूर्मपुराणे ।

त्वया सृष्टं जगत्सर्वं प्रधानाद्यं त्वयि स्थितं ।
त्वय्येव लीयते देवि त्वमेव परमागतिः ॥

वदन्ति केचित् त्वामेव प्रकृतिं प्रकृतेः परां ।
अपरेयमात्मज्ञाः शिवेति शिवसंश्रये ॥

त्वयि प्रधानपुरुषौ महान् ब्रह्मा तथेश्वरः ।
अविद्या नियतिर्माया कालाद्याः शतशो भवेत् ॥

त्वं हि सा परमाशक्ति मनन्ता परमेष्ठिनी ।

२ब्)

सर्वभेदविनिर्मुक्ता सर्वभेदाश्च योनिजा ॥

त्वयैव मङ्गतो देव त्वमानन्दं समश्नुते ।
त्वमेव परमानन्द त्वमेवानन्ददायिनी ॥

त्वमप्सरं परं व्योम महाज्योति निरञ्जनं ।
शिवं सर्वगतं सूक्ष्मं परंब्रह्मसनातनं ॥

प्रकृतिः परमात्मा प्रकृतिः सहजे योनावमात्ये परमात्मनीति
विश्वप्रकाशकोशात् । शिवशक्तिः । स्वमतमाहत्वं हिरवमारणे
शक्तिरेवेत्यर्थः । यतः सर्वभेदाश्रया प्रपञ्चात्मक भेदनिष्ठा तथापि
निजा शुद्धायतः सर्वभेदविनिर्मुक्ता भेदस्य गुणकृतत्वादिति भावः । उक्तं
च मार्कण्डेयपुराणे ।

एकैवाहं जगन् यत्र द्वितीया काममापरः ।
पश्यैता दुष्टमय्येव विशन्त्योमद्विभूतयः ॥

तथा वराहपुराणे ॥

एवमुक्त्वा तदा देवी तेन्भूतेन शोभना ।
जहास परमादेवी वाक्यं नीवा च किंचन ॥

तस्या हसन्त्या”न्गतोसौ त्रैलोक्यं स चराचरं ।
ददर्श वक्त्रे संभ्रान्तस्तत्क्षणात्समपद्यते ॥

दूतेन महिषासुरस्येति । तथा कालिकापुराणे ॥

अव्यक्त व्यक्तरूपेण रजःसत्व तमोगुणैः ।
विभज्यया स्वं कुरुते विष्णुमायेति सोच्यते ॥

विष्णुपुराणे ।

परमब्रह्मणः शक्तिस्तथेदमण्डितं जगत् ॥

संकेतपद्धतावपि । शक्तयोस्य जगत्कृत्स्नं शक्तिमाह्नि महेश्वरः । इत्थं
सर्गादौ शक्ति संगतिमभिधाय स्वानुभवे पितामाह । त्वयैवेति उक्तं
चाभिमवगुप्तपादाचार्यैरपि ।

शक्तिश्च शक्तिमद्रूपाद्व्यतिरेकं न वाञ्छति ।
तादात्म्य मनयोर्नित्यं वह्निदाहिकयोरिव ॥

तथा ॥

न शिवः शक्तिरहितो न शक्तिः शिववर्जिता ।
उभौ वनित संयोगौ मूर्त्येका पारमेश्वरीति ॥

वामकेश्वरतन्त्रे ॥

परोहिश रहितः शक्तः कर्तुं न कंचन ।
शक्तस्तु परमेशानि शक्त्या युक्तो यदा भवेत् ॥

शविना शिवे सूक्ष्मे नामधाम न विद्यते ।
ज्ञानेनापि महेशानि कमशर्म न किञ्चन ॥

शिवे समस्त श्रेयस्का विणिसूक्ष्मे सर्वेन्द्रिया गोचरे दुर्विज्ञेये वाम ईश्वर
शिव इत्यादि । धाम प्रकाशो ज्ञानं । शर्मश्रेयो रूपं कर्मनास्तीति ।
अन्येषां सुखमपि शक्त्यधीनमित्याह । त्वमेवेति । ननुमन्तः शिवोभिन्नद्वति
चेत्तत्राह त्वमिति उक्तं च संकेत पद्धतौ ।

संकोचः परमाशक्तिर्विकाशः परमाशिवः ।

वाच्यवाचकभेदेन वर्णतत्वरूपेण विभक्तं संकूचितमिवस्थितं

३अ)

ब्रह्मशक्तिरित्युच्यते स्वरूपमेव कार्योन्मुखं शक्ति शब्देनोच्यत
इत्यभिज्ञानां लक्षणं च नामरूपगुणजाति लक्षणातीतं परमप्रकाश
भूमिकामापत्रं तदेव शिव इति । तथा कूर्मपुराणे ।

शक्ति शक्तिमतो भेदं वदन्ति परमार्थतः ।
अभेदं चानु पश्यन्ति योगिनस्तत्व चित्रकाः ॥

तथा दिव्यं ददामिते चक्षुः पश्य मे परमेश्वरं ।
एतावदुक्ता विज्ञानं दत्वा हिमवते स्वयं ॥

स्वरूपं दर्शयामास दिव्यं तत्पारमेश्वरं ।
कोटि सूर्यप्रतीकाशं तेजो विंवं निराकुलं ॥

ज्वालामाला सहस्राढ्यं कालानलशतोपमं ।
दंष्ट्राकरालं दुर्दर्शं जटामण्डलमण्डितं ॥

त्रिशूलवरहस्तं च घोररूपं भयंकरं ।
प्रशान्त सौम्यवदनमनन्ताश्वर्यमुत्तमं ॥

चन्द्रावयव लक्ष्याणं चन्द्रकोटिसमप्रभं ।
किरीटिनं गदाहस्तं नूपुरैरूपशोभितं ॥

दिव्यमाल्याम्वरधरं दिव्य गन्धानुलेपनं ।
शंखचक्रकरं काम्यं त्रिनेत्रं कृत्ति वाससं ॥

अग्रस्थं(?) चाण्डवाह्यस्थं वाह्यमभ्यन्तरं तथा ।
सर्वशक्तिमयं शस्तं सर्वाकारं सनातनं ॥

ब्रह्मेन्द्रोपेन्द्रयोगीन्द्रैरर्च्यमान यदाम्वुजं ।
सर्वतः पाणिपादान् तत् सर्वतोः शिशिरोमुखं ॥

सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरं ॥

भये न च समाविष्टः स राजा हृष्टमान स ।

इत्येश्वर रूपप्राकट्यं चेत्थमेव समुपपद्यते । तथोपनिषदपि ।
अथेन्द्रमन्तवन्मद्यवत्ते तद्विजानीहीति किमेत अक्षमिति तथेति तदत्य द्रवत् तस्मात्
तिरोदधे स तस्मिन् नेवाकाशे स्त्रियमाजगाम वहुशोभमानामुमां
हैमवतीं तां होवा च किमेत अक्षमिति ब्रह्मेति होवा च ब्रह्मणो वा एतद् विजये
महीध्वमिति ततो हैवविदाश्चकार ब्रह्मेति तस्माद्वा एते देवा
अतितरामेवान्यान्देवान्यरग्नि वायुरिन्द्रः ते ह्येलं नोच्छिष्टं यस्पर्शस्ते
ह्येतत्प्रथमं विदाञ्च * *? ह्मेति तस्माद्वा इन्द्रोः
नितरामेवान्यान स ह्येनं नेदिष्टं यस्पर्शन ह्येनः प्रथमं
विदाञ्चकार ब्रह्मेतीति शक्रस्य ब्रह्मस्पर्शनिमित्ता कर्षं वदन्ती
शक्रेर्ब्रह्मत्वमाह ब्रह्मणस्तिरोधान स्योक्तत्वादिति । सा च शक्तिः
श्रीमहात्रिपुरसुन्दर्येव । यथा वामकेश्वरतन्त्रे ।

त्रिपुरा परमा शक्तिराद्या जाता हि सा प्रिये ।
स्थूलसूक्ष्मविभागेन त्रैलोक्योत्पत्ति मातृका ॥

कवलीकृत निःशेष तत्वया स स्वरूपिणी ।

३ब्)

तस्यां परिणतायां तु न कश्चित् पर इष्यते ॥

परमा प्रकृष्टा हिरवधारणे त्रिपुरैवेत्यर्थः ।
यतः आद्या यस्मात् त्रैलोक्योत्पत्ति मातृका तज्जनयित्री ॥

अत्र हेतुः स्थूलसूक्ष्मविभागेन कार्यकारण सैव जाताजननां प्रादुर्भावे ।
यस्मात् कवलीकृत निःशेष तत्वेति । प्रलये स्वान्तर्निक्षिप्तमहदहंकारादि
तत्वसमूह स्वरूपिणी । ननु ब्रह्मैव कारणमिति श्रूयते । तत्राह । तस्यां
परिणतायां निःशेष विश्वं कवलीकृत्य विकाशदशांगतायां न कश्चित्
परः अपितु सैव परशब्देन तस्यां दशायां भण्यत इति भावः ।
दक्षिणामूर्तिख्याह ।

एतत् सर्वात्मकं ब्रह्म त्रिपुरा परमेश्वरीति ।

तथा श्रुतिरपि प्राणिनः शक्तिः मूने त्रिपुराशक्तिराद्यैवेत्यादि । न चैतेषाम
तत्परत्वमाशंकनीयं अभ्यासाहुति सामान्या च तथा च पारमर्ष सूत्रं
आनन्दमयोऽभ्यासादिति गति सामान्या चेति च । तथा कूर्मपुराणे ।

ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि ।
प्राप्याहंते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः ॥

भक्त्यातात्पर्येण । तथा कालिकापुराणे । चिरात् प्रसीदति ध्यानान्तर्चिराद्ध्यान
पूजनादिति । तस्मादर्चनमेवाभिधीयते ।

भविष्यपुराणे ।

यः सदा पूजये दुरां प्रणमेद् वापि भावतः ।
स योगी स मुनिर्धीमांस्तस्य मुक्तिः करे स्थिता ॥

मेरुमन्दरतुल्योपि राशिः पापस्य कर्मणः ।
चण्डिकां वै समाराध्य नश्यते दुष्टरोगवत् ॥

दुर्गार्वनरतो नित्यं महापातक संभवैः ।
दोद्यैर्न लिप्यते वीरः पद्मपत्रमिवांभसा ॥

श्रुतिरपि एतैर्मन्त्रैर्भगवतीं यजेन ततो देवी स्वात्मानं दर्शयति तस्माद्य
एतैर्मन्त्रैर्यजति स ब्राह्मणः पतिं पश्यति सोऽमृतत्वं गच्छतीति । अत एव
कीर्तनादयोप्यस्याङ्गभावं भजन्तीति ॥ इति श्रीमन्मुकुन्दविरचितायां
सौभाग्यतरङ्गिण्यां प्रथमालहरी समाप्तः ॥


अथ कालिकापुराणे ॥

ब्राह्मे मुहूर्ते उत्थाय चिन्तयेत् परमं गुरुं ।
भैरवीं चिन्तयित्वा च तत उत्थाय चाचरेत् ॥

मैत्रमात्रमनवैव दन्तानां शोधनं तथा ॥

प्रातः स्नानं ततः कुर्यादिति । ब्राह्मे मुहूर्ते तुरीययामे प्रदोषः पश्चिमो
यामो वेदाभ्यास रवौ नयेत् । याम द्वयं शयानश्च ब्रह्मभूयाय कल्प्यते
। इति दक्षेण तत्र वेदसंवन्धोक्तेः ।

४अ)

अत एव विष्णुः रात्रेस्तु पश्चिमो यामो मुहूर्तो ब्राह्म उच्यते इत्याह ।
गुरुध्यानमाह दक्षिणामूर्ति संहितायां ।

प्रातरुत्थाय देवेशि संस्मरेत् पद्ममुज्ज्वलं ।
कर्पूराभं स्मरेत् तत्र श्रीगुरुं निजरूपिणं ॥

सुप्रसन्नं त सद्रूपमणिनं शान्ति भूषितं ।
वराभयकरं नित्यं नमस्तुभ्यासमर्चयेत् ॥

पद्मं ब्रह्मरन्ध्रे ब्रह्मरन्ध्रे निजं गुरुमिति ज्ञानार्णव वचनात् ।
मूलादि ब्रह्मरन्ध्रान्तं विसनन्तु कनीयसीं । उद्यनादित्य रुचिरां
स्मरेदशुभशान्तये इति । भैरवीमित्युपलक्षणं चिन्तयित्वेत्यने
नैवानन्तर्यप्राप्तौ तत इत्यनेन मध्ये कर्मान्तरं सूचितं । यथा वैहाय
पञ्चरात्रे ।

विभज्य पञ्चधारात्रिं शेषे देवार्चनादिकं ।
जपं होमं तथा ध्यानं नित्यं कुर्वीत साधकः ॥

ततश्चाज्ञा ग्रहणं त्रैलोक्य चैतन्यमयीश्वरेशि सुन्दरिस्त्वच्चरणाज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थ संसारयात्रा मनुवर्तयिष्ये । संसारयात्रा
मनुवर्तमानं त्वदा ज्ञया श्रीत्रिपुरे सुरेशि । स्पर्धातिरस्कार कलिप्रमाद
भयानि मासाभि भवन्तु मातः । जानामि धर्मं न च मे प्रवृतिर्जानाम्य
धर्मं न च मे निवृत्तिः । त्वया हृषीकेशि हृदिस्थयाहं यथा नियुक्तोस्मि
तथा करोमीति । तथा दक्षिणामूर्ति संहितायां । क्लीमन्ते कामदेवाय सर्वान्ते
जनचालिखेत् । प्रियाय हृदयान्तोयं मनुर्दन्त विशुद्धये इति ॥ अथ स्नानं ।
दक्षिणामूर्ति संहितायां । स्नानकर्म ततः कुर्यान्दुरान्तं प्रोक्षयेत् तनुं ।
मूलेन त्रिरितिशेषः ।

स्नानकर्म ततः कुर्मान् मूलविद्या मनुस्मरेत् ।
त्रिवारमञ्जलौ वारि मन्त्रयित्वा तु मूर्धनि ॥

निक्षिपेदिति ज्ञानार्णव वचनात् ।

आत्मविद्याशि वैस्तत्वैराचमे द्विपया त्रिधा ।
त्रिधा च तर्पणं कुर्याद् देवर्षि पितृपूर्वकं ॥

विद्यया त्रिधेति ।

आद्यकूटमुच्चार्यात्म तत्वाय तृधा द्वितीय कूटमुच्चार्य विद्या तत्वाय
स्वधा इति । एवमयेपि । एवं त्रिधा कूटत्रया भेदेन त्रिप्रकारया विद्यया
आचामेदिति पिङ्गलामते ।

आचम्य चात्म तत्वाद्यैः प्रणवाद्यैः स्वधात्तिमैः ।
मन्त्रैस्त्रैधा ततो वक्त्रं नासाक्षि श्रोत्रनाभिहृत् ॥

मस्तकां *? स्पृशेदुक्तं हृदा श्रोत्रादि वन्दनं ।
आत्मविद्या शिवास्तत्वाः प्रणवो वाग्भवं मतं ॥

वाग्भवं तु मन्त्रान्तरेषु अत्र विशेष विधानादिति अनुकल्पमाह उक्तमिति ।

४ब्)

देवर्षि पितृपूर्वकं विद्याया त्रिधा तर्पणं कुर्यादिति सम्बन्धः ।
विद्यामुच्चार्य श्रीमहात्रिपुरसुन्दरी तर्पयामीति ॥

अथ सन्ध्या ।

दक्षिणामूर्ति संहितायां ।

ततो मन्त्री सर्वालंकारभूषितः ॥

रक्तवस्त्राङ्ग रागस्तु रक्तासनो परिस्थितः ।
विद्यया तत्वरूपिण्या त्रिधा वम्याभिषेचनं ॥

विद्ययैव त्रिधा देवि चुलुके नोदकं सुधी ।
गृहीत्वा चिन्तयेत् तत्र वहन्ताद्या गतं प्रिये ॥

वामकुक्षि स्थितं पापं पुरुषं कज्जलप्रभं ।
ब्रह्महत्या शिरो यस्य स्वर्णस्तेयं करौ प्रिये ॥

सुरापानं हृदङ्गानि पातकानि वहून्यपि ।
उपपातक संघास्तु रोमाणि परमेश्वरि ॥

नानापातकसंघास्तु सर्वाङ्गानि च चिन्तयेत् ।
खड्गचर्मधरं देवि मानसे चिन्तयेद् वुधः ॥

भूमौ वज्रशिलां ध्यात्वा घातयेत् तत्र सुन्दरि ।
अथार्घं च ततो दद्यात् त्रिधा सौर मनुं स्मरेत् ॥

हृल्लेखा हृदयं देवि शिरोहंसस्ततो वदेत् ।
वेदाक्षरी महाविद्या सर्वसुराधि देवता ॥

भास्वद्रत्नौघ मुकुट स्फुरच्चन्द्रकलाधरां ।
सद्यः संतप्त हेमाभ सूर्यमण्डलरूपिणीं ॥

पाशांकुशा भयवरां स्मरन्तथ जपेत् ततः ।
गायत्रीं सुभगां मन्त्री त्रिधा वीजस्वरूपिणीं ॥

वाक् कूपन्ते लिखेद् देवि वागीश्वरि च विद्महे ।
द्वितीयं कूटमुच्चार्य कामेश्वरि च धीमहि ॥

तृतीयं कूटमुच्चार्य तत्र शक्तिः प्रचोदयात् ।
यथाशक्ति जपं कुर्याच्छ्री विद्यां च ततो जपेत् ॥

त्रिधा तत्वरूपिण्या पूर्व त्रितत्व युक्तया विद्यया आचम्येति संवन्धः । चुलुके
नोदकं गृहीत्वा विद्यया त्रिधाभिषेचनं मार्जनं कुर्यादिति शेषः ।
तदुक्तं शैवागमे ।

वामपाणि यतत्तोय योजनं सव्यपाणिना ।
उत्तमाङ्गे क्रमान् मन्त्रैर्मार्जनं समुदाहृतम् ॥

नीत्वा तदुपनासायं दक्षपाणि पुटे स्थितमिति । सुधीरित्यने नैतत् सूचितं तत्र
चुलुकोदके वहन्नाद्या नासारन्ध्रेनागतं पापपुरुषं विचिन्त्येति । हृल्लेखा
हृदयं ह्रा& शिरस्तस्या एतद्वीजं हसः स्वरूपं । अस्य मूलेन सहविकल्पः ।
मूलमन्त्रेण वा देवि सूर्यमन्त्रेण वा प्रिये । इति ज्ञानार्णव वचनात् ।
कूटशब्दो वाला वीजपरः उपक्रमे वीजशब्दाभिधानात् । ज्ञानार्णवे नाना
प्रकरणे तद्वीजयुक्तां गायत्रीमुद्धृत्य स्नानादिकमभिधाय सुन्दरी
प्रकरणे प्रातरुत्थाय देवेशि गुरुं नत्वा स्वनामभिः ।

५अ)

सन्ध्या स्नानादिकं देवि विधाय मनुवित्तय इति विशेद्यानभिधानात्
पूर्वोक्तस्यैव ग्रहणात् ।

ऐ& वागीश्वरि विद्महे क्ली& कामेश्वरि धीमहि ।
सौः तत्रः शक्तिः प्रचोदयादिति गायत्री । प्रातः सावित्री । मध्यन्दिने सरस्वती ।
सायमिति त्रिपुरो पनिषुद्यभिधानाच्च । महाकपिल पञ्चरात्रे मूलमन्त्रं
जपनाच्छेद्यावत् प्राप्नोति वै गृहं ।

प्राप्य हस्तौ च पादौ च प्रक्ष्याल्या चम्य(?) यत्नतः ।
यागमण्डप मासाद्य विशेत् कृत्वा प्रदक्षिणमितिति । श्रीविद्यां च ततो
जपेदित्युक्तं स्वयमेव विवृणोति ।

अथ यागगृहं पुण्यमलक्त * विभूषितं ।
अनेकचित्त सुभगं भूमौ गोमय चर्चितं ॥

उपविष्टाल्लसत्पुष्पसुभगं धूपभूषितं ।
दीपमालावलीरम्यं विकीर्ण कुसुमोज्ज्वलं ॥

तत्रागत्य यजेद् विद्वान् मौनी ज्ञानी सदाशुचिः ॥

तथा वामकेश्वरतन्त्रे ॥

कुंकुमारुण देहस्तु रक्तवस्त्र विभूषितः ।
तांवूलापूरित मुखो धूपामोदसुगन्धितः ॥

कर्पूरक्षोददिग्धाङ्गो रक्ताभरणमण्डितः ।
रक्तपुष्पावृतो मौनी रक्तगन्धानुलेपनः ॥

रक्तासनोपविष्टश्च लाक्षारुण गृहे स्थितः ।
सर्वशृंगारवेशाख्यस्त्रिपुरीकृत विग्रहः ॥

मनः संकल्परक्तो वा साधकः स्थिरमानसः ।
भूप्रदेशे समे शुद्धे गोमयेनोपलेपिते ॥

पुष्पप्रकरसंकीर्णे धूपामोदितगन्धिते ।
सिन्दूर रजसा देवि कुंकुमेनाथवा पुनः ॥

आलिखेत् प्रथमं चक्रं समवेत्थं मनोरमं ।
सम त्रिकोण शक्त्यग्रं सस्त्रीकमति सुन्दरं ॥

ध्यात्वा पुरत्रयं देवि वीजत्रय समन्वितं ।
रोचना चन्द्रकाश्मीर लघुकस्तूरिकान्वितं ॥

सर्वाद्य विद्यया देवि करशुद्धिं तु प्रकारयेत् ।
तत आत्मासनं दद्याच्चक्रासनमथेश्वरि ॥

सर्वमन्त्रासनं देवि साध्यसिद्धासमं तथा ।
ततो रक्षां प्रकुर्वीत पूर्वोक्त कुलविद्यया ॥

षडङ्गन्यास योगेन नमस्कार नियुक्तया ।
शिरो ललाटे भ्रूमध्ये कण्ठे हृन्नाभि गोचरे ॥

आधारे व्यूहकं यावन् न्यासमष्ट?भिराचरेत् ।
ताम्वूलरागापूरितानन इत्यर्थः तांवूलरागवदनो मदनानन्दमानस इति
ज्ञानार्णव वचनात् । तांवूलारुणिनाधर इति षट् शत्यामभिधानाच्च ।
सर्वशृङ्गाखेषाढ्य(?) अञ्जनादि कृत कामोद् दीपक वेषः
त्रिपुण्ड्रकधाङ्गी च नेत्रैकज्जलरञ्जित इति तत्रैवोक्तः

५ब्)

त्रिपुरीकृत विग्रहः वक्षमाण न्यासेन रक्तचन्दनादिना वा रक्तचन्दन
भूषित इति श्रीक्रमवचनात् । स्थिरमानसः एकाग्रमनाः । भूप्रदेश
इत्युपलक्षणं ।

अथवा हैमरूपाभ्यां ताम्रेण वहुधातुभिः ।
पट्टं विरच्य श्रीखण्ड रक्तचन्दनसंभवं ॥

पट्टे संस्थाप्य विलिखेल्लेखन्या हैम वा प्रिये ॥

रोचना कुंकुमाभ्यां तु कस्तूरी चन्दनेन्दुभिरिति ज्ञानार्णव वचनात् ।

गण्डकीतीरपाषाणे स्वर्णे रजतताम्रयोः ।
काश्मीर दर्पणे भूर्जे चारू पीठे लिखेद् वुधः ॥

इति दक्षिणामूर्ति वचनाच्च । मनोरमं चित्ता ह्लादकं ।

समास्त्रिकोण शक्त्यत्रायत्र । अस्य लिखन पर्यायो ज्ञानार्णवे ।

ईशानादग्निपर्यन्तामृजुरेखां समालिखेत् ।
ईशादग्नेस्तदग्राभ्यां रेखे आकृष्य देशिकः ॥

एकी कृत्या च वारुण्यां शक्तिरेखा परा प्रिये ।
त्रिकोणाकार रूपेयं तस्या उपरिसंलिखेत् ॥

त्रिकोणाकार रूपं तु शक्ति द्वयमुदाहृतं ।
पूर्वशक्त्यय भागे तु मानयष्टि वरा लिखेत् ॥

रेखां तु परमेशानि वायुराक्षस कोणगां ।
सन्धिभेद क्रमेणैव तयोः शक्त्यास्ततः परं ॥

रेखे आकृष्य कोणाभ्यां उदयां पूर्ववत् कुरु ।
वह्निमण्डलमेतन्तु पूर्वाग्रं वीरवन्दिते ॥

तच्च त्रयमभूदन्ते ततः शृणु वरानने ।
पूर्वे शक्तीश वह्निभ्यां कोणाभ्यां सुरवन्दिते ॥

पूर्वरेखां तु विस्तार्य तथा पश्चिम वह्नितः ।
वायुराक्षस कोणाभ्यां रेखां पश्चिमगां लिखेत् ॥

विस्तार्य योजयेद् देवि सन्धिभेद क्रमेण तु ।
योन्यग्रगां पूर्वदेशे दक्षिणोत्तरतः क्रमात् ॥

तथा रेखे तथा संस्थे पश्चिमस्यां दिशि क्रमात् ।
कोणाग्रगां योजयित्वा दशकोणं तदा भवेत् ॥

तथैव देवदेवेशि द्वितीयं दशकोणकं ।
ईशान वह्निगे रेखे पूर्वयोन्यग्रयोत्क्रमात् ॥

विस्तार्य योजयेत् पश्चात् पश्चिमस्यां दिशि क्रमात् ।
वायुराक्षस कोणाग्र रेखे विस्तार्य पूर्ववत् ॥

पश्चिमाग्रे तदा देवि योजयेद् इन्द्रदिग्गते ।
एकत्र पूर्वकोणाग्रच्छद्विनी(?) तु मनोहरं ॥

योजयेद् देव देवेशि यथा पंक्त्यस्रकं भवेत् ।
दशकोणस्य देवेशि त्यक्त्वा कोण चतुष्टयं ॥

दशकोणान्तयोर्देवि मध्यरेखाः प्रकाशयेत् ।
द्वे दक्षिणे विभागे तु तथा चोत्तर भागगे ॥

षट्कोणस्य ततो देवि सन्धिभेद क्रमेण तु ।
योनिं वह्निं च संयोज्य शक्रारं जायते तदा ॥

कक्षाकक्षागता रेखा ऋजुरूपास्तु योजयेत् ।

६अ)

ऋज्वाकृति यथा देवि जायतेति मनोहरं ॥

संमुखं पञ्चशक्त्यग्रं प्रागग्रं चतुरग्निकं ।
विन्दु त्रिकोणव स्वार चक्रमेतद् वरानने ॥

मध्यचक्रं तु जानीहि दशारयुगलं तथा ।
शक्रयोन्यङ्कितं देवि वाह्यमध्यगतं भवेत् ॥

एतच्चक्रं महेशानि सर्वसौभाग्यवर्धनं ।
सर्वसाम्राज्यदं देवि सर्वापद्वन्धनाशनं ॥

अनेकहयमाणिक्य सुवर्ण परिपूरकं ।
महामोक्षकरं देवि वाग्विलासकरं महत् ॥

एतद् वाह्ये महेशानि वृत्तं पूर्णेन्दु सन्निभं ।
तद्युतं कुरु मीनाक्षि वसुपत्रं मनोहरं ॥

ततः षोडशपत्रं तु विलिखेत् सुरवन्दिते ।
चतुरस्रं चतुर्द्वार सहितं परमेश्वरि ॥

चतुःषष्टीर्यतः कोट्यो योगिनीनां महाप्रभे ।
चक्रेस्मिन् स विशेयास्ताः साधकं मानयन्ति हि ॥

चतुरस्रं मातृकार्णे मण्डितं सिद्धि हेतवे ।
मुक्तामाणिक्य घटित समस्थलविराजितं ॥

त्रैलोक्य मोहनं नाम कल्पद्रुम फलप्रदं ।
षोडशारं चन्द्रविंव रूपं तु स्वकलालयं(?) ॥

सर्वाशा पूरकं भद्रे सत्वपीयूषवर्षितं ।
अष्टपत्रं महेशानि जवाकुसुमसन्निभं ॥

सर्वसंक्षोभणं नाम सर्वकाम प्रवर्तकं ।
एतत् त्रयं वरारोहे सृष्टिचक्रं सुखप्रदं ॥

पूर्वाम्नायाधि देव्या तु मण्डितं सर्वसिद्धिदं ।
चतुर्दशारं देवेशि दाडिमी कुसुमप्रभं ॥

अनन्त फलदं भद्रे सर्वसौभाग्यदं सदा ।
दशारं तप्त हेमाभं सिन्दूरसदृशं प्रिये ॥

सर्वार्थसाधकं चक्रं मनश्चित्तितदं सदा ।
द्वितीयमपि पंक्त्यारं जवाकुसुमसन्निभं ॥

सर्वरक्षाकरं चक्रं महाज्ञानमयं शिवे ।
एतत् त्रयं मेहेशानि स्थिति चक्रं सुखप्रदं ॥

दक्षिणाम्नायदेव्या तु मण्डितं सर्वसिद्धिदं ।
अष्टकोणं वरारोहे वालार्क किरणारुणे ॥

पद्मरागसमप्रख्यं सर्वरोगहरं सदा ।
उद्यत् सूर्यसहस्राभं वन्धूककुसुमप्रभं ॥

सर्वसिद्धिप्रदं चक्रं सकलालयमीश्वरं ।
त्रिकोणं सर्वसंभूति कारणं भूतिदं सदा ॥

विन्दुचक्रं वरारोहे सर्वानन्दमयं परं ।
सदाशिवमयं चक्रनायकं परमेश्वरि ॥

एतच्चक्रं सदाधार रूपं ब्रह्ममयं सदा ।
पश्चिमाम्नाय संसेव्यं त्रयमुत्तरपूजितं ॥

अस्मिञ्चक्रे षडध्वानो वर्तन्ते वीरवन्दिते ।
चक्र पत्रे तु देवेशि यदाब्धा वीरवन्दिते ॥

पत्र त्रिसन्धिभागेषु भुवनाध्वा व्यवस्थितः ।
वर्णाध्वा मातृका रूपी कथयामितवानघे ॥

६ब्)

वर्गाष्टकं मातृकाया दिक्षु सिद्धं यतः प्रिये ।
पार्थिवं तन्मयं विद्धि षोडशारं कलात्मकं ॥

अष्टपत्रं कादि वर्णैः क्षान्तैर्दिक्षु विदिक्षु च ।
कादिढान्तः शक्रवर्णाः शक्रकोणेषु संस्थिताः ॥

णकारादि भकारान्ता दशवर्णा दशारके ।
मकारादि क्षकारान्ता द्वितीयेपि दशारके ॥

वर्माष्टकं चाष्टकोणे त्रिकोणे कथयामिते ।
अकथादि त्रिरेखान्तं हक्षयुग्मं तु मध्यगं ॥

वर्णाध्वा कथिता देवि मातृका पीठरूपकः ।
षट्त्रिंशत् तत्वभवितं चक्रं मूलानुरूपतः ॥

पञ्चसिंहासनोन्नद्धः कलान्धा चक्र शासनात् ।
स वाला भैरवी युक्ता महात्रिपुरसुन्दरी ॥

त्रिपुराद्यंविकान्ताद्य चक्रं व्याप्य विजृंभते ।
मन्त्रा ध्वायं समाख्यातो निश्चयेन सदानघे ॥

एवं षडध्वनि विमलं श्रीचक्रं परिचिन्तयेदिति ।
केवल भूमौ तु पूजा निषिद्धा यदुक्तमीशान शिवेन ॥

शक्तिं निजैक्येन तथैव चक्रे चित्रे पटे वा प्रयजेत्त(?) भूमौ ।
माहादमुं स्थण्डिलगां यजेद्भ्रश्ये त्रिवर्गादिति मन्त्रसिद्धाः ॥

पुरत्रयमिति आत्मविद्या शिवतत्वरूपं सोमसूर्यवह्निमण्डलात्मकं
इच्छाज्ञान क्रियात्मकं वामाज्येष्ठा रौद्री रूप शक्तित्रयात्मकं वा ।
वीजत्रयं मूलविद्या संवन्धि । श्रीक्रमसंहितायां ।

लिखित्वा विपुलं चक्रं सिन्दूरेण महोज्वलं ।
पूजयेत् साधको नित्यं पञ्चाशदक्षरान्वितं ॥

मन्त्रमुच्चार्येति शेषः ।

सर्वाद्य विद्यया वालया वाला कूटत्रयं देवि करशुद्धिं समाचरेत् । तयैव
विद्ययारक्षां कुर्यादात्मनि साधक इति श्रीक्रमसंहिता वचनादिति
वामकेश्वर वचनमप्यदनुसारेणैव व्याख्येयं । यद्वा स
विन्द्वाद्यस्वरद्वयवालात्त वीजात्मिकाया यथा ज्ञानार्णवे ।

आद्यं वाग्भवमुच्चार्य कामवीजं द्वितीयकं ।
कुमार्यास्तु तृतीयं तु त्रिपुरा परमेश्वरी ॥

करशुद्धिकरी विद्या प्रथमा परमेश्वरी ।
करशुद्धिकरीं विद्यां मध्यमादि तलान्तकं ॥

अंगुलीषु द्विरावृत्या करशुद्धिरियं मता ॥

न्यसेदिति शेषः । मध्यमादिति स्थिति क्रमेण । यथा वायवीय संहितायां ।

मध्यमादिक निष्ठान्तं न्यसेस्थितिमिति ।
न्यासान्तरमाह तत इति दद्यान् न्यसेदित्यर्थः यथा दक्षिणामूर्ति संहितायां ।

करशुद्धिविधिं कृत्वा चतुरासन देवताः ।
पादयोर्जंघयोर्जान्वोर्मूलाधारे च विन्यसेत् ॥

७अ)

पुष्पैर्वाः नामया वापि मनसा वा न्यसेन् मनून् ।

देवताः मन्त्रान् ज्ञानार्णवे । त्रिपुरेश्चादिमं त्यक्त्वा भुवनेशीं परिक्षिपेत् ।
अनयात्मासनं दद्यादिति ।

त्रिपुरेशी महेशानि त्रिवीजाह स्थिता यदा ।
चक्रासन गतां देवि विद्धि त्रिपुरसुन्दरीं ॥

तथा दक्षिणामूर्तिसंहितायां ।

शिववीजादिमं वीज त्रय मेतदुदीरितं ॥

त्रिपुरेश्या इति । श्रीक्रमसंहितायां तु ।

तथैव सोमवीजं तु एकारान्तेन संयुतं ।
वीजाग्रस्वरसंयुक्तं शक्तिकूटं महेश्वरि ॥

एभिश्चक्रासनं दद्यादिति । सोमवीजं सकारः । अस्वरं हकार इति । तथा
ज्ञानार्णवे ।

त्रिपुरेशि महेशानि वाग्भवे कामराजके ।
शिवचन्द्रसमायुक्तातार्तीयै शिवरूपिणी ॥

सर्वमन्त्रासन गता त्रिपुरा श्रीरियं मतां ।
आत्मासन गतायां तु हित्वा तार्तीयमद्रिजे ॥

वलमात्मकमारोप्य साध्यसिद्धासन स्थिता ।
वलमात्मकं वलाद्यक्षर त्रयं मिलितं वरुणं शक्रसंलग्नमेकादश
स्वरान्वितं । विन्दुनामस्तकाक्रान्तं साध्यसिद्धासनं महहिति श्रीक्रम
वचनात् । तत इति नमस्कार नियुक्तया कुलविद्यया वालया षडङ्गन्यास योगेन
रक्षां कुर्वीतेति संवन्धः ॥ नमस्कार नियुक्तया संवोधनान्ते देवीनामान्ते
नमः पदं योजनीयमिति केचित् । हृदयाय नमः शिरसे नम इति सर्वत्र नमः
पदमित्यपरे तत्र मन्त्रांशेन सह नमः पदयोगाभावात् । षडङ्गमाचरेद्
देवि द्विरावृत्या क्रमेणदिति वालायामभिधायास्मिन् प्रकरणे कुमार्या
त्रिपुरेशान्याब्द *? स्तनि च पूर्ववदिति ज्ञानार्णवेऽभिधानादधिक
कल्पनायाः प्रमाणा भाव गौरवग्रस्तत्वाच्चतेन ऐ& नमः हृदयाय
नमः क्ली& नमः शिरसे स्वाहेत्यादि प्रयोगः साधीयानिति भाति । अत्र मुद्रा
दक्षिणामूर्ति संहितायां । कनिष्ठाङ्गुष्ठ रहितैस्त्रिभिस्तु हृदि विन्यसेत् ।

मध्यमानामिकायां तु न्यसेच्छिरसि मन्त्रवित् ।
शिखाङ्गुष्ठेन विन्यस्य दशभिः कवचं न्यसेत् ॥

हृदतैर्नेत्रविन्यासं विन्यसेत् परमेश्वरि ।
तर्जनी मध्यमाभ्यां तु ततोस्त्रं विन्यसेत् प्रिये ॥

शिर इति अष्टभिर्वशिन्यादिभि मन्त्रानाह ॥

ज्ञानार्णवे ॥

अवर्गान्ते लिखेद् वीजं वह्निफान्तक्षमान्वितं ।
वामकर्णविशोभाढ्यं विन्दुनादा”न्कितं प्रिये ॥

७ब्)

वशिनीं पूजयेद् वाचां देवतां देवि सुव्रते ॥

वह्निं रेफः फान्तं वकारः क्षमालकारः वामकर्ण ऊकारः तथा
दक्षिणामूर्ति संहितायां ।

कवर्गान्ते कलयुतां परां कामेश्वरीं यजेत् ॥

ज्ञानार्णवे ।

चवर्गान्ते धान्तनीलक्षमातुर्यस्वरान्वितं ।
मोहिनीं पूजयेद् वाचां देवतां तदनन्तरं ॥

धान्तो नकारः नीरं वकारः ।

ट वर्गान्ते वा युतोय मुखसंस्थं सुरेश्वरि ।
वामकर्णेन्दु विन्द्वाढ्यं विमलां वागधीश्वरीं ॥

वायुर्यकारः तोय मुखं लकारः ।

संहितायां ।

त वर्गान्ते जकालाग्नि वामाक्षीन्दु कलात्मिकां ।
अद्वणां पूजयेद् देवि पवर्गान्ते च कथ्यते ॥

व्योमवज्वीमहीनील वायुचन्द्रेण भूषितं ॥

अनेन जयिनी पूज्येति । जः स्वरूपं वर्ग्यः । कालोमकारः ।

कूर्च तृतीयं जठरं वह्नितुर्य स्वरान्वितं ।
नादविन्दुसमायुक्तमिति श्रीक्रम वचनात् ॥

व्योम हकारः जीवः सकारः महीलकारः नीरं वकारः वायुर्यकारः झकार
प्रश्लेषाः । उपरोद्भित्तमिति वामकेश्वर वचनात् । ज्ञानार्णवे ।

य वर्गान्तेजान्तकाल रेफवायु समन्वितं ।
मायाद्यं देवतां वाचां सर्वेशीं परिपूजयेत् ॥

जान्ते झकारः ।

उद्धरेन् मोदिनी वर्गाच्चतुर्थमिति वामकेश्वर वचनात् । अत्राप्यूकार प्रश्नेयः
। षष्टस्वरसमायुक्तमिति श्रीक्रम वचनात् । मायाविन्दुः ।

क्षमवह्निगतं तुर्यवीजेन परिवेष्टितं ।
विन्दुनाद कलाक्रान्तं कौलिनीं वा च मर्चयेत् ॥

शवर्गान्ते महेशानि न्यसेत् सर्वार्थसिद्धये ॥

अकारमकारौ स्वरूपं कौलिनी पञ्चमं देवि कालवीजो परिस्थितं । इति
वामकेश्वर वचनात् । अत्र सर्वत्र वाग्देवता पदोपादानाद्वशिन्याद्यास्तत्
पदयुक्तान्यसनीयाः । तत्र च यथा श्रुतं विहारे इत्यापस्तम्भ वचनाद् वशिनी
वाग्देवतायै नम इति वहुषु तथा दर्शनादिति । व्यूहकं पादगुल्फ द्वयं
शवर्ग कौलिनी चैव नूरूसंस्थां न्यसेत् परामिति श्रीक्रमवचनाद् रूपारभ्य
गुल्फययन्तं न्यसेद् इत्यर्थः । अत्र च मातृकार्ण स्वरूपं च वर्गाष्टक
समन्वितं । वशिनीं मातृकां न्यस्येद्वीजाष्टक समन्वितमिति ज्ञानार्णव
वचनात् वशीन्यादीनामेव मातृका रूपत्वेन तन्न्यासे नैव मातृका न्यास
सिद्धेर्वामकेश्वरादौनोक्तः । एवं च श्रीक्रमसंहितायां ॥

८अ)

शुचिर्भूत्वा तु सर्वत्रं वशिनी न्यासमाचरेत् ।
इति सर्वतन्त्रेत्युपक्रम्य वशिन्यादि समभिधाय वालाकूटत्रयमित्यादिना
करशुध्यासन चतुष्टयांगन्यास मात्राभिधानादेषामेवावश्यकर्तव्यता
प्रतीयते । अत एव वामकेश्वरतन्त्रे प्येतन्मात्राभिधानमिति । क्रम स्थाप्ये
तदुक्त एवादेयः । अथेत्या तन्तर्यवोधक पदोपादाने अपि च
करशुद्धावेवन्यासान्करं युक्तं ।

हस्तन्यासं पुरा कृत्वा देहन्यासं समाचरेदिति नारदपञ्चरात्रवचनात् ।

अत एवान्यत्रास्त्र मन्त्रेण करशुद्धि वादाव विहिताचार्यरिति । विद्याया एव
परमशुद्धि हेतुत्वाद्भूतशुद्ध्यमभिधानमत्र अधिकारि विशेषपरत्वाद्
वा तस्याः आचार्य चरणैर्योगप्रकरणेऽभिधानात् तस्या इति ।
न्यासमष्टभिराचरेदित्यनन्तरं वामकेश्वरतन्त्रे हेमदि पात्रे
साधारेस्थापयेदर्घमुत्तमं । रोचना चन्द्र काश्मीर लघुकस्तूरिकायुतं ।
कर्पूररेणुमारश्च कर्पूरश्चन्द्रभस्म हि साङ्कय इति त्रिकाण्डशेषात् ।
लघुकृष्णा गुरुण्डि शीघ्रे च लघु क्लीवेः गुरौ त्रिषु इति । तत्पर्यायो
ज्ञानार्णवे ।

विधाय वामभागे तु चतुरस्रं च मण्डलं ।
यन्त्रिकां तत्र संस्थाप्य शंखं तत्र विनिक्षिपेत् ॥

शुद्धोदकेन संपूज्य पूजयेत् कारणान्वितं ।
षडंगं तत्र संपूज्य सामान्यार्थमिदं प्रिये ॥

अथ वक्ष्ये महेशानि विशेषार्घस्य लक्षणं ।
आत्म श्रीचक्रयोर्मध्ये चतुरस्रं तु मण्डलं ॥

सामान्यार्घस्य तोयेन देशिको भूमि जानुकः ।
त्रिकोणं वृत्त षट्कोणं यजेत् तत्र तु मण्डले ॥

वह्निं तत्र विचिन्त्याथ पूजयेद् यंत्रिका मयं ।
पूर्ववत् परमेशानि त्रिकोणं मध्यगां यजेत् ॥

व्यस्तकूटैर्यजेत् तत्र त्रिकोणे परमेश्वरि ।
द्विरावृत्या षडङ्गानि षट्कोणेषु प्रपूजयेत् ॥

सौवर्ण राजतं चापि पात्रं संस्थापयेत् प्रिये ।
सूर्यरूपं सूर्यवुध्न्या यन्त्रं पूर्ववदा लिखेत् ॥

समस्तव्यस्तकूटैस्तु पूजयेत् पूर्ववत् क्रमात् ।
विशेषेण समापूर्य चन्द्र द्रवमयं प्रिये ॥

पूर्ववद् यन्त्रमालिख्य त्रिकूटां यस्तु मध्यगां ।
त्रिकोणं चिन्तयेत् तत्र त्रिकूटैः पूजितं प्रिये ॥

अकथादिषु वर्गाद्यं हक्षास्वन्तरमुत्तमम् ।
द्विरावृत्या षडङ्गानि षट्कोणेषु प्रपूजयेत् ॥

हंसेनात्मा समाराध्य आनन्देन च पूजयेत् ।
मूलं विद्यां जपेत् तत्र षोडशार्णां परां ततः ॥

धूपदीपो निवेद्याथ नमस्कुन्यार्घके(?) पुनः ।
मुद्रापदर्शयेत् तत्र साक्षाद् ब्रह्ममयो भवेत् ॥

८ब्)

प्रोक्षयेत् तेन चात्मानं पूजोप्रकरणानि च ।
सर्वत्र प्रोक्षणं कुर्यात् सर्वं ब्रह्ममयं भवेत् ॥

आत्म श्रीचक्रमध्ये चक्रस्य दक्षिणभागे यथा षट्?शत्यां चक्रस्य
दक्षिणभागे मण्डलमस्य मुद्रयेति । यस्त्रिकामयं वह्निं विचिन्त्य पूर्ववत्
कुंभस्थापनवत्पूजयेदिति संवन्धः । तत्र वह्नि कलानां पूजोक्तातास्तु
षट्शत्यां भूम्नार्त्रिकस्या ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी सुश्रीः सुरूपाकपिना
हव्य कव्य वहा तथा ।

वह्नेर्दशकला ज्ञेया दशधर्म फलप्रदा ।

या * र्ण युक्ताः प्रयजेत् क्रमेणमाधिकोत्तम इति । यजेत् तत्रेत्युक्तं
विवृणोति त्रिकूटामिति द्विरावृत्यो भयत्र यजेदित्यर्थः । षडङ्गानि
अग्नीशासुरवायव्य मध्ये दिक्ष्वङ्ग पूजनमिति दक्षिणामूर्त्युक्त क्रमेण ।
सौवर्णमिति अङ्गुलं वस्वङ्गुल विहीनं तु न पात्रं कारये क्वचित् । इति
भविष्यपुराण वचनात् । तथा महावराहतन्त्रे ।

शृणु देवि प्रवक्ष्यामि नालिकेल विधिं शुभं ।
पुरा वै निर्मितं पात्रं विविश्वामित्रे धीमता ॥

विश्वामित्रकपात्रं तु सर्वपात्रोत्तमोत्तमम् ।
तस्मिन् संपूजयेद् दैव सिद्धदेवीश्च सर्वशः ॥

तस्य दर्शनमात्रेण एकविंशतिकं कुलं ।
उद्धरिष्यत्य संदेहो गृहस्थो भवति प्रिये ॥

ब्रह्महत्यानिपापानि तथा विश्वासघातके ।
दृष्ट्वा पात्रं नालिकेलं सर्वपापं प्रणश्यति ॥

कन्याकोटि प्रदानानि तथा हेमशतानि च ।
यो ददाति महेशानि राहुग्रस्ते दिवाकरे ॥

तत्फलं कोटि गुणितं नालिकेलार्घ दानतः ।
अलाभे तस्य पात्रस्य अन्यपात्रेषु पूजयेत् ॥

इष्ट्वार्घ पात्रं देवेशि ब्रह्माद्या देवतागणाः ।
नृत्यन्ति सर्वयोगिन्यः प्रीताः सिद्धिं ददन्ति च ॥

तथा देवीपुराणे ।

हेमराजतता पाणिकाष्टमृचौलजानिं च ।
रत्नादीनि च पात्राणि शुभरेखाङ्कितानि च ॥

अर्घनैवेद्यपूजाद्यं वलिदाने प्रकल्पयेत् ।

काष्ठ विशेषमाह कालिकापुराणे यज्ञदारुमयं वापीति । तथा ।

सर्वालाभे तु माहेयं स्वहस्त घटितं यदि ।
आसनं चार्घपात्रं च भयमासादयेन च ॥


सर्वत्र सुवर्णवत्ताम्रमपि पात्रे ततोऽधिकमिति ॥ सूर्यरूपमित्यादिना तत्
कलापूजोक्ता तदुक्तं षट्शल्यां ।

अर्घपात्रं तु संस्थाप्य तत्र पात्रासनोपरि ।
रवेस्तु मण्डलं लिख्य कलां तत्र प्रपूजयेत् ॥

तपिनी तापिनी धूम्रा मरीची ज्वालिनी रुचिः ।

९अ)

सुषुम्णा भोगदा विश्वारोधिनी धारिणी क्षमा ।
रवेर्द्वादश विज्ञेया सर्वकाम फलप्रदा ॥

कभाद्यावसुदाः सौरा षडन्ताज्ञावसेविताः ।
कभं तापिन्यै नमः इत्यादि पूर्ववदिति दक्षिणामूर्तिरप्याह ।

गन्धादिनार्चितं धूप धूपितं पात्रमुत्तमं ।
यन्त्रिकायां प्रतिष्ठाप्य पूर्वोक्तं यन्त्रमालिखेत् ॥

तथैव पूजयेत् काम कूटमुच्चार्य सुन्दरि ।
सूर्यपात्रमयं तत्र विशेषेण च पूजयेत् ॥

विशेषेणेति षट्शत्यां ।

शर्करामिश्र पयसा घृतेन मधुना पिवा ।
अर्घपात्रं समापूर्य सोमस्य मण्डलं यजेत् ॥

अमृतामानदा पूषा तुष्टिः पुष्टिरति धृतिः ।
शशिनी चन्द्रिका कान्ति ज्यात्स्ना श्रीः प्रीतिरङ्गदा ॥

पूर्णापूर्णामृता काम दायिन्यः स्वरजा कलाः ।

अ& अमृतायै नम इत्यादि । श्रीक्रमसंहितायां ।

पञ्चरत्नं च तन्मध्ये ग्लू& स्लू& च तदनन्तरं ।
म्लू& प्लू& च न्लू& पञ्चदेवि मध्ये त्रिकोणमालिखेत् ॥

तन्मध्ये कलामध्ये चतुर्दिक्षु मध्ये च ग्लू& गगनरत्नाय नम इत्यादि ।
अकथादि त्रिरेखात्मकं त्रिकोणं विचिन्त्य पूर्ववद् यजेद् इत्यर्थः ।
पश्चिमाद्याग्नेयात्तमकारादि षोडश आग्नेयाद्यैशान्यान्तंकादि षोडश
ऐशान्यादि पश्चिमान्तं खादि षोडशं विचिन्त्य मध्ये हसौ चिन्तयेद् इति
हंसेन अष्टाक्षरेण दक्षिणामूर्ति संहितायां ।

प्रणवं पूर्वमुच्चार्य परां हंसः पदं तथा ।
ततः सोहं शिवो देवि वसुवर्गेयमीरिता ॥

हंसपदं स विसर्गं तारश्च शक्तिरजपेति प्रपञ्चसारात् । आनन्देन
आनन्दभैरवमन्त्रेण । मन्त्रमाह स्वयमेव एभिः समभ्यर्च्य
मन्त्रैर्यजेदानन्दभैरवं ।

शिवचन्द्रौ मातृकान्त कालशक्राम्वु वह्नयः ।
वायुश्च वामकर्णेन योजितो विन्दुनाञ्छितः ॥

वीजमेतत्समुच्चार्य तथा चानन्दभैरवं ।
ङेन्तं शिखा मन्त्र युक्तं पुनर्वीजं च संलिखेत् ॥

चन्द्रं कुर्यादिमं कुर्यात् कर्णिवामाक्षि योजयेत् ।
सुधा देव्यै ततो वौषट् स्वयमानन्दभैरवः ॥

अनेन चन्द्र संपूज्य पूजार्हा कलशो भवेत् ॥

शिरो हकारः चन्द्रः सकारः मातृकान्तं क्षकारः कालोमकारः शक्रः
लकारः अम्वुवकारः वह्निरेफः वायुर्यकारः वामकर्णे दीर्घोकारः शिखा
वषट् । चन्द्रमिति शिवचन्द्रयोर्वृत्यासः वामाक्षि दीर्घैकारः मूलविद्यां
सप्तधा जपेत् । निवेद्य दर्शयित्वा मुद्राः संक्षोभाद्याः ।

९ब्)

षट्शत्यां एवमर्घस्य पाद्यस्य तथैवाचमनस्य चेति पात्रं न्यसेदिति शेषः


शारदातिलके ।

अर्घस्योत्तरतः कार्यं पाद्यं सा च मनीयकमिति ॥

इति श्रीमन्मुकुन्दविरचितायां सौभाग्यतरङ्गिण्यां द्वितीया लहरी ॥


अर्घान्तरं वामकेश्वरे ।

ततः पद्मनिभामिति ध्यानं । ज्ञानार्णवे ।

एवं विन्यस्तदेहः सत्सर्वात्मा सर्वसाधकं ।
ध्यायन् निरामयं वस्तु जगत्त्रय विमोहिनीं ॥

अशेष व्यवहाराणां स्वामिनीं संविदं परां ।
उद्यत् सूर्यसहस्राभां दाडिमी कुसुमप्रभां ॥

जवाकुसुमसंकाशां पद्मरागसमप्रभां ।
स्फुरद् रत्न निभां तप्तकाञ्चनाभां परेश्वरीं ॥

रक्तोत्पलदलाकार पादपल्लवराजितां ।
अनर्घरत्नघटितमञ्जीर चरण द्वयः ॥

यदाङ्गुलीय निक्षिप्त रत्नं तेजो विराजितां ।
कदली ललितस्तम्भसुकुमारोरूमीश्वरीं ॥

नितम्व विम्वविलसद्रक्त वस्त्र परिस्कृतां ।
रत्नांशुक स्फुरत् तेजो व्याप्तस्त्रैलोक्य मण्डलां ॥

दिव्यकञ्चुकसंराज उक्त रत्नविचित्रितां ।
मुखलावधुमाणिक्य किङ्किणीनादविधमां ॥

अलक्ष्य मध्यगां निम्ननाभिंशातोदरीं परां ।
रोमराजीलताभूत महाकुच फलान्वितां ॥

सुवृत्त निवृतोत्तुङ्गकुचमण्डलराजितां ।
अनर्घ्य मौक्तिक स्फुरहारभारविराजितां ॥

नवरत्न प्रभाराजग्नैवेय वरभूषणां ।
श्रुति भूषामनोरम्य सुगण्डस्थलमञ्जरीं ॥

उद्यदादित्य संकाशाताटङ्क सुमुख प्रभां ।
पूर्णचन्द्रमुखी पद्म वदनां विद्रुमाधरां ॥

स्मितमाधुर्य विजित ब्रह्मविद्या रसप्रभां ।
स्फुरन्मदनको दण्ड सुभ्रुवं पद्मलोचनां ॥

ललाटपट्टसंराज सद्रत्नतिलकाञ्चितां ।
मुक्तामाणिक्यघटित मुकुटस्थलकिङ्किणीं ॥

स्फुरच्चन्द्रकलाराजान्मुकुटां लोचनत्रयां ।
प्रवालवल्लीविलसद्वाहुवल्ली चतुष्टयां ॥

कर्पूर सकलोन्मिश्रताम्बूलापूरिताननां ।
प्रवालवल्लिघटित वमाक्षौम(?) गुणान्वितां ॥

द्वितीया चन्द्ररेखाभशशिमाकर्षणक्षमां ।
सद्विद्य भ्रमरीभूतगुणेनेक्षु सरासनां ॥

कमलामलसंराजत् पञ्चवाणांश्च विभ्रतीं ।
सर्वदेवमयीमम्वां सर्वसौभाग्यसुन्दरीं ॥

सर्वतीर्थमयी विद्यां सर्वकाम प्रपूरणीं ।
सर्वशास्त्रमयीं नित्यां सर्वागमं नमस्कृतां ॥

सर्वाम्नायमयीं देवीं सर्वायतन सेवितां ।

१०अ)

सर्वानन्दमयी ज्ञान वशगां संविदं पराम् ॥

वामाघूर्द्वयोराद्यै अधस्थयोरपरे इत्यायुध ध्यानं ।
वस्तुनस्तु दक्षेऽङ्कुशाभयप्रोक्ते वामे पाणमखेष्टदमिति दशपटल्यां
वामेनाभय संयुक्तं वरदं दक्षिणेनदित्युत्तरषट्के च
भुवनेश्यामभिधानाद्यथेष्टमेवायुध चिन्तनमिति
इत्थमेवैश्वर्यमप्युपपद्यते । सर्वदेवमयीत्यनेनास्याः श्रवणादिना
सर्वदेव श्रवणादि जन्य पुण्य प्राप्तिरिति । एवमयेपि यथायोग्यमुत्तमं । तथा
वामकेश्वरे ।

महात्रिपुरमुद्रां तु स्मृत्वा वाहनरूपया ।
विद्यया वाह्य सुभगे नमस्कार नियुक्तया ॥

पूर्वोक्तया साधकेन्द्रो महात्रिपुरसुन्दरीं ।
चक्रमध्ये तु संचिन्त्य ततः पूजनमाचरेत् ॥

महात्रिपुरमुद्रा त्रिखण्डा मुद्रा मुद्रया हि त्रिखण्डयेति ज्ञानार्णवात् ।
दक्षिणामूर्तिसंहितायां ।

पूर्वोक्त योनि मुद्रायाः पृथक् दण्ड त्रयं कुरु ।
अंगुष्ठाभ्यां कनिष्ठाभ्यां मध्यमाभ्यां क्रमेण तु ॥

त्रिखण्डानाम मुद्रेयं त्रिपुराज्ञान कर्मणि ।
आवाहन रूपया भैरव्या तदुक्तं स्वयमेवह ॥

स वीज * समारूढामाघामग्रासन स्थितां ।
सर्वार्थसाधकी विधा देव्यावाहन कर्मणीति ॥

हसवीजं हकार सकारौ तदा रूढां आद्यां आत्मरक्षां विद्यां तृतीयं तु
रेफ हकार युक्तं । दक्षिणामूर्तिसंहितायां । मुद्राः संदर्शये देवि
तर्पणै त्रिधा यजेत् ।

सर्वोपचारैराराध्य मानसैः प्रकटैः शुभैः ।
धूपदीपैर्निवेद्यान्तैः पुनर्मुद्रास्तु दर्शयेत् ॥

पुनः संतर्प्य देवेशि तिथि नित्यां प्रपूजयेत् ।
मुद्राः संक्षोभाद्यात्स्तर्पणं तत्वमुद्रया ॥

तर्पणानि पुनर्दत्वा त्रिवारं तत्वमुद्रया ॥

अंगुष्ठानामिकाभ्यां च तत्वमुद्रेयमीरितेति स्वयमुक्तत्वात् । द्रव्यमाह
षट्शत्यां ।

तर्पयेश्च मधुद्रव्यैर्घृतैश्च मधुमिश्रितैः ।
अन्यश्चामृत द्रव्यैश्च तर्पयेत् परदेवतां ॥

उपचारैरर्घादिभिः ।

तन्निवेदनपर्याय माह सोमशंभु हृत्पुरः सरमुच्चार्य पाद्यादीनि
निवेदयेत् ।

नमः स्वधाय स्वाहा च वौषडिति यथाक्रमं ।
पाद्यं पादाम्वुज द्वन्दे वक्त्रे चाचमनीयकम् ॥

अर्घ्यं शिरसि देवस्य पुष्पदुर्वाक्षतानि च ।
तेन मूलविद्यांते श्रीमहात्रिपुरसुन्दरि ॥

एतत् ते पाद्यं नम इति श्यामाकदूर्वा पद्मसहितं जलं दद्यात् ।
एवमर्घ्यादिकमपि विद्या तृतीय खण्डेन वा । उपचारान्तरं नमः पदे नैव
। पुष्पं समर्पयेद् देवि मुद्रया ज्ञान संज्ञया ।

१०ब्)

अंगुष्ठ तर्जनी योगाज्ज्ञांन मुद्रा प्रकीर्तितेति ज्ञानार्णचोक्त विशेषः
पुष्पः । तथा ज्ञानार्णवे ।

एतस्मिन् समये देवि तिथि नित्यां प्रपूजयेत् ।
कामेश्वर्यादिका नित्या विचित्रान्ता महेश्वरि ॥

प्रतिपत्पौर्णमास्यन्तु तिथिरूपा प्रपूजयेत् ।
विभाव्य च महात्र्यस्त्रमग्रदक्षोत्तर क्रमात् ॥

रेखासुविलिखेत् तत्र पञ्चपञ्च क्रमेण तु ।
अकाराध्यास्तु कर्णान्ता दक्षिणायां विचिन्तयेत् ॥

ततश्च पूर्वरेखायां दीर्घकर्णादि पञ्चकम् ।
विलिख्योत्तर रेखायां शक्त्यादि विलिखेत् ततः ॥

अनुस्वारान्त मात्रास्तु विसर्गे षोडशी यजेत् ।
वामावर्तेन देवेशि नित्याः षोडशकीर्तिताः ॥

प्रतिपत्तिथिमारभ्य पौर्णमास्यन्तमद्रिजे ।
एकैकां पूजयेन् नित्यां महासौभाग्यमाप्नुयात् ॥

कृष्णपक्षे महेशानि पूजयेत् तिथि मण्डलम् ।
विचित्राद्या वरारोहे यावत् कामेश्वरी भवेत् ॥

पूजनीया विलोमेन हान्यां तु परमेश्वरि ।
कलाः षोडश देवेशि यस्तु चन्द्रकला क्रमात् ॥

ससौभाग्यं महादेवि प्राप्नोति गुरुशासनात् ।
कामेश्वर्यादिका नित्या पूजयित्वा क्रमात् ततः ॥

तिथिनित्यां त्रिधा देवि पूजयेद् भाग्य हेतवे ।
पुनः श्रीत्रिपुरां विद्यां यजेत् सौभाग्य हेतवे ॥

महात्र्यस्रः अन्ते त्रिकोणं । कर्णान्ताः उकारान्ताः । तेन कामेश्वर्याद्याः
पञ्चदक्षिणायां कोणायाद्याग्नेयाम्तं(?) । दीर्घकर्णादि
महाविद्येश्वर्यादि पञ्चकं पूर्वरेखायां आग्नेयादीशानान्तं । शक्त्यादि
नीलपताकादि पञ्चकं उत्तररेखायां ईशानादि कोणा * *? ।
शक्तिः एः वामावर्तेन देव्या इति वदन्ति तत्व विन्दु चक्रस्य
विद्यमानत्वाद्विभाव्येत्यनुपपत्तेः अष्टकोणादिभ्योः
स्वलघुत्वान्महद्विशोषणानुपपत्तेः अस्य पश्चिमदक्षोत्तर रेखत्वादग्न
दक्षोत्तरक्रमादित्यनुपपत्तेश्च ततश्चतुरक्षाद् वहिर्महात्र्य स्वंविभाव्य
तत्र कोणा पादाग्नेयान्तं तदा दीशानान्तं तदादिकोणायन्तं
पञ्चपञ्चर्चयेदिति परमार्थः । षोडशीं मध्ये यदाह दक्षिणामूर्ति
मध्ये देवी मयी देवीं महानित्यां प्रपूजयेत् । देवीमयीं पञ्चदश
नित्यात्मिकां पञ्चदशनित्या उद्धृत्य एतत् सर्वात्मकं वस्तु
त्रिपुरेत्यभिधीयते । इति स्वयमभिधानादिति । एवं सर्वाः संपूज्य तत् तत्
तिथिरूपायास्तत्तत्तिथौ पुनः पूजामाह प्रतिपदितिथि वृद्धौ दिन द्वये एकैव
पूज्यभ्यासे वै कस्मिन् दिने नित्याद्वय पूजयेदिति ज्ञेयं ।

११अ)

स्वस्वस्थाने पूजनीयेति । पुनरिति एतत् तु नित्यमेव । श्रीक्रमसंहितायां तु
कामेश्वर्यादि नित्याश्च देव्यङ्गे परिपूजयेदिति । तन्त्रराजेप्येवमेवेति । तथा
ज्ञानार्णवे ।

शृणु देवि प्रवक्ष्यामि नित्यामण्डलमुत्तमम् ।
कामेश्वरी महानित्या सर्वलोकवशंकरी ॥

वारांतारं च त्वत् प्रान्ते कामेश्वरि पदं लिखत् ।
इच्छा कामफलप्रान्ते प्रदे सर्वपदं लिखेत् ॥

ततः सत्ववशं व्रूयात् कवि सर्वजगत् पदम् ।
क्षोभान्ते तु कवि व्रूयाद् हूंकार द्वितयं लिखेत् ॥

पञ्चवाणान् समालिख्य संहारेण कुमारिकां ।
एषा कामेश्वरी नित्या प्रसङ्गात् कथिता प्रिये ॥

हूंकार द्वितये नित्ये * * * ः समीविलः क्षोभान्ते कवि हूं हूं
वाणाश्च परमेश्वरि इति दक्षिणामूर्तिवाक्यैकवाक्यादिति । तथा वाग्भवं
भगशब्दान्ते भुगे भगिनि चालिखेत् ।

भगोदरि भगान्ते च भगमालि भगावहे ।
भगगुह्ये भगप्रान्ते योनिप्रान्ते भगास्ततः ॥

निपातिनि च सर्वान्ते ततो भगवशंकरि ।
भगरूपे ततो लेख्यं नीलजायत लोचने ॥

नित्यक्लिन्ने भगप्रान्ते स्वरूपे सर्वदा लिखेत् ।
भगानि मे स्थान येति वरदेख समालिखेत् ॥

रेते सुरे ते भगा क्लिन्ने क्लिन्न द्रवे ततः ।
क्लेदय द्रावय चाथ सर्वसत्व भगेश्वरि ॥

अमोघे भगविश्वे चक्षु भक्षो भय सर्व च ।
सत्वान् भगेश्वरिं व्रूयाद् वाग्भवं व्लू& जमादिकं ॥

भे& व्लू& मो& व्लू& च हे& व्लू& च हे& क्ली&न्ने च ततः परं ।
सर्वाणि च भगान्यन्ते मे वशं चानयेति च ॥

स्त्रीवीजं च हरप्रान्ते वलेमात्मकमक्षरं ।
भुवनेशीं समालिख्य विद्येयं भगमालिनीं ॥

सर्वसत्वभगेश्वरीति देवी संवोधनं । जमादिकं व्लू& तेन ज& व्लू& इति ।
वले इति संयुक्तं ।

परावीजं समुच्चार्य नित्यक्लिन्ने मदद्रवे ।
अग्निजायान्वितो मन्त्रो नित्यक्लिन्ने यमीरिता ॥

प्रणवं पूर्वमुच्चार्य तथाङ्कुशयुगं लिखेत् ।
तन्मध्ये विलिखेद् देवि परोमात्मकमक्षरं ॥

च वर्गमत्र्यहीनं तु विलिखेदग्नि संहितं ।
चतुर्दश स्वरोपेतं विन्दुनादाङ्कितं पृथक् ॥

वह्निजायान्वितो मन्त्रो भेरुण्डायाः फलप्रदः ।

तन्मध्ये अङ्कुशद्वयान्तः भरोमिति संयुक्तं । ओङ्कारमुच्चार्य
अङ्कुशाभ्यां सुवेष्ठितमिति दक्षिणामूर्ति वचनात् ।

भुवनेशीं समुच्चार्य चतुर्थ्या वह्नि वासिनीं ।
हृदन्तोयं मनुर्देवि नित्येयं वह्निवासिनीं ॥

प्रणवं भुवनेशानीं फलमात्मकमक्षरं ।

११ब्)

स विसर्गः शशी पश्चान्नित्यक्लिन्ते मदद्रवे ।
वह्निजायान्विता विद्या सर्वैश्वर्य प्रदायिनी ॥

महाविद्येश्वरी नित्येति । फरेमितिर्संयुक्तं । शशीसकारः ।

परावीजं समुच्चार्य शिवदूतीं चक्षे युतां ।
हृदन्तोयं मनुदेवि दूतीयं सर्वकामदा ॥

ओंकारवीजमुच्चार्य परां कवचमालिखेत् ।
स्वेच्छन्दोः समालिख्य स्त्रीवीजं च समालिखेत् ॥

हू&कारं क्षेपराचास्त्रं विद्येयं द्वादशाक्षरी ।
त्वरिता नाम विद्येयं त्रिषु लोकेषु दुर्लभा ॥

सर्वसिंहासनमयी वालैव कुलसुन्दरी ।
वालया पुटितां कुर्यात् तथा वै नित्यभैरवीं ॥

पञ्चवाणाश्च देवेशि नित्याशक्राक्षरी मता ।
पञ्चाक्षरैर्वाण वीजैर्नित्येयमपराप्रिये ॥

नित्यभैरवीं स्वयमाह ।

डाकिनी राकिनी वीजे लाकिनी काकिनी युगात् ।
वीजे आलिख्य देवेशि योजयेच्चन्द्र सूर्ययोः ॥

आद्यनैकार संयुक्तमन्यदीकार मण्डितं ।
शक्र स्वरान्वितं देवि तार्तीयं वीजमालिखेत् ॥

विन्दुनाद कलाक्रान्तं त्रितयं गिरिसंभवे ॥

कला विसर्गः विन्दुनादयुतं चाघयुग्ममन्त्यं वसर्गवदिति दक्षिणामूर्ति
वचनात् ।

एतस्या एव विद्यायाः षड्वर्णान्क्रमतस्थितान् ।
विपरीतान्मदेत् प्रौढ विद्येयं भोगमोक्षदा ॥

नित्याद्या भैरवी देवीति । डाकिन्यादीनामाद्याक्षराण्येव वीजानि । लाकिन्यादि युगात्
तदनन्तरं चन्द्रसूर्ययोर्वीजे सहौ आलिख्य योजयेदिति संवन्धः । विपरीतान्
हादिडान्तानिति । पञ्चवाणाह दक्षिणामूर्तिः तकारान्तान्तमालिख्य द्विधा
वह्नि समन्वितम् ।

अनन्त वाम नेत्राभ्यां विन्द्विन्दु परिभूषितं ।
कामवीजं च कालादि तदादि पृथिवी युतं ॥

दीर्घकर्णेन्दु विन्द्वाढ्यमलपान्तं लिखेत् क्रमात् ।
उकारान्तान्तदकारं कालादि तदादि वकारः ॥

अजपान्तं सः इति ।

प्रणवं भुवनेशीं च फलमात्मकमक्षरं ।
म्रूमात्मकं द्वितीयं च भुवनेश्यङ्कुशं ततः ॥

नित्यशब्दं समुत्कृत्य संवुध्या तु मदद्रवां ।
कवचं चाङ्कुशं चैव विद्यानीलपताकिनी ॥

रेफमिति संयुक्तं द्वितीयमिति पूर्ववीजापेक्षयेति । तथा दक्षिणामूर्ति
संहितायां ।

शिरचन्द्रखपाताग्नि रुद्र स्वरविभूषितं ।
विन्दुनाद कलाक्रान्तं विजयै नमो लिखेत् ॥

खकारं स्वरूपं पान्तं फकारः ।

ज्ञानार्णवे ।

चन्द्रवारुणसंयुक्तं तारवीजं च संलिखेत् ।
चतुर्थ्या तु ततो देवि विलिखेत् सर्वमङ्गलाम् ॥

हृदन्तोयं मनुर्देवि नित्येयं सर्वमङ्गला ॥

तारवीजं स विन्दुरोकारः ।

१२अ)

तारं हृद्भगवत्यन्ते ज्वालामालिनि देवि च ।
द्विरुच्चार्य च सर्वान्ते भूतसंहारकारिके ॥

जातवेदसि संलिख्य ज्वलन्ति पदमुच्चरेत् ।
ज्वालेति प्रज्वाल द्वन्द्वं हू&कार द्वितयं लिखेत् ॥

वह्निवीज त्रयं हू& च अस्त्र स्वाहान्वितो मनुः ।
इयं नित्या महादेवि ज्वालामालिनिका परा ॥

ज्वालेत्यपि युगं ज्वाल युग्ममिति संहितोक्तः ।
हू& चेति ह्रस्वं वह्निं त्रिधा च कवचमिति तत्रैवोक्तः ।

कवर्गान्तं स्वरान्तं च शक्रस्वरविभूषितं ।
विन्दुनाद कलाक्रान्तं विचित्रा परमेश्वरि ॥

कवर्गान्तं चकारः स्वरान्तं ककारः । चक्रानुग्रह विन्द्विन्दुभूषितं
मनुमलिखेदिति दक्षिणामूर्तिराह ।

एतत् स पर्यायमाह दक्षिणामूर्तिसंहितायां ।
हृल्लेखां च श्रियो वीज नादौ संयोजयेत् ततः ॥

नामान्ते श्रीपदं वाक्यं पादुकां पूजयामि च ।
अनेन क्रमयोगेन संपूज्याः सर्वमातरः ॥

चः पूजादौ नमः पदादीन् समुचिनोति पादुकां पूजयामीति नमस्कारस्तथा
भवेत् ।

स्वाहा होमे तर्पणे च तर्पयामीति संस्मरेत् ॥

इत्यग्रे स्वयमभिधानात् ।

पूजयामि स्थाने तर्पयामीति ज्ञेयं योग्यत्वादिति तेनादौ वीजद्वयं
ततश्चैकैक स्वरस्ततश्च मन्त्रस्ततो नामेति ज्ञेयं । सर्वमातर इत्युक्ते
रग्नेप्ययमेव पर्यायः अत एव कला पूजा पापपीयंवीति(?)
वित्यपास्तं । तथा ज्ञानार्णवे ।

एतस्मिन् समये देवि गुरुं संपूजयेद् वुधः ।
मध्य प्राहु त्र्यस्र संध्ये तु गुरुपंक्तिं त्रिधा येजेत् ॥

पराख्यान् पूजयेदादौ परापरविभक्तिकाम् ।
ततोऽपरांस्त्रिधा देवि गुरुं संपूजयेत् प्रिये ॥

दिव्यौघं तु परान्विद्धि सप्तसंख्यान् वरानने ।
परापराख्याः सिद्धौघ मानवौघं शृणु प्रिये ॥

अपराह्नेति मध्येति विन्दु पश्चिम त्र्यस्रयोः ।

तदुक्तं संहितायां ।

विमलाजयिनी मध्ये पूजयेद् गुरुमण्डलं ।
आनन्दनाथ शब्दान्ताः पुरुषाः परिकीर्तिताः ॥

अम्वान्ता गुरवो ज्ञेयाः स्त्रीलिङ्ग परमेश्वरि ।
मलित्रयेण गुरवः संपूज्याः सिद्धि हेतवे ॥

अलिः पंक्तिर्यथा योगिनीरहस्ये ।

अथ यजेद् गुरुं दिव्यं सिद्धं च मानदं क्रमात् ।
चतुरस्रान्तरे देवि पूर्वादि पंक्तिनो वुधः ॥

पूर्वादि दिव्यं सिद्धं मानवं च पंक्तितो यजेदित्व त्वया देवी
पश्चादुक्तस्थले याम्यादि सौभ्यान्तं स्वाग्रमारभ्य पश्चिमान्तं पंक्ति
त्रयेण पूजयेदिति चतुरस्रं देवी पश्चिमस्थं विमला जयिनी त्र्यस्र
द्वयमध्यं । एतच्च स्वगुरोः सकासाद् वेद्यं संप्रदाय वात्तुल्यात् ।

१२ब्)

तदुक्तं ज्ञानार्णवे ।

संप्रदाया अनेके च ज्ञातव्यं च गुरु क्रमात् ।
अज्ञात गुरुशिष्याणां कथयामि वरानने ॥

गुरुभ्यो नम उच्चार्य पादुकाभ्यो नमो लिखेत् ।
गुरवन्ते परमान्ते च गुरुभ्यो नम इत्यपि ॥

एतेषां पादुकां तद्वद् आचार्येभ्यो नमो भवेत् ।
आचार्य पादुकां तद्वत् पूर्वसिद्धास्तथा द्विधा ॥

सामान्य गुरुशिष्याणां गुरुपंक्तिरियं भवेत् ।
गुरुपंक्तिं प्रपूज्याथ स्वयं श्रीत्रिपुरा भवेत् ॥

गुरुपंक्ति विहीनस्तु पुरुषपंक्तिवर्जितः ।
सामान्य गुरुपंक्त्या तु न भवेत् पंक्तिवर्जितः ॥

साधारणास्तु गुरवः सर्वभेदेषु वै समाः ।
गुर्वन्त इत्यस्य पादुकाभ्यो नम इत्यनेन संवन्धः ॥

एतेषामिति परमगुरु पादुकाभ्यो नम इति एवमग्नेपि ।
द्विधा पूर्वसिद्धेभ्यः पूर्वसिद्ध पादुकाभ्य इति ॥

वाग्भवादिमिति प्रपञ्चसारात् तद्वीजमादौ योज्यमेतेषां सर्वभेदेषु
कामराज लोपा मुद्रादिषु । सामान्य गुरवोपि पंक्ति त्रयेण पूज्य अन्ते चत्वारः ।

मानवौघान्तिके पश्चात् स्वगुरु द्वितयं यजेत् ।
परमे श्रीगुरुः पश्चाद् गुरुः परमसंज्ञकः ॥

स्वगुरूश्च महेशानि पूजयेत् तु गुरुत्रयं ।
अथ वामानवौघान्ते एकं स्वगुरुमर्चयेत् ॥

अथास्तवरणं कुर्याच्छ्री विद्या मनुवित्तमः ।
श्रीचक्रस्य महेशानि मध्ये देव्यङ्ग पूजनम् ॥

अग्नीशासुरवायव्य मध्ये दिक्ष्वङ्ग पूजनम् ।

त्रिकोण मध्ये वक्ष्यमाणयुक्तेः । मध्ये देव्यग्ने यथा इच्छा
हृदयमाग्नेयामैशान्यां तु शिरो यजेत् ।

नै-ऋत्यां तु शिखा पूज्या वायव्या कवचं यजेत् ।
अभ्यर्च्य पुरतो नेत्रं दिक्षु चास्त्रमथार्चयेदिति ॥

शारदा तिलके ॥

तुषारस्फटिक श्यामनील कृष्णारुणार्चिषः ।
वरदाभय धारिण्यः प्रधानतनवस्त्रियः ॥

चतुरस्र इत्यपरे अङ्गमन्त्राणां पूजाख्यं नमोन्तना शिरः प्रभृतीनां
प्रमाणं तु पूजाकल्पलतायां मन्वेषणीयमिति । दक्षिणामूर्ति संहितायां ।

त्रैलोक्य मोहने चक्रे पञ्चाशद् वर्णविग्रहे ।
प्रकटास्तत्र संपूज्याः सिद्धयो दशसुन्दरि ॥

सद्यः संतप्त हेमाभाः पाशांकुशधरा प्रिये ।
महाभाण्डार रत्नानि स सुवर्णानि वै निधीन् ॥

प्रयच्छन्ती साधकेभ्यः पद्महस्तास्तु पूजयेत् ।
अणिमालघिमासिद्धि महिमेशि स्वरूपिणी ॥

वशित्व सिद्धिप्राकास्या भुक्तिरिच्छा तथा भवेत् ।
प्राप्ति सिद्धिः सर्वकामा सिद्धयः प्रकटा? यजेत् ॥

द्वारदक्षिणभागे तु तथा कोणे च तत्क्रमत् ।

१३अ)

उभयेऽध उर्ध्वं ज्ञानार्णवे ।

प्राप्तिसिद्धिः सर्वकाम सिद्धिश्च परमेश्वरि ।
अधोर्द्ध क्रमरूपेण ज्ञातव्य सुरसुन्दरि ॥

अधः नै-ऋत्य उर्ध्वं ऐशान्येदिगीशार्चाव्यां पन्नगाधीशमध
ऊर्ध्वं पितामहे त्युक्त क्रमे विष्णु नै-ऋते विधिमीश्वरे इति वायवी योक्तः
। नै-ऋतेश्वर पदं पद्मीयपरं वा कालिकापुराणे ।

नैर्-ऋत्य पश्चिमान्तःस्थ * मत्तं श्वेतविग्रहं ।
ऐशान्य पूर्वयोर्मध्ये ब्रह्मर्षी संसितव्रतमिति ब्रह्मा ऋषयश्च ।?

अत ऊर्ध्वं क्रमात् पूज्याः पश्चिमाशादि देशिकैः ।
ब्राह्मी माहेश्वरी चैव तथेन्द्राणी तृतीयके ॥

कौमारी वैष्णवी षष्ठी तथा वाराहिका भवेत् ।
चामुण्डा च महालक्ष्मीरपरेण च भागतः ॥

पाशांकुशधराः सर्वाः क्रमेण दधती स्मरेत् ।
विद्यां शूलं च वज्रं च शक्तिं चक्रं गदां ततः ॥

वैदूर्यमालिकां पद्मं क्रमेण परमेश्वरि ।
सर्वाभरणसंपन्नाः संस्मरेत् सिद्धि हेतवे ॥

पश्चिम पदेन देव्यात्मनो मध्ये मेवोच्यते ।
उत्तराणां मुखे देवि यदा चक्रं समुद्धरेत् ॥

उत्तराशा तदा देवि पूर्वासैव न संशयः ।

इति ज्ञानार्णवे ।

उत्तरादीनां पूर्वादि पदेनाभिधानात् । तदादि स्ववामावर्तेन पूजयेदिति । तथा
इशत्यां तत्र प्रथमरेखाया मणिमादीनि पूजयेत् ।

ततो द्वितीय रेखायां ब्रह्माण्यादीनि पूजयेत् ।
तत्र तृतीय रेखाया संक्षोभादीनि पूजयेत् ॥

संक्षोभादीन्याह ज्ञानार्णवे ।

संक्षोभद्रावणाकर्षवश्योन्माद महांकुशाः ।
खेचरी वीजयोन्याख्यां त्रिखण्डां च प्रपूजयेत् ॥

वामभागे तु संपूज्य वायव्यादिषु पूर्ववत् ।
पञ्चवाणैः पञ्चमुद्राः करोद्वात्मकमक्षरं ॥

आद्यं तु रुद्रभैरव्या वीजं सदाशिवं ततः ।
केवलं वाग्भवं देवि क्रमेण तु चतुष्टयम् ॥

चतुर्मुद्राष्ट वीजानि नवमुद्रासु च क्रमात् ।

वामभागे इक्षु संपूज्येति ।

करोमीति संयुक्तं ।

रुद्रभैरव्या स्ववीजं विजयावीजमेव च ।

सदाशिव वीजं मनुरप्याह । सौमिति दक्षिणामूर्तिसंहितोक्तं ।
ध्यानयुक्तमनेनैव ।

मुद्रां संदर्शयेन् मन्त्री वन्धूक कुसुम प्रभा ।
नानालंकारसुभगास्त्रैलोक्यवशकारिणी ॥

स्वस्वमुद्राः कराः सर्वाः श्रीविद्या स मुखीः स्मरेत् ।

एतत् सपर्या दक्षिणामूर्ति क्रमसंहितादिषुनोन्ताऽतः पञ्चमी व्यतिरिक्त विद्यासु
नियतेति व्यवस्थीयते । तत्प्रकरणे षट्शत्यादिष्वभिधानात् । ज्ञानार्णवे ।

एताः संपूज्य चक्रेशी त्रिपुरां पूजयेत् परां ।
अणिमा सिद्धिपुरतः सर्वकामानुसाधकीम् ॥

१३ब्)

सर्वसंक्षोभिणी मुद्रां दर्शयेत् कमलानने ।

अस्यामन्त्रमाह योगिनी हृदये ।

करशुद्धि कवीत्वाद्या द्वितीयात्वात्मरक्षिका ।
आत्मासनगता देवि तृतीया तदनन्तरा ॥

चक्रासनगता पश्चात् सर्वमन्त्रासनस्थिता ।
मध्ये सिद्धासना षष्ठी माया लक्ष्मी तथा परा ॥

मूर्तिविद्या च सा देवी सप्तमी परिकीर्तिता ।
अष्टम्या वाहनी विद्या नवमी भैरवी परा ॥

मूलविद्या समाख्याता त्रैलोक्य वशकारिणी ।
पराशक्तिर्वाला तृतीयं इयमेव मूर्ति विद्या ॥

अष्टमी भैरवीति संवन्धः ।

आसां नामानि वक्ष्यामि यथार्थ क्रमयोगतः ।
तत्राद्या त्रिपुरा देवी द्वितीया त्रिपुरेश्वरी ॥

तृतीया च तथा प्रोक्ता देवी त्रिपुरसुन्दरी ।
चतुर्थी च तथा प्रोक्ता देवी त्रिपुरवासिनी ॥

पञ्चमी त्रिपुराश्रीः स्यात् षष्ठी त्रिपुरमालिनी ।
सप्तमी त्रिपुरा सिद्धा अष्टमी त्रिपुरात्मिका ॥

नवमी तु महेशानि महात्रिपुरसुन्दरी ।
पूजये चक्रमादेता नवचक्रे पुरोदिने ॥

ध्यानं दक्षिणामूर्तिराह ।

त्रिपुरा स्फटिकांभासा मुक्ता रक्तविभूषिता ।
पुस्तकं चाक्षमालां च कमलं पद्ममुत्तमम् ॥

विभ्रती सिद्धये चिन्त्या महापाप निकृन्तनी ।

पुस्तकादि वामाधस्तनादि तदूर्द्धान्तं यथेष्टं वा * *? युक्तेः
। मुद्रालक्षणमाह स एवं अनामाभ्यां कनिष्ठाभ्यां मध्यमे वोधयेत्
ततः ।

अंगुष्ठा चन्द्र(?) लग्नौ दण्डवत् तर्जनी द्वयं ।

संक्षोभिणी महामुद्रा ततः पूजां निवेदयेद् दक्षमाणात् ।
द्वितीयमावरणमाह स एव ।

सर्वां सा पूरके चक्रे कलास्वर विजृम्भते ।
पश्चिमादि विलोमेन गुप्ताः संपूजयेत् क्रमात् ॥

कामादि कर्षणी नित्या वुध्याकर्षणिका तथा ।
अहंकाराकर्षणी च शब्दाकर्षणिका तथा ॥

स्पर्शाकर्षणिकास्तद्वद्रूपा कर्षणिका ततः ।
रसाकर्षणिका देवी गन्धाकर्षणिका तथा ॥

चित्ताकर्षणिका तद्वद्धैर्याकर्षणिका प्रिये ।
स्मृत्याकर्षणिका देवी नामाकर्षणिका तथा ॥

वीजाकर्षणिका तद्वदात्माकर्षणिका प्रिये ।
अमृताकर्षणी नित्या शरीराकर्षणी ततः ॥

एता नित्या कला देवि चन्द्रमण्डलमध्यगाः ।
स्वरलग्नाः स्मरेन् नित्यं श्रवत् पीयूषवर्षिणी ॥

पाशांकुशसुधापूर्ण काश्मीर घटदानदाः ।

काश्मीर घटः स्फटित घटः । पूर्वदेवायुधचिन्तनं । विलोमेन
स्ववामावर्तेन ज्ञानार्णवे ।

चक्रेशीं पूजयेद् देवीं त्रिपुरेशीं समृद्धिदाम् ।

१४अ)

कामाकर्षणरूपायाः पुरतः पूजयेत् प्रिये ॥

सर्वविद्रावणीं दर्शयित्वा निवेदयेत् ।
मन्त्रश्लोकः ध्यानमाह दक्षिणामूर्तिः ॥

शुभाङ्गराग सुभगां कर्पूर सकलोज्ज्वलां ।
पाशाङ्कुशौ महेशानि दक्ष वामकरेण वै ॥

वरदाभय शोभाढ्यां सम्यक् सारस्वत प्रभाम् ।

मुद्रामाह ।

एतस्या एव मुद्राया मध्यमे तर्जनी युते ।

सर्वविद्रावणीनामेति । एतस्याः सर्वसंक्षोभिण्याः । मध्यमे शरणे इति ।
तृतीयमाह ।

सर्वसंक्षोभणे चक्रे कादि लक्षान्तवर्गिणीः ।
देवि गुप्ततराः पूज्याः वन्धूक कुसुमप्रभाः ॥

पाशाङ्कुश स्फुरन्तील नीलोत्पलकराः स्मरेत् ।
पूर्वादिषु चतुर्दिक्षु कोणेष्वग्न्यादिषु क्रमात् ॥

अनङ्गकुसुमा चैव तथा चानङ्गमेखला ।
तथा चानङ्गमदना अनङ्गमदनातुरा ॥

अनङ्गरेखा च तथा वशिन्यनङ्गपूर्विका ।
अनङ्गाद्यंकुशानङ्ग मालिनी परमेश्वरी ॥

ज्ञानार्णवे ॥

चक्रेश्वरीं ततो देवि यजेत् त्रिपुरसुन्दरीम् ।
अनङ्ग कुसुमाग्रे तु सर्वसाम्राज्य दायिनीम् ॥

सर्वाकर्षण मुद्रां च दर्शयेत् सुरवन्दिते ।
चक्रपूज्यां निवेद्याथ चतुर्थं चक्रमर्चयेत् ॥

मध्यमा तर्जनी युते? चक्रे कुर्यात् सुलोचने ।
एतस्या एव मुद्रायास्तदाकर्षणकारिणी ॥

एतस्याः सर्वविद्राविण्याः ध्यानमाह दक्षिणामुर्तिः सुन्दरी कुसुम प्रभा ।

सर्वालंकार संपन्ना पुस्तकं चाष्टमालिकाम् ।
वराभये च दधती सामात्या हसितानना ॥

चतुर्थमाह दक्षिणामूर्तिः ।

महासौभाग्यदे चक्रे चातुर्वर्ण विराजिते ।
संप्रदाप्याख्य योगिन्यः सर्वाभरणभूषिताः ॥

इन्द्रगोपनिभाः सर्वाः सगर्वा मन्त्र देवताः ।
पाशाङ्कुशौ दर्पणं च पानपात्रं सुधामयं ॥

विभ्रत्यः सर्वसुभगाः पश्चिमादि विलोमतः ।
शक्तीः प्रपूजयेद् देवि संप्रदाये च सिद्धये ॥

सर्वसंक्षोभिणी शक्तिः सर्वविद्राविणी तथा ।
सर्वार्थसाधनी शक्तिः सर्वाह्लादकरी प्रिये ॥

सर्वसंमोहनी शक्तिः सर्वस्तम्भनकारिणी ।
सर्वस?म्भनिकाशक्तिः सर्वतो वशकारिणी ॥

सर्वानुरञ्जनी शक्तिः सर्वोन्मादनिका तथा ।
सर्वार्थसाधनी शक्तिः सर्वसंपत्तिपूरणी ॥

सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्व क्षयंकरी ।

ज्ञानार्णवे ।

सर्वसंक्षोभिणी शक्तिः पुरतः पूजयेत् ततः ।
चक्रेश्वरी सिद्धिदात्रीं परां त्रिपुरवासिनीम् ॥

वश्यमुद्रां प्रदर्श्याध निवेद्य तदनन्तरम् ।

तथा दक्षिणामूर्ति संहितायां ।

अनया सदृशी देवी ध्येया त्रिपुरवासिनी ।

१४ब्)

अनया संक्षोभण चक्रेश्वर्या त्रिपुरसुन्दर्या ॥

पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशा कृती ।
परिवृत्त क्रमेणैव मध्यमे तदधो गते ॥

क्रमेणानेन मन्त्रवित् कनिष्ठानामिका द्वयम् ।
संयोज्यानि निद्राः सर्वा अङ्गुष्ठावयदेशगौ ॥

सर्ववश्यकरी मुद्रेति । पञ्चममाह स एव ।

सर्वार्थ साधके चक्रे नभवर्णविशोभिते ।
जवाकुसुमसंकाशाः स्फुरन्नीलविभूषिताः ॥

महासौभाग्यगंभीराः पीनवृत्तघनस्तनीः ।
रक्तपेटी विनिक्षिप्त साधकेप्सित भूषणाः ॥

नानारत्नमयी दिव्या दधती हर्षितानना ।
पाशाङ्कुशौ च दधतीः संस्मरेत् कुलयोगिनीः ॥

पश्चिमादि विलोमेन पूजयेत् सर्वसिद्धिदाः ।
सर्वसिद्धिप्रदा देवी सर्वसंपत्प्रदा तथा ॥

सर्वप्रियंकरी देवी सर्वमङ्गलकारिणी ।
सर्वकामप्रदा देवी सर्वदुःखविमोचनी ॥

सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी ।
सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ॥

ज्ञानार्णवे ।

सर्वसिद्धिप्रदा देवी पुरतश्चक्रनायिकाम् ।
सर्वसिद्धिप्रदां देवीं पूजयेत् त्रिपुराश्रियम् ॥

सर्वोन्मादन मुद्रां च दर्शयित्वा निवेद्य च ।
सर्वरक्षाकरेकक्रेनिगर्भायोगिनीर्यजेत् ॥

दक्षिणामूर्तिसंहितायां ॥

आरक्तं लोचनप्रान्तान् महामदविघूर्णिता ।
त्रिपुरा श्रीमहेशानि पीनवृत्तघनस्तनी ॥

उद्यद्भास्वत् सहस्राभा दिव्यालंकारमण्डिता ।
पुस्तकं जपमालां च वरदं चाभयंकरैः ॥

दधती सकलेति । वामकेश्वरतन्त्रे ॥

संमुखौ तु करौ कृत्वा मध्यमा मध्यगेनुजे ।
अनाभिकेतु सवले तद्वहिस्तर्जनी द्वयं ॥

दण्डाकरौ ततोङ्गुष्ठौ मध्यमानखदेशगौ ।

मुद्रैषोन्मादिनी नामेति । षष्टमाह दक्षिणामूर्तिः ।

सर्वरक्षाकरे चक्रे मक्षवर्णविभूषिते ।
पश्चिमादि विलोमेन निगर्भा योगिनी यजेत् ॥

उद्यद्भानु सहस्राभा मुक्ताहार विभूषिताः ।
पाशटङ्कायुध ज्ञानमुद्रावरदसत्कराः ॥

देवी प्रपूजयेदेता यथेप्सित फलप्रदाः ।
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्य फलप्रदा ॥

सर्वज्ञानमयी देवी सर्वव्याधि विनाशिनी ।
सर्वाधार स्वरूपा च सर्वपापहरा तथा ॥

सर्वानन्दमयी देवी सर्वरक्षा स्वरूपिणी ।
तथैव हि महादेवी सर्वेप्सित फलप्रदा ॥

ज्ञानार्णवे ॥

सर्वज्ञा पुरतो देवि चक्रेशीं मालिनीं यजेत् ।
महाङ्कुशा महामुद्रां दर्शयित्वा निवेद्य च ॥

दक्षिणामूर्ति संहितायां ।

१५अ)

इन्द्रगोप प्रभा देवी पाशाङ्कुश कपालिनी ।

महाभीति करा देवी साधकानामिति । वामकेश्वरे ।

अस्यास्त्वनासिका युग्ममधः कृत्वाङ्कुशाकृति ।
तजन्यावपिते नैव क्रमेण विनियोजयेत् ॥

एषा महाङ्कुशामुद्रेति । अस्याः सर्वोन्मादिन्याः । सप्तममाह दक्षिणामूर्तिः


सर्वरोगहरे चक्रे सर्वाष्टक विजृम्भिते ।
पश्चिमादि विलोमेन रहस्या योगिनी यजेत् ॥

श्रीपीठं परितोऽधस्था दाडिमी कुसुमोपमाः ।
रक्तवस्त्रपरीधाना रक्तगन्धानुलेपनाः ॥

रक्तपुष्पाक्षतैः सम्यग् पूजयेत् सर्वसिद्धिदाः ।
पश्चिमादि विलोमेन पूर्वोक्ता पूजयेत् क्रमात् ॥

वशिनी प्रदः पूज्या सिद्धाख्या चक्रनायिका ।
खेचरी दर्शयेत् मुद्रां निवेद्यानतरं(?) ततः ॥

दक्षिणामूर्तिसंहितायां ।

सिद्धां च परमेशानीं ध्यायेद्विसविलासिनीम् ।

ज्ञानार्णवे ।

वामभुजं दक्षिणभुजे दक्षिणं वाम देशतः ।
निवेश्य योजयेत् पश्चात् परिवृत्य क्रमेण तु ॥

कनिष्ठानामिके युग्मे तर्जनीभ्यां निवोधयेत् ।
मध्यमे स वले योज्ये योनि वत्स वलौ ततः ॥

अङ्गुष्ठौ खेचरी मुद्रा पार्थिवस्थान योजिता ।
पार्थिवस्थान मूर्द्धस्थित महाचक्र चतुरस्रं ॥

अष्टमावरणमावरणमाह दक्षिणामूर्तिः ।
सर्वसिद्धि प्रदे चक्रे अकथैश्च महाक्षरैः ॥

त्रिरेखा सर्वशोभाढ्ये समस्तार्थ विजृम्भिते ।
परापर रहस्याख्या योगिनीः पूजयेत् क्रमात् ॥

पश्चिमादि क्रमेणैव युग्मयुग्मविभेदतः ।
कामेशस्य च कामेश्यावाणाः साधारणाः प्रिये ॥

तत् तुर्यंत द्वितीयं च विन्दुनादाङ्कितं क्रमात् ।
कामेश्वरस्य कामेश्याश्चापयुग्मं यजेत् प्रिये ॥

अनन्तो विन्दुनादाख्यो हृल्लेखा पाशयुग्मकं ।
कामेश्वरस्य कामेश्वराः(?) क्रमेण परमेश्वरि ॥

अङ्कुशस्तु समानः स्याद् उभयोः पूजयेत् सुधीः ।
चतुर्दिक्षु विशोभाढ्या यौवनोन्मत्त विग्रहा ॥

रक्तविद्युल्लताकारा उद्दाम कुसुमान्विता ।
नवरत्न विशोभाढ्याः स्वस्वायुधधराः क्रमात् ॥

जंभमोहवशस्तम्भ पदमन्त्रान्विताः क्रमाः ।
अङ्गावरण वाह्ये तु आयुधाष्टकमर्चयेत् ॥

वाणाः पञ्चवाणमन्त्राः समाना उभयोः तप्तुर्यन्धकारः । तद्द्वितीयं
थकारः । अनन्तः आकारः । अङ्कुशमन्त्रः समानः उभयोः । जंभेत्यादि
वाणादि चतुष्टय विशेषणं जम्भन मोहन वशीकरण स्तम्भनेति
चतुष्टयं अङ्ग वाह्य त्रिकोणरेखा समीपे । यथा ज्ञानार्णवे ।

१५ब्)

सर्वसिद्धिप्रदे चक्रे त्रिकोणे सर्वकामदे ।
षडङ्गावरणाद्वाहे समीपे द्रुमतोर्चयेत् ॥

पश्चिमादि क्रमेणैव चतुर्दिक्षु प्रपूजयेत् ।

समीपे त्रिकोणस्य तस्यैव प्रागुक्तस्य सटियुपस्थितेः ।

अङ्गवाह्ये इत्युक्तः ।

अष्टकोणान्त मध्ये तु त्रिकोणरहितायुधान् ।
चतुर्दिक्षु यजेत् पाशमङ्कुशं चापवाणकमिति ॥

एतान् सर्वान् महादेवि षट्कोणेषु प्रपूजयेदिति षट्शती श्रीक्रमवचनात् ।
दक्षिणामूर्तिसंहितायां ।

कोणत्रयेषु संपूज्यास्तिस्रः कूट त्रयान्विताः ।
कामेश्वरी च वज्रेशी तृतीया भगमालिनी ॥

कामेश्वरी शुक्लवर्णा शुक्लमाल्यानुलेपना ।
मुक्ताफलस्फुरद् भूषा नानाभरणभूषिता ॥

इक्षुको दण्डवाणांश्च पुस्तकं चाक्षमालिकां ।
दधतीश्चायतः पूज्या रुद्रशक्ति महेश्वरि ॥

वज्रेश्वरीन्द्रनीलाभा स्फुरद्रत्नविभूषिता ।
वालार्क वसना नील कञ्ज चुम्वित लोचना ॥

इक्षुको दण्ड पुष्पेषु वरदाभयशोभिता ।
वज्रेश्वरी दक्षभागे विष्णुशक्तिर्महेश्वरि ॥

उत्तरे भगमाली च सद्यः सप्त हेमभा ।
अनर्घरत्नरचित भूषणा परमेश्वरी ॥

पाशाङ्कुश ज्ञानमुद्रा धराभय कराम्वुजा ।
ब्रह्मशक्तिर्महेशानि रूपत्रय निकृन्तनी ॥

ज्ञानार्णवे ।

चक्रेश्वरीमम्विकाख्यां कामेशीं पुरतो यजेत् ।
वीजमुद्रामुपोस्याथ चक्रपूजां निवेदयेत् ॥

दक्षिणामूर्ति ध्यानमाह ।

आताम्रार्क सहस्राभावि नेत्रा चन्द्रसंमुखी ।
चन्द्रखण्डस्फुरद्रत्न मुकुटाख्या स मध्यमा ॥

उन्मत्त यौवन प्रौढ पीनोन्नत घनस्तनी ।
पुस्तकं चाभयं वामे दक्षिणे त्वक्षुमालिकां ॥

वरं च विभ्रतीति ।

अथवा रश्मयः सर्वा देवीरूपेण चिन्तयेदिति सर्वासांध्यानान्तर मुक्तं ।
श्रीभागवते स्वे स्वे स्थाने त्वभिमुखान् पूजयेत् प्रोक्षणादिभिरित्यावरण
पूजाया मुक्तं । अभिमुखान्देवताया उक्त वचनात् । वामकेश्वरे ।

परिवृत्यकरौ स्पृष्टारुर्द्धचन्द्राकृति प्रिये ।
तर्जन्यङ्गुष्ठ युगलं युगपत् कारयेत् ततः ॥

अधः कनिष्ठादष्टब्धे मध्यमे विनियोजयेत् ।
तथैव कुटिले योज्ये सर्वाधस्तादनामिके ॥

वीजमुद्रेयमचिरात् सर्वसिद्धि प्रवर्तिका ।

युगपत् तर्जन्यङ्गुष्ठ युगलमद्ध चन्द्राकृति कुर्यादित्यन्वयः ।

नवममाह ज्ञानार्णवे ।

सर्वानन्दमये चक्रे राजवैन्दवसंज्ञके ।
ब्रह्मरूपे विश्वरूपे संविघ्नद्वै(?) शृणु प्रिये ॥

१६अ)

कूटत्रयं समुच्चार्य सर्वविद्यास्वरूपकं ।
समस्तदेवता रूपं वस्तुरस्तु मयं यजेत् ॥

श्रीविद्यां पूजयेद् देवि चिन्मयीं ब्रह्मरूपिणीं ।
चक्रेशीमपि नामेव महात्रिपुरसुन्दरीम् ॥

समस्त चक्र चक्रेशीं सर्वागम नमस्कृता ।
सर्वाम्नायेश्वरी विद्यालङ्कृतां ब्रह्मरूपिणीं ॥

उपचारौ समभ्यर्च्य गन्धपुष्पाक्षतादिभिः ।
तर्पणानि पुनर्दद्यात् त्रिवारं मूलविद्यया ॥

योनि मुद्रां प्रदर्श्याथ मुद्राः संदर्शयेत् क्रमात् ।
परिवृत्यकरौ सम्यक् तर्जनी वदने समे ॥

मध्यमे कुरु तन्मध्ये योजयेत् तदनन्तरम् ।
अन्योन्यानामिके देवि कनिष्ठे तु तथाविधे ॥

अङ्गुष्ठाभ्यां योजयित्वा योन्याकारं तु कारयेत् ।
योनिमुद्रेयमाख्याता परा त्रैलोक्य मातृका ॥

वामकेश्वरतन्त्रे ॥

चक्रमभ्यर्च्य विधिवत् स कलां देशिकोत्तमः ।
मध्यं वा केवलं देवि वाह्यमध्यगतं च वा ॥

ज्ञानार्णवे ॥

धूपदीपौ निवेद्याथ तर्पयेत् पूर्ववत् प्रिये ।
आरार्तिक विधिं कुर्यात् पूर्ववदेव वन्दिते ॥

शैवागमे ।

धूपभाजन मन्त्रेण प्रोक्ष्याभ्यर्च्य हृदाणुना ।
अस्त्रेण पूजितां घण्टां वादयन् गुग्गुलुं दहेत् ॥

ज्ञानार्णवे ॥

धूपं विस्तारयेत् सम्यङ्मूलविद्यां हृदि स्मरेत् ।
ओं वनस्पति रसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः ॥

आग्नेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम् ।
अनेन मनुना देवि धूपं देव्यैः निवेदयेत् ॥

सुप्रकाशो महादीपः सर्वत्र तिमिरापहः ।
स वाह्याभ्यन्तरं ज्योतिर्दीपोयं प्रतिगृह्यतां ॥

तथैव दीपमन्त्रोयं विद्यान्ते परमेश्वरि ।

आरार्तिक नैवेद्यानन्तरं ब्रूयात् । यदाह दक्षिणामूर्तिः ।

नैवेद्यं षड्रसोपेतं कामधेनु पवित्रितं ।
दत्वा कर्पूरसहितं ताम्वूलं विनिवेदयेत् ॥

नित्यहोमं प्रकुर्वीत पूर्वोक्त विधिना प्रिये ।

तथा ज्ञानार्णवे ।

नैवेद्यं षड्रसोपेतं सितापूपादि संयुतं ।
हेमपात्र गतं दिव्यं परमान्नं सुसंस्कृतम् ॥

पञ्चधा षड्रसोपेतं गृहाण परमेश्वरि ।
विद्यांते परमेशानि नैवेद्यमनुरीरितः ॥

संकल्प्य परमेशान्यै नित्यहोमविधिं चरेत् ।
मूलेन प्राणसहिता आहुतीः पञ्चहोमयेत् ॥

षडाहुतीः षडङ्गानां नित्यहोमः प्रकीर्तितः ।

संकल्पेति नैवेद्यमित्यनेनात्वेति ।

होमपञ्चानामङ्गमन्त्राणां स्वाहान्तता ज्ञेयाः ।
अय्याधानादिकं कर्म नित्यहोमेन विद्यते ॥

तथा दक्षिणामूर्तिसंहितायां ।

यथाशक्ति जपं कुर्यात् स्तुतिं च परमेश्वरि ।

१६ब्)

आदि श्लोकद्वयेनापि नवसौभाग्य देवताः ॥

स्रुवीतेति शेषः । उत्तरतन्त्रे तु ।

जपे त्रिशतान्यूनं साधकस्तु कदाचन ।
आदिश्लोकद्वयं स्तोत्रान्तरं च प्रयोगे वक्ष्यामः ॥

कालिकापुराणे ।

स्तवं चापि महामन्त्रं साधनं सर्वकर्मणां ।
वक्षेथवां महाभागौ सर्वसिद्धिप्रदायकम् ॥

सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्वके गौरि नारायणि नमोस्तुते ॥

सप्तधा वर्तनं कृत्वा स्तुतिमेतां तु साधकः ।
पञ्चप्रणामान् कुर्वीत ऐ& ह्री& श्रीमिति मन्त्रकैः ॥

भविष्यपुराणे ॥

क्षित्वा भित्वा च भूतानि हुत्वा सर्वमिदं जगत् ।
प्रणम्य शिरसा देवीं सर्वपापैर्न लिप्यते ॥

दक्षिणामूर्तिसंहितायां ॥

सुवर्णरौप्यकांस्यादि पात्रेवसुदलं लिखेत् ।
गन्धेन रुचकं मध्ये मध्ये च तत्र विन्यसेत् ॥

वसुपत्रेषु वाह्येन पूरितान्नव दीपकान् ।
भ्रामयेद्रत्न विधिभिधृत्वा धृत्वा तु मस्तके ॥

तथा ज्ञानार्णवे ।

यवगोधूम दुग्धादि रचिताच्छर्करायुतान् ।
चण पाचित शोभाभिः शोभितान् घृत पूरितान् ॥

अभिमन्त्र्य महेशानि रत्नेश्वर्या ततः परम् ।
श्रीवीजं च परावीजं संलिख्य वरवर्णिनि ॥

गसौचमपराः पश्चादिन्द्रस्थाक्रमतः प्रिये ।
वामकर्ण समायुक्ता विन्दुनाद विभूषिताः ॥

वीज पञ्चकमेतत् तु पञ्चरत्नानि सुन्दरि ।
पूर्ववीजे विलोमेन रत्नेशीयं नवाक्षरी ॥

मूलमन्त्रेण चाभ्यर्च्य तत आरात्रिकं चरेत् ।
समस्त चक्र चक्रेशी युते देवि नवात्मिके ॥

आरात्रिकमिदं देवि गृहाण मम सिद्धये ।
नीराजन मनुर्देवि विद्यान्ते प्रकटी कृतः ॥

आरात्रिके महेशानि चक्र मुद्रा व्यवस्थिता ।
वामहस्ताङ्गुष्ठ गर्भे कनिष्ठा दक्षिणां क्षिपेत् ॥

कनिष्ठा गर्भके वामे दक्षाङ्गुष्ठं विनिक्षिपेत् ।
अन्योन्ययोगतो देवि चक्रे मुद्रेयमीरिता ॥

उतार्य स्थापयेत् पश्चाद् दीपमालमिदं महः ।

गसाविति गगन स्वर्गमर्त्यपाताल नगरनामादि वर्णाः पञ्च । विलोमेन
परावीज क्रमेण । स्थापकं दीपपात्रं । स्थापयेद् दक्षिणे । दीपं दक्षिणतो
दद्यात् पुरतो वामपृष्ठतः । इति कालिकापुराण वचनात् ।
अतस्तन्निर्वायनाचारोदुराचार एव नैव निर्वापयेदीपमिति कालिकापुराण
वचनाच्च । तथा ।

उपविश्यासनेचास्य वामभागे ततः परं ।
उपविश्येत्युक्तेरुत्थापरात्रिकं कार्यमिति प्रतीयते ॥

वहत्करोर्द्ध पुटतः साधको भूमिजानुकः ।

मण्डलं चतुरस्तं चतुरस्रं च तन्मध्ये विलिखेत् प्रिये ।

१७अ)

त्रिकोणवृत्तं व्योमाख्य मण्डलं पूजयेत् ततः ।
व्योमकान्ते मण्डलाय हृदन्तो वागभवं पराम् ॥

मुखे कृत्वा पूजनीयं मण्डलं मनुना प्रिये ।

अस्य आसनस्य तेन स्ववामे लिखेति लिङ्गनोपस्थापि तस्य कर्तुः सान्निध्यान्तद्
वाम प्रतीतेश्च ।

एवं मण्डलमभ्यर्च्य मण्डलानां चतुष्टयं ।
ऐशान वह्नि नैर्-ऋत्य वायु कोणेषु पूर्ववत् ॥

मण्डलानि विधायाथ पूर्ववत् पूजयेत् प्रिये ।
पूर्ववद् वलिदानं च दद्यात् सर्वसमृद्धये ॥

वटुकाय महेशानि योगिनीभ्यश्च वल्लभे ।
गणेश क्षेत्रपालाभ्यां पूर्ववद् वलिमुत्सृजेत् ॥

वामभागे कृतस्याथ मण्डलस्यो परिक्षिपेत् ।
आधारं पूजयेत् तत्र पात्रं चात्रोदकान्वितं ॥

षोडशार्णेन मनुना त्रिवारं वीरवन्दिते ।
तारं च भुवनेशानीं सर्वविघ्न पदं ततः ॥

हृद्भ्यश्च सर्वभूतेभ्यो हू&कारं वह्निवल्लभाम् ।
समुच्चरन्वलिं दद्यान् मुद्रया तत्वसंज्ञया ॥

वलिपञ्चकमाख्यातं सदा रक्षाकरं सताम् ।
एकत्र वा पञ्चवलिं दद्याद् व्यापक मण्डले ॥

वामभाग स्थिते देवि सर्वविघ्नहरो भवेत् ।

मुखे आदौ पूर्ववद् वाला प्रकरणोक्तवत् षोडशार्णेन वक्ष्यमाणेन त्रिवारं
समुच्चरन् वलिं दद्यादिति संवन्धः । तथा ।

श्रीचक्रसहितो देवि त्रिकोणं व्योमन्त्रा लिखेत् । अभितः ऐशान्यादिषु
चकाराच्चतुरस्रं त्रिकोणवृत्त भूविम्वमण्डितानि मालिखेदिति संहितोक्तेः ।
व्योमवृत्तं ।

पूर्वमन्त्रैः समभ्यर्च्य वटुकादिभिरद्रिजे ।
एह्येहि देवी पुत्रान्ते वटुकान्ते च नाथ च ॥

कपिलान्ते जटाभार भासुरान्ते त्रिनेत्र च ।
ज्वालामुखे च सर्वान्ते विघ्नान्नाशयनाशय ॥

पूर्वोपचार सहितं वलिं गृह्ण द्विधा पदम् ।
वह्नि जायान्वितो मन्त्रो वटुकस्य उदाहृतः ॥

अनेन मनुना देवि वटुकस्य वलिं प्रिये ।

ऊर्ध्वे ब्रह्माण्डतो वा दिविगगनतले भूतले निष्कले वा पाताले वा नले वा सलिल
पवनयोर्यत्र कुत्रा स्थिता वा । क्षेत्रे पीठोपपीठादिषु च हृतपदा
धूपदीपादिकेन प्रीता देव्यः सदानः शुभवलिविधिनायास्तु देवेन्द्रवन्द्याः ।

एतदन्ते महेशानि यां वीजं योगिनी ततः ।
स्वः स्वाहा सर्ववर्णान्ते योगिनीनां समालिखेत् ॥

कवचं चास्त्रमालिख्य वह्निजायां पुनर्लिखेत् ।
अनेन मनुना देवि योगिनीनां वलिर्भवेत् ॥

षड्दीर्घ स्वरसंभिन्नं क्षकारं विलिखेत् प्रिये ।
स्थान क्षेत्र पदं पाल धूपदीपादि चालिखेत् ॥

१७ब्)

सहितं वलिमालिख्य गृह्णगृह्णं ततो वदेत् ।
वह्निजायान्वितो मन्त्र क्षेत्रपालस्य सुन्दरि ॥

अनेन मनुना देवि क्षेत्रपाल वलिः स्मृतः ।
गा& गी& गू& त्रय मालिख्य ङेन्तं गणपतिं ततः ॥

वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत् ।
मे वशं चानय प्रोक्ता वलिं गृह्ण द्विधा पदम् ॥

वह्निजायान्वितो मन्त्रो गणपत्य वलिं हरेत् ।
वामाङ्गुष्ठानामिकाभ्यां वटुकस्य वलिर्भवेत् ॥

अङ्गुष्ठ मध्यमा नामा योन्याकारेण योजयेत् ।

इति योगिनीनां ।

वाममुष्टिं विधायादौ तर्जनीं स वलां कुरु ।
अनया मुद्रया देवि क्षेत्रपाल वलिर्भवेत् ॥

तथा मुष्ठेस्तु मध्यस्थामङ्गुलीं दण्डवत् कुरु ।
गजतुण्ड महामुद्रा गणवत्य वलिर्भवेत् ॥

इति ।

पूर्वमन्त्रैरिति वोंकारं वीजमुच्चार्य वटुकाय नमो लिखेत् ।

यांकारं वीजमुच्चार्य योगिनीभ्यो नमस्तथा ।
सांकारं वीजमुच्चार्य क्षेत्रपालाय वै नमः ॥

गौंकारं वीजमुच्चार्य तथा गणपतिं लिखेत् ।

ङेन्तं नम इति वलिमान मन्त्रेणोक्तमिति एकत्र दृष्टः शास्त्रार्थो
वाधकमन्तरेणान्यत्रापि प्रवर्तत इति न्यायादन्यत्र इष्टं ग्राह्यं ।
नरसिंहपुराणे । आर्द्रामन कामाने कुर्याद्धोमहविर्वणीनिति । ततः
कामकलाध्यानमाह श्रीक्रमसंहितायां ।

तथा कामकला रूपमात्मानं च विचिन्तयेत् ।

तथा दक्षिणामूर्तिः ।

विन्दुं संकल्प्य वक्त्रस्तु तस्याधस्थात् कुच द्वयं ।
तदधः स परार्धं च चिन्तयेत् तदधो मुखं ॥

एवं कामकलारूपं साक्षादक्षरं रूपिणी ।
विन्दु त्रयार्द्ध मात्रा वै केवलं विश्वमातृका ॥

तुरीय स्वरस्य कामकला भूतस्य विन्दुत्रय मात्रात्मका वयव चतुष्टयस्यादि
विन्दुं देव्याः केशकर्णाद्य वयव समेत माननं विन्दुद्वयं वाहु
चतुष्टयादि समेतं स्तनद्वयं मात्रां हार्द्धरूपां पादद्वयादि समेतां
योनिं विचिन्त्य तदात्मकमात्मानं चिन्तयेदितिं भावं । तथा ।

मयूखान् परमेश्वर्याः संभाव्यमनुवित्तमः ।
खेचर्या शक्तिचक्रस्य स्वामिनीं संविदं परां ॥

योजयेदात्मनि ज्ञान गहने कृपया गुरोः ।
शिवकोणे शेषिकायै निर्माल्यं सिद्धये क्षिपेत् ॥

योजयेत् क्षमस्वेति विसर्जयेदिति वामकेश्वरतन्त्रोक्तमपि ग्राह्यं । तथा
उत्तरतन्त्रे ।

घ्रात्वा पुष्पमथैशान्यां निर्माल्यं निक्षिपेद्वुधः ।
निर्माल्यधारिणी चास्या देवी त्रिपुरचण्डिका ॥

निर्माल्यमथ गृह्णीयात् कामराज ह्वयेन तु ।

१८अ)

तथा ।

निर्माल्यं शिरसाधार्यं सर्वाङ्गेष्वनुलेपनम् ।
नैवेद्यं चोपभुञ्जीत दत्वा तद्भक्ति शालिने ॥

भविष्यपुराणे ।

अग्निहोत्र परे विप्रे वेदवेदान्त पारगे ।
सुवर्णानां सुवर्णस्य सा तदा तु यत्फलम् ॥

तत्फलं लभते राजन् पूजयित्वा तु चण्डिकाम् ।

सुवर्णस्य हेम्नः । सुवर्णानां तोलकानां । ज्ञानार्णवे ।

एनामावाध्य देवेशि कामः सौभाग्यसुन्दरः ।
हरिश्च परमेशानि त्रिपुराराधना प्रिये ॥

त्रैलोक्यमोहनो भूत्वा स्थिति कर्ता भवत् सदा ।
एतत् समाराधनात् तु ब्रह्मा सृष्टिकरो भवत् ॥

चन्द्रसूर्यौ वरारोहे सृष्टिसंहारकारकौ ।

इति । तथा ।

चक्रमभ्यर्च्य सकलं विधिवत् परमेश्वरि ।
श्रीगुरोः कृपया देवि सर्वज्ञः सर्वतत्ववित् ॥

तथा ।

यत्र वा कुत्र चिद्भागे लिङ्गं सत्पश्चिमामुखं ।
स्वयम्भू वाणलिङ्गं वा वृषशून्यं जलस्थितं ॥

पश्चिमा यतनं वापि इतरं क्वापि सुव्रते ।
शक्तिक्षेत्रेषु गंगायां नद्यां पर्वतमस्तके ॥

पवित्रेषु स्थले देवि जपद्विद्यां प्रसन्नधीः ।
तत्र स्थित्वा जपेल्लक्षं साक्षाद् देवी स्वरूपवान् ॥

ततो भवति विद्येयं त्रैलोक्य वशकारिणी ।
एवं जपं यथाशक्ति कृत्वादौ साधकोत्तमः ॥

किंशुकैर्हवनं कुर्याद् दशांशेन वरानने ।
कुसुम्भकुसुमैर्वापि मधुरत्रय मिश्रितैः ॥

विधिनोक्त प्रकारेण विघ्नौघं नाशयेत् क्षणात् ।
सर्वकामप्रदा राज्य भुक्तिमुक्ति फलप्रदा ॥

इतरत् पर्वतं लिंगं यथाशक्ति पुरश्चरणोक्त नियमावरणं
शक्तानुसारेण यद्वा होमेन सहसंवन्धः । तत्र कुसुमच्छायोक्तः
शक्त्यपेक्षणादिति । आदौ नवलक्ष प्रयोग जपस्य अन्यथा उक्त प्रत्यये नैव
होमादिक प्राप्तेरादि पद वै यर्थादिति । विघ्नौघं प्रयोगसिद्धि
प्रतिवन्धकं । सर्वकाम प्रयोगसाधन समर्था एतच्च पुरश्चरणमेव
दशांश होमस्य तद्धर्मस्य सर्वकामप्रदत्वादि फलस्य
चाप्यभिधानादत्तस्तद्धर्मोपदेशादिति न्यायात् तत्वनिर्णयात् । प्रयोगादौ
विधानादुक्तानां प्रयोगाणां कथं सिद्धिरित्या कांक्षायां पुरश्चरण
पूर्वोसौ विनियोगो विनिर्मित इति वचनात् तदभिधानस्यैव योग्यत्वाच्च । तथा
श्रीक्रमसंहितायामपि लोपाया मुक्तं ।
लक्षमेवमिद जप्त्वा सर्वपापहरो भवेदिति लक्षमात्रमिति । न च नवलक्षं
पुरश्चरणमिति वाच्यं पृथक् पृथक् फलाभिधानाद्धोमामभिधानाच्च
। वामकेश्वरतन्त्रेप्येवमेवोक्तमित् ॥

१८ब्)

इति श्रीमन्मुकुन्दविरचितायां श्रीसौभाग्यतरङ्गिण्यां तृतीया लहरी ॥


अथ प्रयोगः ॥

रजनी तुरीय यामै साधको विवुद्ध्न्यहस्तौ पादौ च प्रक्षाल्य धौतवाससी
परिधायाचम्य ब्रह्मरन्ध्रे वराभयकरं शान्तं सुप्रसन्नं निजरूपिणं
स्वगुरुं ध्यात्वा प्रणम्य मूलाधारादि
ब्रह्मरन्ध्रान्तमुद्यदादित्यसंकाशां मृणालतन्तु वदतीव सूक्ष्मां
मूलविद्यां विचिन्त्य पूजा जपहोमादिना रात्रि शेषमति वाह्यारुणोदय त्रैलोक्य
चैतन्यमपीश्वरेशी श्रीशून्यवच्चरणाज्ञयैव । प्रातः समुत्थायतव
प्रियार्थं संसारयात्रा मनुवर्तयिष्ये । संसारयात्रा मनुवर्तमानं
त्वदाज्ञया श्रीत्रिपुरे सुरेशि । स्पर्द्धातिरस्कार कलिप्रसाद भयानि नामाभि
भवन्तु मातः । जानामि धर्मं न च मे प्रवृत्तिर्जानाम्य धर्मं न च मे
निवृत्तिः । त्वया हृषीकेशि हृदिस्थयाहं यथा नियुक्तोस्मि तथा करोमि । इति
देव्याज्ञामादाय वहिर्निर्गत्य मैत्रादिकं विधाय क्ली& कामदेवाय
सर्वजनप्रियाय नम इति दन्तकाष्ठं कुर्यात् । अथ स्नानं । तत्रादौ वैदिकं
स्नानं विधाय मूलमन्त्राभिमन्त्रितं जलाञ्जलि त्रयं शिरसि निक्षिप्याद्यं
कूटमुच्चार्यात्म तत्वाय स्वधा एवं द्वितीय कूटान्ते विद्या तत्वाय स्वधा
तृतीयान्ते शिवतत्वाय स्वधा । इत्याचम्य पित्र्यादि तर्पणं समाप्य
मूलमन्त्रान्ते श्रीमहात्रिपुरसुन्दरीं तर्पयामीति त्रिवारं देवीं तर्पयेत् । अथ
सन्ध्याऽधौते वाससी परिधाय पूर्ववदाचम्य दक्षिणहस्तेन वामहस्ते जलं
निःक्षिप्य तद्गलित जलेन त्रिधा मूलेन दक्षिणहस्तेन स्वशिरसि मार्जनं
कृत्वाऽवशिष्टं जलं दक्षिणहस्तेन नासाग्र समीपं नीत्वा वहन्ना
सारन्ध्रेण कृष्णं वर्णं वामकुक्षि स्थितं ब्रह्महत्याशिरस्कं
स्वर्णहस्तेयकरं सुरापान हृदयं नानापातकाङ्गं उपपातकरोमाणं
पापपुरुषं तत्रागतं विचिन्त्याये वज्रशिलां ध्यात्वा तत्र पातयेत् । ततश्च
ह्रा& ह्री& हंसः श्रीसूर्य एषतेऽर्घ स्वाहा इति त्रिरर्घं दत्वा
भास्वद्रत्नसमूहघटित मुकुटां सद्यः संतप्तकाञ्चनाभां
पाशाङ्कुशा भयवरकरां ध्यायन् । ऐ& वागीश्वरि विद्महे क्ली&
कामेश्वरी धीमहि । सौः तत्रः शक्तिः प्रचोदयात् । इति गायत्रीं यथाशक्ति
जपित्वा जलहस्तो हृदि मूलविद्यामावर्तयन् गृहमागच्छेत् ॥

१९अ)

अथ पूजा ॥

गृहमागत्य हस्तौ पादौ प्रक्षाल्या चम्पासने उपविश्य गुरुवर्णितमार्गेण
चक्रराजं समुद्धरेत् । ह्री& श्री& समस्तप्रकट गुप्त गुप्ततर संप्रदाय
कुलकौलनि गर्भं रहस्याति रहस्य परापर रहस्य योगिनी श्रीपादुकां
पूजयामि नमः । इति चक्रराजं संपूज्यन्यासं कुर्यात् । तत्रादौ करन्यासः ।
मध्यमयोः अ& । अनामयोः आ& । कनिष्ठयोः सौः । तर्जन्योः अंगुष्ठयोः
आ& । करतल करपृष्ठयोः सौः । ततश्चासन न्यासः । पादयोः ह्री& क्ली&
सौः आत्मासनाय नमः । जंघयोः है& ह क्ली& ह्सौः चक्रासनाय नमः ।
जान्वौ ह्लौ& हस क्ली& हसौः सर्वमन्त्रासनाय नमः । मूलाधारे ह्री& क्ली&
व्ले& मध्यसिद्धासनाय नमः । हृदये तर्जनी मध्यमानामिकाभिः ऐ&
नमः हृदयाय नमः । शिरसि मध्यमानामिकाभ्यां क्ली& नमः शिरसे
स्वाहा । शिखायां अंगुष्ठेन सौः नमः शिखायै वषट् । स्कन्धादिनाभ्यन्त
देहे दशभिः ऐं नमः कवचाय हुं । नेत्र द्वय ललाटे हृद्गताभिः क्ली&
नमः नेत्राय वौषट् । दिक्षु तर्जनी मध्यमाभ्यां सौः नमः अस्त्राय फट् ॥
अथ वशिन्यादि न्यासः । शिरसि अ& आ& इ& ई& उ& ऊ& ऋ& ॠ& ऌ& ॡ&
ए& ऐ& ओ& औ& अ& अः व्लू& वशिनी वाग्देवतायै नमः । ललाटे क& ख& ग&
घ& ङ& कल्ह्री& कामेश्वरी वाग्देवतायै नमः । भ्रूमध्ये च& छ&
ज& झ& ञ& प्ली& मोदिनी वाग्देवतायै नमः । कण्ठे ट& ठ& ड& ढ&
ण& प्लू& विमला वाग्देवतायै नमः । हृदि त& थ& द& ध& न& ह्स्री&
अरुणा वाग्देवतायै नमः । नाभौ प& फ& ब& भ& म& ह स ल व यू&
जपिनी वाग्देवतायै नमः । मूलाधारे य& र& ल& व& झमरयू& सर्वेश्वरी
वाग्देवतायै नमः । मूलाधाराद् गुल्फपर्यन्तं श& ष& स& ह& क्ष्म्री&
कौलिनी वाग्देवतायै नमः । ततो ध्यानं कुर्यात् । अथार्घ साधनं । स्ववामे
चतुरस्र मण्डलं विधाय तत्र साधनं शंखं संस्थाप्य
शुद्धोदकेनापूर्य षडङ्गानि तत्र पूजयेत् । इति सामान्यर्घं स्थाप्य तज्जलेन
तत् समीपे त्रिकोणवृत्त षट्कोणगर्भं चतुरस्रं मण्डलं विधाय मध्ये
त्रिकोण षट्कोणेषु अग्नीश नै-ऋत्य वायुकोण मध्यदिक् क्रमेण समस्त
व्यस्त कूटं न षडङ्गमन्त्रैः संपूज्य तत्र शंखाधारं वह्निरूपं
विचिन्तयन् संस्थाप्यमं दशकलात्मने वह्निमण्डलाय नमः इति संपूज्य ।

१९ब्)

य& धूम्रार्चिषे नमः । रं ऊष्मायै नमः । ल& ज्वलिन्यै नमः । व&
ज्वालिन्यै नमः । श& विस्फुलिन्यै नमः । ष& सुश्रियै नमः । स& सुरूपायै
नमः । ह& कपिलायै नमः । ल& हव्य वाहनायै नमः । क्ष& कव्य
वाहनायै नमः । इति वृत्ताकारेण संपूज्य । तत्र पात्रं संस्थाप्य । अ&
द्वादश कलात्मने सूर्यमण्डलाय नम इति संपूज्य तदुपरि प्रादक्षिण्येन
वृत्ताकारेण क& भ& तपिन्यै नमः । ख& व& तापिन्यै नमः । ग& फ&
धूम्रायै नमः । घ& प& मरीच्यै नमः । ङ& न& ज्वालिन्यै नमः । च&
ध& रूच्यै नमः । छ& द& सुषुम्णायै नमः । ज& थ& भोगदायै नमः
। झ& त& विश्वायै नमः । ञ& थ&? वोधिन्यै नमः । ट& ढ&
धारिण्यै नमः । ठ& ड& क्षमायै नमः । इति सूर्यकलाः संपूज्य पूर्ववत्
त्रिकोणवृत्त षट्कोण चतुरस्रमालिख्य तद्वत् संपूज्य शर्करामिश्र दुग्धेन
मधुना शुद्धतोयेन वा संपूज्य ओं षोडश कलात्मने सोममण्डलाय
नमः । इति संपूज्य पूर्ववत् अ& अमृतायै नमः । आ& मानदायै नमः । इ&
पूषायै नमः ई& तुष्ट्यै नमः । उ& पुष्ट्यै नमः । ऊ& रत्यै नमः । ऋ&
धृत्यै नमः । ॠ& शशिन्यै नमः । ऌ& चण्डिकायै नमः । ॡ&
कान्त्यै नमः । ए& ज्योत्स्नायै नमः । ऐ& श्रियै नमः । ओं प्रीत्यै नमः । औ&
अङ्गदायै नमः । अ& पूर्णायै नमः । अः पूर्णामृतायै नमः । इति
संपूज्य पूर्वादि चतुर्दिक्षु ग्लू& गगनरत्नाय नमः । स्लू& स्वर्गरत्नाय
नमः । म्लू& मर्त्यरत्नाय नमः । प्लू& पातालरत्नाय रत्नाय नमः । मध्ये
न्लू& नगररत्नाय नमः । इति संपूजयेत् पूर्ववत् त्रिकोणवृत्त षट्कोण
चतुरस्र यन्त्रं विलिख्य त्रिकोणस्य पश्चिमाद्याग्नेयान्तां रेखां षोडश
स्वरात्मिकामाग्नेयाद्यैशायान्तांकादि षोडशात्मिकां विचिन्त्य मध्ये हसौ
विचिन्त्य पूर्ववत् समस्त व्यस्त कूट षडङ्गौ संपूज्य ओं ह्री& हंसः सोहं
स्वाहा । इति संपूज्य हसक्षमलवरयू& आनन्द भैरवाय वषट्
सहक्षमलवरयी& सुधादेव्यै वौषट् । इति मन्त्राभ्यां संपूज्य सप्तधा
मूलविद्यां जपेत् ततो धूपदीपौ दर्शयित्वा संक्षोभादि नवमुद्रा दर्शयेत् ।
ततस्तज्जलेनात्मानं पूजोपकरणानि च प्रोक्षयेत् । ततस्तदुत्तरे पाद्याचमनीय
मधुपर्कपात्राणि स्थापयेत् । ततो वैन्दवे चक्रे पूर्ववद् देवीं ध्यात्वा हसौ&
हसक्ली& हसौः नमः

२०अ)

श्रीमहात्रिपुरसुन्दरि इहागच्छेति त्रिखण्डमावाहयेत् । ततः
संक्षोभद्रावणाकर्षवश्योन्मादन महाङ्कुश खेचरी वीजयोनि मुद्राः
प्रदर्शयेत् । ततोङ्गुष्ठानामिकाभ्यां मधुघृतादिवावारत्रयं तर्पयेत् ।
ततो मूलविद्यान्ते श्रीमहात्रिपुरसुन्दरि एषतेऽर्घ स्वाहा इति गन्धपुष्पाक्षत
यव कुशाग्र तिलसर्षपदूर्वाजलानि देवी शिरसि दद्यात् । एवं पाद्यं नमः । इति
इयामाकदूर्वा कमल जलानि पादयोः । जातीलवंग कंकोल जलानि आचमनीयं
स्वधेति मुखे । कांस्ये घृतदधिमधूनिमधुपर्के स्वधेति मुखे । ततः
केवल जलेन पुनराचमनीयं । स्नानीयं नमः वस्त्रं नमः भूषणं
नमः गन्धं नमः पुष्पं वौषट् तर्जन्यङ्गुष्ठाभ्यां दद्यात् ।
धूपदीपनैवेद्यानि नमः पदेन दद्यात् । ततः पुनर्मुद्रा दर्शयित्वा त्रिधा
पूर्ववत् तर्पयेत् । ततः पञ्चदश नित्या देवी शरीरे चतुरस्राद्
वहिर्वह्निमण्डलं विभाव्य वा पूजयेत् । त्रिकोणे चेद् दक्षिण रेखायां
कोणाग्राद्याग्रे यान्तमादि पञ्चस्वरान्विभाव्य तेषु ह्री& श्री& ए& क्ली& सौः
ओं नमः कामेश्वरि इच्छाकामफलप्रदे सर्वसत्ववशंकरि सर्वजगत्
क्षोभकरि हू& हू& ऐ& ह्री& क्ली& व्लू& सः सौः क्ली& ऐ& कामेश्वरी नित्या
श्रीपादुकां पूजयामि नमः ॥ १ ॥

ह्री& श्री& आ& ऐ& भग भुगे भगिनि भगोदरि भगभगमाले भगावहे
भगगुह्ये भगयोनि भगिनि पातिनि सर्वभगवशंकरि भगरूपे नित्यक्लिन्ने
भगस्वरूपे सर्वाणि भगानि मेह्यानय वरदेरेते सुरेते भगक्लिन्ने द्रावक्ते
मयद्रावय अमोघे भविच्छेक्षु भक्षो भय सर्वसत्वान् भगेश्वरि ऐ& व्लू&
ज& व्लू& भे& व्लू& मौ& व्लू& हे& व्लू& हे& क्लिन्ने सर्वाणि भगानिमेव
शमानय स्त्री& हर व्ले& ह्री& भगमालिनी नित्या श्रीपादुकां पूजयामि नमः
॥ २ ॥

ह्री& श्री& इ& ह्री& नित्यक्लिन्ने मदद्रवे स्वाहा नित्य क्लिन्ना नित्या श्रीपादुकां
पूजयामि नमः ॥ ३ ॥

ह्री& श्री& ई& ह्रो& त्रो& क्रो& व्रो& च्छ्रो& ज्रो& ह्मौ& स्वाहा भेरुण्डा
नित्या श्रीपादुकां पूजयामि नमः ॥ ४ ॥

ह्री& श्री& उ& ह्री& वह्निवासिन्यै नमः वह्नि वासिनी नित्या श्रीपादुकां
पूजयामि नमः ॥ ५ ॥

पूर्वरेखामाग्नेयादीशानान्तमुकारादि पञ्चविभाव्य तेषु ह्री& श्री& उ& ओं
ह्री& फ्रे& सः नित्यक्लिन्ने मदद्रवे स्वाहा महाविद्येश्वरी नित्या श्रीपादुकां
पूजयामि नमः ॥ १ ॥

२०ब्)

ह्री& श्रीर्-ऋं ह्री& शिवदूत्यै नमः शिवदूती नित्या श्रीपादुकां
पूजयामि नमः ॥ २ ॥

ह्री& श्री& ऋ& ओं ह्री& ह्रू& खेचच्छेक्ष स्त्री क्षे& ह्री& फट् त्वरिता नित्या
श्रीपादुकां पूजयामि नमः ॥ ३ ॥

ह्री& श्री& ऌ& ऐ& क्ली& सौः कुलसुन्दरी नित्या श्रीपादुकां पूजयामि नमः
॥ ४ ॥

ह्री& श्री& ऌ& ऐ& क्ली& सौः हसकलरडै& हसकलरडी& हसकलरडौः
ऐ& क्ली& सौः ह्स& ह्री& क्ली& व्लू& सः नित्यानित्या श्रीपादुकां पूजयामि
नमः ॥ ५ ॥

उत्तररेखायां ऐशानादि कोणाग्नान्तेमेकारादि पञ्चविभाव्य तेषु ह्री& श्री&
ए& ओं ह्री& फ्रे& म्रू& ह्री& ह्रो& नित्यमदद्रवे हू& ह्रौ& नीलपताका नित्या
श्रीपादुकां पूजयामि नमः ॥ १ ॥

ह्री& श्री& ऐ& हसख्फ्रे& विजयायै नमः विजया नित्या श्रीपादुकां पूजयामि
नमः ॥ २ ॥

ह्री& श्री& ओं धो& सर्वमङ्गलायै नमः सर्वमङ्गला नित्या श्रीपादुकां
पूजयामि नमः ॥ ३ ॥

ह्री& श्री& औ& ओं नमो भगवति ज्वालामालिनि देवि देवि
सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वलज्वाल प्रज्वल प्रज्वल हू& हू&
र& र& र& हू& फट् स्वाहा ज्वालामालिनी नित्या श्रीपादुकां पूजयामि नमः
॥ ४ ॥

ह्री& श्री& क्रो& *? विचित्रा नित्या श्रीपादुकां पूजयामि नमः ॥ ५ ॥

ततो मध्ये विसर्गं विभाव्य तत्र ह्री& श्री& अः मूलविद्यान्ते
श्रीमहात्रिपुरसुन्दरी नित्या श्रीपादुकां पूजयामि नमः । इति पूजयेत् ततश्च
प्रतिपदि कामेश्वरीं स्वस्थाने पुनरपि वारत्रयं पूजयेदेवं द्वितीयादौ
भगमालिन्यात्मैकैकां नित्यां पौर्णमासाद्यन्तं पूजयेत् । कृष्णपक्षे
विचित्रादि कामेश्वर्यन्तं नित्यानामेकैकां पूजयेत् । तिथि वृद्धौ दिन द्वये
एकां मान्मचे(?) कस्मिन् नित्या द्वयं पूजयेदिति । ततः पुनर्मूल
देवीं पूजयेत् ततः प्राङ्मध्ययोन्तराले विमला जयिनी मध्ये पूर्वादि पंक्ति
त्रयेण स्वगुरूपदेश क्रमेण दिव्यौघ सिद्धौघ मानवौघाख्यां
गुरुपंक्ति समभ्यर्च्य मानवौघान्ते परमेष्ठि गुरुभ्यो नमः ।
परमगुरुभ्यो नमः । स्वगुरुभ्यो नम इति गुरु मात्रं पूजयेत् । तदज्ञाने ऐ&
गुरुभ्यो नमः । ऐ& गुरुपादुकाभ्यो नमः । ऐ& परमगुरुभ्यो नमः । इति
पूजयेत् । ततोन्तस्त्रिकोणमध्ये अग्निकोणे ओं ऐ& नमः हृदयाय नमः ।
ऐशान्ये ओं क्ली& नमः शिरसे नमः । नै-ऋत्ये ओं सौ नमः शिखायै
वषट् नमः

२१अ)

वायव्ये ओं ऐ& नमः कवचाय नमः । देव्यग्रे ओं क्ली& नमः नेत्रत्रयाय
नमः । पूर्वादि चतुर्दिक्षु ओं सौः नमः अस्त्राय फट् नमः । ततश्चतुरस्र
प्रथमरेखायां पूर्वादि चतुर्दिक्षुः ह्री& श्री& अणिमा सिद्धि श्रीपादुकां
पूजयामि नमः । ह्री& श्री& लघिमा सिद्धि श्रीपादुकां पूजयामि नमः । ह्री&
श्री& महिमासिद्धि श्रीपादुकां पूजयामि नमः । ह्री& श्री& इशित्वसिद्धि
श्रीपादुकां पूजयामि नमः । इति द्वारदक्षिणादि दिग्भागे पूजयेत् आग्नेयादि
कोण दक्षिणभागेषु ह्री& श्री& वशित्व सिद्धि श्रीपादुकां पूजयामि नमः ।
ह्री& श्री& प्राकाम्य सिद्धि श्रीपादुकां पूजयामि नमः । ह्री& श्री& भुक्ति
सिद्धि श्रीपादुकां पूजयामि नमः । ह्री& श्री& इच्छासिद्धि श्रीपादुकां
पूजयामि नमः । नि-ऋति वरुणयोर्मध्ये ह्री& श्री& प्राप्ति सिद्धि
श्रीपादुकां पूजयामि नमः । इन्द्रेशानयोर्मध्ये ह्री& श्री& सर्वकामप्रदा
सिद्धि श्रीपादुकां पूजयामि नमः । द्वितीय रेखायां पूर्वाद्यष्ट
वामभागेषु ह्री& श्री& ब्राह्मी देवी श्रीपादुकां पूजयामि नमः । ह्री&
श्री& माहेश्वरी देवी श्रीपादुकां पूजयामि नमः । ह्री& श्री& ऐन्द्राणी देवी
श्रीपादुकां पूजयामि नमः । ह्री& श्री& कौमारी देवी श्रीपादुकां पूजयामि
नमः । ह्री& श्री& वैष्णवी देवी श्रीपादुकां पूजयामि नमः । ह्री& श्री&
वाराही देवी श्रीपादुकां पूजयामि नमः । ह्री& श्री& चामुण्डा देवी
श्रीपादुकां पूजयामि नमः । ह्री& श्री& महालक्ष्मी देवी श्रीपादुकां
पूजयामि नमः ॥ ८ ॥

अतः परं चक्रे पूजा । अधिकफलान्विता चेत् तृतियरेखायां पूर्वादि
दिग्भागेषु ह्री& श्री& द्रा& सर्वसंक्षोभिणी श्रीपादुकां पूजयामि नमः ॥
१ ॥

ह्री& श्री& द्री& द्राविणी मुद्रा श्रीपादुकां पूजयामि नमः ॥ २ ॥

क्ली& सर्वाकर्षिणी मुद्रा श्रीपादुकां पूजयामि नमः ॥ ३ ॥

व्लू& सर्ववश्य मुद्रा श्रीपादुकां पूजयामि नमः ॥ ४ ॥

आग्नेयादि कोण वामभागेषुः सः सर्वोन्मादिनी मुद्रा श्रीपादुकां पूजयामि
नमः ॥ ५ ॥

क्रौ& महाङ्कुश मुद्रा श्रीपादुकां पूजयामि नमः ॥ ६ ॥

हस खफ्रें खेचरी मुद्रा श्रीपादुकां पूजयामि नमः ॥ ७ ॥

हसौ& वीजमुद्रा श्रीपादुकां पूजयामि नमः ॥ ८ ॥

नि-ऋति वरुणयोर्मध्ये ऐ& योनि मुद्रा श्रीपादुकां पूजयामि नमः ।
इन्द्रेशानयोर्मध्ये २ हस्रै& हस्फ्री& ह्स्रौ& त्रिखण्डा मुद्रा श्रीपादुकां
पूजयामि

२१ब्)

इति संपूज्य अणिमापुरतः ह्री& श्री& अ& आ& सौः त्रिपुरा चक्रेशी श्रीपादुकां
पूजयामि नमः । इति संपूज्य संक्षोभिणी मुद्रा दर्शयेत् । एताः
प्रकटयोगिन्यस्त्रैलोक्य मोहन चक्रे समुद्राः स सिद्धयः सायुधाः
सवाहनाः सपरिवाराः सर्वोपचारैः पूजिताः सन्तु । इति पूजां समर्पयेत् । इति
प्रथमावरणं । षोडशदले पूर्वादि प्रादक्षिण्येन ह्री& श्री& अ&
कामाकर्षणी नित्या कलाश्री ॥ १ ॥

आ& वुद्ध्याकर्षणी नित्या कलाश्री ॥ २ ॥

इ& अहंकाराकर्षणी नित्या कलाश्री ॥ ३ ॥

ई& शब्दाकर्षणि नित्या कलाश्री ॥ ४ ॥

उ& स्पर्शाकर्षणी नित्याकलाश्री ॥ ५ ॥

ऊ& रूपाकर्षणी नित्याकलाश्री ॥ ६ ॥

ऋ& रसाकर्षणी नित्याकलाश्री ॥ ७ ॥

ॠ& गन्धाकर्षणी नित्याकलाश्री ॥ ८ ॥

ऌ& चित्राकर्षणी नित्याकला श्री ॥ ९ ॥

ॡ& धैर्याकर्षणी नित्या कलाश्री ॥ १० ॥

ए& स्मृत्याकर्षणी नित्या कलाश्री ॥ ११ ॥

ऐ& वामाकर्षणी नित्या कलाश्री ॥ १२ ॥

ओं वीजाकर्षणी नित्या कलाश्री ॥ १३ ॥

औ& आत्माकर्षणी नित्या कलाश्री ॥ १४ ॥

अ& अमृताकर्षणी नित्या कलाश्री ॥ १५ ॥

अः शरीराकर्षणी नित्या कलाश्री ॥ १६ ॥

कामाकर्षणीति पुरतः ह्री& श्री& ऐ& क्ली& सौः त्रिपुरेशी चक्रेशी श्रीपादुकां
पूजयामि नमः इति संपूजयेत् । सर्वविद्रावणीं मुद्रां दर्शयित्वा एता
गुप्तयोगिन्यः सर्वाशा पूरके चक्रे समुद्रा इत्यादि पूर्ववत् । इति द्वितीयं ॥ २ ॥

अष्टदले पूर्वादि दिक्षु ह्री& श्री& क& ख& ग& घ& ङ& अनङ्ग
कुसुमादेवी श्री । २ च& ५ अनङ्गमेखला देवी श्री । २ ट& ५ अनङ्गमदना देवी
श्री । २ त& ५ अनङ्गमदनातुरादेवी श्री । आग्नेयादि कोणेषु २ घ& ५
अनङ्गरेखा देवी श्री । २ य& ४ अनङ्गवेगिनी देवी श्री । २ श& ४
अनङ्गाङ्कुशादेवी श्री । २ ल& क्ष& अनङ्गमालिनी देवी श्री ।
अनङ्गकुसुमाग्रे ह्री& श्री& ह्री& क्ली& सौः त्रिपुरसुन्दरी चक्रेश्वरी
श्रीसर्वाकर्षण मुद्रां दर्शयित्वा एताः गुप्ततर योगिन्यः सर्वसंक्षोभणे
चक्रे समुद्रा इत्यादि पूर्ववत् । इति तृतीयं ॥ ३ ॥

चतुर्दशारे पूर्वादि प्रादक्षिण्येन । ह्री& श्री& सर्वसंक्षोभणी शक्तिश्री । २
सर्वविद्रावणी शक्तिश्री । २ सर्वाकर्षणी शक्तिश्री । २ सर्वाह्लादकरी शक्तिश्री । २
सर्वसंमोहनी शक्तिश्री । २ सर्वस्तंभनी शक्तिश्री । २ सर्वजंभनी शक्तिश्री । २
सर्ववशकारिणी शक्तिश्री । २ सर्वरञ्जनी शक्तिश्री ।

२२अ)

२ सर्वोन्मादनी शक्तिश्री । २ सर्वार्थसाधनी शक्तिश्री ॥ ११ ॥ सर्वसंपत्तिपूरणी
शक्तिश्री । सर्वमन्त्रमयी शक्तिश्री । सर्वद्वन्द्वक्षयंकरी शक्तिश्री ।
सर्वसंक्षोभणीपुरतः ह्री& श्री& हे& क्ली& हसौः त्रिपुरवासिनी चक्र्श्वरीश्री
। इति संपूज्य वश्य मुद्रां प्रदर्शयेत् । एताः संप्रदाय योगिन्यः
सर्वसौभाग्यदे चक्रे समुद्रा इत्यादि पूर्ववत् ॥ इति चतुर्थं । दशारे पूर्वादि
प्रादक्षिण्येन ह्री& श्री& सर्वसिद्धिप्रदा देवीश्री । २ सर्वसंपत्प्रदा देवीश्री ।
२ सर्वप्रियंकरी देवीश्री । २ सर्वमङ्गलकारिणी देवीश्री । २ सर्वकामप्रदा
देवीश्री । २ सर्वदुःखविमोचनी देवीश्री । सर्वसिद्धिप्रदाग्रे ह्री& श्री& हसौ&
श्ली& हसौः त्रिपुरा श्रीचक्रेशी श्रीपादुकां पूजयामि नमः । इति संपूज्य
सर्वोन्मादिनी मुद्रां दर्शयित्वा एताः कुलकौलयोगिन्यः सर्वार्थसाधके चक्रे
समुद्रा इत्यादि पूर्ववत् ॥ इति पञ्चमी ॥ ५ ॥

अन्तर्दशारे पूर्वादि प्रादक्षिण्येन ह्री& श्री& सर्वज्ञा देवीश्री । सर्वशक्ति
देवीश्री । सर्वैश्वर्य फलप्रदा देवीश्री । सर्वज्ञानमयी देवीश्री । सर्वव्याधि
विनाशिनी देवीश्री । सर्वाधार स्वरूपा देवीश्री । सर्वपापहरा देवीश्री ।
सर्वानन्दमयी देवीश्री । सर्वरक्षास्वरूपिणी देवीश्री ॥ ६ ॥ सर्वेप्सित
फलप्रदादेवीश्री । सर्वज्ञाग्ने ह्री& श्री& ह्री& क्ली& व्ले& त्रिपुरमालिनी
चक्रेशी श्री । इति समर्च्य महांकुश मुद्रां दर्शयित्वा एतानि गर्भयोगिन्यः
सर्वरक्षाकरे चक्रे समुद्रा इत्यादि पूर्ववत् ॥ इति षष्ठं ॥ ६ ॥

अष्टारे पूर्वादि प्रादक्षिण्येन ह्री& श्री& अ १६ व्लू& वशिनी वाग्देवताश्री । २
क& ५ क्ल्ह्री& कामेश्वरी वाग्देवता श्री । २ च& ६ न्व्ली& मोदिनी वाग्देवता श्री । २
ट& ५ प्लू& विमला वाग्देवताश्री । २ त& ५ क्ष्म्री& अरुणा वाग्देवताश्री । २ प&
५ हसलवरयू& जयिनी वाग्देवताश्री । २ य& ४ ड्म्र्यू& सर्वेश्वरी वाग्देवताश्री
। २ श& ५ क्ष्म्री& कौलिनी वाग्देवताश्री । वशिन्यग्रे ह्री& श्री& ह्री& श्री& सौः
त्रिपुरा सिद्धा चक्रेशी श्रीपादुकां पूजयामि नमः । इति संपूज्य खेचरी
मुद्रां दर्शयित्वा एता रहस्य योगिन्यः सर्वरोगहरे चक्रे समुद्रा इत्यादि
पूर्ववत् ॥ इति सप्तमं ॥ ४० ॥ अष्टत्रिकोणान्तरारे पूर्वादि चतुर्दिक्षु युग्मशः
ह्री& श्री& द्रा& द्री& क्ली& व्लू& सः जम्भन कामेश्वरवाण श्री । श्री&
द्रा& द्री& क्ली& व्लू& सः जम्भन कामेश्वरी वाणश्री । ह्री& श्री& ख&
मोहन कामेश्वर वाणश्री ।

२२ब्)

ह्री& श्री& ख& मोहन कामेश्वरी वाणश्री ॥ २ ॥ ह्री& श्री& आ& वशीकरण
कामेश्वरपाशं श्री । ह्री& श्री& आ& वशीकरण कामेश्वरीपाश श्री ॥ २ ॥
ह्री& श्री& क्रो& स्तम्भन कामेश्वराङ्कुश श्री । ह्री& श्री& क्रो& स्तम्भन
कामेश्वर्यङ्कुशश्री ॥ २ ॥ त्रिकोणाये ह्री& श्री& आद्यकूटं कामेश्वरी
रुद्रशक्तिश्री । दक्षिणकोणे ह्री& श्री& द्वितीयकूटं वज्रेश्वरी विष्णुशक्तिश्री ।
उत्तरकोणे ह्री& श्री& तृतीयं भगमालिनी ब्रह्मशक्तिश्री । कामेश्यग्रे ह्री&
श्री& क्ष्म्रै& हसक्ली& हसौः त्रिपुराम्विका चक्रेशीश्री । वीजमुद्रां वहुधा
एताः परापर रहस्य योगिन्यः सर्वसिद्धिप्रदे चक्रे समुद्रा इत्यादि पूर्ववत् ॥
इत्यष्टमं ॥ ८ ॥

वैन्दवे ह्री& श्री& कूटत्रयं श्रीमहात्रिपुरसुन्दरी श्रीपादुकां पूजयामि
नमः इति संपूज्य । पुनरपि तथैव तामेव चक्रेशीं संपूज्य त्रिवारं
तर्पयित्वा योनिमुद्रां वध्वा पुनः सर्वामुद्रा दर्शयेत् । ततश्च
धूपाधारं सौः नमः अस्त्राय फट् इत्यस्त्रेण प्रोक्ष्य ऐ& नमः हृदयाय
नम इत्यभ्यर्च्यास्त्र मन्त्रार्चितां षण्यं वादयन्मूल विद्यान्ते ओं वनस्पति
रसोत्पन्ना गन्धाढ्यो गन्ध उत्तमः । आग्नेयः सर्वदेवानां धूपोयं
प्रतिगृह्यताम् । इति धूपं निवेदयेत् । मूलविधान्ते ओं सुप्रकाशो महादीपः
सर्वतस्तिमिरापहः । सवाह्याभ्यन्तरं ज्योतिर्दीपोयं प्रतिगृह्यताम् । इति दीपं
निवेदयेत् । ततः पायसादि षड्रसोपेतं नैवेद्यमानीय मूलविद्यान्ते । ओं
हेमपात्रगतं दिव्यं परमात्रं सुसंस्कृतम् । पञ्चधा षड्रसोपेतं
गृहाण परमेश्वरि । इति निवेद्य सकर्पूरं ताम्वूलं समर्पयाग्निं
संस्कृत्य मूलविद्यान्ते । ओं प्राणाय स्वाहा । ओं अपानाय स्वाहेत्यादि
पञ्चाहुतिर्दत्वा । ऐ& नमः हृदयाय स्वाहा । क्ली& नमः शिरसे स्वाहेति
षडङ्ग मन्त्रैः स्वाहान्तैः षडाहुतिर्जुहुयात् । ततो यथाशक्ति मूलविद्यां
जपित्वा ।

ओं गुह्यातिगुह्यगोप्त्रीत्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत् प्रसादा त्वयि स्थिते ॥

इति देव्यै जपं समर्प्य स्तुवीत । श्रीमच्छ्रीकोष हृदयं
पञ्चसिंहासनात्मकम् । फलं कल्पलता मां तु चारु रत्न स्फुरत् करम् ।

चतुरभ्यतनानन्दि चतुरन्वय कोषगम् ।
नित्यानन्दि परंब्रह्म धामनौमि सुखाप्तये ॥ २ ॥

गणेश ग्रहनक्षत्रयोगिनीराशि रूपिणी ।

हरीं मन्त्रमयीं नौमि मातृकां पीठरूपिणीं ॥ १ ॥

२३अ)

प्रणमामि महादेवीं मातृकां परमेश्वरीं ।
कालहल्लोलहेल्लोलकलनाशमकारिणीं ॥ २ ॥

पदक्षरैकमात्रेपि संसिद्धे स्यर्द्धते नरः ।
रचितार्क्षेन्दु कन्दर्प शांकरानरविष्णुभिः ॥ ३ ॥

यदक्षरशशिज्योत्स्ना मण्डितं भुवनत्रयम् ।
वन्दे सर्वेश्वरीं देवीं महाश्री सिद्धमातृकाम् ॥ ४ ॥

यदक्षर महासूत्र प्रोतमेतज्जगत्रयम् ।
ब्रह्माण्डादिक वाहान्तं तां वदे सिद्धमातृकाम् ॥ ५ ॥

यदेकादशमाधार वीजं कालत्रयात्मकम् ।
ब्रह्माण्डादि कटाहान्तं जगदद्यापि दृश्यते ॥ ६ ॥

अकचादिटतोन्नद्ध पयशाक्षर वर्गिणीं ।
ज्येष्ठांग वाहु हृत्पृष्ट कटि पादाङ्गसुन्दरीं ॥ ७ ॥

तामीकाराक्षरोद्धारां सारात् सारां परात्परां ।
प्रणमामि महादेवीं परमानन्दरूपिणीं ॥ ८ ॥

अद्यापि यस्या जानन्ति नमनागपि देवताः ।
केयं कस्मात् क्वकेनेति सुरूपा रूप भावनाम् ॥ ९ ॥

वन्देतामहमक्षैयक्षकाराक्षर रूपिणीम् ।
देवीं कुलकलोल्लोलप्रोल्लसत्तीं परां शिवां ॥ १० ॥

वर्गानु क्रमयोगेन यस्यां मात्र्यष्टकं स्थितं ।
वन्देतामष्टवर्गाथ महासिद्धाष्टकेश्वरीं ॥ ११ ॥

कामपूर्णजकाराख्य श्रीपीठान्तर्निवासिनीं ।
चतुराज्ञाकोषभूतां नौमि श्रीत्रिपुरामहम् ॥ १२ ॥

इति वामेश्वरोक्तैर्द्वादशभिः श्लोकैः स्तुवीत ॥

सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंवके गौरि नारायणि नमोस्तुते ॥

इति श्लोकं सप्तधा पठन् । ऐ& ह्री& श्री& इति मन्त्रैः प्रञ्चप्रणामान् कुर्वीत
। ततः स्वर्णादि पात्रे गन्धाष्टक दलकमलं विलिख्य तत्र यवगोधूमपिष्टादि
रचितानि नवदीपपात्राणि संस्थाप्य घृतेनापूर्य दीपान् कृत्वा । ह्री& श्री&
ग्लू& म्लू& प्लू& न्लू& ह्री& श्री& इति रत्नेश्वर्याभि मन्त्र्य चक्रमुद्रां
दर्शयित्वा विद्यवाभ्यर्च्योत्थाय तत्पात्रमुद्धृत्य मस्तकादि पादान्तं
मूलविद्यान्ते ।

ओं समस्तचक्र चक्रेशी युते देवि नवात्मिके ।
आरात्रिकंमिदं देवि गृहाण मम सिद्धये ॥

इति मन्त्रं पठन्नव कृत्वा नीराजयेत् । ततो देवी दक्षिणे संस्थाप्यासने
समुपविश्य स्ववामे त्रिकोणवृत्त गर्भ चतुरस्रं मण्डलं विधाय । ऐ&
ह्री& व्यापकमण्डलाय नमः इति संपूज्य श्रीचक्रस्येशानाग्नि नै-ऋत
वायुकोणेषु पूर्ववन् मण्डल चतुष्टयं विलिख्य । वां वटुकाय नमः या&
योगिनीभ्यो नमः क्षा& क्षेत्रपालाय नमः गा& गणपतये नमः इति मन्त्रैः
क्रमेण पूजयेत् । ततो वामाङ्गुष्ठनामिकाभ्यां ।

२३ब्)

एह्येहि देवीपुत्र वटुकनाथ जटाभारभासुर त्रिनेत्र ज्वालामुख
सर्वविघ्नान्नाशय नाशय सर्वोपचार सहित वलिं गृह्ण गृह्ण स्वाहा ।
वामाङ्गुष्ठ मध्यमानामिकाभिर्योन्याकारेण । ओं ऊर्ध्व ब्रह्माण्डनो
वा दिवि गगनतले भूतले निष्करे वा पाताले वा तले वा सलिलपवनयोर्य च कुत्र
स्थितो वा । क्षेत्रे पीठोपपीठादिषु च कृत यदा धूपदीपादिकेन प्रीता देव्यः
सदानः शुभवति विधिना पान्तु देवेन्द्र वन्द्याः । या& यागिनीभ्यः स्वाहा
सर्वयोगिनीनां हूं फट् स्वाहा । वाममुष्टे तर्जनी सवलां कृत्वाः क्षा&
क्षी& क्षु& क्षै& क्षौ& क्षः स्थान क्षेत्रपाल धूपदीपादि सहितं वलिं
गृह्ण गृह्ण स्वाहा । वामे मुष्टेर्मध्यां सवलां कृत्वा । गा& गी&
गू& गणपतये वरवरद सर्वजनंमेव शमानय वलिं गृह्ण गृह्ण
स्वाहा । इति क्रमेण वलि चतुष्टयं दत्वा पूर्ववत् कृतमण्डले वल्याधारं
निक्षिप्य । ओं ह्री& सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हूं स्वाहा । इति त्रिधा
समुच्चरन् वलिं दद्यात् । ततः कामकलाध्यानं । विन्दुं केशकर्णाद्यवयव
समेनमाननं विन्दुद्वयं वाहु चतुष्टय समेतस्तन मण्डलमात्रां
पादद्वयादि समेतां योनिं विभाव्यात्मानं तद्रूपं विभावयेदिति । ततः
खेचरी मुद्रया देवीं आत्मनि क्षमस्वेति योजयेत् । ततश्च निर्माल्य माम्नाय
त्रिपुरचण्डिकायै नमः इत्यैशान्यां क्षिपेत् । ततो भगवती प्रसादं
तद्भक्तेभ्यो दत्वा स्वयमपि प्राश्नीयात् । इति ॥

इति श्रीमुकुन्दविरचितायां श्रीसौभाग्यतरङ्गिण्यां चतुर्थी लहरी ॥


अथाग्निस्थापनं । ज्ञानार्णवे ।

कुण्डं सुलक्षणं कृत्वा ईशाने मण्डपस्य तु ।
अङ्गुष्ठपर्व मात्रोष्ठ वालुका मण्डलं च वा ॥

तत्र चोल्लेखनं कुर्यात् त्रिरेखाः पश्चिमान् प्रिये ।
पूर्वाग्रादि लिखेत् पश्चात् तिस्रोरेखास्तु दक्षिणात् ॥

उत्तरान्तास्ततो देवि कारयेद्धृदयानुना ।
प्रोक्षणं च ततः कृत्वा सिन्दूरेण ततः परम् ॥

कुंकुमे नाथ वा देवि कर्पूर रजसाथवा ।
चूर्णेन वा हरिद्राया धान्यचूर्णेन वा प्रिये ॥

त्रिकोणं चैव षट्कोणं वसुपत्रं समालिखेत् ।
मध्ये पुष्पं विनिक्षिप्य त्रिपुरेश्या वरानने ॥

ततः स्रुवादि पात्राणां पवित्रीकरणं भवेत् ॥

हृदयानुनेति उल्लिखेदस्त्रराजेनदर्भकाण्डेन यत्नत इति नारद
पञ्चरात्रोक्तेन सह विकल्प्यते । प्रोक्षणं कुश जलैर्वा वाग्भवेन

२४अ)

उत्तानहस्ताग्रेण अभ्युक्ष्य कुशाम्भोभिरिति सारसमुच्चयात् प्रोक्षयेद्
वाग्भवेनेति सौत्रामणी तन्त्र वचनात् उत्तानेन हस्ताग्रेण प्रोक्षयेदिति सूत्रणात् ।
रेखा सहत्रिकोणादीनां विकल्पः । अथ वा षट्कोण वृत्तेति प्रपञ्चसार
सारदातिलक वचनात् यामल पञ्चरात्रयोर्निरपेक्ष श्रुतेश्च ।
तदथाधिदभश्चिदूर्वाश्च द्विधाकृत्य वरानने ।

आज्यस्थाली च रूस्थाली द्विधा कृत्य वरानने ।
आज्यस्थालीं च रुस्थालीं स्थापयेद् युग भेदतः ॥

स्रुवं स्रुचं ततः पश्चात् प्रणीतां प्रोक्षणीं तथा ।
द्वन्द्वशः परमेशानि स्थापयाधो मुखानि च ॥

अथ पात्र मुदकं गृहीत्वा प्रोक्षणीं यजेत् ।
त्रिधाचोत् पवनं कृत्वा प्रोक्षयेत् तेन वारिणा ॥

तानि सर्वाणि पात्राणि पवित्रीकरणं भवेत् ।
उन्मुखानि ततः कृत्वा वालयाच्चाभि मन्त्रयेत् ॥

उत्पवनं अंगुष्ठोपकनिष्ठाभ्यां दर्भाप्रादेशसंमितौ । धृत्वा
पुनीयादस्त्रेण घृते मुत्पवनं त्विदमिति उत्पुनीयादाप्लवेति शारदा तिलकोक्तं


परिस्तीर्य च दूर्वाभिः कुण्डस्य परितः प्रिये ।
दूर्वाय मुत्तरायं च परिस्तरणमुच्यते ॥

परितः पूर्वादि चतुर्दिक्षु षोडशभिः । स्रुवं गृहीत्वा वामेन करेण
स्वमुखं ततः । दर्भाङ्कुरेण तद्वक्त्रं पश्चिमात् पूर्वादिकं ।

त्रिवारं परिमृज्यदावधस्तात् करमानयेत् ।
उपविष्टात् ततो देवि यावदुक्तं तु मन्त्रयेत् ॥

वालयाथ वरारोहे पवित्राणि भवन्ति हि ।

अधस्तास्रुवस्याभि मन्त्रणार्थमिति भावः । यावद् वक्त्रं
दण्डमूलमारभ्येत्यर्थः ।

मूलविद्यां समुच्चार्य कुण्डाय नम आलिखेत् ।
अनेन मनुना देवि कुण्डं संपूजयेत् ततः ॥

कामेश्वरीं कुण्डमध्ये स कामासृ तु संयुतां ।
समावाह्य च संपूज्य तद्गर्भे वह्निमावहेत् ॥

मूलविद्या नेत्रमस्त्रस्तं द्वयेन विलोकयेत् ।
अस्त्रमन्त्रेण संलिख्य संपुटस्थं ततः परं ॥

भ्रामयेत् कुण्डपरितस्त्रिधा दक्षिणतः क्रमात् ।
संपुटादग्निमुद्धृत्य हुं फडन्तेन संत्यजेत् ॥

क्रव्यादांशं कोणभागे रक्षसांवीरवन्दिते ।
कवचेन च संपूज्य जानुभ्यामवनीं गतः ॥

कुण्डमध्ये प्रतिष्ठाप्य कामवीजं च वह्नि च ।
मूर्तये नम आलिख्य मनुना पूजयेच्छिखिं ॥

नाभिमण्डलमध्यस्थं वहन्नाडी पुट क्रमात् ।
ज्ञानाग्नि वाह्य वह्निं च एकीकृत्य च पूजयेत् ॥

मूलविद्यां समुच्चार्य आं सोहमिति चोच्चरेत् ।
वह्नि चैतन्यमुच्चार्य ङेन्तं हृन्मन्त्रसंयुतं ॥

२४ब्)

अनेन मनुना गर्भे कामेश्वर्या विचिन्तयेत् ।
वह्निर्देहे षडङ्गानि योजयेत् सुरवन्दिते ॥

सहस्रार्चिः स्वस्ति पूर्ण उत्तिष्ठ पुरुषस्तथा ।
धूमव्यापी सप्तजिह्वा धनुर्धर उदाहृतः ॥

चतुथ्यन्तान् षडङ्गेषु योजयेत् कमले क्षणे ।
वह्नेर्देहे इतितं सकली कुर्यादित्यर्थः ॥

तारं वैश्वानरे प्राप्ते जातवेद इहावह ।
लोहिताक्ष ततः सर्व कर्माणि साधयेत् यथ ॥

वह्नि जायान्वितो मन्त्रो वह्निं सम्यक् समर्चयेत् ।
ध्यायेद् वह्निं हेमवर्णं शक्तिस्वस्तिक धारिणं ॥

वरदाभय शोभाढ्यं सुवर्णवरभूषणं ।
एवमेनं समभ्यर्च्य तन्मुखे कमलेक्षणे ॥

षट्कोणं चिन्तयेत् तत्र सप्तजिह्वाः समर्चयेत् ।

प्रपञ्चसारे ।

अनलेरार्घि विन्द्वन्ताः साधियान्ताक्षरान्विताः ।

अनेन रेफः । इरो वायुः अर्घी उकारः ।

हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा ।
वहुरूपा च रक्ता च जिह्वा सप्तेति सात्विकाः ॥

तथा । सोमशंभू रुद्रन्द्र वह्नि मांसादवरुणानिलगोचरे । हिरण्याद्याः
स्थिता वह्ने रसना षट् ह्यनुक्रमात् । मध्यतो वहुरूपान्त्विदमिति वायवि
संहितायां । त्रिशिखा मध्यमा जिह्वा वहुरूपा समाह्वया । तच्छिखा
दक्षिणतो ज्वलन्ती वामतः परा । ज्ञानार्णवे । क्रमेण जिह्वा वीजान्तेन पूजयेत् ।
षट्कोणेषु षडङ्गानि वसुकोणेषु मातरः ।

लोकपालांश्च भूविम्वे वह्निं प्रौढं समर्चयेत् ।
ब्रह्माणं दक्षिणेभ्यर्च्य कामेशीं च विसर्जयेत् ॥

वह्निं संपूज्य विधिवत् तन्मुखे शैलसंभवे ।
चक्रराजं समावाह्य सर्वरश्मि समन्वितं ॥

नित्यहोमं ततः प्रोक्तं कामना होममाचरेदिति ।

मातरः ब्रह्माण्याद्याः लोकपालांश्च इन्द्रमग्नियमं देवि राक्षसं
वरुणं तथा ।

वायुं कुवेरमीशानं पूर्वादि क्रमतो यजेत् ।
ब्रह्माणं चैव विष्णुं च ऊर्ध्वाधः क्रमतो यजेदिति स्वोक्ताः ॥

अथ प्रयोगः । गोमयेन यज्ञभूमिमुपलिप्य सुलक्षणं कुण्डं अङ्गुष्ठ
पर्वोब्धं वालुका स्थण्डिल आकृत्वा तत्समीपे स्रुक्स्रुवौ व्यञ्जन
पूर्णपात्रमाज्यस्थाली प्रणीता प्रोक्षणीपात्रं नूनमूलकुशमुष्टि
दूर्वासाग्नकुशपत्रत्रयं शुष्केन्धनं धूपादि वलिद्रव्यं कुशोपरि
युग्मशश्चाधो मुखानि स्थापयेत् । ततः कुण्डे स्थण्डिले वा ।

ऐ& हृदयाय नम

२५अ)

इति प्रागग्रा उदगग्राश्चेति नास्तिस्रो रेखाः कुशमूलेन विलिख्य षट्कोणाब्द
तत्रिकोकार्णकमष्टदलकमलं वा वालया तत्र पुष्पं निक्षिप्य उत्तान
हस्ताग्रेण कुशजलैः ऐ& इति मन्त्रेण प्रोक्षयेत् । ततः प्रोक्षणी पात्रं
जलेनापूर्य उत्तान हस्त द्वयाङ्गुष्ठानामिकाभ्यां पवित्राग्रं मूले
विधृत्य वामोपरि दक्षिणन्यास क्रमेणाधो मुखौ हस्तौ कृत्वासौः नमः
अस्त्राय फडिति पवित्र मध्येन जलं भूमौत्रिर्निक्षिपेत् । ततस्तेन सर्वाणि
यज्ञोपकरणानि प्रोक्षयेत् । ततः कुण्ड पूर्वत उत्तरादि दक्षिणान्तं उत्तरतः
पूर्वाग्नैः पश्चिमादि पूर्वान्तमिति । ततश्च वामेन पाणिना
स्रुवमात्माभिमुखं गृहीत्वा दर्भेण तद्वक्त्रं त्रिःपरिमृज्य वामकरं
स्रुवाधः कृत्वा उपरिमूलादग्र पर्यन्तं ऐ& क्ली& सौः इत्यभि मन्त्रयेत् ।
एवं स्रुचमपि । स्रुवा भावे पलाश मध्य पत्राभ्यां पिप्पल पत्राभ्यां
होमः । ततो मूलविद्यान्ते कुण्डाय नमः इति कुण्डं संपूज्य कामेश्वरी स
कामामृतुमतीं तत्र विचिन्त्य वाह्य भुवनेशी साध्य विधाभ्यामुभयं
संपूज्य श्रोत्रियगेह जात्यग्नि मानीय मूलविद्यान्ते क्ली& नमः नेत्रत्रयाय
वौषट् इति वीक्ष्य सौः नमः अस्त्राय फडिति रक्षित्वा ताम्रादि पात्रस्थमग्निं
कुण्डपरितः प्रादक्षिण्येन त्रिपरिभ्राम्य(?) हु& फडिति
संपूज्य ऐ& नमः कवचाय हुं इति क्रव्यादांश नै-ऋत्य कोणे क्षिप्त्वा
कुण्डमध्ये कामेश्वरी गर्भे संस्थाप्य क्ली& वह्निमूर्तये नम इति संपूज्य
देहस्थ ज्ञानाग्नि वाह्यभ्यामैक्यं विभाव्य मूलविद्यान्ते आ& सोहं वह्नि
चैतन्याय नमः इति मनुना कामेशी गर्भे विचिन्त्य सहस्रार्चिषे हृदयाय
नमः स्वस्ति पूर्णाय शिरसे स्वाहा । उत्तिष्ठ पुरुषाय शिखायै वषट्
धूमव्यापिने कवचाय हुं । सप्तजिह्वाय नेत्रत्रयाय वौषट् । धनुर्द्धराय
अस्त्राय फट् । इति सकलीकृत्य । ओं वैश्वानर जातवेद इहावह लोहिताक्ष
सर्वकर्माणि साधय स्वाहा । इत्यग्नि समभ्यर्च्य हेमाभं शक्तिं स्वस्तिक
वरदाभयकरं स्वर्णभूषणं चिन्त्य तन्मुखे षट्कोणस्यैशान्ये स्र्यू&
हिरण्यायै नमः ऐन्द्रे ष्र्यू& कनकायै नमः आग्नेये श्र्यू& रक्तायै नमः
नै-ऋत्ये व्र्यू& कृष्णायै नमः पश्चिमे ल्र्यू& सुप्रभायै नमः
वायव्ये ड्र्यू& अतिरक्तायै नमः मध्ये य्र्यू& वहुरूपायै नमः । इति
संपूज्य एवमेव षट्कोणेषु षडङ्गानि अष्टदलेषु

२५ब्)

ओं ब्रह्माण्यै नमः ओं माहेश्वर्यै नमः ओं इन्द्राण्यै नमः ओं
कौमार्यै नमः ओं वैष्णव्यै नमः ओं वाराह्यै नमः ओं चामुण्डायै
नमः ओं महालक्ष्म्यै नमः । भूगृहे ओं इन्द्राय नमः ओं अग्नये नमः
ओं यमाय नमः ओं नि-ऋतये नमः ओं वरुणाय नमः ओं वायवे
नमः ओं कुवेराय नमः ओं ईशानाय नमः ऐन्द्रेशानयोर्मध्ये ओं
ब्रह्मणे नमः रक्षोवरुणमध्ये ओं विष्णवे नमः दक्षे ब्रह्मणे नमः इति
संपूज्य कामेशि क्षमस्वेति तां विसृज्याग्निं समभ्यर्च्य तन्मुखे
चक्रराजं ध्यात्वा तत्र देवीमावाह्य स्वाहान्तेन मूलमन्त्रादिना स्तुत्वा
नमोन्त मूलविद्यया पूर्णाहुति त्रयं दत्वा क्षमस्वेति खेचरी मुद्रया देवीं
विसर्जयेत् । इति होमपर्यायः ॥ अथ सदाचारः ॥ तत्र प्रयोगसारे ।

देवस्थाने गुरुस्थाने श्मशाने वा चतुष्पथे ।
पादुकासन विण्मूत्र मैथुनानि परित्यजेत् ॥

देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताः ।
सिद्धं सिद्धाधिवासांश्च श्रीपूर्व समुदीरयेत् ॥

गुरौ विशेषमाह नारद पञ्चरात्रे ।

यथा तथा यत्र तत्र न गृह्णीयाच्च केवलं ।
अभक्त्या तु गुरोर्नाम गृह्णीयाच्च यतात्मवान् ॥

प्रणवः श्री ततो नाम विष्णुशब्दोप्यनन्तरं ।
पादशब्दसमेतः स्यान्नतमूद्वाञ्जलिर्युतः ॥

ओ& श्री अमुक विष्णुपाद इति विष्णुपादमुपलक्षणं तेन अमुकशक्ति पाद इति ।

प्रमत्तामन्त्यजां कन्यां पुष्पितां पतितास्तनीं ।
विरूपां मुक्तकेशीं च कामार्तां च न निन्दयेत् ॥

कन्या योनिं पशु क्रीडां दिग्वस्त्रां प्रकटस्तनीं ।
नालोकयेत् परद्रव्यं परदारांश्च वर्जयेत् ॥

धान्यगो गुरुदेवाग्नि विद्याकोष नरान् प्रति ।
नैव प्रसारयेत् पादौ नैतानपि च लंघयेत् ॥

आलस्य मद संमोह शाठ्यं पैशून्य विग्रहान् ।
असूयामात्मसंमानं परनिन्दां च वर्जयेत् ॥

लिङ्गिनं वतिनं विप्रं वेदवेदाङ्ग संहिताः ।
पुराणागम शास्त्राणि कन्यांश्चापि न दूषयेत् ॥

युगं मुशलमश्मानंदामधुल्लीमुल्लूस्वलम्(?) ।
सूर्पसंमार्जनी दण्ड ध्वज वैडूर्यमायुधम् ॥

कलशं चामरं छत्रं दर्पणं भूषणं तथा ।
भोगयोग्यानि चान्यानि योगद्रव्याणि चानि च ॥

महास्थानेषु वस्तूनि यानि वा देवतालये ।
दिव्योक्तानि पदार्थानि भूता विष्टानि यानि वै ॥

लङ्घयेद् गात्र नैतानि नैतानि च पदा स्पृशेत् ।
योगोष्ठी लोक विद्विष्टाया च स्वैव विसर्पिणी ॥

परहिंसा *? काया च न नामवतरेत् सदा ।
प्रतिग्रहं न गृह्णीयादात्मभोगविधित् सदा? ॥

२६अ)

देवता तिथि पूजार्थ यत्ननोपार्जयेद्धनं ।
धारयेदार्जवं सत्यं सौशील्यं समताधृतिं ॥

क्षान्तिं दयां मनास्थां च दिव्यां शक्तिं च सर्वदा ॥

मन्त्रतन्त्रप्रकाशे ।

विभीतकार्ककारञ्जस्रुहीच्छायां न चाश्रयेत् ।
स्तम्भ दीप मनुष्याणां मन्येषां प्राणिनां तथा ॥

नखाग्रकेशनिस्पूत स्नानवस्त्रघटादिकं ।
एतत् स्पर्शं त्यजेद् दूरं खराश्वाजरजस्तथा ॥

सोमशम्भौ ।

न निन्देत् कारणं देवं न शास्त्रं तेन निर्भितं ।
न गुरुं साधकं चैव लिङ्गच्छाया न लंघयेत् ॥

नाद्या लंघं न निर्माल्यं तदाद्याच्छिव दीक्षिते ।
रम्यंमप्युज्वलमपि मनसोपि समीप्सितं ॥

लोकविद्वेषणं वेषं न गृह्णीयात् कथञ्चन ।

तथा ।

योगेशी सिद्धिमन्विच्छन्सद्व्रतानि समाचरेत् ।
नाद्यादनर्चयन्देवी नैव स्यान्मलिनाकृतिः ॥

ना सत्यं प्रवदेत् किञ्चित् क्षेपेयां विधवां क्वचित् ।
धारयेत् सर्वतोरम्यं रक्तालंकारमन्वहं ॥

कन्यां रक्त दिने रक्तां यजेद् देवी मनुस्मरन् ।
अशुद्धो विचरेन् नैव विविक्ते शयने स्वपेत् ॥

न निन्दयेत् स्त्रियं जातु विशेषेण तु कन्यकाम् ।

रक्तदिने मङ्गलवारे । रक्तां अङ्गरागादिना । तथा ज्ञानार्णवे ।

कन्यका पूजिता येन त्रैलोक्यं तेन पूजितं ।

सपर्यापर्यायोऽग्ने प्रपञ्चयिष्यते । स्त्रीषु देव्याः प्रकाशाति शयान्निन्दा
निरोधः । नित्य क्लिन्नायामपि सर्वत्रावस्थिता होमाकामिनीषु विशेषतः ।

प्रकाशते ततस्तासामति वृत्तिं न कारयेत् । इति । कालिकापुराणे ।

यः कुर्यात् तु महामाया भक्तिमेकाय मानसः ।
अङ्गिनावाङ्ग मन्त्रेण तेन कार्यमिदं परं ॥

फलं पुष्पं च ताम्वूलमत्र पानादिकं च यत् ।
अदत्वा तन्महादेव्यै न भोक्तव्यं कदाचन ॥

पार्थिवा पर्वताये वा सभायामपि साधकः ।
तथा तस्यै निवेद्यैव स्वमर्थमुप कल्पयेत् ॥

दृष्ट्वेव मदिराभाण्डं रक्तवस्त्रास्तथास्त्रियः ।
सिंहं शवं रक्तपुष्पं व्याघ्रं वारणसंगमं ॥

गुरुं राजानमथवा महामायां ततो नमेत् ।
पतित्रतायां भार्यायां पदैव ऋतु सङ्गमः ॥

क्रियते चण्डिकां ध्यात्वा तदा कार्या विभूतये ।
शान्तिकं पौष्टिकं वापि तथेष्ट पूर्तकर्मणि ॥

यदा कुर्यात् तदा नत्वा देवीं यात्रा समाचरेत् ।
तौर्यत्रिकं यदा पश्येत् केवलं गीतमेव वा ॥

तच्च देव्यै निवेद्यैव कर्तव्यं स्वोप योजनम् ।
यदैव भूषणं वासोमलयोद्भवमेव वा ॥

स्वकामे विनियुञ्जीत तच्च मन्त्रं धियान्यसेत् ।
व्यायामे च विधाने च सभायां वा जले स्थले ॥

२६ब्)

यत्र तत्र स्वयं गच्छेत् तत्र देवीं धिया स्मरेत् ।

फलादिकं अदत्वा न भोक्तव्यमित्यनेन निवेद्यैवेत्यनेन किञ्चिद् देयं किञ्चिद्
भोज्यमिति वा ज्ञेयं तदेव भोज्यमिति वा विधीयते तत्र दन्तायहार प्रसङ्गात्
विनियोग विरोधाच्च पूर्वोक्त एव समीचीन इति वदन्ति । वस्तु तस्तु किञ्चिदग्र शेषादि
यदा भावात् कर्मान्तरा श्रुतेर्निवेदन भोजनयोरेक कर्म कल्पनादुत्तरः
पक्ष श्रेयानिति । नरोक्त दोषावसावा वचनादेव । तथा ।

प्रवासे याथ दुर्गे वा स्थाना प्राप्तौ जलेपि वा ।
कारागार निवद्धो वा प्रायो देश गतोपि वा ॥

कुर्यात् तत्र महामाया पूजा वै मानसं वुधः ।
मनोभये समुत्पन्ने सिंहव्याघ्र समाकुले ॥

परचक्रागमे चैव कुर्यान् मानस पूजनं ।
मनसा हृदयस्यान्तर्ध्यात्वा योगाख्य पीठकं ॥

तत्रैव पृथिवी मध्ये पूजां तत्र समाचरेत् ।
मैत्रं प्रसाधनं स्नानं दन्तधावन कर्म वै ॥

अन्यच्च सर्वं मनसा ध्यात्वा कुर्याच्च पूजनम् ।
यथा पुष्पादिभिः पूजा वहिर्देशे विधीयते ॥

तथा हृद्यपि कर्तव्याः सर्वाश्च प्रतिपत्तयः ।
प्रायोदेशगतः आरवधानशनः व्रतः ॥ तथा ॥

अष्टम्यां सततं देवी याजकः स्यात् सदाव्रती ।
नवम्यां तु सदा पूजा कर्तव्यालिजशोणितैः ॥

सदेत्यनेननोपवासस्य नित्यतोक्ता विप्रेतरपरं स्वगात्रशोणित दानं ।

यः शिवाविरुतं श्रद्धा शिव दूतीं शुभप्रदां ।
प्रणमेत् साधको भक्त्या तस्य कामाः करे स्थिताः ॥

नारद पञ्चरात्रे ।

स्वमन्त्रोनोपदेष्टव्या वक्तव्यश्च न संसदि ।
गोपनीयं सदाशास्त्रं रक्षणीयं शरीरवत् ॥

कार्या यतन यात्रा च तत्र दानं च शक्तितः ।
पठनं श्रवणं कुर्याच्छास्त्राध्ययनडे?व च ॥

सामान्य सिद्धौ रक्षार्थं परेषां न कदाचन ।
प्रयोक्तव्यः स्वमन्त्रश्च आपत्यपि च नाचरेत् ॥

गारुडं भूतवादं वा भया स्वार्थेन वा मुने ।
कृपया परया कुर्यादनाथेषु असंसदि ॥

प्रदक्षिणे प्रयाणे च प्रदान च विशेषतः ।
प्रभाते च प्रवासे च स्वमन्त्रं वहुशः स्मरेत् ॥

स्वप्ने वापि समक्षं वा आश्चर्यमतिहर्षदं ।
अकस्माद् यदि जायेत न ख्यातव्यं गुरार्विना ॥ तथा ।

स्त्रीणां विशेषतो दद्यात् पतिभक्ति समन्वितान् ॥

समयानिति शेषः ।

षडन्वय महारत्नेन लंघयेद् गुरोराज्ञामुत्तरं न वदेत् तथ ।

रात्रौ दिवा च तस्याज्ञां दासवत् परिपालयेत् ।

२७अ)

असत्यमशुभं तद्वद्वहुवादं परित्यजेत् ॥

अप्रियं च तथालस्यं कामक्रोधौ विशेषतः ।
अप्रच्छन्न मुखो व्रुयाद् गुरोरग्ने कदापि न ॥

अभिमानं न कुर्वीत धनजात्या श्रमादिभिः ।
गुरुद्रव्यं न भोक्तव्यं तेन दत्तं कदाचन ॥

दत्तं प्रसादवद् ग्राह्यं लोभतो न कदाचन ।
अद्वैतं देवपूजां च गुरोरग्ने परित्यजेत् ॥

पादुकायोग पट्टादि गुरुचिह्नानि सादरम् ।
न लंघयेत् स्पृशे नैव पादाभ्यां प्रणमेत् सदा ॥

पर्यङ्क शयनं तद्वत् तथा पादप्रसारणम् ।
अङ्गं भङ्गं च लीलां च न कुर्याद् गुरुसन्निधौ ॥

गमनागमने कुर्यात् प्रणम्य गुरुपादुकाम् ।
छायां न लंघयेत् तद्वन्न गच्छेत् पुरतो गुरोः ॥

पश्चात् पादेन निर्गच्छेत् प्रणम्य च गुरोगुहात् ।
गुरोरग्रे न कुर्वीत प्रभावं शिष्यसंग्रहम् ॥

अहंकारं न कुर्वीत लोलुनं धारयेद् वपुः ।
प्रगुरोः सन्निधौ नैव स्वगुरुं प्रणमेद् वुधः ॥

नमस्काराय भोयुक्तं गुरोर्दृष्ट्या निवारयेत् ।
न नियोगं गुरोर्दद्याद् युष्मदादौ न भाषयेत् ॥

देव्यागमे ।

आसनं शयनं वस्त्रं भूषणं पादुकां तथा ।
छायां कलत्रमन्य”न्ग यत् तत्पृष्टं प्रपूजयेत् ॥

इति । प्रपञ्चसारे ।

व्याख्या विवादं स्वातन्त्र्यं काम्यतां काम्य जृम्भिताम् ।
निद्रा कुतर्का क्रोधांश्च त्यजेद् गुरु गृहे सदा ॥

स ग्राम्य धर्म विण्मूत्र सर्गनिष्ठी वनादिकम् ।
परित्यजेत् परिज्ञातो वासं च गुरुमन्दिरे ॥

याभ्योक्तममृतं निन्दामृणं च वसुविक्रयं ।
परित्याज्यं गुरोस्तस्य सपत्नेश्च समागमः ॥

इष्टं चानिष्टमादिष्टं गुरुणा यत् तु गुर्वपि ।
त्वरया परया कुर्याद् वुध्यासंम्यग जिह्वया ॥

देवानृषीनपि पृतॄन्तिथींस्तथाग्नीं नित्याद्यतेन मनसादि नसोर्चयेद्यः ।
इच्छा न वाप्य सकलानिह भोगजातान् प्रेत्य प्रयाति परमं पदमादि पुंसः ।
प्रयोगसारे ।

अत्रोक्तान्यः सदा ह्येतानैहिकामुष्मिकोचितान् ।
आचारानादृते शान्तिं दीक्षितः सोधि गच्छति ॥

आदृते आदृयते । नारद पञ्चरात्रे ।

पालना समयानां च सिद्धिद्वत् पद्यते चिरात् ।
मन्त्रः सांमुख्यमायाति समयस्थस्य सर्वदा ॥

सिद्धयः समयस्थस्य सर्वास्युर्मोक्षपश्चिमाः ।

स्कन्दपुराणे ।

एकवर्षा तु या कन्या पूजार्थं तां विवर्जयेत् ।
गन्धपुष्पनादीनां प्रीतिस्तस्या न विद्यते ॥

द्विवर्षकन्यामारभ्य दशवर्षावधि क्रमात् ।
पूजयेत् सर्वकार्येषु यथाविध्युक्तमार्गतः ॥

२७ब्)

कुमारिका द्विवर्षा च त्रिवर्षा च त्रिमूर्तिनी ।
चतुर्वर्षा तु कल्पाणी पञ्चवर्षा तु रोहिणी ॥

षड्वर्षा तु भवेत् काली सप्तवर्षा तु चण्डिका ।
अष्टवर्षा शाम्भवी तु दुर्गा तु नवभिः स्मृता ॥

दशवर्षा सुभद्रेति नामभिः परिकीर्तिता ।
अत ऊर्धं तु या कन्या सर्वकार्येषु निन्दिता ॥

तथा ॥

अरोगिणीं सुपुष्टाङ्गीं सुपुष्टां व्रणवर्जिताम् ।
एकवंश समुद्भूतां कन्यां सम्यक् प्रपूजयेत् ॥

ब्राह्मणी सर्वकार्येषु जयार्थे नृपवंशजां ।
लाभार्थे वैश्य वंशोत्यां सुतार्थे शूद्रवंशजां ॥

दारुणे चान्यजातीनां पूजयेद् विधिना नरः ।

तथा ।

प्रातःकाले विशेषेण कृताभ्यंगा विशेषतः पुजयेदिति शेषः ।
एवमभ्यर्चनं कुर्यात् कुमारीणां प्रयत्नतः ।
कञ्चुकं चैव वस्त्रं च गन्धपुष्पाक्षतादिभिः ॥

नानाविधैर्भक्ष्यभोज्यैर्भोजयेत् पायसादिभिः ।

अथ पूजा पर्यायस्तत्रैव ।

आवाहयेत् ततः कन्यां मन्त्रेणानेन भार्गव ।
ओं मन्त्राक्षरमयीं लक्ष्मीं मातृणां रूपधारिणीं ॥

नवदुर्गात्मिकां साक्षात् कन्यामावाहयाम्यहं ।
ततः संपूजयेद्धीमान् मन्वैरेभिः पृथक् पृथक् ॥

सर्वास्वयमावाहनमन्त्रः । तथा ।

दुःखदारिद्र्यनाशाय शत्रूणां नाशनाय च ।
आयुष्य वलवृध्यर्थं कुमारीं पूजयेन् नरः ॥

मन्त्रश्च ।

ओं जगत् पूज्य जगद्वन्द्वे सर्वशक्ति स्वरूपिणि ।
पूजां गृहाण कौमारि जगन्मातर्नमोस्तुते ॥ १ ॥

आयुः कर्मस्त्रिमूर्तिं तु त्रिवर्गस्य तथाप्तये ।
अपमृत्युव्याधि पीडा दुःखानामपनुत्तये ॥

पूजयेदिति शेषः मन्त्रमाह ।

ओं त्रिपुरां त्रिपुराधारां त्रिवर्ग ज्ञानरूपिणीम् ।
त्रैलोक्य वन्दितां देवीं त्रिमूर्तिं पूजयाम्यहम् ॥ २ ॥

सौख्य धान्यधनारोग्य पुत्रपौत्रादि वृद्धये ।
कल्याणीं पूजयेद्धीमान्नित्यं कल्याण वृद्धये ॥

ओं कलात्मिकां कलातीतां कारूण्य हृदयां शिवां ।
कल्याण जननीं नित्यं कल्याणीं पूजयाम्यहं ॥ ३ ॥

आरोग्य सुखकामी च जयकामी तथैव च ।
यशः कामी नरो नित्यं रोहिणीं परिपूजयेत् ॥

ओं अणिमादि गुणाधारामकाराद्यप्सरात्मिकां ।
अनन्तशक्तिकां लक्ष्मीं रोहिणीं पूजयाम्यहं ॥ ४ ॥

विद्यार्थी च जयार्थी च राज्यार्थी च विशेषतः ।
शत्रूणां च विनाशार्थी कालिकां पूजयेन्नरः ॥

ओं कामचारीं शुभां कान्तां कालचक्र स्वरूपिणी ।
कामदां करुणोदारां कालीं संपूजयाम्यहं ॥ ५ ॥

२८अ)

ऐश्वर्य शुभकामी च स्वर्गकामी च यो नरः ।
संग्रामे जय कामी च चण्डिकां परिपूजयेत् ॥

ओं चण्डवीरां चण्डमायां चण्डमुण्ड प्रभञ्जनीं ।
पूजयामि महादेवीं चण्डिकां चण्डविक्रमां ॥ ६ ॥

दुःखदारिद्र्यनाशाय नृपसंमोहनाय च ।
महापापविनाशाय शाम्भवीं च प्रपूजयेत् ॥

ओं सदानन्दकरीं शान्तां सर्वदेव नमस्कृतां ।
सर्वभूतात्मिकां लक्ष्मीं शाम्भवीं पूजयाम्यहं ॥ ७ ॥

सवलोत्कट शत्रूणामुग्रसाधन कर्मणि ।
दुर्गां दुर्गविनाशाय पूजयेद् यत्नतो वुधः ॥

ओं दुर्गमेदुस्तरे कार्ये भव दुःखविनाशिनीं ।
पूजयामि सदा भक्त्या दुर्गां दुर्गार्ति नाशिनीं ॥ ८ ॥

सौभाग्य धनधान्यादि वाञ्छितार्थ फलाप्तये ।
सुभद्रां पूजयेन् मर्त्यो दासीदास समृद्धये ॥

ओं सुन्दरीं स्वर्णवर्णाभ्यां सुखसौभाग्यदायिनीं ।
सुभद्रा जननीं देवीं सुभद्रां पूजयाम्यहं ॥ ९ ॥

अथा पूज्या तत्रैव ।

हीनाधिकाङ्गीकुष्ठी च विशीलकुलसम्भवां ।
ग्रन्थि स्फुटित शीर्णाङ्गी रक्तपूयव्रणाङ्कितां ॥

जात्यन्धकेकरां काणां कुरूपात तु रोमणां ।
संत्यजेद् रोगिणीं कन्यां दासी गर्भसमुद्भवां ॥


इति श्रीमुकुन्दविरचितायां श्रीसौभाग्यतरङ्गिण्यां पञ्चमलहरी ॥



भविष्यपुराणे ।

सर्वकालेषु सर्वेषु चण्डिकां यः प्रपद्यते ।
विमानवरमारुह्य ध्वजमालाकुलं नृपः ॥

ब्रह्मलोकं नरो गत्वा मोदते शाश्वतीः समाः ।
अयने विषुवे चैव षडशीति मुखेषु च ॥

पर्वकालं विवृणोति अयने इति च काराद्विषु पद्यादि । तथा श्रीविष्णुपुराणे ।

चतुर्दश्यष्टमी चैव अमावास्या च पूर्णिमा ।
पर्वाण्ये तानि राजेन्द्र रवि संक्रान्तिरेव चेति ॥

तथा देवीपुराणे ।

उमां शिवं हुनाशं च द्वितीयायां समर्चयेत् ।
हविष्यमन्न नैवेद्यं देयं गन्दार्चनं तथा ॥

फलमाप्नोति विप्रेन्द्र सर्वक्रतु समुद्भवं ।

कालिकापुराणे ।

पुष्यनक्षत्र युक्ता हि तृतीया यदि लभ्यते ।
तस्यां पूज्या सदा देवी चण्डिका शंकरेण च ॥

वराहपुराणे ।

एतत् सर्वं तृतीयायां संवृत्तं नृपनन्दन ।
तस्यां तिथौ तु पार्वत्या लवणं वर्जयेन्नरः ॥

पार्वत्या एतद्विवाहादिकं ।

पञ्चो पोषति नारी वा स सौभाग्यं हि विन्दति ।
दुर्भगाया तु नारी स्यात् पुरुषो वापि शोभने ॥

एतच्छ्रुत्वा तृतीयायां लवणं तु विवर्जयेत् ।
सर्वात् कामानवाप्नोति सौभाग्यं द्रव्यसंपदं ॥

आरोग्यं च तदालेभे कान्तिं पुष्टिं च विन्दति ।

तथा ।

चतुर्थ्यं तु गणेशस्य पार्वत्याश्च विशेषतः ।

२८ब्)

पूजाकार्येति शेषः । विष्णुधर्मोत्तरे । उमां प्रकृत्य ।

पूजयेत् काममाप्नोति तस्यामेव न संशयः ।

तस्यां पञ्चम्यां । कालिकापुराणे ।

अष्टम्यां च नवम्यां च पूजाकार्या विभूतये ।

भविष्यपुराणे ।

एकानंशां तथा देवीं तदा संपूजयेन् नराः ।
सर्वकामसमृद्धस्य यज्ञस्य लभते फलं ॥

तदा अष्टम्यां एकानंशां दुर्गां ।

लभेत् षाण्मासिकं पुण्यं नवम्यां तु न संशयः ।

तथा ।

दुर्गां संपूज्य दुर्गाणां नवम्यां तारणेच्छया ।
संग्रामे व्यवहारेण सदा विजयमाप्नुयात् ॥

महाकालीं तथाप्यर्च्य नवम्यां यदुनन्दन ।
काममेकमवाप्नोति यत्किञ्चिन् मनसि स्थितं ॥

वराहपुराणे ।

नवम्यां हि सदा पूज्या गौरी देवी समाधिना ।
वरदा सर्वलोकस्य भविष्यति न संशयः ॥

नवम्यां पञ्चपिष्टाशी भविष्यति हि मानवः ।
नारी वा वित्तसंपन्ना भविष्यति न संशयः ॥

एतास्तु पक्षद्वय संवन्धिन्यो ग्राह्याः विशेषः श्रुतेः ।

भविष्यपुराणे ।

महेश्वरं मातृगणं तथा तत्राह्नि पूजयेत् ।
एकां वा मातरं राजन् काममाप्नोत्यभीप्सितं ॥

मातरो ब्रह्माण्याद्याः ।

तत्राह्नि कृष्ण चतुर्दश्यां कृत्तिका स्वित्युप क्रम्य ।
नरो मातृगणं राजन् सर्वकाम मवाप्नुयात् ॥

एकां वा मातरं राजन् काममाप्नोत्सभीप्सितं ।

पूजयन्नितिशेषः । कालिकापुराणे ।

यः पूजयेद् भौमवारे शुभे दूर्वाक्षतैः शिवां ।
सततं साधकः सोपि काममिष्ट मवाप्नुयात् ॥

इति । देवीपुराणे । दुर्गां प्रकृत्य ।

तृतीयायां तु वैशाखे रोहिण्याख्यं प्रपूज्य तु ।
उदकुम्भ प्रदानेन शिवलोके महीयते ॥

कालिकापुराणे ।

माधवे मासि पञ्चम्यां शितपक्षे गुरोर्दिने ।
चन्द्रे चोत्तरं फल्गुन्यां भरण्यादौ स्थिते रवौ ॥

कन्या विवाह विधिना गिरिपुत्रीं हरो ग्रहीत् ।

अतोत्र देव्या विशेष पूजा महोत्सवादिकं कुर्यादिति । देवीपुराणे ।

सहकारफलैः स्नानं वैशाखे ह्यष्टमी दिने ।
आत्मना देवतां स्नाप्य मांसी वालक कारिभिः ॥

लेपनं फलकर्पूरैर्धूपं पञ्चसुगन्धकं ।
देव्याः पूजां च कुर्वीत केतक्या चम्पकेन च ॥

शकराक्षीर नैवेद्यं कन्या विप्रेषु भोजनं ।
आत्मनः पारणं तद्वद् दक्षिणां शक्तितो ददेत् ॥

सर्वतीर्थाभिषेकं तु अनेनाप्नोति भार्गव ।
सहकार फलैस्तद्रसैः आत्मन स्नानं ॥

फलं जातीफलं । देव्या अपराजितायाः ।

२९अ)

भविष्यपुराणे ।

वैशाखे मासि राजेन्द्र नवम्यां पक्षयोर्द्वयोः ।
उपवास परो भक्त्या पूजयानस्तु चण्डिकां ॥

हंसकुन्देन्दुसंकाश तेजसा ध्रुवसन्निभः ।
विमानवरमारूढो देवलोके महीयते ॥

ब्रह्मपुराणे ॥

ज्येष्ठस्य शुक्ल चतुर्थ्यां तु जाता पूर्वमुपासती ।
तस्मात् सा तत्रयं पूज्या स्त्रीभिः सौभाग्यवर्धये ॥

उपहारैश्च विविधैर्नृत्यगीतैः कलादिभिः ।

कालिकापुराणे ॥

ज्येष्ठस्य शुक्लपक्षस्य अष्टम्यां समुपोषितः ।
नवम्यां स तिलै रत्नैर्यावकैरथमोदकैः ॥

क्षीरै राज्यैस्तथा क्षौद्रैर्मदिराभिः स पिष्टकैः ।
नानापशूनां रुधिरैर्मांसैरपि च पूजयेत् ॥

ततो दशम्यां शुक्लायामंवुभिस्तिलमिश्रितैः ।
दुर्गा तन्त्रेण मन्त्रेण दातव्यमञ्जलित्रयं ॥

एवं कृते दशम्यां तु यत्पापं दशजन्मभिः ।
कृतं तत् प्रलयं याति दीर्घायुरभि जायते ॥

दुर्गातन्त्रं वक्ष्यते । भविष्योत्तरे ।

उपवास परो भक्त्या नवम्यां पूजयेदुमां ।
ब्रह्माणीं त्विति नाम्ना वै श्वेत रूपेण रूपिणीं ॥

ज्येष्ठमासि नृपश्रेष्ठ कृत्वा रक्तस्य वै विधिं ।
शाल्यन्नं पायसोपेतं स्वयं भुञ्जीत वाग्यत ॥

कुमारीं भोजयेच्चापि स्वशक्त्या ब्राह्मणींस्तथा ।

नवम्यां पक्षद्वयस्य । देवीपुराणे ।

अष्टम्यां च तथाषाढे निशातो येन स्नापयेत् ।
स्वयं स्नात्वा च कर्पूरैश्चन्दनैस्तां विलेपयेत् ॥

निशा हरिद्रा तज्जलेन स्वयं स्नात्वा देवीमपि स्नापयेदिति ।
धूपचन्दन कर्पूरैर्वालकैः सितसिदुदकैः ।

भक्षाञ्छर्करया पूर्णा पान कानि शुभानि च ।
दापयेत् कन्यका विप्र भोजनं चात्मनस्तथा ॥

शक्तितो दक्षिणां दद्यान् महिषघ्नीं च कीर्तयन् ।
दीपमाला घृते नैव सर्वान् कामान् प्रयच्छति ॥

भविष्यपुराणे ।

उपवास परो भक्त्या नवम्यां पक्षयोर्द्वयोः ।
आषाढे मासि राजेन्द्र यः कुर्यान् नक्त भोजनं ॥

पूजयेच्छ्रद्धया दुर्गां मैत्री नाम्नी तु मातरं ।
ऐरावत गतां शुभ्रां श्वेतरूपेण रूपिणीं ॥

स ऐरावत साहस्र इन्द्रस्यानुचरो भवेत् ।

वामनपुराणे ।

हरिशयनानन्तरं तृतीयायां गिरेः सुता । कात्यायनी तथाष्टम्यां स्वपितानि
शेषः । अत्र विशेषपूजांविधाय शयनं देयं । भविष्योत्तरे ।

श्रावणे मासि राजेन्द्र यः कुर्यान् नक्त भोजनं ।
क्षीरयष्टिक भक्तेन सर्वभूत हितेरतः ॥

उपवास परो वीर नवम्यां पक्षयोर्द्वयोः ।
कुमारीमिति नाम्ना वै चण्डिकां पूजयेत् सदा ॥

२९ब्)

कृत्वा रौप्यमयीं भक्त्या घोरां वै पापनाशिनीं ।
करवीरस्य पुष्पं तु गन्धैश्चागुरुचन्दनैः ॥

धूपेन च दशांगेन मोदकैश्चापि पूजयत् ।
कुमारीर्भोजयेद्भक्त्या स्त्रियो विप्रांश्च शक्तितः ॥

भुञ्जीत वाग्यतः पश्चाद् विल्वपत्र कृताशय ।
एवं यः पूजयेदार्यां श्रद्धया परयान्वितः ॥

सयाति परमं स्थानं यत्र देवो गुहः स्थितः ।

तथा । श्रीकृष्णजन्माष्टम्यां ।

यथा मम तथा कुर्याद् भगवत्या महोत्सवं ।
तथा मासि भाद्रपदे या स्यान् नवमी वहुले नरा ॥

सा तु नन्दा महापुण्या कीर्तिता पापनाशिनी ।
तस्यां यः पूजयेद् दुर्गां विधिवत् कुरु नन्दन ॥

सोश्वमेध फलं विंद्याद्विष्णुलोकं च गच्छति ।

देवीपुराणे ।

आश्विने नवमी शुक्ला तस्यां कोटि गुणं फलं ।

देवी पूजयामीति शेषः । भविष्यपुराणे ।

कार्तिकामल पक्षस्य नवमी भूति सिद्धये ।
प्रवुद्धान्तु जगद्धात्रीं पूजयेद् दीपमालया ॥

जगद्धात्रीं दुर्गां ।

मासैश्चतुर्भिर्यत्पुण्यं विधिना पूज्य चण्डिकां ।
तत्फलं लभते वीर नवम्यां कार्तिकस्य च ॥

भविष्योत्तरे ।

मासिमार्गशिरे वीर शुक्लपक्षे तु यो भवेत् ।
सानन्दिनी महापुण्या नवमी परिकीर्तिता ॥

यस्तस्यां पूजयेद् देवीं त्रिरात्रो पोषितो नरः ।
सोश्वमेधमवाप्येह विष्णुलोके महीयते ॥

भविष्यपुराणे ।

वृश्चिके शुक्लपक्षे तु या पाषाण चतुर्दशी ।
तस्यामाराधयेद् देवीं नक्तं पाषाण भोजनैः ॥

पाषाण शब्देन तदाकार पिण्डकमुच्यते ।

भविष्योत्तरे ।

चतुर्थी वरदा नाम तस्यां गौरी सुपूजिता ।
सौभाग्य मतुलं कुर्यात् पञ्चम्यां श्रीरपि श्रियं ॥

पञ्चम्यां माघशुक्लपक्षस्य । कालिकापुराणे ।

रवौ मकरराशिस्थया भवेत् सित पञ्चमी ।
तस्यामनेन संपूज्य मन्त्रेण विधिवच्छिवा ॥

अनेन दशाक्षर जयदुर्गामन्त्रेण । कालिकापुराणे ।

शुक्लाष्टम्यां पुनर्देवीं पूजयित्वा यथाविधि ।
नवम्यां वलिदानानि भूतानि च समाचरेत् ॥

सन्ध्यायां च वलिं कुर्यान् निजगात्रा सृगुक्षितैः ।
एवं कृते तु कल्याणैर्युक्तो नित्यं प्रमोदते ॥

पुत्रपौत्र समृद्धौस्तु धनधान्य समृद्धिभिः ।
दीर्घायु सर्वशुभगो लोकस्मिन् स च जायते ॥

स्मृतिसमुच्चये ।

मकरम्वस्थिते भानौ या तु कृष्णा चतुर्दशी ।
तद् रात्रौ कालिका पूज्या सर्वविघ्नोपशान्तये ॥

रात्रौ जागरणं कृत्वा पूजयित्वा हरि प्रियां ।
ईप्सितां लभते कामान् प्रिय पुत्रं धनानि च ॥

३०अ)

इयं प्रदोष व्यापिनी ग्राह्या उभय च तद् व्याप्तावव्याप्तौ वा पूर्वविद्धैव
कृष्णपक्षे अष्टमी चैव कृष्णपक्षे चतुर्दशी पूर्वविद्धैव कर्तव्या
परिविद्धा न कुत्र चिदित्यापस्तम्व वचनात् । भविष्योत्तरे ।

फाल्गुनादि तृतीयायां लवणं यस्तु वर्जयेत् ।
समाप्ते शयनं दद्याद् ग्रहं चोपरान्वितं ॥

संपूज्य विप्र मिथुनं भवानी प्रीयतामिति ।
गौरी लोके वसेत् कल्पं सौभाग्य व्रत मुच्यते ॥

भविष्योत्तरे ।

चैत्र शुक्ल तृतीयायामुमा पूज्या फलार्थिभिः ।

स्कन्दपुराणे ।

वसन्ता वस्तु मासाद्य तृतीयायाजन प्रिया ।
शुक्लपक्षस्य पूर्वाह्ने तिलैः स्नानं समाचरेत् ॥

पूज्या तु पार्वती देवी सर्वकाम समृद्धये ।

कालिकापुराणे ।

वसन्त समये देवी नवम्यां मृगयोगतः ।
अर्धरात्रौ समुत्पन्ना गङ्गैव शशि मण्डलात् ॥

नवम्यां शुक्लपक्षस्य अतः सात्र विशेषतः ।

पूजनीयेति ॥

अथ दमनारोपणं ॥

ज्ञानार्णवे ।

दमना रोपणं वक्ष्ये साधकानां हिताय च ।
सम्वत्सर कृता पूजा येन पूर्णा भवेत् प्रिये ॥

तपो भङ्गाय दमनो मम शैल भवेद् यदा ।
भस्मी भवेत् तदा पत्नी रतिः प्रीतिश्च दुःखदा ॥

तन्नेत्र वारि संभूता दमनस्य लता भवत् ।
तत् सौरभस्य सौभाग्यं महदासीत् सुलोचने ॥

तेन तुष्टा हृदा देवि वरो दत्तो मया प्रिये ।
रत्यै प्रीत्यै च ताभ्यां तु दमनं प्रकटी कृतं ॥

दमनेन च यो मन्त्री वर्षमध्येन पूजयेत् ।
तस्य साम्वत्सरी पूजा मदनाय भविष्यति ॥

इति तस्यैवरोदत्तो मयैव सुरवन्दिते ।
तस्माद् दमन पूजा हि कर्तव्यो वीरवन्दिते ॥

अन्यथा तत्फलं वार्षं कामराजाय जायते ।

दक्षिणामूर्ति संहितायां चैत्रादयस्तु यो मासाः पक्षे सितसिते भवौ ।

एतेषां पूर्वपूर्वस्तु कालः सर्वोत्तमोत्तमः ।
अष्टम्यां च चतुर्दश्यां पौर्णमास्यामथापि वा ॥

पूर्वरात्रौ प्रकुर्वीत सद्यो वाचाधिवासनं ।
शिवा प्रसाद संभूतं अत्र सन्निहितो भवा ॥

शिवाकार्यात् समुच्छिद्य नेतव्योसि शिवाज्ञया ।
इत्या मन्त्र्य रतिं कामं तत्र संपूजयेत् सुधीः ॥

स्वयमुत्पाद्य दमनं समूलं पल्लवैर्युतं ।

अधिसमाह शिवेति । उत्पाद्य प्रातरेव । यदुक्तं ज्ञानार्णवे ।

प्रातःकाले चतुर्दश्यां नित्यार्चानन्तन्तरं ततः ।
उद्धरेदस्त्रमन्त्रेण हृदयेन च लेपयेत् ॥

श्रीखण्ड पृसुनेन्वाद्यैरभिवासस्य च पूजयेत् ।

३०ब्)

नवकोणं विरच्याथ सिन्दूरेण महाप्रभं ॥

कलशान्नवसंस्थाप्य हेमरत्नादि पूरितान् ।
एकं वा कलशं रम्यं स्थापयेद् देशिकोत्तमः ॥

वायवी संहितायां ।

सौवर्ण रजतं वा पिताषं मृण्मयमेव वा ।
क्षालयेदस्त्रमन्त्रेण कुम्भं सम्यक् सुरेश्वरि ॥

गन्धपुष्पाक्षताकीर्णं कुश दूर्वांकुरार्चितं ।
सित सूत्रावृतं कण्ठे नववस्त्र युगान्वितं ॥

भविष्यपुराणे ।

कलशांस्तु समादाय हेमगर्भ समन्वितान् ।
यवशाली शरावस्तु वस्त्रालंकार भूषितान् ॥

आजिघ्नेति च मन्त्रेण कलशां स्नान्निवेशयेत् ।

तथा ।

स्थापयेदव्रणं कुंभं वरुणस्येति पूजयेत् ।

वरुणस्योत्तंभनमसीति मन्त्रेण ।

तथा मत्स्यपुराणे ।

चूतपल्लवसंच्छन्नं फलवस्त्रयुगान्वितमिति । अभावे एकवस्त्रमपि यदुक्तं


असिसूक्ष्मतरेणैव विशुद्धेन नवेन च । माया तत्व स्वरूपेण वेष्टयेद् वाससा
घटमिति । ज्ञानार्णवे ।

समूलं दमनं देवि स्थापयेत् पात्रके प्रिये ।
दमनं नवधा कुर्यात् पूजयेत् तदनन्तरं ॥

आनन्देश्वर वीजेन ततो भिन्नेन सुन्दरि ।
आनन्देश्वर वीजेन नवधा विन्दुना सह ॥

नव प्रकार संभिन्नं दमनं पूजयेत् क्रमात् ।
अघोर विद्यया पश्चादभिषिञ्चेत् तमेव हि ॥

अस्त्रेण रक्षणं कुर्यात् कवचेन ततः परं ।
वध्वा त्रिशूलमुद्रां च भ्रामयेदमनोपरि ॥

आनन्देश्वर वीजेन नवधा संभिन्नं आनन्देश्वरवीजेन विन्दुना सह नवधा
भिन्नेन पूजयेति सम्वन्धः । क्रमान् मध्यादि अघोर विद्यानु शिवचन्द्रौ
मोदनान्तं यान्तं वह्नि समन्वितं ।

शक्तिभिन्नं विन्दुनाद कलाद्यं वाग्भव प्रिये ।
कामवीजं तथा देवि शिवचन्द्रान्वितं ततः ॥

पृथ्वी वीजान्तमह्न्याढ्यं कामराजमिति । त्रिपुरेशी शक्तिवीजं शिवाद्यमिति ।
स विसर्गस्थाने विन्दुरिति ज्ञेयं । तथा ।

दक्षतो मण्डलं कृत्वा कुंकुमाद्यैर्विचित्रितं ।
अशोकतरूमालिख्य त्रिकोण मण्डलं लिखेत् ॥

मण्डलं सर्वतो भद्रं सर्वतो भद्राम्वुजमिति संहितोक्तः ।

तन्मध्ये पूजयेत् कामं तरुणं चारुण प्रभं ।
रक्तवस्त्रं रक्तभूयं वाम दक्षिणयोः प्रिये ॥

रतिप्रीति विप्रोमाढ्यं पञ्चवाण धनुर्द्धरम् ।
वसन्तसंहितां कामं पूजयेत् सिद्धि हेतवे ॥

वाग्भवं भुवनेशानीं श्रियं कामत्रिकेण च ।
कामाय नम आलिख्य विद्येयं रुद्रवर्णिनी ॥

कामवीज त्रयं चोक्त्वा करे मात्मकमुच्चरेत् ।
रत्यै नमश्चाष्ट वर्णा रतिरित्या वरानने ॥

३१अ)

प्रीतिं वदेद् रति स्थाने प्रीतिमन्त्रोष्टवर्णकः ।
गौरश्यामे रति प्रीति क्रमेण मणि भूषिते ॥

पद्मताम्वूल हस्ते च रक्तवस्त्र विराजिते ।
देव्याभरणभूपे च पुष्पदामविराजिते ॥

वाम दक्षिणयोर्ध्यात्वा कामस्य तदनन्तरं ।
वसन्तं पूजयेत् पश्चात् कदम्ववनमध्यगं ॥

गौरवर्णं वामहस्ते सुधापूर्ण घटान्वितं ।
दक्षहस्तेन दधतं नाना पुष्पसमुच्चयं ॥

तथा दक्षिणामूर्तिसंहितायां ।

कामो भस्मशरीरश्च तथा नङ्गश्च मन्मथः ।
वसन्तः सस्वनामा च स्मर इक्षु धनुर्धरः ॥

पुष्पवाणश्च ताराय हृदन्तास्ते प्रकीर्तिताः ।
एते कामस्य पूर्वाद्यष्टदिक्षु पूज्याः ॥

संपूज्य मदनं सम्य च? पुष्पगन्धाक्षतादिभिः ।
जपेदनङ्ग गायत्रीं तथा शक्ति प्रसन्नधीः ॥

जगत्सरूपायेत् युक्त्वा विद्महे तदनन्तरं ।
कामदेवाय चेत् युक्त्वा धीमहीति वदेत् ततः ॥

भवेदनङ्ग गायत्री तन्नोनङ्ग प्रचोदयात् ।
नमोस्तु पुष्पवाणाय जगदानन्दकारिणे ॥

मन्मथाय जगन्नेत्रे रति प्रीति प्रियाय च ।
अनेन मनुना देवि नमः कुर्यात् ततः परं ॥

अथ विज्ञापनं कुर्याद् देव्यै दमन पाणि युक् ।
ओं आमन्त्रितासि देवेशि सद्यः काले मया शिवे ॥

कर्तव्यं तद्यथा लाभं पूर्णं पूर्वं त्वदाज्ञया ।
विज्ञाप्य चैतन्मन्त्रेण त्रिपुरां परितोषयेत् ॥

ततः संपूज्य देवेशीं गन्धपुष्पाक्षतादिभिः ।
नैवेद्यं विधिवद् दत्वा श्रीविद्यां प्रार्थयेत् ततः ॥

षोडशार्णा जगन्मातां वाञ्छितार्थ फलप्रदां ।
ओं समस्त चक्रचक्रेशि सर्वपुष्पायुधादिभिः ॥

सर्वान् पूरय मे देवि कामान् कामेश्वरेश्वरि ।
अनेन प्रार्थयेद् देवीं पश्चादनङ्गमीश्वरि ॥

वर्मावगुणितं कुर्याद् दमनेन तु पूजनम् ।
तेनैव महतीं पूजां मध्ये च पुष्पमिश्रितां ॥

मनोहरं च विधिव कृत्वा नैवेद्यमुत्तमम् ।
स कर्पूरं च ताम्वूलं दत्वा नङ्गं च प्रार्थयेत् ॥

दत्वा दमनकं तस्मै नमस्कृत्य प्रसाद्य च ।
जलकेलिं ततः कुर्यात् सार्धं समयभिः सुखम् ॥

कवच मन्त्रेण दमनमवगुंठ्य तेन पूजयेदित्यथः ।
पश्चादनङ्गमित्युक्तं विवृणोति अनङ्गं चेति ॥

अन्नदानं प्रकुर्वीत रसः षड्भिः समन्वितं ।
एवं च कुरुते सिद्धान् दमनारोपणक्रमं ॥

तस्य साम्वत्सरी पूजा श्रीविद्याधिष्ठिता भवेत् ।

ज्ञानार्णवेपि ।

अनेन विधिना देवि दमनारोपणं चरेत् ।
तस्य साम्वत्सरी पूजा सफला शैलसम्भवे ॥

३१ब्)

अथ प्रयोगाः चैत्रे वैशाखे ज्येष्ठे वा अष्टमी चतुर्दशी पौर्णमास्य तम तिथि
पूर्वदिने वा रात्रौ दमनक समीपं गत्वा हस्तौ पादौ प्रक्षाल्या चम्यन्कुश
तिलप्रतान्यादाय स्वस्ति वाचन पूर्वकं ओं अद्येत्यादि स्वः कर्तव्य
दमनारोपण कर्माङ्गभूताधिवास कर्मकरिष्येति संकल्प्य ।

शिवाप्रसादसंभूत अत्र सन्निहितो भव ।
शिवाकार्यात् समुच्छिद्य नतव्योसि शिवा ज्ञया ॥

इत्या मन्त्र्य रति प्रीति सहितं कामं तत्र संपूज्य गृहमागच्छेदित्यधिवासः
। ततः प्रातः कृत नित्य कृत्यः स्वयं दमनक समीपं गत्वा सौः नम
अस्त्राय फट् । इति दमनकं समूलमुद्धृत्पानीय ऐ& नमः हृदयाय
नमः इति चन्दनकुंकुमकर्पूरकस्तूरिकाभिरनुलिप्य कुत्र चित्पात्रे स्थापयेत् ।
ततः स्वस्तिं वाचयित्वा ओं अद्य चैत्रमासि मीनराशि गते सवितरि शुक्लपक्षे
चतुर्दश्यां तिथौ भारतवर्षेऽमुकोऽहंकृतसम्वत्सर पूजा
साफल्यकोदमनारोपणमहं करिष्ये इति संकल्प्य ओं सिन्दूरेण नवकोणं
मण्डलं विधाय नवघटानेकं वा घटं स्थापयेत् स्वरपुञ्जोपरि । ओं
आजिघ्र कलशं मह्यात्वा विशन्त्विन्दवः पुनरुर्जानिवर्तस्वसानः
सहस्रन्धुक्षोरुधारापयस्वती पुनर्माविशताद्रयिः इति मन्त्रेण संस्थाप्य ।
ओं छरुणस्योत्तंभनमसिव्वरुणस्यस्कंभ सर्जनीस्थोद्वरुणस्यः ऋत
सदन्यसिद्वरुणस्यः क्रतसदनमसिद्वरुणस्य ऋत सदनमासीद । इति मन्त्रेण
शुद्धोदकेन पूरयेत् । ततश्च हसक्षमलरयू& इति मन्त्रेण दमनकं
नवधा विभज्य घटो परिनिधाय एकस्मिन् घटे कुत्रचित्पात्रे मध्ये चाष्टदिक्षु
निधाय मध्ये हं नमः पूर्वाद्यष्ट दिक्षु स& नमः क्ष& नमः म&
नमः ल& नमः र& नमः य& नमः ओं नमः इति संपूज्य । हसखफ्रे&
हसफ्री& हसौ& इत्यघोरं भैरवी विद्ययाभिषिच्य सौः नमः अस्त्राय फट् इति
संरक्ष त्रिशूलमुद्रां ऐ& नमः कवचाय हु& इति मन्त्रेण
दमनोपरिभ्रामयेत् । ततः स्वदक्षाय भागे सर्वतो
भद्रमण्डलमशोकवृक्षं मध्ये त्रिकोणं चालिख्य काममरुणवर्णं
तरुणं रक्तवासो भूषण युक्तं वामदक्षयो रति प्रीति युक्तं वसन्तं च
पञ्चवाणधनुर्धरं ध्यात्वा मध्ये भगवन् काम इहा गच्छेत्या वाह्य ।

३२अ)

ऐ& ह्री& श्री& क्ली& क्ली& क्ली& कामाय नमः इत्येकादशाक्षर विद्यया
पाद्यादिभिरभ्यर्च्य क्ली& क्ली& क्ली& क्रे& रत्यै नमः इत्यष्टाक्षर्या
गौरवर्णां मणिभूषितां ताम्वूलकरां रक्तवस्त्रां रतिं ध्यात्वा वामे
पूजयेत् । अन्यत्र प्रीतिं श्यामां पूर्वरूपां ध्यात्वोक्त मन्त्रो भयेन
संपूज्य पश्चिमे गौरवर्णं वामदक्षिणहस्ताभ्यां धृत सुधाकुम्भ
नानाकुसुमकदम्ववनमध्यगं ध्यात्वा । ओं वसन्ताय नमः इति पूजयेत् ।
ततः पूर्वाद्यष्ट दिक्षु ओं कामाय नमः ओं भस्मशरीराय नमः ओं
अनङ्गाय नमः । ओं मन्मथाय नमः ओं वसन्तसखाय नमः ओं स्मराय
नमः ओं इक्षुधनुर्द्धराय नमः ओं पुष्पवाणाय नमः इत्यष्टौ संपूज्य
जगत्स्वरूपाय विद्महे कामदेवाय धीमहि । तन्नोऽनङ्गः प्रचोदयात् इति
कामगायत्रीं यथा शक्ति जपित्वा । ओं नमोस्तु पुष्पवाणाय जगदानन्दकारिणे ।
मन्मथाय जगन्नेत्र रतिप्रीति प्रियाय च । इति प्रणमेत् । ततो दमनपाणि । ओं
आमन्त्रितासि देवेशि सद्यः काले मया शिवे । कर्तव्यन्तु यथा लाभं पूर्णं
पूर्वं त्वदाज्ञया । इति देवीं विज्ञाप्य घटपटेन उक्त वीत्यातां पूज्य । ओं
समस्तचक्र चक्रेशि सर्वपुष्पायुधादिभिः । सर्वान् पूरय मे देवि कामान्
कामेश्वरेश्वरि । इति प्रार्थ्य ऐ& नमः कवचाय हुमिति दमनकमवगुण्य
तेन पुष्पान्तरेणापि पुनर्देवीं पूजयेत् । ततश्च नैवेद्यं ताम्वूलं च निवेद्य
कामं प्रार्थ्यदमनेन पूजयेत् । ततः साधकेभ्यः सह जलक्रीडां
कृत्वाऽन्तदानं कुर्यादिति ॥ अथ पवित्रारोपणं । दक्षिणामूर्ति संहितायां ।

गत सम्वत्सरे यस्तु न करोति पवित्रकं ।
एकीकृत्य फलं तस्य नीयते दुर्जनैर्वलात् ॥

आषाढे उतमे मासः श्रावणे मध्यमाः प्रिये ।
हीनो भाद्रपदे मासः पक्षोऽसितसिते तरौः ॥

प्रशस्तः शुक्लपक्षे तु तदलाभे सितेतरः ।
चतुर्दश्यष्टमी पूर्णमासीतिथिषु वै भवेत् ॥

तथा ज्ञानार्णवे ।

आरभ्य मिथुनार्कं तु तुला संक्रमणावधि ।
अत्यरुण्या महापूजा पवित्राणां सुरेश्वरि ॥

पक्षद्वयोपि पूज्यास्याच्चतुर्थ्यामष्टमी दिने ।
नवम्यां वा चतुर्दश्यां पवित्रा रोहणं चरेत् ॥

तथा कालिकापुराणे ॥

प्रथमं दर्भसूत्रं तु पद्मसूत्रं ततः परं ।
ततः क्षौमं सुपुण्यं स्यात् कार्पासिक मतः परं ॥

३२ब्)

पट्टसूत्रं तथान्येन पवित्राणि न कारयेत् ।
कन्या च कर्तयेत् सूत्रं प्रमदा च पतिव्रता ॥

विधवा साधु शीला वा दुःशीला नैव कर्तयेत् ।
यच्छूचि भिन्नं दग्धं च पञ्चधूमावगुण्ठितं ॥

तद्वर्जयेच्च यत्नेन सूत्रमस्मिन् पवित्रके ।
उपयुक्तं चाखुदण्डं मद्यरक्तादि दूषितं ॥

मलिनं नीलरक्तं च प्रयत्नेन परित्यजेत् ।

ज्ञानार्णवे ।

अष्टोत्तरशतैः सूत्रैर्नवसूत्रेण कल्पितैः ।
उत्तमं हि पवित्रं तु तदर्द्धं मध्यमं स्मृतं ॥

तस्याप्यर्धं कनिष्टं स्यात् त्रिविधं स्यात् पवित्रकं ।
नवसूत्रेण स्नात्वा त्रिगुणितं सूत्रं त्रिगुणीकृत्य शोधयेदित्युवीत्या कृतेन ।
तथा कालिकापुराणे ।

सूत्रैः पवित्रं कुर्वीत कनिष्ठोत्तम मध्यमं ।
कनिष्ठं यत् पवित्रं तु सप्तविंशति तन्तुभिः ॥

चतुष्पञ्चशता प्रोक्तं तन्तूनां मध्यमं परं ।
उत्तमञ्चैव तन्तूनामष्टोत्तरशतेन वै ॥

नवसूत्राणि तन्तू पदवाच्यानि ।

यत् कनिष्ठं पवित्रं तु नाभिमात्रं भवेच्चयत् ।
द्वादशग्रन्थि संयुक्तमात्ममानेन योजयेत् ॥

ऊरु प्रमाणं मध्यं स्याद् ग्रन्थीनां तत्र योजयेत् ।
चतुर्विंशतिमप्यस्यमानमात्मन एव च ॥

पवित्रमुत्तमं प्रोक्तं जातुमात्रं च भैरव ।
षट्त्रिंशत् तत्र गन्थीनां योजयेदात्ममानतः ॥

नाभिमात्रं श्रीमूर्तेः तदभावे शक्त्यनुसारेण आत्ममानेन वा
ग्रन्थिरित्यर्थः ।

पवित्रं क्रियते येन सूत्रेण ग्रन्थयः पुनः ।
तदन्य वर्ण सूत्रेण कर्तव्या लक्षणान्विताः ॥

ग्रन्थिं तु सप्तभिः कुर्याद् वेष्टनैस्तु कनिष्टिके ।
द्विगुणैर्मध्यमा कुर्यात् त्रिगुणेरुत्तमे तथा ॥

तथा ।

गुर्वग्नौ मध्यम समं कनिष्ठ सममात्मनः ।
साधारण पवित्राणि त्रिभिः सूत्रैः समाचरेत् ॥

दक्षिणामूर्तिसंहितायां ।

अष्टोत्तरशतं ज्येष्ठं तदर्ध मध्यमं प्रिये ।
तदर्धं च कनिष्ठं स्याद् यथा शक्त्यथ वा प्रिये ॥

उत्तानस्योदितैर्मन्त्रैर्दशग्रन्थांस्तु कारयेत् ।
यथा शक्तीत्यन्येषामपि यावच्छक्यं कुर्यादित्युक्तं ॥

उत्तानस्योदितैर्मन्त्रैर्वालावीजैः ।

मया तत्पुरुषास्येन जप्य तेन च्छृणु प्रिये ।

इति तदुपक्रमेऽभिधानाद्भवता शिवेन पवित्रदानदिवस पूर्वेघुरधिवासनं


सद्योऽधिवासनं वापि कुर्यान्तु परमेश्वरि ।
रात्रौ समयिभिः सार्धं नित्यार्चानन्तरं ततः ॥

नित्यार्चा स्वकाले ।

ओंकारश्च सोमवह्नी ब्रह्मनाग शिखिध्वजः ।
सूर्यः सदाशिवः सर्वा देवता स्युर्न वामराः ॥

३३अ)

सर्व देवाः विश्वे देवाः विश्वे देवताश्चेति प्रयोगसारात् ।

सूत्रेषु पूजयेद् ब्रह्मविष्ण्वीशांश्च त्रिसूत्रके ।
क्रिया च पौरुषी वीरा चतुर्थी चापराजिता ॥

जया च विजया चैव मुक्तिजा च सदाशिवा ।
मनोन्मनी च नवमी दशमी सर्वता मुखी ॥

ग्रन्थिस्थ देवताः पूज्याः उपचारै समर्चयेत् ।

देवीमिति शेषः ।

मूलमन्त्रेण वा मन्त्र्य पवित्रेषु कला यजेत् ।
नित्याः षोडश देवेशि श्रीविद्यां च स्मरेत् प्रिये ॥

अधिवास विधिः प्रोक्तः पश्चादाराधनं भवेत् ।
मूलमन्त्रेण चेति चकारो मन्त्रान्तरं समु *? नोति ॥

तदुक्तं ज्ञानार्णवे ।

शिरोमन्त्रेणाभिमन्त्र्य हृन्मन्त्रेण ततः परं ।
प्रोक्षये तु ततोभ्युक्ष्य शस्त्र मन्त्रेण देशिकः ॥

भवरुध्य च नेत्रेण गुण्ठितं कवचेन हि ।
रोचना कुंकुमाभ्यां च रक्तचन्दन चन्दनैः ॥

गैरिकाद्यैर्विचित्रं तु कारयेत् सुमनोहरं ।
मूलमन्त्रेण चाभ्युक्ष्य स्थापयेद् देशिकोत्तमः ॥

शिरोमन्त्रादि विद्यायाः अभ्युक्षणं मुष्टि वन्धेन सेचनं इत्यधिवासः ।
कालिकापुराणे ।

अधिवास्य पवित्राणि पूर्वस्मिन् दिवसे ततः ।
मन्त्रन्यासं पवित्रेषु कुर्यात् तत्रापरेहनि ॥

प्रतिग्रन्थिं स्वयं कुर्यान् मन्त्रन्यासं विचक्षणः ।
अङ्गुष्ठाग्रेण प्रजपेन् मालायामिति भैरव ॥

यावन्तो ग्रन्थ पश्चास्य तावन्त्येव वतु संन्यसेत् ।
मन्त्राणि तस्य तेन स्याद् देवाङ्गेन नियोजयेत् ॥

देवाङ्गेन षडङ्ग मन्त्रैर्योजयेदित्यर्थः ।
एवं च सकलं न्यस्य यज्ञपात्रे पवित्रकम् ॥

यस्य यस्य तु यो मन्त्रो यथा ध्यानादि पूजनं ।
तदेवं तेन भावेन पूजयित्वा प्रयत्नतः ॥

तस्यैव तेन मन्त्राभ्यां मूर्ध्निं दद्यात् पवित्रकं ।

ज्ञानार्णवे ।

देवी कुंभं प्रतिष्ठाप्य पूर्णं चामी कदादिभिः ।
देवीमावाह्य संपूज्य मूलमन्त्रेण पूजयेत् ॥

ततश्चक्रं समभ्यर्च्य पवित्रार्पणमारभेत् ।
श्रीविद्यायाः पवित्राणि गुरोर्नाम्ना च देशिकः ॥

पवित्रं गुरवे दद्यात् सर्वेभ्यस्तदनन्तरं ।
गुरुभ्यस्त्रिविधेभ्यश्च पवित्राण्यर्पयेत् ततः ॥

तिथि नित्या गणायाथ पवित्रारोपणं चरेत् ।
नवचक्रस्थिता याथ चक्रेशी नवकाय च ॥

रश्मि वृन्दाय देवेशि प्रत्येकं भावपूर्वकं ।
पवित्रकं समर्च्याथ गुरून्मन्तोषयेत् प्रिये ॥

स्वर्णालंकारवस्त्रैश्च नानाध * समुच्चयैः ।
तत् प्रसादात् पवित्रं च धारयेत् तदनन्तरं ॥

कालिकापुराणे ।

३३ब्)

आज्यैरष्टोत्तरशतं तिलैराद्यैरथापि वा ।
अष्टोत्तरशतं हुत्वा महादेव्यै च साधकः ॥

दक्षिणामूर्तिसंहितायां ॥

हुत्वा पूर्णाहुतिं पश्चादग्नौ दग्ध्वा पवित्रकम् ।

दग्ध्वा अग्निपवित्रकं ।

कालिकापुराणे ।

पवित्रारोपणे वृत्ते दक्षिणमुप पादयेत् ।
हिरण्यं मां तिलं धेनुं रत्नं वा शाकमेव वा ॥

इमं मन्त्रं ततः पश्चात् साधकः समुदीरयेत् ।
ओं मणिविद्रुममालाभिर्मन्दार कुसुमादिभिः ॥

इयं साम्वत्सरी पूजा न वास्तु परमेश्वरि ।
ततो विसर्जयेद् देवीं पूर्वोक्त प्रतिपत्तिभिः ॥

भोजयेद् ब्राह्मणांश्चापि ज्ञानी नपि यथाविधि ।
सम्वत्सरस्य या पूजा संपूर्णां वत्सराद् भवेत् ॥

कल्पकोटि सहस्राणि देवी गेहे वसेन् नरः ।
अत्रापि मुख सौभाग्यं समृद्धिरतुला भवेत् ॥

ज्ञानार्णवे ।

कुमारी पूजनं कुर्यात् ततः सुवासिनी गणम् ।

पूजयेदिति शेषः । दक्षिणामूर्तिराह ।

यश्चैतत् ता करोत् पुण्यं तस्य पूजानि निस्फला ॥

अथ प्रयोगः ।

आषाढे तदशक्तौ श्रावणे भावे आश्विने वा शुक्लपक्षे तदशक्तौ कृष्णेपि
चतुर्थ्यष्टमी नवमी चतुर्दशी पौर्णमास्यन्यतम तिथौ पवित्रार्पणं
कार्यं दर्भपद्मक्षौमकार्पास पट्ट सूत्राणामन्यतमं
सूच्यभिन्नमदग्ध ममलीन मनुपयुक्तमाखुदण्डभिन्नममेध्या
दूषितं सूत्रं त्रिगुणं त्रिगुणी कृत्याष्टोत्तरशतेन तदर्धेन चोत्तम
मध्यम कनिष्ठसंज्ञकं सूत्रसमसंख्य ग्रन्थिभिः षट्त्रिंश
चतुर्विंशति द्वादशग्रन्थिभिर्वा वाल मन्त्रकृतैक विंशति चतुर्दश
सप्तवेष्टनैर्देवता जानूरूनाभिपर्यन्तं पवित्र त्रयं कृत्वा मध्यम
पवित्रतुल्यं गुर्वग्न्याः कनिष्ठसममात्मनः पवित्रं पञ्चदश नित्यानां
नवचक्रेशीनां च त्रिभिः सूत्रैर्यथाशक्ति पवित्राणि कृत्वाधि वासयेत् ॥
अथाधिवासः । पवित्रार्पण पूर्वदिने कृत नित्य कृत्यो रात्रौ साधकैः
सहपूर्ववत् संकल्प्य कुत्रचित् पात्रे पवित्राणि संस्थाप्य तस्य नवसूत्रेषु । ओं
ओंकाराय नमः । ओं सोमाय नमः । ओं वह्नये नमः । ओं ब्रह्मणे नमः ।
ओं नागाय नमः । ओं शिखिध्वजाय नमः ।

३४अ)

ओं सूर्याय नमः । ओं सदाशिवाय नमः । ओं विश्वेभ्यो देवेभ्यो नमः । इति
गन्धादिभिः संपूज्य । ओं ब्रह्मणे नमः । ओं विष्णवे नमः । ओं ईशानाय
नमः । त्रिषु सूत्रेषु त्रिसूत्रैः कृतेषु पूजयेत् । ततो ग्रन्थिषु ओं क्रियायै नमः ।
ओं पौरुष्यै नमः । ओं वीरायै नमः । ओं अपराजितायै नमः । ओं जयायै
नमः । ओं विजयायै नमः । ओं मुक्तिदायै नमः । ओं सदाशिवायै नमः । ओं
मनोन्मन्यै नमः । ओं सर्वतो मुख्यै नमः । इति दशदेवताः संपूज्य देवीं
सर्वोपचारैर्यथाविधि संपूज्य षोडश नित्या पवित्रेषु समर्च्य श्रीविद्यां
न्यसेत् । ततश्च मूलविद्यान्ते क्ली& नमः शिरसे स्वाहा इत्यभि मन्त्र्य ऐ& नमो
हृदयाय नमः इत्यभि प्रोक्ष्य सौः नमः अस्त्राय फट्
इत्यधामुष्ट्याभ्युक्ष्य क्ली& नमः नेत्रत्रयाय वौषट् इति सन्निरोधन मुद्रया
वरुध्य ऐ& नमः कवचाय हू& इत्यवगुण्ठन मुद्रयावगुण्ठ्य रोचन
कुंकुमाभीरञ्जयित्वा पुनमूलविद्ययाभ्युक्ष्य नूतन वस्त्रेणाच्छाद्य
स्थापयेदिति ॥ अथ कृत नित्यकृत्यः पूर्ववत् संकल्प्य पवित्रं दक्षिण
मध्यमाना मायां संस्थाप्य प्रतिग्रन्थिं मन्त्रन्यासं
दक्षिणाङ्गुष्टाग्रेण कुर्यात् । ततश्च तत्र षडङ्ग मन्त्रं न्यसेत् । ततश्च
यज्ञोयपात्रे पवित्राणि संस्थाप्य तत्र देवीमावाह्य यथाविधि समभ्यर्च्य
तच्छिरसि मूलविद्यया पवित्राणि दत्वा गुरवे च पवित्रं दद्यात् । ततस्त्रिविध
गुरुभ्यस्तिथि नित्याभ्यो नवचक्रेशीभ्यश्च दत्वाऽवरण देवताभ्यो दद्यात्
ततः स्वर्णवस्त्रादिभि वराहपुराणे । चतुर्थ्यां तु गणेशस्य पार्वत्याश्च
विशेषतः । पूजेति शेषः । विष्णुधर्मोत्तरे । उमां प्रकृत्य । पूजयेत्
काममाप्नोति तस्यामेव न संशयः । तस्यां पञ्चम्यां । भविष्यपुराणे ।

एकानं शान्तथा देवीं तदा संपूजयेन् नरः ।
सर्वकाम समृद्धस्य यज्ञस्य लभते फलम् ॥

तदा अष्टभ्यां । वराहपुराणे ।

नवम्यां हि सदा पूज्या गौरी देवी समाधिना ।
वरदा सर्वलोकस्य भविष्यति न संशयः ॥

नवम्यां पश्च पिष्टाशी भविष्यति हि मानवः ।

३४ब्)

नारी(?) वा वित्तसंपन्ना भविष्यति न संशयः ॥

भविष्यपुराणे ।

कृष्णचतुर्दशीं प्रकृत्य महेश्वरं मातृगणं तथा त्राह्नि पूजयेत्
एकाम्वामातरम्वा राजन् काममाप्नोतिभीप्सितम् । विशेषा श्रुतौ पक्षद्वय
सम्वन्धिनी तिथिर्याह्या । तथा । कीर्तिका स्त्रित्युपक्रम्य नरो मातृगणो राजन्
सर्वकाममवाप्नुयात् । एकाम्वा मातरं राजन् काममाप्तोत्येभीप्सितम् ।
मातृगणं पूजयेन्निति शेषः । कालिकापुराणे ।

यः पूजयेद् भौमवारे शुभे दूर्वाक्षतैः शिवा ।
सततं साधकः सोपि काममिष्टमवाप्नुयात् ॥

अष्टम्यां च नवम्यां च पूजाकार्यविभूतये ।

अष्टम्यादिनापि सततमित्यर्थेऽपि ।

तथा देवीपुराणे ।

दुर्गां प्रकृत्य तृतीयायां वैशाखे रोहिण्यर्क्ष्ये प्रपूज्य तु ।

उदकुम्भ प्रदानेन ब्रह्मलोके महीयते ।

तृतीया शुक्लपक्षे । तथा स्कन्दपुराणे ।

माधवे मासि पञ्चम्यां सितपक्षे गुरोर्दिने ।
चन्द्रे चोत्तरफाल्गुन्यां भरण्यादौ सिते नरौ ॥

देवीपुराणे ।

सहकारफलैः स्नानं वैशाखे ह्यष्टमी दिने ।
आत्मनो देवता स्नाप्य मासी वालक वारिभिः ॥

लेपनं फलकर्पूरैर्धूपं पञ्चसुगन्धकम् ।
देव्याः पूजां च कुर्वीत केतक्या चम्पकेन तु ॥

शर्करा क्षीर नैवेद्यं कन्या विप्रेषु भोजनम् ।
आत्मनः पावनं तद्वद् दक्षिणां शक्ति चोदनेत् ॥

सर्वतीर्थाभिषेकन्तु अनेनाप्नोति भार्गव ।

आम्रफलरसैः स्नानमात्मनः फलं जाती फलं देव्याः अपराजितायाः । तथा
ब्रह्मपुराणे ।

ज्येष्ठे शुक्ल चतुर्थ्यां तु जाता पूर्वमुपासनी ।
तस्मात् सा तत्र संपूज्या स्त्रीभिः सौभाग्य वृद्धये ॥

उपहारैश्च विविधैर्गीत नृत्य फलादिभिः ।

तथा कालिकापुराणे ।

ज्येष्ठस्य शुक्लपक्षस्य अष्टम्यां समुपोषितः ।
नवम्यां स तिलैरम्यैर्यावकैरथ मोदकैः ॥

क्षीरैराज्यैस्तथा क्षौद्रैर्मदिराभिः स पिष्टकैः ।
नानापशूनां रुधिरैर्मांसैरपि च पूजयेत् ॥

ततो दशम्यां शुक्लायामम्वुभिस्तिलमिश्रितैः ।
 
३५अ)

दुर्गातन्त्रेण मन्त्रेण दातव्यमञ्जलि त्रयम् ॥

एवं कृते दशम्यां तु यत् पापं दशजन्मभिः ।
कृतं तत् प्रलयं याति दीर्घायुरभि जायते ॥

दुर्गातन्त्रं प्रवक्ष्यते ।

आषाढे शुक्लपक्षस्य याष्टमी श्रावणस्य वा ।
पवित्रारोपणं कुर्याद् देवी प्रीति करं परम् ॥

देवीपुराणे ॥

अष्टम्यां च तथा वाषाढे निशातोयेन स्नापयेत् स्वयं स्नात्वा च
पुरौश्चन्दनैस्तां विलेपयेत् । निशा हरिद्रा स्वयमपि तत्तोयेन स्नात्वा
धूपचन्दनकर्पूरैर्वालकैः । सितसिदूदकैः ।

भक्षान् शर्करया पूणान् पानकापिशुभानि च ।
दापयेत् कन्यका विप्र भोजनं चात्मनस्तथा ॥

शक्तितो दक्षिणां दद्यान् महिषघ्नीं च कीर्तयेत् ।
दीपमाला घृते नैवं सर्वान् कामान् प्रयच्छतीति ॥

वामनपुराणे ।

हरिशयनानन्तरं तृतीयायां गिरेः सुता ।

स्वपतीनिशेषः । अतोऽत्र देव्या विशेषः पूजायां शयनीयं ।

भविष्यपुराणे ।

कार्तिके मलपक्षस्य नवमीभूति सिद्धये ।
प्रवुद्धा तु जगद्धात्रीं पूजयेद् दीपमालया ॥

मासैश्चतुर्भिर्यत् पुण्यं विधिना पूज्य चण्डिकाम् ।
तत्फलं लभते वीर नवम्यां कार्तिकस्य तु ॥

वृश्चिके शुक्लपक्षे तु या पाषाण चतुर्दशीम् ।

तस्यां तस्यामाराधने ।

मासि भाद्रपदे या स्यान्नवमी वहुनेतरा ।
तत्र संपूज्य वै दुर्गामश्वमेध फलं लभेत् ॥

देवीपुराणे ॥

आश्विने नवमी तस्या कोटि गुणफलं । देवी पूजयामीति शेषः । भविष्यपुराणे ।
यद्गौरीं नक्त पाषाण भोजनैः । पाषाणाकार पिण्डभोजनैरित्यर्थः ।
स्मृति समुच्चये ।

मकरावस्थिते भानौ या तु कृष्णा चतुर्दशी ।
तत्रादौ कालिका पूज्या सर्वविघ्नोपशान्तये ॥

रात्रौ जागरणं कृत्वा हर प्रियां ।

ईप्सितान् लभते कामान् प्रिय पुत्र धनानि च ।

प्रदोष व्यापिनीयं ग्राह्या उभयत्र तद्व्याप्तावव्याप्तौ पूर्ववृद्धा
कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी । पूर्ववृद्धैव कर्तव्यां
परविद्धान कुत्रचित् । इत्यायस्तम्व वचनात् । भविष्यपुराणे ।

३६अ)

चतुर्थी वरदानाम तस्यां गौरी सुपूजिता ।
सौभाग्यमतुलं कुर्यात् पञ्चम्यां श्रीरति प्रियम् ॥

कालिकापुराणे ।

रवौ मकरराशिस्थया भवत्सित सप्तमी ।
तस्यामनेन संपूज्या मन्त्रेण विधिवच्छिवा ॥

अनेन वक्ष्यमाण दशाक्षरेण ।

शुक्लाष्टम्यां पुनर्देवीं पूजयित्वा यथाविधि ।
नवम्यां वलिदानानि प्रभूतानि समाचरेत् ॥

सन्ध्यायां च वलिं दद्यान् निजगात्रा सृगुप्सितैः ।
एवं कृते तु कल्याणैर्युक्ता नित्यं प्रमोदते ॥

पुत्रपौत्र समृद्धैस्तु धनधान्य समृद्धिभिः ।
दीर्घायुः सर्वसुभगोलोकेस्मिन् स च जायते ॥

भविष्यपुराणे ।

चैत्रशुक्लतृतीयायामुमां पूज्यफलार्पिभिः ।

कार्येति शेषः ।

स्कन्दपुराणे ।

वसन्तारम्भमासाद्य तृतीयायाजन प्रिया ।
शुक्लपक्षस्य पूर्वाह्ने तिलैः स्नानं समाचरेत् ॥

पूज्या तु पार्वती देवी सर्वकामसमृद्धये ॥

"https://sa.wikisource.org/w/index.php?title=सौभाग्यतरङ्गिणी&oldid=210777" इत्यस्माद् प्रतिप्राप्तम्