स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् १/अध्यायः ०२

।। ब्रह्मोवाच ।। ।।
अथाहमुच्चरन्वेदानशेषैर्वदनैः शिवम् ।।
अस्तौषं भक्तिसंपूर्णं कृत्वा मानसमर्चनम् ।। १ ।।
नमः शिवाय महते सर्वलोकैकहेतवे ।।
येन प्रकाश्यते सर्वं ध्रियते सततं नमः ।। २ ।।
विश्वव्याप्तमिदं तेजः प्रकाशयति संततम् ।।
नेक्षंते त्वद्दयाहीना जात्यंधा भास्करं यथा ।। ३ ।।
भूलिंगममलं ह्येतद्दृश्यमध्यात्मचक्षुषा ।।
अंतस्स्थं वा बहिस्स्थं वा त्वद्भक्तैरनुभूयते ।। ४ ।।
अपरिच्छेद्यमाकारमंतरात्मनि योगिनः ।।
तदेतत्तव देवेश ज्वलितं दर्पणो यथा ।। ५ ।।
अथवा शांकरी शक्तिः सत्याऽणोरप्यणीयसी ।।
मत्तो नान्यतरः कश्चिद्यन्मय्यपि विलीयते ।। ६ ।।
अणुस्ते करुणापात्रं महत्त्वं ध्रुवमश्नुते ।।
नाधिकोऽस्ति परस्त्वत्तो न मत्तोऽपि तदाश्रयात् ।। ७ ।।
त्वय्यर्पितं मनस्त्वतो न वियोगमपेक्षते ।।
वाचः कथं प्रवृत्तिः स्यात्तव वैभवकीर्त्तने ।। ६ ।।
स्वयमीश महादेव प्रसीद भुवनाधिक ।।
आदिश प्रयतं भक्तमपेक्षितनियुक्तिषु ।। ९ ।।
इदं विज्ञाप्य विनयान्नमस्कृत्वा पुनःपुनः ।।
प्रांजलिर्देवदेवेशं न्यषीदं सविधे विभो ।।1.3.1.2.१०।।
अथ विष्णुर्नवांभोदगंभीरध्वनिरभ्यधात् ।।
वाचः कृतार्थन्भूयः शुक्लाः शंकरकीर्त्तनैः ।। ११ ।।
जय त्रिभुवनाधीश जय गंगाधर प्रभो ।।
जय नाथ विरूपाक्ष जय चंद्रार्द्धशेखर ।। १२ ।।
अव्याजममितं शंभो कारुण्यं तव वर्द्धते ।।
येन निर्धूतमखिलं भक्तेषु ज्ञानमाहितम् ।। १३ ।।
पालनं सर्वविद्यानां प्रापणं भूतिसंचयैः ।।
पुराणं च सपुत्राणां पितुरेव प्रवर्धनम् ।। ।। १४ ।।
शतानामपि मूर्तीनामेकामपि नवैः स्तवैः ।।
स्तोतुं न शक्नुमेशान समवायस्तु कि पुनः ।। १५ ।।
त्वमेव त्वामलं वेत्तुं यदि वा त्वत्प्रसादतः ।।
भ्रमरः कीटमाकृष्य स्वात्मानं किं न चानयेत् ।। १६ ।।
देवास्त्वदंशसंभूतिप्रभवो न भवन्ति किम् ।।
अप्यायस्याग्निकीलस्य दाहे शक्तिर्न किं भवेत् ।। १७ ।।
देशकालक्रियायोगाद्यथाग्नेर्भेदसम्भवः ।।
तथा विषयभेदेन त्वमेकोऽपि विभिद्यसे ।। १८ ।।
अनुग्रहपरो देव मूर्तिं दर्शय शंकर ।।
आवयोरखिलाधार नयनानंददायिनीम् ।। १९ ।।
एवं प्रणमतोर्देवः श्रद्धाभक्तिसमन्वितम् ।।
प्रससाद परं शंभुः स्तुवतोरावयोर्द्वयोः ।। 1.3.1.2.२० ।।
तेजःस्तंभात्पुनस्तस्माद्देवश्चन्द्रार्द्धशेखरः ।।
आविर्बभूव पुरुषः कपिलः कालकन्धरः ।। २१ ।।
परशुं बालहरिणं करैरभयविश्रमौ ।।
दधानः पुरुषोऽवादीत्पुत्रावावामिति प्रभुः।। २२ ।।
परितुष्टोऽस्मि युवयोर्भक्त्या युक्तात्मनोर्मयि।।
भवतं सर्वलोकानां सृष्टिरक्षाधिपौ युवाम् ।। २३ ।।
युवयोरिष्टसिद्ध्यर्थमाविर्भूतोऽस्म्यहं यतः ।।
वरं वृणुतमन्यं च वरदोऽहमुपागतः ।। २४ ।।
इति देवस्य वचनात्सप्रीतौ च कृतांजली ।।
विज्ञापयामासिवतौ स्वं स्वमर्थं पृथक्पृथक् ।। २५ ।।
अहं मन्त्रैः शिशुप्रायजगत्त्रयविधायकः ।।
संस्तुवन्वैदिकैर्मंत्रैरीशानमपराजितम् ।। ।। २६ ।।
नमस्येहमिदं रूपं शश्वद्वरदमीश्वरम् ।।
तेजोमयं महादेवं योगिध्येयं निरंजनम् ।। २७ ।।
आपूर्यमाणं भवता तेजसा गगनांतरम् ।।
परिपृच्छ्यः सुरावासः क्षणाद्देव भविष्यति ।। २८ ।।
सिद्धचारणगन्धर्वा देवाश्च परमर्षयः ।।
नावसन्दिवि संचारं लभेरंस्तेजसा तव ।। २९ ।।
पृथ्वी च सकला चैव तप्यमाना तवौजसा ।।
चराचरसमुत्पत्तिक्षमा नैव भविप्यति ।। 1.3.1.2.३० ।।
उपसंहृत्य तेजः स्वमरुणाचलसंज्ञया ।।
भव स्थावरलिंगं त्वं लोकानुग्रहकारणात् ।। ३१ ।।
ज्योतिर्मयमिदं रूपमरुणाचलसंज्ञितम् ।।
ये नमन्ति नरा भक्त्या ते भवन्त्यमराधिकाः ।। ३२ ।।
सेवंतां सकला लोकाः सिद्धाश्च परमर्षयः ।।
गणाश्च विविधा भूमौ मानुषं भावमास्थिताः ।। ३३ ।।
दिव्याराम समुद्भूतकल्पकाद्याः सुरद्रुमाः ।।
सेविनस्त्वां प्ररोहंतु भरिता विविधैः फलैः ।। ३४ ।।
दिव्यौषधिगणास्सर्वे सिंहाद्या मृगजातयः ।।
प्रशांताः परिवर्त्तंता पापकल्मषनाशनम् ।। ३५ ।।
अयनद्वयभिन्नेन गमनेनापि संयुतः ।।
न लंघयिष्यति रविः शृंगं लिंगतनोस्तव ।। ३६ ।।
दिव्य दुंदुभिशंखानां घोषैः पुष्पौघवृष्टिभिः ।।
सेवितो भव देव त्वमप्सरोनृत्यगीतिभिः ।। ३७ ।।
अमरत्वं च सिद्धत्वं रससिद्धीश्च निर्वृतिम् ।।
लभंतां मानुषा नित्यं त्वत्संनिधिमुपागताः ।। ३८ ।।
ईशत्वं च वशित्वं च सौभाग्यं कालवंचनम् ।।
त्वामाश्रित्य नरास्सर्वे लभंतामरुणाचल ।। ३९ ।।
सर्वावयवदानेन सर्वव्याधिविनाशनात् ।।
सर्वाभीष्टप्रदानेन दृश्यो भव महीतले ।।1.3.1.2.४०।।
तथेति वरदं देवमरुणाद्रिपतिं शिवम्।।
प्रणम्य कमलानाथः प्रार्थयन्निदमब्रवीत् ।। ४१ ।।
प्रसीद करुणापूर्ण शोणशैलेश्वर प्रभो ।।
महेश सर्वलोकानां हिताय प्रकटोदय ।। ४२ ।।
यदाहं त्वामुपाश्रित्य जगद्रक्षणदक्षिणः ।।
श्रीपतित्वमनुप्राप्तस्तदा भक्ता भवंतु ते ।। ४३ ।।
नाल्पपुण्यैरुपास्येत त्वद्रूपं महदद्भुतम् ।।
मया च ब्रह्मणा चैवमदृष्टपदशेखरः ।। ४४ ।।
प्रदक्षिणानमस्कारैर्नृत्यगीतैश्च पूजनैः ।।
त्वामर्चयंति ये मर्त्याः कृतार्थास्ते गतांहसः ।। ४५ ।।
उपवासैर्व्रतैः सत्रैरुपहारैस्तथार्चनैः ।।
त्वामर्चयंति मनुजाः सार्वभौमा भवंतु ते ।। ४६ ।।
आरामं मंडपं चापि कूपं विधिविशोधनम् ।।
कुर्वतामरुणाद्रीश संनिधाने पुनर्भव ।। ४७ ।।
अंगप्रदक्षिणं कुर्वन्नष्टैश्वर्यसमन्वितः ।।
अशेषपातकैः सद्यो विमुक्तो निर्मलाशयः ।। ४८ ।।
आवामप्यविमुंचंतौ सदा त्वत्पादपंकजम् ।।
ध्यातव्यं मनुजैः सर्वैस्तव संनिधिमागतैः ।। ४९ ।।
तथास्त्विति वरं दत्त्वा विष्णवे चंद्रशेखरः ।।
भरुणाचलरूपेण प्राप्तः स्थावरलिंगताम् ।। 1.3.1.2.५० ।।
तैजसं लिंगमेतद्धि सर्वलोकैककारणम् ।।
अरुणाद्रिरिति ख्यातं दृश्यते वसुधातले ।। ५१ ।।
युगांतसमये क्षुब्धैश्चतुर्भिरपि सागरैः ।।
अपि निर्मग्नलोकांतैरस्पृष्टांतिकभूतलम् ।। ५२ ।।
गजप्रमाणैः पृषतैः पूरयंतो जगत्त्रयम् ।।
पुष्कराद्या महामेघा विश्रांता यस्य सानुनि ।। ५३ ।।
प्रवृत्ते भूतसंहारे प्रकृतौ प्रतिसंचरे ।।
भविष्यत्सर्वबीजानि निषेदुर्यत्र निश्चयम् ।। ५४ ।।
मया चाहूयमानेभ्यः प्रलयानंतरं पुनः ।।
यत्पादसेविविप्रेभ्यो वेदाध्ययनसंग्रहः ।। ५५ ।।
सर्वासामपि विद्यानां कलानां शास्त्रसंपदाम् ।।
आगमानां च वेदानां यत्र सत्यव्यवस्थितिः ।। ५६ ।।
यद्गुहागह्वरांतस्स्था मुनयः शंसितव्रताः ।।
जटिनः संप्रकाशंते कोटिसूर्याग्नितेजसः ।। ५७ ।।
पंचब्रह्ममयैर्मंत्रैः पंचाक्षरवपुर्धरैः ।।
अकारपीठिकारूढो नादात्मा यः सदाशिवः ।। ५८ ।।
अष्टभिश्च सदा लिंगैरष्टदिक्पालपूजितः ।।
अष्टमूर्त्तितया योऽयमष्टसिद्धिप्रदायकः ।। ५९ ।।
यत्र सिद्धास्तथा लोकान्स्वान्स्वान्मुक्त्वा सुरेश्वराः।।
अपेक्षंते स्थिता मुक्तिं विहाय कनकाचलम् ।।1.3.1.2.६०।।
एवं वसुंधरापुण्यपरिपाकसमुच्चयः ।।
अरुणाद्रिरिति ख्यातो भक्तभक्तिवरप्रदः ।।६१।।
कैलासान्मेरुशिखरादागतैर्देवसंचयैः ।।
पूज्यते शोणशैलात्मा शंभुः सर्ववरप्रदः ।।६२।।
इति कमलजवक्त्रपद्मजां तं मुदितमनाः सनको निशम्य भक्त्या ।।
विरचितविनयः प्रणम्य पुत्रः पितरमपृच्छदशेषवेदसारम् ।। ६३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मविष्णुस्तुतिपूर्वकं शंकरस्य स्थावरलिंगमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ।। २ ।।