स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् १/अध्यायः ०९

।। गौतम उवाच ।। ।।
भगवन्नरुणाद्रीश नामधेयानि ते भृशम् ।।
विशेषाच्छ्रोतुमिच्छामि स्थानेऽस्मिन्सुरपूजिते ।। १ ।।
।। महेश्वर उवाच ।। ।।
नामानि शृणु मे ब्रह्मन्मुख्यानि द्विजसत्तम ।।
दुर्लभान्यल्पपुण्यानां कामदानि सदा भुवि ।। २ ।।
शोणाद्रीशोऽरुणाद्रीशो देवाधीशो जनप्रियः ।।
प्रपन्नरक्षको धीरः शिवसेवकवर्धकः ।। ३ ।।
अक्षिपेयामृतेशानः स्त्रीपुंभावप्रदायकः ।।
भक्तविज्ञप्तिसंधाता दीनबंदिविमोचकः ।। ४ ।।
मुखरांघ्रिपतिः श्रीमान्मृडो मृगमदेश्वरः ।।
भक्तप्रेक्षणकृत्साक्षी भक्तदोषनिवर्त्तकः ।। ५ ।।
ज्ञानसंबंधनाथश्च श्रीहलाहलसुंदकः ।।
आहवैश्वर्यदाता च स्मर्तृसर्वाघनाशनः ।। ६ ।।
व्यत्यस्तनृत्यद्धृजधृक्सकांतिर्नटनेश्वरः ।।
सामप्रियः कलिध्वंसी वेदमूर्तिर्निरंजनः ।। ७ ।।
जगन्नाथो महादेवस्त्रिनेत्रस्त्रिपुरांतकः ।।
भक्तापराधसोढा च योगीशो भोगनायकः ।। ८ ।।
बालमूर्त्तिः क्षमारूपी धर्मरक्षो वृषध्वजः ।।
हरो गिरीश्वरो भर्गश्चंद्ररेखावतंसकः ।। ९ ।।
स्मरांतकोंऽधकरिपुः सिद्धराजो दिगंबरः ।।
आगमप्रिय ईशानो भस्मरुद्राक्षलांछनः ।। 1.3.1.9.१० ।।
श्रीपतिः शंकरः स्रष्टा सर्वविद्येश्वरोऽनघः ।।
गंगाधरः क्रतुध्वंसो विमलो नागभूषणः ।। ११ ।।
अरुणो बहुरूपश्च विरूपाक्षोऽक्षराकृतिः ।।
अनादिरंतरहितः शिवकामः स्वयंप्रभुः ।। १२ ।।
सच्चिदानंदरूपश्च सर्वात्मा जीवधारकः ।।
स्त्रीसंगवामसुभगो विधिर्विहितसुंदरः ।। १३ ।।
ज्ञानप्रदो मुक्तिदश्च भक्तवांछितदायकः ।।
आश्चर्यवैभवः कामी निरवद्यो निधिप्रदः ।। १४ ।।
शूली पशुपतिः शंभुः स्वयंभुर्गिरिशो मृडः ।।
एतानि मम मुख्यानि नामान्यत्र महामुने ।। १५ ।।
अन्यानि दिव्यनामानि पुराणोक्तानि संस्मर ।।
प्रदक्षिणेन मां नित्यं विशेषात्त्वं समर्चय ।। १६ ।।
प्रदक्षिणप्रियो यस्मादहं शोणाचलाकृतिः ।।
इत्याज्ञप्तो महादेवमर्चयन्नरुणाचलम् ।।
अविमुंचन्निहावासं कृतवानहमद्रिजे ।। १७ ।।
।। गौर्युवाच ।। ।।
भगवन्सर्वधर्मज्ञ गौतमार्य्य मुनीश्वर ।।
प्रदक्षिणस्य माहात्म्यं ब्रूहि मे शोणभूभृतः ।। १८ ।।
कस्मिन्काले कथं कार्यं कैर्वा पूर्वं प्रदक्षिणम् ।।
कृतं शोणाद्रिनाथस्य प्राप्तमिष्टं परं पदम् ।। १९ ।।
।। ब्रह्मोवाच ।। ।।
इति पृष्टो मुनिः प्राह गौतमः शैलकन्यकाम् ।।
श्रूयतां देवि माहात्म्यमादिशन्मे महेश्वरः ।। 1.3.1.9.२० ।।
।। महादेव उवाच ।। ।।
अहं हि शोणशैलात्मा प्रकाशो वसुधातले ।। २१ ।।
परितो मां सुराः सर्वे वर्तंते मुनिभिः सह ।। २२ ।।
यानि कानि च पापानि जन्मांतरकृतानि च ।।
तानि तानि विनश्यंति प्रदक्षिणपदे पदे ।। २३ ।।
अश्वमेधसहस्राणि वाजपेयायुतानि च ।।
सिद्ध्यंति सर्वतीर्थानि प्रदक्षिणपदे पदे ।। २४ ।।
अपि प्रहीणस्य समस्तलक्षणैः क्रियाविहीनस्य निकृष्टजन्मनः ।।
प्रदक्षिणीकृत्य शशांकशेखरं प्रयास्यतः कस्य न सिद्धिरग्रतः ।। २५ ।।
समस्त तीर्थाभिगमेषु पुण्यं समस्तयज्ञागमधर्मजातम् ।।
अवाप्यते शोणमहीधरस्य प्रदक्षिणाप्रक्रमणेन सत्यम् ।। २६ ।।
पदेनैकेन भूलोकं द्वितीयेनांतरिक्षकम् ।।
तृतीयेन दिवं मर्त्यो जयत्यस्य प्रदक्षिणे ।। २७ ।।
एकेन मानसं पापं द्वितीयेन तु वाचिकम् ।।
कायिकं तु तृतीयेन पदेन क्षीयते नृणाम् ।। २८ ।।
पातकानि च सर्वाणि पदेनैकेन मार्जयेत् ।।
द्वितीयेन तपः सर्वं प्राप्नोत्यस्य प्रदक्षिणात् ।।२९।।
पर्णशाला महर्षीणां सिद्धानां च सहस्रशः ।।
सुराणां च तथाऽऽवासा विद्यंतेत्र सहस्रशः ।। 1.3.1.9.३० ।।
अत्र सिद्धः पुनर्नित्यं वसाम्यग्रे सुरार्चितः।।
ममांतरे गुहा दिव्या ध्यातव्या भोगसंयुता ।। ३१ ।।
अग्निस्तंभमयं रूपमरुणादिरिति श्रुतम् ।।
ध्यायँल्लिंगं मम बृहत्मन्दं कुर्यात्प्रदक्षिणम् ।। ३२ ।।
अष्टमूर्तिमयं लिंगमिदं यैस्तैजसं भृशम् ।।
ध्यात्वा प्रदक्षिणं कुर्वन्पातकानि विनिर्दहेत् ।।३३।।
न पुनः संभवस्तस्य यः करोति प्रदक्षिणाम् ।।
शोणाचलाकृतेर्नित्यं नित्यत्वं ध्रुवमश्नुते ।।३४।।
अस्य पादरजःस्पर्शात्पूयते सकला मही ।।
पदमेकं तु धत्ते यः शोणाद्रीशप्रदक्षिणे ।। ३५ ।।
नमस्कुर्वन्प्रतिदिशं ध्यायन्स्तौति कृतांजलिः ।।
असंसृष्टकरः कैश्चिन्मंदं कुर्यात्प्रदक्षिणम् ।।३६।।
आसन्नप्रसवा नारी यथा गच्छेदनाकुलम् ।।
तथा प्रदक्षिणं कुर्यादशृण्वंश्च पदध्वनिम् ।।३७।।
स्नातो विशुद्धवेषः सन्भस्मरुद्राक्षभूषितः ।।
शिवस्मरणसंसृष्टो मंदं दद्यात्पदं बुधः ।।३८।।
मनूनां चरतामग्रे देवानां च सहस्रशः ।।
अदृश्यानां च सिद्धानां नान्येषां वायुरूपिणाम् ।।३९।।
संघट्टमतिसंमर्दं मार्गरोधं विचिंतयन् ।।
अनुकूलेन भक्तः सञ्छनैर्दद्यात्पदं बुधः ।।1.3.1.9.४०।।
अथवा शिवनामानि संकीर्त्य वरगीतिभिः।।
शिवनृत्यं च रचयन्भक्तैः सार्द्धं परिक्रमेत् ।।४१।।
माहात्म्यं मम वा शृण्वन्ननन्यमतिरादरात् ।।
शनैः प्रदक्षिणं कुर्यादानन्दरसनिर्भरः ।। ४२ ।।
दानैश्च विविधैः पुण्यैरुपकारैस्तथार्थिनाम् ।।
यथामति दयापूर्ण आस्तिकः परितो व्रजेत् ।।४३।।
कृते त्वग्निमयं लिंगं त्रेतायां मणिपर्वतम् ।।
द्वापरे चिंतयेद्धैमं कलौ मरकताचलम् ।। ४४ ।।
अथवा स्फाटिकं रूपमरुणं तु स्वयंप्रभम् ।।
ध्यायन्विमुक्तः सकलैः पापैः शिवपुरं व्रजेत् ।। ४५ ।।
अवाङ्मनसगम्यत्वादप्रमेयतया स्वयम् ।।
अग्नित्वाच्च परं लिंगमनासाद्याचलाभिधम् ।। ४६ ।।
ध्यात्वा प्रदक्षिणं कर्तुरभिगम्योऽहमंजसा ।।
तस्य पादरजो नृणामजरामरकारणाम् ।। ४७ ।।
रूपमेकं तु धत्ते यः शोणाद्रीशप्रदक्षिणे ।।
वाहनानि सुरौघाणां प्रार्थयंते परस्परम् ।। ४८ ।।
कुर्वतां चरणं वोढुमरुणाद्रिप्रदक्षिणाम् ।।
छायाप्रदानं कुर्वंति कल्पकाद्याः सुरद्रुमाः ।। ४९ ।।
कुर्वतां भुवि मर्त्त्यानामरुणाद्रिप्रदक्षिणाम् ।।
देवगन्धर्वकाद्यानां सहस्रेण समावृताः ।। 1.3.1.9.५० ।।
सेवंते ते गणाकीर्णा विमानशतकोटयः ।।
मम प्रदक्षिणं भूमौ कुर्वतां पादपांसुभिः।। ५१ ।।
पाविता महती वीथी दृष्टा शिवपदप्रदा ।।
अंगप्रदक्षिणं कुर्वन्क्षणात्स्वर्ग्यतनुर्भवेत् ।। ५२ ।।
प्राप्तो वज्रशरीरत्वं न धृष्येत महीतले ।।
व्योमयानोत्सुका देवाः सिद्धाश्च परमर्षयः ।। ५३ ।।
अदृश्याः संचरंत्यत्र पश्यंते मम संनिधिम् ।।
विनयं मम भक्तिं च प्रदक्षिणपरिक्रमे ।। ५४ ।।
दृष्ट्वा हर्षसमायुक्ता मर्त्त्येभ्यो ददते वरम् ।।
अत्र देवास्त्रयस्त्रिंशत्पुरा कृत्वा प्रदक्षिणाम् ।। ५५ ।।
प्रत्यहं मार्गमासीनाः प्रत्येकं कोटितां गताः ।।
आदित्याद्या ग्रहाः सर्वे पुरा कृत्वा प्रदक्षिणाम् ।। ५६ ।।
संपूर्णजगतीभागे सर्वे ग्रहपतां गताः ।।
यः करोति नरो भूमौ सूर्यवारे प्रदक्षिणाम् ।। ५७ ।।
स सूर्यमडलं भित्त्वा मुक्तः शिवपुरं व्रजेत् ।।
सोमवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम् ।। ५८ ।।
अजरामरतां प्राप्तो नासौम्यो भवति क्षितौ ।।
भौमवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम् ।। ५९ ।।
आनृण्यमखिलं प्राप्य सार्वभौमो भवेद्ध्रुवम् ।।
बुधवारे नरः कुर्वञ्छोणाद्रीशप्रदक्षिणाम् ।। 1.3.1.9.६० ।।
सर्वज्ञतामनुप्राप्तः स वाचां पतितामियात् ।।
गुरुवारे नरः कुर्वन्सर्वदेवनमस्कृतः ।। ६१ ।।
प्रदक्षिणेन शोणाद्रेः स तु लोकगुरुर्भवेत् ।।
भृगुवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम् ।। ६२ ।।
संप्राप्य महतीं लक्ष्मीं लभते वैष्णवं पदम् ।।
मन्दवारे नरः कृत्वा शोणाद्रीशप्रदक्षिणाम् ।। ६३ ।।
विमुक्तो ग्रहपीडाभिः स विश्वविजयी भवेत् ।।
नक्षत्राणि च सर्वाणि पुरा तद्दैवतैः सह ।। ६४ ।।
मम प्रदक्षिणां कर्तुः पुण्यानि सहसा व्रजेत् ।।
तिथयः करणानीह योगाश्च मम संमताः ।। ६५ ।।
अभीष्टफलदा जाताः कुर्वतां मत्प्रदक्षिणाम् ।।
मुहूर्ता विविधा होराः सौम्याश्च सततोदयाः ।। ६६ ।।
मत्प्रदक्षिणकर्तॄणां जायंते सततं शुभाः।।
 प्रच्छिनत्ति प्रकारोऽघं दकारो वांछितप्रदः ।।६७।।
क्षिकारात्क्षीयते कर्म णकारो मुक्तिदायकः।।
दुर्बलाः कार्श्यसंयुक्ता आधिव्याधिविजृंभिताः ।। ६८ ।।
मम प्रदक्षिणं कृत्वा मुच्यंते सर्वदुष्कृतैः ।।
मम प्रदक्षिणं कर्तुर्भक्त्या पादेन संततम् ।।६९।।
क्षणेन साध्वां पश्यामि त्रैलोक्यस्य प्रदक्षिणाम् ।।
लोकेशाश्च दिगीशाश्च ये चान्ये कारणेश्वराः।।1.3.1.9.७०।।
मम प्रदक्षिणां कृत्वा स्थिरा राज्ये पुराऽभवन् ।।
अहं च गणसंयुक्तः सर्वदेवर्षिसंयुतः ।।७१।।
उत्तरायणसंयोगे करोमि स्वप्रदक्षिणाम् ।।
मद्रूपं तैजसं लिंगमरुणाद्रिरिति श्रुतम् ।।७२।।
त्रैलोक्यस्य हितार्थाय करिष्यामि प्रदक्षिणाम् ।।
आगता च परांते च गौरी तप इहाद्भुतम् ।। ७३ ।।
कर्तुं प्रदक्षिणं कृत्वा मामेष्यत्यनघा पुनः ।।
कार्तिके मासि नक्षत्रे कृत्तिकाख्ये महातपाः ।। ७४ ।।
मम प्रदक्षिणां गौरी प्रदोषे रचयिष्यति ।।
नराणामल्पपुण्यानां दुर्लभं तत्प्रदक्षिणम् ।। ७५ ।।
ज्योतिर्लिगस्य दृष्टस्य देवी प्रार्थनया तथा ।।
मया समेता देवी सा प्राप्ताऽपीतकुचाभिधा ।। ७६ ।।
आश्वास्यति सुरान्सर्वानुत्तरायणसंगमे ।।
देवगन्धर्वयक्षाणां सिद्धानामपि रक्षसाम् ।। ७७ ।।
सर्वेषां देवयोनीनां भविता तत्र संगमः ।।
ये तदा मां समागत्य पूजयंति तपोधिकाः ।। ७८ ।।
सर्वजन्मकृताघौघ प्रायश्चित्तं व्रजंति ते ।।
दुर्ल्लभं तद्दिनं पुंसामुत्तरायणसंगमे ।। ७९ ।।
तदा मद्रूपमभ्यर्च्य कृतार्थाः सन्तु मानवाः ।।
प्रदक्षिणं तु मे दिव्यं कुर्वंति च महीभुजः ।। 1.3.1.9.८० ।।
तेषां पुरोगतः साक्षादहं जेष्यामि विद्विषः ।।
राजा यस्य तु देशस्य यो यो राजा तपोधिकः ।। ८१ ।।
स कारयेद्विप्रमुख्यैः श्रोत्रियैर्मे प्रदक्षिणाम् ।।
मंडलं मंडलार्द्धं वा संकल्पविधिपूर्वकम् ।। ६२ ।।
तस्य तस्य स्थिरं राज्यं शत्रूणां च पराहतिम् ।।
करिष्यामि मुने नित्यमहमेव पुरःस्थितः ।। ८३ ।।
न वाहनेन कुर्वीत मम जातु प्रदक्षिणाम् ।।
धर्मलुब्धमना जानञ्छिवाचारपरिप्लुतिम् ।। ८४ ।।
धर्मकेतुः पुरा राजा यमलोकादुपागतः ।।
मम प्रदक्षिणां कर्त्तुं तुरगेणाभ्यरोचयत् ।। ८५ ।।
क्षणेन तुरगो जातो गणनाथः सुरार्चितः ।।
प्रतिपेदे पदं शैवं विमुच्य धरणीपतिम् ।। ८६ ।।
वीक्ष्य तं वाहनं भूयो गणनाथवपुर्द्धरम् ।।
पादप्रदक्षिणां कृत्वा स्वयं च गणपोऽभवत् ।। ८७ ।।
तदाप्रभृति शक्राद्याः सुरा विष्णुसमन्विताः ।।
पादाभ्यामेव कुर्वंति मम सर्वे प्रदक्षिणाम् ।। ८८ ।।
स्वर्गान्निपातितः कोऽपि सिद्धः काले तपःक्षयात् ।।
प्रदक्षिणां ततः कृत्वा पुनर्लब्धपदोऽभवत् ।। ८९ ।।
स्खलितं पादजं रक्तं मम कर्तुः प्रदक्षिणम् ।।
मार्ज्यते तस्य देवेन्द्र मौलिमंदारकेसरैः ।। 1.3.1.9.९० ।।
प्रदक्षिणमहावीथी शिलाशकलघट्टितम् ।।
पदं संधार्यते पुंसां श्रीपयोधरकुंकुमैः ।। ९१ ।।
मणिपर्वतशृंगेषु कल्पद्रुमवनांतरे ।।
संचरंति सदा मर्त्या मम कृत्वा प्रदक्षिणम् ।। ९२ ।।
।। गौर्युवाच ।। ।।
उपचारप्रवृत्तानां फलं मे शंस सुव्रत ।।
यैर्वै जनः कृतार्थः स्याद्यथाशक्ति कृतादरः ।। ९३ ।।
।। मुनिरुवाच ।। ।।
उपचारफलं देवि शृणु वक्ष्याम्यहं तव ।।
यन्मह्यं कृपया पूर्वमुक्तवान्परमेश्वरः ।। ९४ ।।
लूती तंतुकजालानि संसृज्य क्वचिदेव मे ।।
जातिस्मरो महीध्रेऽस्मिन्सोंऽशुकैर्मां व्यवेष्टयत् ।। ९५ ।।
गजः कश्चितृषाक्रांतो विमुच्य च मधु क्वचित् ।।
वनपल्लवमुत्कीर्य मुक्तोऽभूद्गणनायकः ।। ९६ ।।
कृमयो विलुठन्तो मे पार्श्वे दुरितवर्जिताः ।।
सिद्धवेषाः पुनः सर्वे मम लोकं व्रजंति ते ।। ९७ ।।
अव्युच्छिन्नप्रदीपार्चिः क्षणमप्यादधाति यः ।।
स्वयंप्रकाशः स भवन्मम सारूप्यमश्नुते ।। ९८ ।।
हारीतः कोपि संप्राप्तः शाखानीडो ममांतिके ।।
खद्योतो दीपवन्नक्तं तावन्मुक्तिं समागतः ।। ९९ ।।
गावः प्रस्रवणैः सिक्ता वत्सस्मरणसंभवैः ।।
मत्पार्श्वे मुक्तिमापुस्ता मम लोकं समाश्रयन् ।। 1.3.1.9.१०० ।।
काकः पक्षजवातेन बलिग्रहणलोलुपः ।।
मार्जयन्मत्पुरोभागं मुक्तिं प्रापद्यत क्षणात् ।। १०१ ।।
मूषको मद्गुहाभागं मणिसंघविकर्षणैः ।।
प्रकाशयन्वितिमिरं मम रूपमपद्यत ।। १०२ ।।
छायावृक्षत्वमास्थातुं मुनयस्त्रिदशा अपि ।।
प्रार्थयंत्येव मत्पार्श्वे न पुनःसंभवेच्छया।।१०३।।
गोपुरं शिखरं शालां मण्डपं वापिकामपि ।।
कुर्वतां मत्पुरोभागे सिध्यंतीष्टार्थसंपदः ।। १०४ ।।
सदा मर्त्त्यैरनासाद्यमग्निलिंगमिदं मम ।।
अनासाद्याचलेशाख्यं पूज्यतां वसुधातले ।।१०५।।
वीक्षणस्पर्शनध्यानैः स्वभूतं निखिलं जगत् ।।
पोषयंती परा शक्तिः पूज्याऽपीतकुचाभिधा ।।१०६।।
सर्वलोकैकजननी संप्राप्ता नित्ययौवनम्।।
यौवनप्रार्थिभिः सेव्या सदाऽपीतकुचाभिधा ।। १०७।।
क्षणात्तस्य पुरोभागे वसतां प्राणिनामिह ।।
परत्र वात्र दुष्प्राप्यमिष्टवस्तु न विद्यते ।।१०८।।
अप्रमेयगुणाधारमपेक्षितवरप्रदम् ।।
अशेषभोगनिलयं शोणाद्रीशं समर्चय ।।१०९।।
लब्धकामा पुनः शम्भुमाश्रयिष्यसि सुव्रते ।।
तपश्चरणमप्येतत्तव लोकहितावहम् ।। 1.3.1.9.११० ।।
न केवलं तव तपः स्ववांछितफलप्रदम् ।।
तपस्यतामृषीणां च क्षेमायैव भविष्यति।।१११।।
कारणांतरमाशंक्य तपः कुर्वंति देवताः ।।
रहस्यं देवतानां तु फलेनैवानुमीयते ।। ११२ ।।
वयं च सहसंवासास्तव व्रतनिरीक्षणात् ।।
कृतार्थाः स्याम देवेशि तपसा नः कृतार्थता ।। ११३ ।।
इति तस्य मुनेर्वाक्यमर्थगर्भं निशम्य सा ।।
गौरी कौतुकसंयुक्ता प्रशशंस महामुनिम् ।। ११४ ।।
तपः किमन्यत्कर्तव्यं लब्धं तव तु दर्शनम् ।।
अरुणाद्रिरयं दृष्टः श्रुतं माहात्म्यमस्य च ।। ११५ ।।
अहो भूमेस्तु वैचित्र्यं यतो दृष्टा दिवोऽधिका ।।
यत्रैव तैजसं लिंगं देवतानां वरप्रदः ।। ११६ ।।
शिवः प्रसादसिद्धो मे दर्शितं स्थानमात्मनः ।।
अत्रैव शिवमाराध्य वशीकुर्यां जगद्गुरुम् ।। ११७ ।।
अविनाभूतमैक्यं मे देवेन भवतात्सदा ।।
त्वया कृतेन साह्येन भवेयं शिवनायिका ।। ११८ ।।
इति गौतमसंनिधौ तदानीं कृतसंवित्तप आदरेण कर्तुम् ।।
अभजद्रुचिरां च पर्णशालां मुनिना चानुमता तथेति भक्त्या ।। ११९ ।।
सुकुमारतनुः सरोरुहाक्षी घनतुंगस्तनकल्पितोत्तरीया ।।
जटिला हरिनीलरत्नकांतिर्गिरिजा राजति देहवत्तपःश्रीः ।। 1.3.1.9.१२० ।।
नियमैर्बहुभिस्तपोविशेषैः क्रतुषु प्राप्तविचित्रयोगबंधैः ।।
निगमागमदृष्टधर्ममार्गं सकलं सा तु कृतार्थतामनैषीत् ।। १२१ ।।
तपसा विविधेनतप्यमाना न कदाचित्परिखेदमाप तन्वी ।।
हरिरत्नमयी च कापि वल्ली नितरां दीप्तिमती बभूव बाला ।। १२२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणेश्वरप्रदक्षिणामाहात्म्यवर्णनंनाम नवमोऽध्यायः ।। ९ ।।