स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः १२

।। नंदिकेश्वर उवाच ।। ।।
ततस्तेजोमयं स्तंभमनुसृत्य पितामहः ।।
उत्पपातोन्मुखो वेगान्निरालंबे नभस्तले ।।१।।
द्रुतमुत्पततस्तस्य पक्षावेगेन वारिताः ।।
व्यशीर्यत समुद्वर्ताः प्रणुन्ना इव वायुभिः।।२।।
स वेगादुत्पतन्दूरं नाक्ष्णोर्विषयतामगात् ।।
केवलं दीर्घदीर्घैव रेखा व्योम्नि व्यभाव्यत।।३।।
मायामरालो ददृशे तेजःस्तंभस्यपार्श्वतः।।
संध्यापयोधराभ्यर्णचारीव रजनीकरः।।४।।
प्रागत्यगादुत्पततां ततोऽध्वानं पयोमुचाम्।।
विमानपदवीं पश्चात्तारावर्तं ततः परम् ।।५।।
तेजसां यानि धामानि ह्यत्युच्चान्यूर्ध्वचारिणाम् ।।
अतिचक्राम वेगेन तान्यसौ कुहनाखगः ।। ।। ६ ।।
मरुतो मनसो वापि जवः सूक्ष्मतराकृतेः ।।
सोऽभूदधःकृतस्तेन हंसेन गमनादिना ।। ७ ।।
यथायथा चोत्पपात सुदूरं श्रमितच्छदः ।।
तथातथा च ददृशे तेजःस्तंभः समुन्नतः ।। ८ ।।
अतीत्य मरुतां स्कंधान्सप्त संप्राप्तविस्मयः ।।
बिभेदांडकटाहं च ज्वलंतं तमुदैक्षत ।। ९ ।।
कथं वाऽदृष्टमूलस्य स्थातव्यं पुरतो हरेः ।।
अविमोचयतः शौरेरसमासमशीर्षताम् ।। 1.3.2.12.१० ।।
अनिर्व्यूढप्रतिज्ञस्य दीर्घैः किं वा ममासुभिः ।।
तदत्रौपयिकं किं स्यात्कार्यं का मा गतिर्मम ।।११।।
अतिसंधित्सतो विष्णुं कस्सहायो भविष्यति ।।
आर्जवं नैव निर्जेतुं प्रतिवादिनमक्षमः ।। १२ ।।
छद्मना वा तिरस्कुर्यान्माना हि महतां धनम् ।।
इति संचितयत्येव विरिंचौ व्याकुलात्मनि ।। १३ ।।
आकाशे ददृशे नातिदूरे किमपि निर्मलम् ।।
ऐंदवी किमियं रेखा तस्याः कथमिहागमः ।। १४ ।।
यद्वा मृणालं तत्सिंधौ वियत्यस्यां कुतस्तु सः ।।
इति तस्मिन्ससंदेहे नेदीयस्तं तदागतम् ।। १५ ।।
अबोधि केतकीबर्हमिति राजीवजन्मना ।।
तत्पर्युषितमप्युद्यत्सौरभं वस्तुशक्तितः ।। १६ ।।
हिरण्यगर्भो विमलमगृह्णात्केतकच्छदम् ।।
गृहीतमात्रं तेनैतत्सचैतन्यं किलाब्रवीत् ।। १७ ।।
।। केतक उवाच ।। ।।
भो गृह्णासि किमर्थं त्वं मुंच मां विश्रमोद्यतम् ।।
वर्षाणां शतसाहस्रमुत्पत्यैवं विहायसा ।। १८ ।।
।। नंदीश उवाच ।। ।।
तथा समेधमानं तं दृष्ट्वा श्रममखिद्यत ।।
अचिंतयत्पद्मसूतिरत्यंतं विहताशयः ।। १९ ।।
अनिर्व्यूढप्रतिज्ञावान्नीचतामपि संश्रितः ।।
आक्रांतरोदोविवरः क्व राशिस्तेजसामसौ ।। 1.3.2.12.२० ।।
अहमेतत्परीक्षायां क्व परिच्छिन्न पौरुषः ।।
भज्येते इव मे पक्षौ दृशा चांधायते इव ।।
प्रध्वंसंत इवांगानि पतामीवाहमप्यधः ।। २१ ।।
किं वान्यद्बहुनोक्तेन सह निश्वासवायुभिः ।।
मम प्राणाश्च नियतं निर्गच्छंतीव सांप्रतम् ।। २२ ।।
अहंकारमदग्रंथिरयं त्रुटतु चित्ततः ।।
मुकुंदेन सह स्पर्धा सा च शीघ्ं प्रणश्यतु ।। २३ ।।
यदेष रोदःकुहरपरिणाहाधिकोद्यमः ।।
औन्नत्यमयतेऽद्यापि तेजस्तंभो यथा पुरा ।। २४ ।।
तदस्य तेजसां राशेर्नाहं नारायणोऽथवा ।।
कारणं दूरतश्चान्ये महेंद्रप्रमुखाः सुराः ।। २५ ।।
इतो नोत्पतितुं शक्तिरस्ति मे तन्निवर्त्तये ।।
इति निश्चित्य मनसा विधाता जातविस्मयः ।। २६ ।।
प्रत्यभाषत तं कस्त्वं कुतो वा प्राप्तवानिति ।।
स च प्रत्यब्रवीदेनं वेधसं केतकच्छदः ।। २७ ।।
केतकच्छद एवासं सचैतन्यः शिवाज्ञया ।।
तेजस्तंभात्मनः शंभोरस्य मूर्ध्नि चिरं स्थितः ।। २८ ।।
भूलोक इच्छया वस्तुं ततः संप्राप्तवानहम् ।।२९।।
इत्थं श्रुत्वा केतकीबर्हवाचं लब्ध्वाश्वासं तं किलांभोजभूतिः ।।
ब्रूहि त्वं मे तत्कियत्यंतरे वा तेजःस्तंभस्याग्रमित्यावभाषे ।। 1.3.2.12.३० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मणा लिंगोपरिभागशोधनवर्णनंनाम द्वादशोऽध्यायः ।। १२।।