स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः १७
।। सूत उवाच ।। ।।
इति श्रुत्वास्य वचनं मार्कंडेयोऽभ्यभाषत ।।
।। मार्कंडेय उवाच ।। ।।
श्रुतमेव मया देव श्रोतव्यं भवतो मुखात् ।। १ ।।
तथापि कौतुकेनाहमाक्रांतो मुनयोऽप्यमी ।।
गौर्या कथं तपस्तप्तं महादेव्यात्र कथ्यताम् ।। २ ।।
।। नंदिकेश्वर उवाच ।। ।।
कथयामि तदप्येतद्यथाऽधिगतमात्मना ।।
शृणु त्वमवधानेन मार्कंडेय महामते ।। ३ ।।
ननु जानासि तत्पूर्वं यथा दाक्षायणी शिवः ।।
उपयेमे सतीं नाम सतीनामधिदेवताम् ।। ४ ।।
यथा च सा क्रुधा भर्तुर्द्रुहि दक्षप्रजापतौ ।।
योगादहासीदात्मीयं वपुरित्यपि ते श्रुतम् ।। ५ ।।
तदा हराज्ञानिघ्नेन वीरभद्रेण यत्कृतम् ।।
अध्वरध्वंसनं दक्षस्यापि ते विदितं महत् ।। ६ ।।
अश्रौषीस्तस्य दक्षस्य गणैः शीर्षासखंडनम् ।।
ब्रह्माच्युतेंद्रमुख्यानां देवानामपि शिक्षणम् ।। ७ ।।
दंतघातं रवेः पाणिपाटनं जातवेदसः ।।
अदितिप्रभृतीनां च दिव्यस्त्रीणां पराभवम्।। ।। ८ ।।
सा च देवी पुनर्जन्म लेभे हिमवतो गृहे ।।
उमेति पार्वतीत्याख्यां द्वितीयां विभ्रती पुनः ।। ९ ।।
देवः स्थाणुवने तां च परिचर्यापरं रहः ।।
अरुरोचयिषुः काममधाक्षीत्कालवह्निना ।। 1.3.2.17.१० ।।
जितेंद्रियं च तं देवं क्वापि यातं गणैः सह ।।
तपोभिस्तोषयामास गौरी शिखरवासिनी ।। ११ ।।
उपयम्याथ तां देवो वृत्तांतैश्चित्तखंडिभिः ।।
रमयामास चैकांते मोदस्वेति विलासिनीम् ।। १२ ।।
वैधव्यखिन्नया रत्या प्रार्थिता शैलनंदिनी ।।
कामपीठे तपस्यंती कामं प्रत्युददीपयत् ।। १३ ।।
पुनश्च मेनया मात्रा पित्रा च हिमभूभृता ।।
आनीता भवनं भर्त्रा साकं चिरमरंस्त सा ।। १४ ।।
तदा शुंभनिशुंभाख्यौ लेभाते वेधसो वरम् ।।
देवदानवमर्त्येषु मास्तु नौ पुरुषान्मृतिः ।। १५ ।।
इति तद्वचनं श्रुत्वा जातत्रासैः सुपर्वभिः ।।
अभ्यर्थितोऽवदद्देवो रहश्चक्रधरादिभिः ।। १६ ।।
माभैष्ट भद्र कालेन तथा प्रतिविधीयते ।।
यथा निषूदितौ स्यातां तादृशौ दानवाविति ।। १७ ।।
दत्ताभयान्मुकुंदादीन्विसृज्यांधकसूदनः ।।
अंतःपुरगतो रेमे देव्या सह यथा पुरा ।। १८ ।।
कदाचिन्मर्मलक्ष्येण प्रीत्या कालीति निंदिता ।।
तस्य प्रीत्यै कालिका च त्वचमेवाजहान्निजाम् ।। १९ ।।
यत्रोत्क्षिप्तवती चर्म स्वेच्छया परमेश्वरी ।।
महाकाशीप्रपाताख्यं तदभूत्क्षेत्रमुत्तमम् ।। 1.3.2.17.२० ।।
सा च त्वक्कौशिकी नाम्ना काली विंध्याद्रिवासिनी ।।
तपस्यंती वृषस्यंतौ तो जघान महासुरौ ।। २१ ।।
देवी च गौरी शिखरे तस्मिन्नेव मनोहरे ।।
तपोभिर्लब्धगौरीत्वाद्भर्त्तारं समतोषयत् ।। २२ ।।
क्रमेण दौर्हृदवती भूत्वा प्रासूत पार्वती ।।
गजाननं च हेरंबं सेनान्यं च षडाननम् ।। २३ ।।
तौ चागमविदः प्राहुर्नारायणचतुर्मुखौ ।।
पूर्वापराधशुद्ध्यर्थं देवीगर्भसमुद्भवौ ।। २४ ।।
वर्धमानौ च तौ बालौ पित्रोरालोकमानयोः ।।
मग्नयोरिव वर्षाब्धौ प्रेमग्रंथिरभूद्दृढा ।। २५ ।।
जातु वीणानिनादेन कदाचिच्चित्रलेखनैः ।।
विजह्रतुश्शिवौ स्वैरमेकदा मंडनैर्मिथः ।। २६ ।।
जातु विद्यागमालापैः कदाचिच्चित्रवस्तुभिः ।।
एकदा लोकवृत्तांतैर्दंपतिभ्यां विनोदितम् ।। २७ ।।
पुष्पावचयनैर्जातु कदाचिद्वारिखेलनैः ।।
अदीव्यतां च रागार्द्रौ दोलाकेलिभिरेकदा ।। २८ ।।
मैनाकेनार्चितौ जातु मेनया जातु पूजितौ ।।
जात्वर्हितौ हिमवता दंपती तौ विनोदितौ ।।२९।।
जातु द्यूतविनोदेन गतिगोष्ठ्या कदाचन ।।
एकदा दानलीलाभिः शिवौ चिक्रीडतुश्चिरम् ।। 1.3.2.17.३० ।।
द्यूतनिर्जितमाच्छिद्य पत्युरुत्संगतां गतम् ।।
वलयीकृतमेणांकं ताटंकीकृतवत्युमा ।। ३१ ।।
इति तौ पितरौ चराचराणां निवसंतौ कनकाचलादिकेषु ।।
रुचिरेषु पदेषु कामभोगानतिहृद्यान्सुचिरं किलान्वभूताम् ।। ३२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवपार्वतीविहारवर्णनंनाम सप्तदशोऽध्यायः ।। १७ ।।