स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ११
युधिष्ठिर उवाच ।। ।।
अतः परं किमभवद्ब्रवीतु द्विजसत्तम ।।
त्वद्वचनामृतं पीत्वा तृप्तिर्नास्ति मम प्रभो ।। १ ।।
।। व्यास उवाच ।। ।।
अथ किंचिद्गते काले युगांतसमये सति ।।
त्रेतादौ लोलजिह्वाक्ष अभवद्राक्षसेश्वरः ।। २ ।।
तेन विद्रावितं सर्वं त्रैलोक्यं सचराचरम् ।।
जित्वा स सकलाँल्लोकान्धर्मारण्ये समागतः ।। ३ ।।
तद्दृष्ट्वा सकलं पुण्यं रम्यं द्विजनिषे वितम् ।।
ब्रह्मद्वेषाच्च तेनैव दाहितं च पुरं शुभम् ।। ४ ।।
दह्यमानं पुरं दृष्ट्वा प्रणष्टा द्विजसत्तमाः ।।
यथागतं प्रजग्मुस्ते धर्मारण्यनिवासिनः ।। ।।५ ।।
श्रीमाताद्यास्तदा देव्यः कोपिता राक्षसेन वै ।।
घातयंत्येव शब्देन तर्जयित्वा च राक्षसम् ।। ६ ।।
समुच्छ्रितास्तदा देव्यः शतशोऽथ सह स्रशः ।।
त्रिशूलवरधारिण्यः शंखचक्रगदाधराः ।।७।।
कमंडलुधराः काश्चित्कशाखङ्गधराः पराः ।।
पाशांकुशधरा काचित्खड्गखेटकधारिणी ।। ८ ।।
काचित्परशुहस्ता च दिव्यायुधधरा परा ।।
नानाभरणभूषाढ्या नानारत्नाभिशोभिता ।। ९ ।।
राक्षसानां विनाशाय ब्राह्मणानां हिताय च ।।
आजग्मुस्तत्र यत्रास्ते लोलजिह्वो हि राक्षसः ।।3.2.11.१०।।
महादंष्ट्रो महाकायो विद्युज्जिह्वो भयंकरः ।।
दृष्ट्वा ता राक्षसो घोरं सिंहनादमथाकरोत् ।।११।।
तेन नादेन महता त्रासितं भुवनत्रयम् ।।
आपूरिता दिशः सर्वाः क्षुभितानेकसागराः ।। १२ ।।
कोलाहलो महानासीद्धर्मारण्ये तदा नृप ।।
तच्छ्रुत्वा वासवेनाथ प्रेषितो नलकूबरः ।। १३ ।।
किमिदं पश्य गत्वा त्वं दृष्ट्वा मह्यं निवेदय ।।
तत्तस्य वचनं श्रुत्वा गतो वै नलकूबरः ।। १४ ।।
दृष्ट्वा तत्र महायुद्धं श्रीमातालोलजिह्वयोः ।।
यथादृष्टं यथाजातं शक्राग्रे स न्यवेदयत् ।। १५ ।।
उद्वेजयति लोकांस्त्रीन्धर्मारण्यमितो गतः ।।
तच्छ्रुत्वा वासवो विष्णुं निवेद्य क्षितिमागमत्।। १६ ।।
दाहितं तत्पुरं रम्यं देवानामपि दुर्लभम् ।।
न दृष्टा वाडवास्तत्र गताः सर्वे दिशो दश ।। १७ ।।
श्रीमाता योगिनी तत्र कुरुते युद्धमुत्तमम् ।।
हाहाभूता प्रजा सर्वा इतश्चेतश्च धावति ।। १८ ।।
तच्छ्रुत्वा वासुदेवो हि गृहीत्वा च सुदर्शनम् ।।
सत्यलोकात्तदा राजन्समागच्छन्महीतले ।। १९ ।।
धर्मारण्यं ततो गत्वा तच्चक्रं प्रमुमोच ह ।।
लोलजिह्वस्तदा रक्षो मूर्च्छितो निपपात ह ।। 3.2.11.२० ।।
त्रिशूलेन ततो भिन्नः शक्तिभिः क्रोधमूर्च्छितः ।।
हन्यमानस्तदा रक्षः प्राणांस्त्यक्त्वा दिवं गतः ।। २१ ।।
ततो देवाः सगंधर्वा हर्षनिर्भरमानसाः ।।
तुष्टुवुस्तं जगन्नाथं सत्यलोकात्समागताः ।। २२ ।।
उद्वसं तत्समालोक्य विष्णुर्वचनमब्रवीत् ।।
क्व च ते ब्राह्मणाः सर्वे ऋषीणामाश्रमे पुनः ।। २३ ।।
ततो देवाः सगं धर्वा इतस्ततः पलायितान्।।
संशोध्य तरसा राजन्ब्राह्मणानिदमब्रुवन् ।। २४ ।।
श्रूयतां नो वचो विप्रा निहतो राक्षसाधमः ।।
वासुदेवेन देवेन चक्रेण निरकृंतत ।। २५ ।।
तच्छ्रुत्वा वाडवाः सर्वे प्रहर्षोत्फुल्ललोचनाः ।।
समाजग्मुस्तदा राजन्स्वस्वस्थाने समाविशन् ।। २६ ।।
श्रीकांताय तदा राजन्वाक्यमुक्तं मनोरमम् ।।
यस्मात्त्वं सत्यलोकाच्च आगतोऽसि जगत्प्रभुः ।।
स्थापितं च पुरं चेदं हिताय च द्विजात्मनाम् ।। २७ ।।
सत्यमंदिरमिति ख्यातं तदा लोके भविष्यति ।।
कृते युगे धर्मारण्यं त्रेतायां सत्यमंदिरम् ।। २८ ।।
तच्छ्रुत्वा वासुदेवेन तथेति प्रतिपद्य च ।।
ततस्ते वाडवाः सर्वे पुत्रपौत्रसमन्विताः ।। २९ ।।
सपत्नीकाः सानुचरा यथापूर्वं न्यवात्सिषुः ।।
तपोयज्ञक्रियाद्येषु वर्तंतेऽध्ययनादिषु ।। 3.2.11.३० ।।
एवं ते सर्वमाख्यातं धर्म वै सत्यमंदिरे ।। ३१ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे धर्मारण्यमाहात्म्ये लोलजिह्वासुरवधपूर्वकं सत्यमंदिरसंस्थापनवर्णनंनामैकादशोऽध्यायः ।। ११ ।। ।। छ ।।