स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ३७
।।व्यास उवाच।।
ततस्ते ब्राह्मणाः सर्वे प्रत्यूचुः पवनात्मजम्।।
अधुना सफलं जन्म जीवितं च सुजीवितम् ।। १ ।।
अद्य नो मोढलोकानां धन्यो धर्मश्च वै गृहाः।।
धन्या च सकला पृथ्वी यज्ञधर्मा ह्यनेकशः ।। २ ।।
नमः श्रीराम भक्ताय अक्षविध्वंसनाय च ।।
नमो रक्षःपुरीदाहकारिणे वज्रधारिणे ।। ३ ।।
जानकीहृदयत्राणकारिणे करुणात्मने ।।
सीताविरह तप्तस्य श्रीरामस्य प्रियाय च ।। ४ ।।
नमोऽस्तु ते महावीर रक्षास्मान्मज्जतः क्षितौ ।।
नमो ब्राह्मणदेवाय वायुपुत्राय ते नमः ।। ५ ।।
नमोऽस्तु राम भक्ताय गोब्राह्मणहिताय च ।।
नमोस्तु रुद्ररूपाय कृष्णवक्त्राय ते तमः ।। ६ ।।
अंजनीसूनवे नित्यं सर्वव्याधिहराय च ।।
नागयज्ञोपवीताय प्रबलाय नमोऽस्तु ते ।। ७ ।।
स्वयं समुद्रतीर्णाय सेतुबंधनकारिणे ।। ८ ।।
।। व्यास उवाच ।। ।।
स्तोत्रेणैवामुना तुष्टो वायुपुत्रोऽब्रवीद्वचः ।।
शृणुध्वं हि वरं विप्रा यद्वो मनसि रोचते ।। ९ ।।
।। विप्रा ऊचुः ।। ।।
यदि तुष्टोऽसि देवेश रामाज्ञापालक प्रभो ।।
स्वरूपं दर्शयस्वाद्य लंकायां यत्कृतं हरे ।। 3.2.37.१० ।।
तथा विध्वंसवाद्य त्वं राजानं पापकारिणम् ।।
दुष्टं कुमारपालं हि आमं चैव न संशयः ।। ११ ।।
वृत्तिलोपफलं सद्यः प्राप्नुयात्त्वं तथा कुरु ।।
प्रतीत्यर्थं महाबाहो किं विलंबं वदस्व नः ।।१२।।
त्वयि चित्तेन दत्तेन स राजा पुण्यभाग्भवेत् ।।
प्रत्यये दर्शिते वीर शासनं पालयिष्यति ।। १३ ।।
त्रयीधर्म्मः पृथिव्यां तु विस्तारं प्रापयिष्यति ।।
धर्मधीर महावीर स्वरूपं दर्शयस्व नः ।। १४ ।।
।। हनुमानुवाच ।। ।।
मत्स्वरूपं महाकायं न चक्षुर्विषयं कलौ ।।
तेजोराशिमयं दिव्यमिति जानंतु वाडवाः ।। १५ ।।
तथापि परया भक्त्या प्रसन्नोऽहं स्तवादिभिः ।।
वसनांतरितं रूपं दर्शयिष्यामि पश्यत ।। १६ ।।
एवमुक्तास्तदा विप्राः सर्वकार्यसमुत्सुकाः ।।
महारूपं महाकायं महापुच्छसमाकुलम् ।। १७ ।।
दृष्ट्वा दिव्यस्वरूपं तं हनुमंतं जहर्षिरे ।।
कथंचिद्धैर्यमालंब्य विप्राः प्रोचुः शनैः शनैः ।। १८ ।।
यथोक्तं तु पुराणेषु तत्तथैव हि दृश्यते ।।
उवाच स हि तान्सर्वांश्चक्षुः प्रच्छाद्य संस्थितान् ।। १९ ।।
फलानीमानि गृह्णीध्वं भक्षणार्थमृषीश्वराः ।।
एभिस्तु भक्षितैर्विप्रा ह्यतितृप्तिर्भविष्यति ।। 3.2.37.२० ।।
धर्मारण्यं विना वाद्य क्षुधा वः शाम्यति धुवम् ।। २१ ।।
।। व्यास उवाच ।। ।।
क्षुधाक्रांतैस्तदा विप्रैः कृतं वै फलभक्षणम् ।।
अमृतप्राशनमिव तृप्तिस्तेषामजायत ।। २२ ।।
न तृषा नैव क्षुच्चैव विप्राः संक्लिष्टमानसाः ।।
अभवन्सहसा राजन्विस्मयाविष्टचेतसः ।।२३।।
ततः प्राहांजनीपुत्रः संप्राप्ते हि कलौ द्विजाः ।।
नागमिष्याम्यहं तत्र मुक्त्वा रामेश्वरं शिवम् ।। २४ ।।
अभिज्ञानं मया दत्तं गृहीत्वा तत्र गच्छत ।।
तथ्यमेतत्प्रतीयेत तस्य राज्ञो न संशयः ।। २५ ।।
इत्युक्त्वा बाहुमुद्धृत्य भुजयोरुभयोरपि ।।
पृथग्रोमाणि संगृह्य चकार पुटिकाद्वयम् ।। २६ ।।
भूर्जपत्रेण संवेष्ट्य ते अदाद्विप्रकक्षयोः ।।
वामे तु वामकक्षोत्थां दक्षिणोत्थां तु दक्षिणे ।। २७ ।।
कामदां रामभक्तस्य अन्येषां क्षयकारिणीम् ।।
उवाच च यदा राजा ब्रूते चिह्नं प्रदीयताम् ।। २८ ।।
तदा प्रदीयतां शीघ्रं वामकक्षोद्भवा पुटी ।।
अथवा तस्य राज्ञस्तु द्वारे तु पुटिकां क्षिप ।। २९ ।।
ज्वालयति च तत्सैन्यं गृहं कोशं तथैव च ।।
महिष्यः पुत्रकाः सर्वं ज्वलमानं भविष्यति ।। 3.2.37.३० ।।
यदा तु वृत्तिं ग्रामांश्च वणिजानां बलिं तथा ।।
पूर्वं स्थितं तु यत्किंचित्तत्तद्दास्यति वाडवाः ।। ३१ ।।
लिखित्वा निश्चयं कृत्वाप्यथ दद्यात्स पूर्ववत् ।।
करसंपुटकं कृत्वा प्रणमेच्च यदा नृपः ।। ३२ ।।
संप्राप्य च पुरा वृत्तिं रामदत्तां द्विजोत्तमाः ।।
ततो दक्षिणकक्षास्थकेशानां पुटिका त्वियम् ।। ३३ ।।
प्रक्षिप्यतां तदा सैन्यं पुरावच्च भविष्यति ।।।
गृहाणि च तथा कोशः पुत्रपौत्रादयस्तथा ।। ३४ ।।
वह्निना मुच्यमानास्ते दृश्यंते तत्क्षणादिति ।।
श्रुत्वाऽमृतमयं वाक्यं हनुमंतोदितं परम् ।।३५।।
अलभन्त मुदं विप्रा ननृतुः प्रजगुर्भृशम् ।।
जयं चोदैरयन्केऽपि प्रहसन्ति परस्परम् ।। ३६ ।।
पुलकांकितसर्वाङ्गाः स्तुवन्ति च मुहुर्मुहुः ।।
पुच्छं तस्य च संगृह्य चुचुंबुः केचिदुत्सुकाः ।। ३७ ।।
ब्रूतेऽन्यो मम यत्नेन कार्यं नियतमेव हि ।।
अन्यो ब्रूते महाभाग मयेदं कृतमित्युत ।।।६८।।।
ततः प्रोवाच हनुमांस्त्रिरात्रं स्थीयतामिह ।।
रामतीर्थस्य च फलं यथा प्राप्स्यथ वाडवाः ।। ३९ ।।
तथेत्युक्त्वाथ ते विप्रा ब्रह्मयज्ञं प्रचक्रिरे ।।
ब्रह्मघोषेण महता तद्वनं बधिरं कृतम् ।। 3.2.37.४० ।।
स्थित्वा त्रिरात्रं ते विप्रा गमने कृतबुद्धयः ।।
रात्रौ हनुमतोऽग्रे त इदमूचुः सुभक्तितः ।। ४१।। ।।
।। ब्राह्मणा ऊचुः ।। ।।
वयं प्रातर्गमिष्यामो धर्मारण्यं सुनिर्मलम् ।।
न विस्मार्या वयं तात क्षम्यतां क्षम्यतामिति ।। ४२ ।।
ततो वायुसुतो राजन्पर्वतान्महतीं शिलाम् ।।
बृहतीं च चतुःशालां दशयोजनमायतीम् ।। ४३ ।।
आस्तीर्य प्राह तान्विप्राञ्छिलायां द्विजसत्तमाः ।।
रक्ष्यमाणा मया विप्राः शयीध्वं विगतज्वराः ।। ४४ ।।
इति श्रुत्वा ततः सर्वे निद्रामापुः सुखप्रदाम् ।।
एवं ते कृतकृत्यास्तु भूत्वा सुप्ता निशामुखे ।। ।। ४५ ।।
कृपालुः स च रुद्रात्मा रामशासनपालकः ।।
रक्षणार्थं हि विप्राणामतिष्ठच्च धरातले ।। ४६ ।।
।। व्यास उवाच ।। ।।
अर्द्धरात्रे तु संप्राप्ते सर्वे निद्रामुपागताः ।।
तातं संप्रार्थयामास कृतानुग्रहको भवान् ।। ४७ ।।
समीरण द्विजानेतान्स्थानं स्वं प्रापयस्व भोः ।।
ततो निद्राभिभूतांस्तान्वायुपुत्रप्रणोदितः ।। ४८ ।।
समुद्धृत्य शिलां तां तु पिता पुत्रेण भारत ।।
विशिष्टो यापयामास स्वस्थानं द्विजसत्तमान् ।। ४९ ।।
षड्भिर्मासैश्च यः पन्था अतिक्रांतो द्विजातिभिः ।।
त्रिभिरेव मुहूर्त्तैस्तु धर्मारण्यमवाप्तवान् ।। 3.2.37.५० ।।
भ्रममाणां शिलां ज्ञात्वा विप्र एको द्विजाग्रतः ।।
वात्स्यगोत्रसमुत्पन्नो लोकान्संगीतवान्कलम् ।। ५१ ।।
गीतानि गायनोक्तानि श्रुत्वा विस्मयमाययुः ।।
प्रभाते सुप्रसन्ने तु उदतिष्ठन्परस्परम् ।। ५२ ।।
ऊचुस्ते विस्मिताः सर्वे स्वप्नोऽयं वाथ विभ्रमः ।।
ससंभ्रमाः समुत्थाय ददृशुः सत्यमंदिरम् ।। ५३ ।।
अंतर्बुद्ध्या समालोक्य प्रभावो वायुजस्य च ।।
श्रुत्वा वेदध्वनिं विप्राः परं हर्षमुपागताः ।। ५४ ।।
ग्रामीणाश्च ततो लोका दृष्ट्वा तु महतीं शिलाम् ।।
अद्भुतं मेनिरे सर्वे किमिदं किमिदं त्विति ।। ५५ ।।
गृहेगृहे हि ते लोकाः प्रवदंति तथाद्भुतम् ।।
ब्राह्मणैः पूर्यमाणा सा शिला च महती शुभा ।। ५६ ।।
अशुभा वा शुभा वापि न जानीमो वयं किल ।।
संवदंते ततो लोकाः परस्परमिदं वचः ।। ५७ ।।
।। व्यास उवाच ।। ।।
ततो द्विजानां ते पुत्राः पौत्राश्चैव समागताः ।।
ऊचुस्ते दिष्ट्या भो विप्रा आगताः पथिका द्विजाः ।। ५८ ।।
ते तु संतुष्टमनसा सन्मुखाः प्रययुर्मुदा ।।
प्रत्युत्थानाभिवादाभ्यां परिरंभणकं तथा ।। ५९ ।।
आघ्राणकादींश्च कृत्वा यथायोग्यं प्रपूज्य च ।।
सर्वं विस्तार्य कथितं शीघ्रमागममात्मनः ।। 3.2.37.६० ।।
ततः संपूज्य तत्सर्वान्गंधतांबूलकुंकुमैः ।।
शांतिपाठं पठंतस्ते हृष्टा निजगृहान्ययुः ।। ६१ ।।
आनंदाया महापीठे प्रातः पांथाः समुत्थिताः ।।
ददृशुस्ते महास्थानं सोत्कंठा हर्षपूरिताः ।। ६० ।।
आश्चर्यं परमं प्रापुः किमेतत्स्थानमुत्तमम् ।।
अयं तु दक्षिण द्वारे शांतिपाठोऽत्र पठ्यते ।। ६३ ।।
गृहा रम्याः प्रदृश्यंते शचीपतिगृहोपमाः ।।
प्रासादाः कुलमातॄणां दृश्यंते चाग्निशोभनाः ।। ६४ ।।
एवं ब्रुवत्सु विप्रेषु महाशक्तिप्रपूजने ।।
आगतो ब्राह्मणोऽपश्यत्तत्र विप्रकदंबकम् ।। ६५ ।।
हर्षितो भावितस्तत्र यत्र विप्राः सभासदः ।।
उवाव दिष्ट्या भो विप्रा ह्यागताः पथिका द्विजाः ।। ६६ ।।
प्रत्युत्तस्थुस्ततो विप्राः पूजां गृहीत्वा समागताः ।।
प्रत्युत्थानाभिवादौ चाकुर्वंस्ते च परस्परम् ।। ६७ ।।
तेते संपूज्य वेगात्तु यथायोग्यं यथाविधि ।।
हरीश्वरस्य यद्वृत्तं विप्राग्रे संप्रकाशितम् ।। ६८ ।।
पथिकानां वचः श्रुत्वा हर्षपूर्णा द्विजोत्तमाः ।।
शांतिपाठं पठन्तस्ते हृष्टा निजगृहान्ययुः ।। ६९ ।।
विमृश्य मिलिताः प्रातर्ज्योतिर्विद्भिः प्रतिष्ठिताः ।।
ब्राह्मे मूहूर्ते चोत्थाय कान्यकुब्जं गता द्विजाः ।।3.2.37.७०।।
दोलाभिर्वाहिताः केचित्केचिदश्वै रथैस्तथा ।।
केचित्तु शिबिकारूढा नानावाहनगाश्च ते ।।७१।।
तत्पुरं तु समासाद्य गंगायाः शोभने तटे ।।
अकुर्वन्वसतिं वीराः स्नानदानादिकर्म्म च ।। ७२ ।।
चरेण केनचिद्दृष्टाः कथिता नृपसन्निधौ ।।
अश्वाश्च बहुशो दोला रथाश्च बहुशो वृषाः ।। ७३ ।।
विप्राणामिह दृश्यंते धर्मारण्यनिवासिनाम् ।।
नूनं ते च समायाता नृपेणोक्तं ममाग्रतः ।। ७४ ।।
अभिज्ञापय मे पूर्वं प्रेषिताः कपिसंनिधौ ।। ७५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्राह्मणानां प्रत्यागमन वर्णनं नाम सप्तत्रिंशोऽध्यायः ।। ३७ ।। ।। छ ।।