स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/अध्यायः ४

।। सूत उवाच ।। ।।
भूयोपि शिवमाहात्म्यं वक्ष्यामि परमाद्भुतम् ।।
शृण्वतां सर्वपापघ्नं भवपाशविमोचनम् ।। ।। १ ।।
दुस्तरे दुरितांभोधौ मज्जतां विषयात्मनाम् ।।
शिवपूजां विना कश्चित्प्लवो नास्ति निरूपितः ।। २ ।।
शिवपूजां सदा कुर्याद्बुद्धिमानिह मानवः ।।
अशक्तश्चेत्कृता पूजां पश्येद्भक्तिविनम्रधीः ।। ३ ।।
अश्रद्धयापि यः कुर्याच्छिवपूजां विमुक्तिदाम् ।।
पश्येद्वा सोपि कालेन प्रयाति परमं पदम् ।। ४ ।।
आसीत्किरातदेशेषु नाम्ना राजा विमर्दनः ।।
शूरः परमदुर्द्धर्षो जितशत्रुः प्रतापवान् ।। ५ ।।
सर्वदा मृगयासक्तः कृपणो निर्घृणो बली ।।
सर्वमांसाशनः क्रूरः सर्ववर्णांगनावृतः ।। ६ ।।
तथापि कुरुते शंभोः पूजां नित्यमतंद्रितः ।।
चतुर्दश्यां विशेषेण पक्षयोः शुक्लकृष्णयोः ।। ।। ७ ।।
महाविभवसंपन्नां पूजां कृत्वा स मोदते ।।
हर्षेण महताविष्टो नृत्यति स्तौति गायति ।। ८ ।।
तस्यैवं वर्तमानस्य नृपतेः सर्वभक्षिणः ।।
दुराचारस्य महिषी चेष्टितेनान्वतप्यत ।। ९ ।।
सा वै कुमुद्वतीनाम राज्ञी शीलगुणान्विता ।।
एकदा पतिमासाद्य रहस्ये तदपृच्छत ।। ३.३.४.१० ।।
एतत्ते चरितं राजन्महदाश्चर्यकारणम् ।।
क्व ते महादुराचारः क्व भक्तिः परमेश्वरे ।। ११ ।।
सर्वदा सर्वभक्षस्त्वं सर्वस्त्रीजनलालसः ।।
सर्वहिंसापरः क्रूरः कथं भक्तिस्तवेश्वरे ।। १२ ।।
इति पृष्टः स भूपालो विमृश्य सुचिरं ततः ।।
त्रिकालज्ञः प्रहस्यैनां प्रोवाच सुकुतूहलः ।। १३ ।। ।।
।। राजोवाच ।। ।।
अहं पूर्वभवे कश्चित्सारमेयो वरानने ।।
पंपानगरमाश्रित्य पर्यटामि समंततः ।। १४ ।।
एवं कालेषु गच्छत्सु तत्रैव नगरोत्तमे ।।
कदाचिदागतः सोहं मनोज्ञं शिवमंदिरम् ।। १५ ।।
पूजायां वर्तमानायां चतुर्दश्यां महातिथौ ।।
अपश्यमुत्सवं दूराद्बहिर्द्वारं समाश्रितः ।। १६ ।।
अथाहं परमक्रुद्धैर्दंडहस्तैः प्रधावितः ।।
तस्माद्देशादपक्रांतः प्राणरक्षापरायणः ।। १७ ।।
ततः प्रदक्षिणीकृत्य मनोज्ञं शिवमंदिरम् ।।
द्वारदेशं पुनः प्राप्य पुनश्चैव निवारितः ।। १८ ।।
पुनः प्रदक्षिणीकृत्य तदेव शिवमन्दिरम् ।।
बलिपिंडादिलोभेन पुनर्द्वारमुपागतः ।। १९ ।।
एवं पुनःपुनस्तत्र कृत्वा कृत्वा प्रदक्षिणाम् ।।
द्वारदेशे समासीनं निजघ्नुर्निशितैः शरैः ।। ३.३.४.२० ।।
स विद्धगात्रः सहसा शिवद्वारि गतासुकः ।।
जातोऽस्म्यहं कुले राज्ञां प्रभावाच्छिवसन्निधेः ।। २१ ।।
दृष्ट्वा चतुर्दशीपूजां दीपमाला विलोकिताः ।।
तेन पुण्येन महता त्रिकालज्ञोऽस्मि भामिनि ।। २२ ।।
प्राग्जन्मवासनाभिश्च सर्वभक्षोऽस्मि निर्घृणः ।।
विदुषामपि दुर्लंघ्या प्रकृतिर्वासनामयी ।। २३ ।।
अतोऽहमर्चयामीशं चतुर्दश्यां जगद्गुरुम् ।।
त्वमपि श्रद्धया भद्रे भज देवं पिनाकिनम् ।। २४ ।।
।। राज्ञ्युवाच ।। ।।
त्रिकालज्ञोऽसि राजेन्द्र प्रसादाद्गिरिजापतेः ।।
मत्पूर्वजन्मचरितं वक्तुमर्हसि तत्त्वतः ।। २५ ।।
।। राजोवाच ।। ।।
त्वं तु पूर्वभवे काचित्कपोती व्योमचारिणी ।।
क्वापि लब्धवती किंचिन्मां सपिंडं यदृच्छया ॥ २६॥
त्वद्गृहीतमथालोक्य गृध्रः कोप्यामिषं बली ।
निरामिषः स्वयं वेगाभिदुद्राव भीषणः ॥ २७॥
ततस्तं वीक्ष्य वित्रस्ता विद्रुतासि वरानने ॥
तेनानुयाता घोरेण मांसपिंडजिघृक्षया ॥ २८ ॥
दिष्ट्या श्रीगिरिमासाद्य श्रांता तत्र शिवालयम् ॥
प्रदक्षिणं परिक्रम्य ध्वजाग्रे समुपस्थिता ॥ २९॥
अथानुसृत्य सहसा तीक्ष्णतुंडो विहंगमः ॥
त्वां निहत्य निपात्याधो मांसमादाय जग्मिवान् ॥ ३.३.४.३० ॥
प्रदक्षिणप्रक्रमणाद्देवदेवस्य शूलिनः॥
तस्याग्रे मरणाच्चैव जातासीह नृपांगना ॥ ३१ ॥
॥ राज्ञ्युवाच ॥ ॥
श्रुतं सर्वमशेषेण प्राग्जन्मचरेितं मया ॥
जातं च महदाश्चर्यं भक्तिश्च मम चेतसि ॥
अथान्यच्छ्रोतुमिच्छामि त्रिकालज्ञ महामते ॥
इदं शरीरमुत्सृज्य यास्यावः कां गतिं पुनः । |॥ ३२ ॥
॥ राजोवाच ॥ ॥
अतो भवे जनिष्येऽहं द्वितीये सैंधवो नृपः ॥ ३३ ॥
सृंजयेशसुता त्वं हि मामेव प्रतिपत्स्यसे ॥
तृतीये तु भवे राजा सौराष्ट्रे भविताऽस्म्यहम् ॥ ३४ ॥
कलिंगराजतनया त्वं मे पत्नी भविष्यसि ॥
चतुर्थे तु भविष्यामि भवे गांधारभूमिपः ॥ ३५ ॥
मागधी राजतनया तत्र त्वं मम गेहिनी ॥
पंचमेऽवंतिनाथोऽहं भविष्यामि भवांतरे ॥ ३६ ॥
दाशार्हराजतनया त्वमेव मम वल्लभा॥
अस्माज् जन्मनि षष्ठेऽहमानर्ते भविता नृपः ॥ ३७॥
ययातिवंशजा कन्या भूत्वा मामेव यास्यसि ॥
पांड्यराजकुमारोऽहँ सप्तमे भविता भवे ॥ ३८ ॥
तत्र मत्सदृशो नान्यो रूपौदार्यगुणादिभिः ॥
सर्वशास्त्रार्थतत्त्वज्ञो बलवान्दृढविक्रमः ॥ ३९ ॥
सर्वलक्षणसंपन्नः सर्वलोकमनोरमः ॥
पद्मवर्ण इति ख्यातः पद्ममित्रसमद्युतिः ॥ ३.३.४.४०॥
भविता त्वं च वैदर्भी रूपेणाप्रतिमा भुवि ॥
नाम्ना वसुमती ख्याता रूपावयवशोभिनी ॥ ४१ ॥
सर्व राजकुमाराणां मनोनयननंदिनी ॥
सा त्वं स्वयंवरे सर्वान्विहाय नृपनंदनान् ॥ ४२ ॥
वरं प्राप्स्यसि मामेव दमयंतीव नैषधम् ॥
सोऽहं जित्वा नृपान्सर्वान्प्राप्य त्वां वरवर्णिनीम् ॥४३॥
स्वराष्ट्रस्थोऽखिलान्भोगान्भोक्ष्ये वर्षगणान्बहून् ॥
इष्ट्वा च विविधैर्यज्ञैर्वाजिमेधादिभिः शुभैः ॥ ४४ ॥
संतर्प्य पितृदेवर्षीन्दानैश्च द्विजसत्तमान् ॥
संपूज्य देवदेवेशं शंकरं लोकशंकरम् ॥ ४५ ॥
पुत्रे राज्यधुरं न्यस्य गंतास्मि तपसे वनम् ॥
तत्रागस्त्यान्मुनिवराद्ब्रह्मज्ञानमवाप्य च ॥ ४६ ॥
त्वया सह गमिष्यामि शिवस्य परमं पदम् ।
चतुर्दश्यां चतुर्दश्यामेवं संपूज्य शंकरम् ॥ ४७ ॥
सप्तजन्मसु राजस्त्वं भविष्यति वरानने ॥
इत्येतत्सुकृतं लब्धं पूज़ादर्शनमात्रतः ॥
क्व सारमेयो दुष्टात्मा क्वेदृशी बत सङ्गतिः॥ ४८ ।
।। सूत उवाच॥
इत्युक्तो निजनाथेन सा राज्ञी शुभलक्षणा ॥ ४९ ॥
परं विस्मयमापन्ना पूजयामास तं मुदा ॥
सोऽपि राजा तया सार्द्धं भुक्त्वा भोगान्यथेप्सितान् ।। ३.३.४.५० ।।
जगाम सप्तजन्मांते शंभोस्तत्परमं पदम् ।।
य एतच्छिवपूजाया माहात्म्यं परमाद्भुतम् ।।
शृणुयात्कीर्तयेद्वापि स गच्छेत्परमं पदम्।। ५१ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे चतुर्दशीमाहात्म्यवर्णनं नाम चतुर्थो ऽध्यायः ।। ४ ।।