स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः २१

।। श्रीसूत उवाच ।। ।।
जटा तीर्थाभिधे तीर्थे सर्वपातकनाशने ।।
स्नानं कृत्वा विशुद्धात्मा लक्ष्मीतीर्थं ततो व्रजेत् ।। १ ।।
यंयं कामं समुद्दिश्य लक्ष्मीतीर्थे द्विजोत्तमाः ।।
स्नानं समाचरेन्मर्त्यस्तंतं कामं समश्नुते ।। २ ।।
महादारिद्र्यशमनं महाधान्यसमृद्धिदम् ।।
महादुःखप्रशमनं महासंपद्विवर्धनम् ।। ३ ।।
अत्र स्नात्वा धर्मपुत्रो महदैश्वर्यमाप्तवान् ।।
इन्द्रप्रस्थे वसन्पूर्वं श्रीकृष्णेन प्रचोदितः ।। ४ ।।
।। ऋषय ऊचुः ।। ।।
यथैश्वर्यं धर्मपुत्रो लक्ष्मीतीर्थे निमज्जनात् ।।
आप्तवान्कृष्णवचनात्तन्नो ब्रूहि महामुने ।। ५ ।।
।। श्रीसूत उवाच ।। ।।
इन्द्रप्रस्थे पुरा विप्रा धृतराष्ट्रेण चोदिताः ।।
न्यवसन्पांडवाः पंच महाबलपराक्रमाः ।। ६ ।।
इन्द्रप्रस्थं ययौ कृष्णः कदाचित्तान्निरीक्षितुम् ।।
तमागतमेभिप्रेक्ष्य पांडवास्ते समुत्सुकाः ।। ७ ।।
स्वगृहं प्रापयामासुर्मुदा परमया युताः ।।
कञ्चित्कालमसौ कृष्णस्तत्रावात्सीत्पुरोत्तमे ।। ८ ।।
कदाचित्कृष्णमाहूय पूजयित्वा युधिष्ठिरः ।।
पप्रच्छ पुंडरीकाक्षं वासुदेवं जगत्पतिम् ।। ९ ।।
।। युधिष्ठिर उवाच ।। ।।
कृष्णकृष्ण महाप्राज्ञ येन धर्मेण मानवाः ।।
लभंते महदैश्वर्यं तन्नो ब्रूहि महामते ।।
इत्युक्तो धर्मपुत्रेण कृष्णः प्राह युधिष्ठिरम् ।। 3.1.21.१० ।।
।। श्रीकृष्ण उवाच ।। ।।
धर्मपुत्र महाभाग गन्धमादनपर्वते ।। ११ ।।
लक्ष्मी तीर्थमिति ख्यातमस्त्यैश्वर्यैककारणम् ।।
तत्र स्नानं कुरुष्व त्वमैश्वर्यं ते भविष्यति ।। १२ ।।
तत्र स्नानेन वर्धंते धनधान्यसमृद्धयः ।।
सर्वे सपत्ना नश्यंति क्षात्रमेषां विवर्द्धते ।। १३ ।।
तीर्थे सस्नुः पुरा देवा लक्ष्मीनामनि पुण्यदे ।।
अलभन्त्सर्वमैश्वर्यं तेन पुण्येन धर्मज ।। १४ ।।
असुरांश्च महावीर्यान्समरे जघ्नुरंजसा ।।
मही लक्ष्मीश्च धर्मश्च तत्तीर्थस्नायिनां नृणाम् ।। १५ ।।
भविष्यत्यचिरादेव संशयं मा कृथा इह ।।
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पांडव ।। १६ ।।
ऐश्वर्यं प्राप्यते यद्वल्लक्ष्मीतीर्थनिमज्जनात् ।।
सर्वपापानि नश्यंति विप्रा यांति लयं सदा ।। ।। १७ ।।
व्याधयश्च विनश्यंति लक्ष्मीतीर्थनिषेवणात् ।।
श्रेयः सुविपुलं लोके लभ्यते नात्र संशयः ।। १८ ।।
स्नानमात्रेण वै लक्ष्म्यास्तीर्थेऽस्मि न्धर्मनंदन ।।
रंभामप्सरसां श्रेष्ठां लब्धवानवधो नृपः ।। १९ ।।
स्नात्वात्र तीर्थे पुण्ये तु कुबेरो नरवाहनः ।।
स महापद्ममुख्यानां निधीनां नायकोऽ भवत् ।।3.1.21.२।।।
तस्मात्त्वमपि राजेंद्र लक्ष्मीतीर्थे शुभप्रदे ।।
स्नात्वा वृकोदरमुखैरनुजैरपि संवृतः ।।२१।।
लप्स्यसे महतीं लक्ष्मीं जेष्यसे च रिपूनपि।।
संदेहो नात्र कर्तव्यः पैतृष्वसेय धर्मज ।।२२।।
इत्युक्तो धर्मपुत्रोऽयं कृष्णेनाद्भुतदर्शनः ।।
सानुजः प्रययौ शीघ्रं गन्धमादनपर्वतम् ।।२३।।
लक्ष्मी तीर्थं ततो गत्वा महदैश्वर्यकारणम् ।।
सस्नौ युधिष्ठिरस्तत्र सानुजो नियमान्वितः।।२४।।
लक्ष्मतीर्थस्य तोये स सर्वपातकनाशने ।।
सानुजो मासमेकं तु सस्नौ नियमपूर्वकम् ।।२५।।
गोभूतिलहिरण्यादीन्ब्राह्मणेभ्यो ददौ बहून् ।।
सानुजो धर्मपुत्रोऽसाविंद्रप्रस्थं ययौ ततः ।। २६ ।।
राजसूयक्रतुं कर्तुं तत एच्छद्युधिष्ठिरः ।।
कृष्णं समाह्वयामास यियक्षुर्धर्मनंदनं ।। २७ ।।
कृष्णो धर्मजदूतेन समाहूतः ससंभ्रमः ।।
चतुर्भिरश्वैः संयुक्तं रथमा रुह्य वेगिनम् ।। २८ ।।
सत्यभामासहचर इंद्रप्रस्थं समाययौ ।।
तमागतं समालोक्य प्रमोदाद्धर्मनंदनः ।। २९ ।।
न्यवेदयत्स कृष्णाय राजसूयोद्यमं तदा ।।
अन्वमन्यत कृष्णोपि तथैव क्रियतामिति ।। 3.1.21.३० ।।
वाक्यं च युक्तिसंयुक्तं धर्मपुत्रमभाषत ।।
पैतृष्वस्रेय धर्मात्मञ्च्छृणु पथ्यं वचो मम ।। ।। ३१ ।।
दुष्करो राजसूयोऽयं सर्वैरपि महीश्वरैः ।।
अनेकशतपादातरथकुंजरवाजिमान् ।। ३२ ।।
महीपतिरिमं यज्ञं कर्तुमर्हति नेतरः ।।
दिशो दश विजेतव्या प्रथमं वलिना त्वया ।। ३३ ।।
पराजितेभ्यः शत्रुभ्यो गृहीत्वा करमुत्तमम् ।।
तेन कांचनजातेन कर्तव्योऽयं क्रतूत्तमः ।। ३४ ।।
रोचये युक्तिविदहं न हि त्वां भीषयामि भोः ।।
अतः क्रतुसमारंभात्पूर्वं दिग्विजयं कुरु ।। ३५ ।।
ततो धर्मात्मजः श्रुत्वा कृष्णस्य वचनं हितम् ।।
प्रशंसन्देवकीपुत्रमाजुहाव निजानुजान् ।। ३६ ।।
आहूय चतुरो भ्रातॄन्धर्मजः प्राह हर्षयन् ।।
अयि भीम महाबाहो बहुवीर्य धनंजय ।। ३७ ।।
यमौ च सुकुमागंगौ शत्रुसंहारदीक्षितौ ।।
चिकीर्षामि महायज्ञं राजसूयमनुत्तमम् ।। ३८ ।।
स च सर्वान्रणे जित्वा कर्तव्यः पृथिवीपतीन् ।।
अतो विजेतुं भूपालांश्चत्वरोऽपि ससैनिकाः ।। ३९ ।।
दिशश्चतस्रो गच्छंतु भवंतो वीर्यवत्तराः ।।
युष्माभिराहतैर्द्रव्यैः करिष्यामि महाक्रतुम् ।। 3.1.21.४० ।।
इत्युक्ताः सादरं सर्वे वृकोदरमुखास्तदा ।।
प्रसन्नवदना भूत्वा धर्मपुत्रानुजाः पुरात् ।। ४१ ।।
राज्ञां जयाय सर्वासु निर्ययुर्दिक्षु पांडवाः ।।
ते सर्वे नृपतीञ्जित्वा चतुर्दिक्षु स्थितान्बहून् ।। ४२ ।।
स्ववशे स्थापयित्वा तान्नृपतीन्पांडुनंदनाः ।।
तैर्दत्तं बहुधा द्रव्यमसंख्यातमनुत्तमम् ।। ४३ ।।
आदाय स्वपुरं तूर्णमाययुः कृष्णसंश्रयाः ।।
भीमः समाययौ तत्र महाबलपराक्रमः ।। ४४ ।।
शतभारसुवर्णानि समादाय पुरोत्तमम् ।।
सहस्रं भारमादाय सुवर्णानां ततोऽर्जुनः ।। ४५ ।।
शक्रप्रस्थं समायातो महाबलपराक्रमः ।।
शतभारं सुवर्णानां प्रगृह्य नकुलस्तथा ।। ४६ ।।
समागतो महातेजाः शक्रप्रस्थं पुरोत्तमम् ।।
दत्तान्विभीषणेनाथ स्वर्णतालांश्चतुर्दश ।। ४७ ।।
दाक्षिणात्यमहीपानां गृहीत्वा धनसंचयम् ।।
सहदेवोपि सहसा समा यातो निजां पुरीम् ।। ४८ ।।
लक्षकोटिसहस्राणि लक्षकोटिशतान्यपि ।।
सुवर्णानि ददौ कृष्णो धर्मपुत्राय यादवः ।। ४९ ।।
स्वानुजैराहृतैरेवमसं ख्यातैर्महाधनैः ।।
कृष्णदत्तैरसंख्यातैर्धनैरपि युधिष्ठिरः ।। 3.1.21.५० ।।
कृष्णाश्रयोऽयजद्विप्रा राजसूयेन पांडवः ।।
तस्मिन्यागे ददौ द्रव्यं ब्राह्मणेभ्यो यथेष्टतः ।। ५१ ।।
अन्नानि प्रददौ तत्र ब्राह्मणेभ्यो युधिष्ठिरः ।।
वस्त्राणि गाश्च भूमिं च भूषणानि ददौ तथा ।। ५२ ।।
अर्थिनः परितुष्यंति यावता कांचनादिना ।।
ततोपि द्विगुणं तेभ्यो दापयामास धर्मजः ।। ५३ ।।
इयंति दत्तान्यर्थिभ्यो धनानि विविधान्यपि ।।
इतीयत्तां परिच्छेत्तुं न शक्ता ब्रह्मकोटयः ।। ५४ ।।
अर्थिभिर्दीयमानानि दृष्ट्वा तत्र धनानि वै ।।
सर्वस्वमप्यहो राज्ञा दत्तमित्यब्रवीज्जनः ।। ५५ ।।
दृष्ट्वा कोशास्तथा नंताननंतमणिकांचनान् ।। ५ ।।
स्वल्पं हि दत्तमर्थिभ्य इत्यवोचञ्जनास्तदा ।।
इष्ट्वैवं राजसूयेन धर्मपुत्रः सहानुजः ।। ५७ ।।
बहुवित्तसमृद्धः सन्रेमे तत्र पुरोत्तमे ।।
लक्ष्मीतीर्थस्य माहात्म्याद्धर्मपुत्रो युधिष्ठिरः ।। ५८ ।।
लेभे सर्वमिदं विप्रा अहो तीर्थस्य वैभवम् ।।
इदं तीर्थं महापुण्यं महा दारिद्यनाशनम् ।। ५९ ।।
धनधान्यप्रदं पुंसां महापातकनाशनम् ।।
महानरकसंहर्तृ महादुःखनिवर्तकम् ।। 3.1.21.६० ।।
मोक्षदं स्वर्गदं नित्यं महाऋण विमोचनम् ।।
सुकलत्रप्रदं पुंसां सुपुत्रप्रदमेव च ।। ६१ ।।
एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति ।।
एतद्वः कथितं विप्रा लक्ष्मीतीर्थस्य वैभवम् ।। ६२।।
दुःस्वप्ननाशनं पुण्यं सर्वाभीष्टप्रसाधकम् ।।
यः पठेदिममध्यायं शृणुते वा सभक्तिकम् ।। ६३ ।।
धनधान्यसमृद्धः स्यात्स नरो नास्ति संशयः ।।
भुक्त्वेह सकलान्भोगान्देहांते मुक्तिमाप्नुयात् ।। ६४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये लक्ष्मीतीर्थप्रशंसायां धर्मपुत्रनिरतिशयसंपदवाप्तिवर्णनंनामैकविंशोऽध्यायः ।। २१ ।।