स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०२३

शिवशर्मोवाच ।। ।।
सत्यलोकेश्वर विधे सर्वेषां प्रपितामह ।।
किंचिद्विज्ञप्तुकामोस्मि न भयाद्वक्तुमुत्सहे ।। १ ।।
।। ब्रह्मोवाच ।। ।।
यत्त्वं प्रष्टुमना विप्र ज्ञातं ते तन्मनोगतम् ।।
पिपृच्छिषुस्त्वं निर्वाणं गणौ तत्कथयिष्यतः ।।२।।
नेतयोर्विष्णुगणयोरगोचरमिहास्ति हि ।।
सर्वमेतौ विजानीतो यत्किंचिद्ब्रह्मगो लके ।। ३ ।।
इत्युक्त्वा सत्कृतास्ते वै ब्रह्मणा भगवद्गणाः ।।
प्रणम्य लोककर्तारं तेऽपि हृष्टाः प्रतस्थिरे ।। ४ ।।
पुनः स्वयानमारुह्य वैकुंठमभितो ययुः ।।
गच्छतापि पुनस्तत्र द्विजेनापृच्छितौ गणौ ।। ५ ।।
।। शिवशर्मोवाच ।। ।।
कियद्दूरे वयं प्राप्ता गंतव्यं च कियत्पुनः ।।
पृच्छाम्यन्यच्च वां भद्रौ ब्रूतं प्रीत्या तदप्यहो ।। ।। ६ ।।
कांच्यवंती द्वारवती काश्ययोध्या च पंचमी ।।
मायापुरी च मथुरा पुर्यः सप्त विमुक्तिदाः ।। ७ ।।
विहाय षट्पुरीश्चान्याः काश्यामेवप्रतिष्ठिता ।।
मुक्तिर्विश्वसृजा तत्किं मम मुक्तिर्न संप्रति ।। ८ ।।
इति सर्वं मम पुरः प्रसादाद्वक्तुमर्हतम् ।।
इति तद्वाक्यमाकर्ण्य गणावूचतुरादरात् ।। ९ ।।
।। गणावूचतुः ।।
यथार्थं कथयावस्ते यत्पृष्टं भवतानघ ।।
विष्णुप्रसादाज्जानीवो भूतंभाविभवत्तथा ।। 4.1.23.१० ।।
विप्रावभासते यावत्किरणैः पुष्पवंतयोः ।।
तावतीभूः समुद्दिष्टा ससमुद्राद्रि कानना ।। ११ ।।
वियच्च तावदुपरि विस्तारपरिमंडलम् ।।
योजनानां च नियुते भूमेर्भानुर्व्यवस्थितः ।। १२ ।।
भानोः सकाशादुपरि लक्षे लक्ष्यः क्षपाकरः ।।
नक्षत्रधं(मं?)डलं सोमाल्लक्षयोजनमुच्छ्रितम् ।। १३।।
उडुमंडलतः सौम्य उपरिष्टाद्द्विलक्षतः ।।
द्विलक्षे तु बुधाच्छुक्रः शुक्राद्भौमो द्विलक्षके ।। १४ ।।
माहेयादुपरिष्टाच्च सुरेज्यो नियुतद्वये ।।
द्विलक्षयोजनोत्सेधः सौरिर्देवपुरोहितात् ।। १५ ।।
दशायुतसमुच्छ्रायं सौरेः सप्तर्षिमंडलम् ।।
सप्तर्षिभ्यः सहस्राणां शतादूर्ध्वं ध्रुवस्थितः ।। ।। १६ ।।
पादगम्यं हि यत्किंचिद्वस्त्वस्ति धरणीतले ।।
तद्भूर्लोक इति ख्यातः साब्धिद्वीपाद्रिकाननम् ।। १७ ।।
भूर्लोकाच्च भुवर्लोको ब्रध्नावधिरुदाहृतः ।।
आदित्यादाध्रुवं विप्र स्वर्लोक इति गीयते ।। ।१८ ।।
महर्लोकः क्षितेरूर्ध्वमेककोटिप्रमाणतः ।।
कोटिद्वये तु संख्यातो जनो भूर्लोकतो जनैः ।। १९ ।।
चतुष्कोटिप्रमाणस्तु तपोलोकोऽस्ति भूतलात् ।।
उपरिष्टात्क्षितेरष्टौ कोटयः सत्यमीरितम् ।। 4.1.23.२० ।।
सत्यादुपरि वैकुंठो योजनानां प्रमाणतः ।।
भूर्लोकात्परिसंख्यातः कोटिषोडशसंमितः ।। २१ ।।
यत्रास्ते श्रीपतिः साक्षात्सर्वेषामभयप्रदः ।।
ततस्तु षोडशगुणः कैलासोऽस्ति शिवालयः ।। २२ ।।
पार्वत्या सहितः शंभुर्गजास्य स्कंद नंदिभिः ।।
यत्र तिष्ठति विश्वेशः सकलः स परः स्मूतः ।। २३ ।।
तस्य देवस्य खेलोऽयं स्वलीला मूर्तिधारिणः ।।
स विश्वेश इति ख्यात स्तस्याज्ञाकृदिदं जगत् ।। २४ ।।
सर्वेषां शासकश्चासौ तस्य शास्ता न चापरः ।।
स्वयं सृजति भूतानि स्वयं पाति तथात्ति च ।। २५ ।।
सर्वज्ञ एकः स प्रोक्तः स्वेच्छाधीन विचेष्टितः ।।
तस्य प्रवतर्कः कोपि नहि नैव निवर्तकः ।। २६ ।।
अमूर्तं यत्परं ब्रह्म समूर्तं श्रुतिचोदितम् ।।
सर्वव्यापि सदा नित्यं सत्यं द्वैतविवर्जितम् ।। २७ ।।
सर्वेभ्यः कारणेभ्यश्च परात्परतरं परम् ।।
आनंदं ब्रह्मणो रूपं श्रुतयो यत्प्रचक्षते ।। २८ ।।
संविदं तेन यं वेदा विष्णुर्वेद न वै विधिः ।।
यतो वाचो निवर्तंते ह्यप्राप्य मनसा सह ।। २९ ।।
स्वयंवेद्यः परं ज्योतिः सर्वस्य हृदि संस्थितः ।।
योगिगम्यस्त्वनाख्येयो यः प्रमाणैकगोचरः ।। 4.1.23.३० ।।
नानारूपोप्यरूपो यः सर्वगोपि न गोचरः ।।
अनंतोप्यंतक वपुः सर्ववित्कर्मवर्जितः ।।३१।।
तस्येदमैश्वरं रूपं खंडचंद्रावतंसकम् ।।
तमालश्यामलगलं स्फुरद्भालविलोचनम् ।। ३२ ।।
लसद्वामार्धनारीकं कृतशेषशुभांगदम् ।।
गंगातरंगसत्संग सदाधौतजटातटम् ।। ३३ ।।
स्मरांगरजःपुंज पूजितावयवोज्ज्वलम् ।।
विचित्रगात्रविधृतमहाव्यालविभूषणम् ।। ३४ ।।
महोक्षस्यंदनगमं विरुताजगवायुधम्।।
गजाजिनोत्तरासंगं दशार्धवदनं शुभम् ।। ३५ ।।
उत्त्रासित महामृत्यु महाबलगणावृतम् ।।
शरणार्थिकृतत्राणं नत निर्वाणकारणम् ।।
मनोरथपथातीतं वरदानपरायणम् ।। ३६ ।।
तस्य तत्त्वस्वरूपस्य रूपातीतस्य भो द्विज ।।
परावरे रुद्ररूपे सर्वेव्याप्यावतिष्ठत ।। ३७ ।।
निराकारोपि साकारः शिव एव हि कारणम ।।
मुक्तये भुक्तये वापि न शिवान्मोक्षदो परः ।। ३८ ।।
यथा तेनाखिलं ह्येतत्पार्वतीपतिसात्कृतम ।।
इदं चराचरं सर्वं दृश्यादृश्यमरूपिणा ।। ३९ ।।
तथा मृडानीकांतेन विष्णुसादखिलंजगत ।।
विधाय क्रीड्यते विप्र नित्यं स्वच्छंद लीलया ।। 4.1.23.४० ।।
यथाशिवस्तथा विष्णुर्यथाविष्णुस्तथा शिवः ।।
अंतरं शिवविष्ण्वोश्च मनागपि न विद्यते ।। ४१ ।।
आहूय पूर्वं ब्रह्मादीन्समस्तान्देवतागणान् ।।
विद्याधरोरगादींश्च सिद्धगंधर्वचारणान् ।। ४२ ।।
निजसिंहासनसमं कृत्वा सिंहासनं शुभम् ।।
उपवेश्य हरिं तत्र च्छत्रं कृत्वा मनोहरम् ।।४३।।
श्लक्ष्णं कोटिशलाकं च विश्वकर्मविनिर्मितम् ।।
पांडुरं रत्नदंडं च स्थूलमुक्तावलंबितम् ।। ४४ ।।
कलशेन विचित्रेण ह्युपरिष्टाद्विराजितम् ।।
सहस्रयोजनायामं सर्वरत्नमयं शुभम् ।।४५।।
पट्टसूत्रमयैरम्यैश्चामरैश्च परिष्कृतम् ।।
राजाभिषेकयोग्यैश्च द्रव्यैः सर्वौषधादिभिः ।। ४६ ।।
प्रत्यक्षतीर्थपाथोभिः पंचकुंभैर्मनोहरैः ।।
सिद्धार्थाक्षतदूर्वाभिर्मंत्रैः स्वयमुपस्थितैः ।। ४७ ।।
देवानां च तथर्षीणां सिद्धानां फणिनामपि ।।
आनीय मंगलकराः कन्याः षोडशषोडश ।। ४८ ।।
वीणामृदंगाब्जभेरी मरु डिंडिमझर्झरैः ।।
आनकैः कांस्यतालाद्यै र्वाद्यैर्ललितगायनैः ।।४९।।
ब्रह्मघोषमहारावैरापूरितनभोंगणे ।।
शुभे तिथौ शुभे लग्ने ताराचंद्रबलान्विते ।।4.1.23.५० ।।
आबद्धमुकुटं रम्यं कृतकौतुकमंगलम् ।।
मृडानीकृतशृंगारं सुश्रिया सुश्रियायुतम् ।।५१।।
अभिषिच्य महेशेन स्वयं ब्रह्मांडमंडपे ।।
दत्तं समस्तमैश्वर्यं यन्निजं नान्यगामि च ।। ५२ ।।
ततस्तुष्टाव देवेशः प्रमथैः सह शार्ङ्गिणम् ।।
ब्रह्माणं लोककर्तारमुवाच च वचस्त्विदम् ।। ५३ ।।
मम वंद्यस्त्वयं विष्णुः प्रणमत्वममुं हरिम् ।।
इत्युक्त्वाथ स्वयं रुद्रो ननाम गरुडध्वजम् ।। ५४ ।।
ततो गणेश्वरैः सर्वैंर्ब्रह्मणा च मरुद्गणैः ।।
योगिभिः सनकाद्यैश्च सिद्धैर्देवर्षिभिस्तथा ।। ५५ ।।
विद्याधरैः सगंधर्वैर्यक्षरक्षोप्सरोगणैः ।।
गुह्यकैश्चारणैर्भूतैः शेष वासुकि तक्षकैः ।। ५६ ।।
पतत्रिभिः किंनरैश्च सर्वैः स्थावरजंगमैः ।।
ततो जयजयेत्युक्त्वा नमोस्त्विति नमोस्त्विति ।। ५७ ।।
ततोहरिर्महेशेन संसदि द्युसदां तदा ।।
एतैर्महारवै रम्यैश्चानर्चि परमार्चिषा ।। ५८ ।।
त्वं कर्ता सर्वभूतानां पाता हर्ता त्वमेव च ।।
त्वमेव जगतां पूज्यस्त्वमेव जगदीश्वरः ।। ५९ ।।
दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम् ।।
अजेयस्त्वं च संग्रामे ममापि हि भविष्यसि ।। 4.1.23.६० ।।
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्तथोत्तमा ।।
शक्तित्रयमिदं विष्णो गृहाण प्रापितं मया ।। ६१ ।।
त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ।।
त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ।। ६२ ।।
मायां चापि गृहाणेमां दुष्प्रणोद्यां सुरासुरैः ।।
यया संमोहितं विश्वमकिंचिज्ज्ञं भविष्यति ।। ६३ ।।
वामबाहुर्मदीयस्त्वं दक्षिणोसौ पितामहः ।।
अस्यापि हि विधेः पाता जनितापि भविष्यसि ।। ६४ ।।
वैकुंठैश्वर्यमासाद्य हरेरित्थं हरः स्वयम् ।।
कैलासे प्रमथैः सार्धं स्वैरं क्रीडत्युमापतिः ।। ६५ ।।
तदा प्रभृति देवोसौ शार्ङ्गधन्वा गदाधरः ।।
त्रैलोक्यमखिलं शास्ति दानवांतकरो हरिः ।।६६।।
इति ते कथिता विप्र लोकानां च परिस्थितिः ।।
इदानीं कथयिष्यावस्तवनिर्वाण कारणम् ।। ६७ ।।
इदं तु परमाख्यानं शृणुयाद्यः समाहितः ।।
स्वर्लोकमभिगम्याथ काश्यां निर्वाणमाप्नुयात् ।। ६८ ।।
यज्ञोत्सवे विवाहे च मंगलेष्वखिलेष्वपि ।।
राज्याभिषेक समये देवस्थापनकर्मणि ।। ६९ ।।
सर्वाधिकारदानेषु नववेश्मप्रवेशने ।।
पठितव्यं प्रयत्नेन तत्कार्य परिसिद्धये ।।4.1.23.७०।।
अपुत्रो लभते पुत्रमधनो धनवान्भवेत् ।।
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बंधनात्।।७१।।
जप्यमेतत्प्रयत्नेन सततं मंगलार्थिना ।।
अमंगलानां शमनं हरनारायणप्रियम ।।७२।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे चतुर्भुजाभिषेको नाम त्रयोविंशतितमोऽध्यायः ।। २३ ।।