स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०४६
।। स्कंद उवाच ।। ।।
गतेथ योगिनीवृंदे देवदेवो घटोद्भव ।।
काशीप्रवृत्तिं जिज्ञासुः प्राहिणोदंशुमालिनम् ।।१।।
देवदेव उवाच ।। ।।
सप्ताश्व त्वरितो याहि पुरीं वाराणसीं शुभाम् ।।
यत्रास्ति स दिवोदासो धर्ममूर्तिर्महीपतिः ।। २ ।।
तस्य धर्मविरोधेन यथातत्क्षेत्रमुद्वसेत् ।।
तथा कुरुष्व भो क्षिप्रं मावमंस्थाश्च तं नृपम् ।। ३ ।।
धर्ममार्ग प्रवृत्तस्य क्रियते यावमानना ।।
सा भवेदात्मनो नूनं महदेनश्च जायते ।। ४ ।।
तवबुद्धिविकासेन च्यवते चेत्स धर्मतः ।।
तदा सा नगरी भानो त्वयोद्वास्याऽसहैः करैः ।। ५ ।।
कामक्रोधौ लोभमोहौ मत्सराहंकृती अपि ।।
ते तत्र न भवेतां यत्तत्कालोपि न तं जयेत् ।। ६ ।।
यावद्धर्मे स्थिराबुद्धिर्यावद्धर्मेस्थिरं मनः ।।
तावद्विघ्नोदयः क्वास्ति विपद्यपि रवे नृषु ।। ७ ।।
सर्वेषामिह जंतूनां त्वं वेत्सि ब्रध्नचेष्टितम् ।।
अतएव जगच्चक्षुर्व्रज त्वं कार्यसिद्धये ।। ८ ।।
रविरादाय देवाज्ञां मूर्तिमन्यां प्रकल्प्य च ।।
नभोध्वगामहोरात्रं काशीमभिमुखोऽभवत् ।। ९ ।।
मनसातीवलोलोऽभूत्काशीदर्शनलालसः ।।
सहस्रचरणोप्यैच्छत्तदा खे नैकपादताम् ।। 4.1.46.१० ।।
हंसत्वं तस्य सूर्यस्य तदा सफलतामगात् ।।
सदा नभोध्वनीनस्य काशीं प्रति यियासतः ।। ११ ।।
अथ काशीं समासाद्य रविरंतर्बहिश्चरन् ।।
मनागपि न तद्भूपे धर्मध्वस्तिमवेक्षत ।।१२।।
विभावसुर्वसन्काश्यां नानारूपेण वत्सरम् ।।
क्वचिन्नावसरं प्राप तत्र राज्ञि सुधर्मिणि ।। १३ ।।
कदाचिदतिथिर्भूतो दुर्लभं प्रार्थयन्रविः ।।
न तस्य राज्ञो विषये दुर्लभं किंचिदैक्षत ।। १४ ।।
कदाचिद्याचको जातो बहुदोपि कदाप्यभूत् ।।
कदाचिद्दीनतां प्राप्तः कदाचिद्गणकोप्यभूत् ।। १५ ।।
वेदबाह्यां क्रियां चापि कदाचित्प्रत्यपादयत्।।
कदाचित्स्थापयामास दृष्टप्रत्ययमैहिकम् ।।१६।।
कदाचिज्जटिलो जातः कदाचिच्च दिगंबरः ।।
स कदाचिज्जांगुलिको विषविद्याविशारदः।। ।। १७ ।।
सर्वपाषंडधर्मज्ञः कदाचिद्ब्रह्मवाद्यभूत् ।।
ऐंद्रजालिक आसीच्च कदाचिद्भ्रामयञ्जनान् ।। १८ ।।
नानाव्रतोपदेशैश्च कदाचित्स पतिव्रताः ।।
क्षोभयामास बहुशः सदृष्टांत कथानकैः ।। १९ ।।
कापालिक व्रतधरः कदाचिच्चाभवद्द्विजः ।।
कदाचिदपि विज्ञानी धातुवादी कदाचन ।। 4.1.46.२० ।।
क्वचिद्विप्रः क्वचिद्राजपुत्रो वैश्योंत्यजः क्वचित ।।
ब्रह्मचारी क्वचिदभूद्गृही वनचरः क्वचित् ।। २१ ।।
यतिः कदाचिदिति सरूपैरभ्रामयज्जनान् ।।
सर्वविद्यासु कुशलः सर्वज्ञश्चाभवत्क्वचित् ।। २२ ।।
इति नानाविधै रूपैश्चरन्काश्यां ग्रहेश्वरः ।।
न कदापि जने क्वापि च्छिद्रं प्राप कदाचन ।। २३ ।।
ततो निनिंद चात्मानं चिंतार्तः कश्यपात्मजः ।।
धिक्परप्रेष्यतां यस्यां यशो लभ्येत न क्वचित् ।। २४ ।।
।। मार्तंड उवाच ।। ।।
मंदरं यदि याम्यद्य सद्यस्तत्क्रुद्ध्यतीश्वरः ।।
अनिष्पादितकार्यार्थे मयि सामान्यभृत्यवत् ।। ।।२५ ।।
कोपमप्युररीकृत्य यदि यायां कथंचन ।।
कथं तिष्ठे पुरस्तस्य तर्हि वै मूढभृत्यवत् ।। २६ ।।
अथोंकृत्यावहेलं वा यामि चेच्च कथंचन ।।
क्रोधान्निरीक्षेत्त्र्यक्षो मां विषं पेयं तदा मया ।। २७ ।।
हरकोपानले नूनं यदि यातः पतंगताम् ।।
पितामहोपि मां त्रातुं तदा शक्ष्यति नस्फुटम् ।। २८ ।।
स्थास्याम्यत्रैव तन्नित्यं न त्यक्ष्यामि कदाचन ।।
क्षेत्रसंन्यासविधिना वाराणस्यां कृताश्रमः ।। २९ ।।
पुरः पुरारेः कायार्थमनिवेद्येह तिष्ठतः ।।
यत्पापं भावि मे तस्य काशीपापस्यनिष्कृतिः ।।4.1.46.३०।।
अन्यान्यपि च पापानि महांत्यल्पानि यानि च ।।
क्षयंति तानि सर्वाणि काशीं प्रविशतां सताम् ।।३१।।
बुद्धिपूर्वं मया चैतन्न पापं समुपार्जितम् ।।
पुरारिणैव हि पुराऽऽशासि धर्मो हि रक्ष्यताम् ।। ३२ ।।
धर्मो हि रक्षितो येन देहे सत्वरगत्वरे ।।
त्रैलोक्यरक्षितं तेन किं कामार्थैः सुरक्षितैः ।।३३ ।।
रक्षणीयो यदि भवेत्कामः कामारिणा कथम् ।।
क्षणादनंगतां नीतो बहूनां सुखकार्यपि ।।३४।।
अर्थश्चेत्सर्वथारक्ष्य इति कैश्चिदुदाहृतम्।।
तत्कथं न हरिश्चंद्रोऽरक्षत्कुशिकनंदने ।। ३५ ।।
धर्मस्तु रक्षितः सर्वैरपिदेहव्ययेन च ।।
शिबिप्रभृतिभूपालैर्दधीचिप्रमुखैर्द्विजैः ।। ३६ ।।
अयमेव हि वै धर्मः काशीसेवनसंभवः ।।
रुषितादपि रुद्रान्मां रक्षिष्यति न संशयः ।। ३७ ।।
अवाप्य काशीं दुष्प्रापां को जहाति सचेतनः ।।
रत्नं करस्थमुत्सृज्य कः काचं संजिघृक्षति ।। ३८ ।।
वाराणसीं समुत्सृज्य यस्त्वन्यत्र यियासति ।।
हत्वा निधानं पादेन सोर्थमिच्छति भिक्षया ।। ३९ ।।
पुत्रमित्रकलत्राणि क्षेत्राणि च धनानि च ।।
प्रतिजन्मेह लभ्यंते काश्येका नैव लभ्यते ।। 4.1.46.४० ।।
येन लब्धा पुरी काशी त्रैलोक्योद्धरणक्षमा ।।
त्रैलोक्यैश्वर्यदुष्प्रापं तेन लब्धं महासुखम् ।। ४१ ।।
कुपितोपि हि मे रुद्रस्तेजोहानिं विधास्यति ।।
काश्यां च लप्स्ये तत्तेजो यद्वै स्वात्मावबोधजम् ।। ४२ ।।
इतराणीह तेजांसि भासंते तावदेव हि ।।
खद्योताभानि यावन्नो जृंभते काशिजं महः ।। ४३ ।।
इति काशीप्रभावज्ञो जगच्चक्षुस्तमोनुदः ।।
कृत्वा द्वादशधात्मानं काशीपुर्यां व्यवस्थितः ।। ४४ ।।
लोलार्क उत्तरार्कश्च सांबादित्यस्तथैव च ।।
चतुर्थो द्रुपदादित्यो मयूखादित्य एव च ।। ४५ ।।
खखोल्कश्चारुणादित्यो वृद्धकेशवसंज्ञकौ ।।
दशमो विमलादित्यो गंगादित्यस्तथैव च ।। ।। ४६ ।।
द्वादशश्च यमादित्यः काशिपुर्यां घटोद्भव ।।
तमोऽधिकेभ्यो दुष्टेभ्यः क्षेत्रं रक्षंत्यमी सदा ।। ४७ ।।
तस्यार्कस्य मनोलोलं यदासीत्काशिदर्शने ।।
अतो लोलार्क इत्याख्या काश्यां जाता विवस्वतः ।। ४८ ।।
लोलार्कस्त्वसिसंभेदे दक्षिणस्यां दिशिस्थितः ।।
योगक्षेमं सदा कुर्यात्काशीवासि जनस्य च ।। ।। ४९ ।।
मार्गशीर्षस्य सप्तम्यां षष्ठ्यां वा रविवासरे ।।
विधाय वार्षिकीं यात्रां नरः पापै प्रमुच्यते ।। 4.1.46.५० ।।
कृतानि यानि पापानि नरैः संवत्सरावधि ।।
नश्यंति क्षणतस्तानि षष्ठ्यर्के लोलदर्शनात् ।। ५१ ।।
नरः स्नात्वासिसंभेदे संतर्प्य पितृदेवताः ।।
श्राद्धं विधाय विधिना पित्रानृण्यमवाप्नुयात् ।।५२।।
लोलार्कसंगमे स्नात्वा दानं होमं सुरार्चनम् ।।
यत्किंचित्क्रियते कर्म तदानंत्याय कल्पते ।। ५३ ।।
सूर्योपरागे लोलार्के स्नानदानादिकाः क्रियाः ।।
कुरुक्षेत्राद्दशगुणा भवंतीह न संशयः ।। ५४ ।।
लोलार्के रथसप्तम्यां स्नात्वा गंगासिसंगमे ।।
सप्तजन्मकृतैः पापैर्मुक्तो भवति तत्क्षणात् ।। ५५ ।।
प्रत्यर्कवारं लोलार्कं यः पश्यति शुचिव्रतः ।।
न तस्य दुःखं लोकेस्मिन्कदाचित्संभविष्यति।।५६।।
न तस्य दुःखं नो पामा न दद्रुर्न विचर्चिका ।।
लोलार्कमर्के यः पश्येत्तत्पादोदकसेवकः ।। ५७ ।।
वाराणस्यामुषित्वापि यो लोलार्कं न सेवते ।।
सेवंते तं नरं नूनं क्लेशाः क्षुद्व्याधिसंभवाः ।। ५८ ।।
सर्वेषां काशितीर्थानां लोलार्कः प्रथमं शिरः ।।
ततोंऽगान्यन्यतीर्थानि तज्जलप्लावितानिहि ।। ५९ ।।
तीर्थांतराणि सर्वाणि भूमीवलयगान्यपि ।।
असिसंभेदतीर्थस्य कलां नार्हंति षोडशीम् ।। 4.1.46.६० ।।
सर्वेषामेव तीर्थानां स्नानाद्यल्लभ्यते फलम् ।।
तत्फलं सम्यगाप्येत नरैर्गंगासिसंगमे ।। ६१ ।।
नार्थवादोयमुदितः स्तुतिवादो न वै मुने ।।
सत्यं यथार्थवादोयं श्रद्धेयः सद्भिरादरात् ।। ६२ ।।
यत्र विश्वेश्वरः साक्षाद्यत्र स्वर्गतरंगिणी ।।
मिथ्या तत्रानुमन्यंते तार्किकाश्चानुसूयकाः ।। ६३ ।।
उदाहरंति ये मूढाः कुतर्कबलदर्पिताः ।।
काश्यां सर्वेर्थवादोयं ते विट्कीटा युगेयुगे ।। ६४ ।।
कस्यचित्काशितीर्थस्य महिम्नो महतस्तुलाम्।।
नाधिरोहेन्मुने नूनमपि त्रैलोक्यमंडपः ।। ६५ ।।
नास्तिका वेदबाह्याश्च शिश्नोदरपरायणाः ।।
अंत्यजाताश्च ये तेषां पुरः काशी न वर्ण्यताम् ।। ६६ ।।
लोलार्ककरनिष्टप्ता असिधार विखंडिताः ।।
काश्यां दक्षिणदिग्भागे न विशेयुर्महामलाः ।।६७।।
महिमानमिमं श्रुत्वा लोलार्कस्य नरोत्तमः ।।
न दुःखी जायते क्वापि संसारे दुःखसागरे ।। ६८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे लोलार्कवर्णनं नाम षट्चत्वारिंशोध्यायः ।। ४६ ।।