स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ५१


।। सनत्कुमार उवाच ।। ।।
शृणु व्यास महाबुद्धे शिप्रामाहात्म्यमुत्तमम् ।।
यथाऽमृतभवा ख्याता पाताले नागसंमते ।।१।।
एकदा रुद्रो भिक्षार्थं नागलोके बुभुक्षितः ।।
करे कपालमादाय भोगवत्यां समागतः ।। २ ।।
भिक्षां देहि वचो दीनं वाचयित्वा गृहेगृहे ।।
भिक्षा केनापि नो दत्ता क्षुधितस्य च धूर्जटेः ।। ३ ।।
तदा क्रोधाभिरक्ताक्षः शूलपाणिः क्षुधार्दितः ।।
भ्रामयित्वा पुरीं सर्वां शनैर्बहिर्विनिर्ययौ ।। ४ ।।
एकविंशतिकुण्डानि पीयूषस्य द्विजोत्तम ।।
यत्र तिष्ठंति सर्वाणि नागलोकस्य रक्षणे ।। ५ ।।
तत्र गत्वा स भगवाञ्छंभुः सर्वात्मसंभवः ।।
अपिबन्नेत्रमार्गेण तृतीयेन च शंकरः ।। ६ ।।
रिक्तानि पीयूषकुण्डानि कृत्वा तत्रैव सोत्थितः ।।
कंपितश्च तदा लोको नागानां सर्वतोमुखम् ।। ७ ।।
कस्येदं कर्म किं जातं सुधा यस्मादितो गता ।।
इत्युक्ता चैव ते सर्वे नागा वासुकिपुरोगमाः ।। ८ ।।
महदतिक्रमणे शंकाः पुरात्ते निर्ययुर्बहिः ।।
किं कुर्वाम क्व गच्छाम कस्येदं हेलनं कृतम् ।। ९ ।।
येनास्माकं कोपितेन हृतं चामृतमुत्तमम् ।।
अस्माकं जीवनं तस्मात्कथं जीवाम पन्नगाः ।। 5.1.51.१० ।।
इत्युक्त्वा पन्नगाः सर्वे सस्त्रीबालपरिग्रहाः ।।
हरिं च जग्मुः शरणं मनसा परिशंकिताः।।११।।
तेषामनुग्रहार्थाय वागुवाचाशरीरिणी।।
श्रूयतामुरगाः सर्वे युष्माभिर्देवहेलनम्।।१२।। ।
भिक्षार्थमागतः शम्भुः क्षुधार्तश्च गृहेगृहे ।।
विदित्वातिथिवेलायां कपालकरभिक्षुकः ।। १३ ।।
दत्ता न भिक्षा केनापि भोगवत्यां पिनाकिनः ।।
तदा बहिर्गतो नाथः क्षुधितो धर्मविग्रहः ।। १४ ।।
तेन नष्टा सुधा सर्वा कुंडांते पन्नगोत्तमाः ।।
यूयं प्रयात पातालान्महाकालवनोत्तमे ।। १५ ।।
तत्रैका वै सरिच्छ्रेष्ठा शिप्रानामेति विश्रुता ।।
त्रैलोक्यपावनी ह्येषा सर्वकामफलप्रदा ।। १६ ।।
यस्या दर्शनमात्रेण सर्वपापक्षयो भवेत् ।।
तत्र गत्वा भवद्भिश्च स्नानं कार्यं यथाविधि ।। १७ ।।
भजनं देवदेवस्य ततः पूजां करिष्यथ ।।
भजनाद्देवदेवस्य शिप्रासलिलमज्जनात् ।। १८ ।।
भविष्यति ततः सद्यः सुधा लोके पुरेव वः ।।
इति संभाष्य तान्नागांस्तत्रैवांतरधीयत ।। १९ ।।
वाणीं व्यास तदा दिव्यां सहसा लोकसाक्षिणीम् ।।
श्रुत्वा देवेरितां वाणीं तथेत्युक्त्वा च पन्नगाः ।। 5.1.51.२० ।।
स्त्रीबालवृद्धसहिता महाकालवनं ययुः ।।
तत्र गत्वा ददृशुस्ते नदीं त्रैलोक्यवंदिताम् ।। २१ ।।
सर्वत्र कुसुमाकीर्णां तरुच्छायाभिराश्रिताम् ।।
हंसकारंडवाकीर्णां मणिमुक्ताप्रवालकाम् ।। ।। २२ ।।
मणिसोपानरचितां पद्मखंडैश्च मंडिताम् ।।
सायं प्रातः स्थिता विप्राः संध्योपासनतत्पराः ।। २३ ।।
ऋषयश्च महाभागा भृग्वंगिरसमु ख्यकाः ।।
गंधर्वाश्चैव तत्रैव देवर्षिनारदादयः ।। २४ ।।
वसवश्च तथादित्या ह्यश्विनौ मरुतस्तथा ।।
रुद्राः साध्याश्च देवाश्च पितरो विमलाशयाः ।। ।। २५ ।।
उपासते च शिप्रां वै संध्यावेलां समाहिताः ।।
ऋषिपत्न्यो महाभागा देवकन्याप्सरोगणाः ।। २६ ।।
पतिव्रता महाभागास्तत्रैव पतिभिः सह ।।
उपासंते सदाचारा वर्णाश्रमपुरोगमाः ।। २७ ।।
राजर्षयः समासीना निर्वाणपदवीं गताः ।।
सिद्धा योगेश्वरा शांतास्तापसाः शंसितव्रताः ।। ।। २८ ।।
नानादेशोद्भवा लोका यात्रिणः समुपागताः ।।
शिप्राकूले समासीना नरनारीसमन्विताः ।। २९ ।।
कुर्वते तत्र धर्माणि महादानानि सर्वशः ।।
एवंविधां समालोक्य व्यास त्रैलोक्यवंदिताम् ।। 5.1.51.३० ।।
नदीं सुधामयीं सर्वां नागाः परमहर्षिताः ।।
स्नानदानादिकं कृत्वा महादेवमुपा सिरे ।। ३१ ।।
वेदोक्तविधिना सर्वे भक्त्या पन्नगसत्तमाः ।।
पंचांगपूर्वकं स्नानं यक्षकर्दमलेपनम् ।। ३२ ।।
अम्लानपंकजां मालां नानापुष्पाक्षतै स्तथा ।।
वासःस्रगनुलेपाद्यैश्चन्दनैर्गंधधूपकैः ।। ३३ ।।
दीपदानादिनैवेद्यैस्तांबूलमथ दक्षिणाः ।।
कर्पूरार्तिकराः सर्वे महादेवमुपागताः ।।
स्तुतिमारेभिरे कर्तुं सुधाकामास्तदोरगाः ।। ३४ ।।
।। सर्पा उचुः ।। ।।
नमोऽनंताय बृहते सर्वदेव नमोनमः ।।
चंद्रमौले नमस्तेऽस्तु कपर्दिन्परमात्मने ।।
वृषध्वज नमस्तेऽस्तु त्रिशूलवरधारिणे ।। ३५ ।।
त्र्यम्बकाय नमस्तेऽस्तु जटामुकुटधारिणे ।।
शेषहार नमस्तेस्तु चिताभस्मांगधारिणे ।। ३६ ।।
कृत्तिवास नमस्तेऽस्तु गिरीशाय नमोनमः ।।
त्रिपुरघ्न नमस्तेस्तु स्मरांतक नमोऽस्तु ते ।। ३७ ।।
मृगव्याध नमस्तेऽस्तु घस्मराय नमोनमः ।।
शंकरात्मन्नमस्तेस्तु सर्वकामफलप्रद ।। ३८ ।।
सर्वसाक्षिन्नमस्तेऽस्तु सर्वभूताशयाकृते ।।
सर्वाधार नमस्तेऽस्तु सर्वशक्तिधराय च ।। ३९ ।।।
सर्वभोग नमस्तेऽस्तु सर्वबीजसमुद्भव ।।
दिव्यहास नमस्तेऽस्तु नमोऽमृतस्रवाय च ।। 5.1.51.४० ।।
काम्यकाम नमस्तेस्तु सर्वकामवरप्रद ।।
नमः शिवाय शांताय पशूनां पतये नमः ।। ४१ ।।
नमो मृडाय दांताय शांतरूपाय वै नमः ।। ४२ ।।
एवं प्रसादितो नागैर्भगवान्वृषभध्वजः ।।
प्रसन्नवदनो भूत्वा प्रत्यक्षः प्राह पन्नगान् ।। ४३ ।।
।। श्रीमहादेव उवाच ।। ।।
शृणुध्वमुरगाः सर्वे वचस्तथ्यं वदामि वः ।।
नागलोके पुरा नित्यं भिक्षार्थं चागतोस्म्यहम् ।। ४४ ।।
गृहेगृहे भोगवत्यां व्यचरत्क्षुधितो भृशम् ।।
कपालं च करे कृत्वा धृत्वा कंथां सुचीरकाम् ।। ४५ ।।
अप्राप्तभिक्षो भिक्षार्थी पुनरागां ततो गृहम् ।।
तेन पापप्रसंगेन सुधा नष्टा च वः स्थलात् ।। ४६ ।।
किंचित्पुण्यप्रसंगेन महाकालवनोत्तमे ।।
यूयं प्राप्ता महाभागा हित्वा नागालयोत्तमम् ।। ४७ ।।
आबालवृद्धैः सस्त्रीभि दृष्टा शिप्रा सरिद्वरा।।
यस्या दर्शनमात्रेण सुनिष्पापोऽस्म्यहं पुरा ।। ४८ ।।
शिप्रायां स्नानजं पुण्यं वक्तुं शक्तो न कीदृशम्।।
दर्शनाज्जायते शंभुस्तत्क्षणाद्भुवि पन्नगाः ।। ४९ ।।
यस्मात्स्नानं कृतं सर्वैः शिप्रायां पन्नगोत्तमैः ।।
तेन पुण्यप्रभावेन सुधास्तु वो गृहेगृहे ।। 5.1.51.५० ।।
नीत्वा शिप्रोदकं पुण्यं कुण्डेषु परिषिञ्चत ।।
तेनैतानि च कुण्डानि अमृतान्येकविंशतिः ।। ५१ ।।
संपूर्णानि भविष्यंति स्थिराणि पन्नगोत्तमाः ।।
तथेत्युक्त्वा च ते सर्वे धृत्वा शिप्रोदकं करैः ।। ५२ ।।
गतास्ते वै स्वकं लोकं नमस्कृत्वा महेश्वरम् ।।
ततः प्रभृति सा शिप्रा नागलोकेऽमृतोद्भवा ।। ५३ ।।
सर्वलोकेषु विख्याता व्यास शिप्राऽमृतोद्भवा ।।
ये तु तस्यां प्रकुर्वंति नराः स्नानादिकं भुवि ।। ५४ ।।
न तेषां दुष्कृतं किंचिन्नापदो न च दुर्गतिः ।।
न वियोगो भवेत्तेषां पुत्रदारादिकैः कदा ।। ५५ ।।
न च मित्राणि दुष्यंति न रोगो न दरिद्रता ।।
कथां पापहरां पुण्यां सर्वकामवर प्रदाम् ।।
पठनाच्छ्रवणाद्वापि गोसहस्रफलं लभेत् ।। ५६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽ वन्तीक्षेत्रमाहात्म्ये शिप्रामाहात्म्येऽमृतोद्भवानामकथावर्णनंनामैकपञ्चाशत्तमोऽध्यायः ।। ५१ ।। ।। ।। छ ।।