स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ५७


।। सनत्कुमार उवाच ।। ।।
शृणु व्यास प्रवक्ष्यामि तीर्थमेकमतः परम् ।।
तीर्थानामुत्तमं तीर्थं गयानामेति नामतः ।। १ ।।
तत्र स्नात्वा नरो नित्यं मुच्यते च ऋणत्रयात् ।।
देवान्पितॄन्समभ्यर्च्य विष्णुलोकं स गच्छति ।। २ ।।
।। व्यास उवाच ।। ।।
कीकटेषु गया पुण्या नदी पुण्या पुनः पुना ।।
च्यवनस्याश्रमः पुण्यः पुण्यो राजगिरिस्तथा ।। ३ ।।
स कथं विदितो देशे महाकालवने शुभे ।।
एतद्वेदितुमिच्छामि विस्तरेण तपोधन ।। ।।। ४ ।।
।। सनत्कुमार उवाच ।। ।।
शृणु व्यास कथां पुण्यां पवित्रां पापहारिणीम् ।।
यस्याः श्रवणमात्रेण पितरो यांति सद्गतिम् ।। ५ ।।
पुरा कृतयुगे पुण्ये युगादिदेवनामतः ।।
राजासीत्स तु धर्मात्मा पुण्यश्रवणकीर्तनः ।। ६ ।।
तस्य पालयतः सम्यक्प्रजाः पुत्रानिवौरसान् ।।
बभूवुः सर्वसंपन्ना वर्धमानाः समंततः ।। ७ ।।
धर्मश्चतुष्पदो नित्यं यस्मिन्राज्ञि प्रशासति ।।
कालवर्षी च पर्जन्य ऋतवः स्वांगचारिणः ।। ८ ।।
बहुसस्यफला पृथ्वी गावश्च बहुदुग्धदाः ।।
वेदवादरता विप्राः क्षत्त्रिया बाहुशालिनः ।। ९ ।।
वैश्या धनपरा नित्यं शूद्राः शुश्रूषणे रताः ।।
वर्णाश्रमरताः सर्वे सर्वे धर्मोपदेशकाः ।। 5.1.57.१० ।।
श्रुतिस्मृतिपरो धर्मो हृष्टपुष्टजनाकरः ।।
नाधिव्याध्यभिभूतश्च लक्ष्यते कोऽपि मानवः ।। ११ ।।
दुःशीला दुर्भगा नारी विधवा नैव लक्ष्यते ।।
बहुपुत्राऽल्पपुत्रा च मृतपुत्रा न वंध्यका ।।१२।।
रूपशीलगुणोपेता पतिव्रतपरायणा ।।
नो मार्गः कंटसंकीर्णो दस्युदोषैश्च दूषितः ।। १३ ।।
हूयतां भुज्यतां शश्वद्दीयतां च गृहेगृहे ।।
दयादानतपोहोमजपयज्ञक्रियापराः ।। १४ ।।
जनाः सर्वत्र दृश्यंते सर्वधर्म परायणाः ।।
चतुष्पादचरो धर्मो ह्यधर्मोऽपादविग्रहः।। १५ ।।
एवं राजा स धर्मात्मा युगादिदेवसंज्ञितः ।।
येनेयं पालिता पृथ्वी धर्मेण वर्धिताः प्रजाः ।। १६ ।।
अवंत्यां च पुरा व्यास यज्ञकोटिं समाचरत् ।।
तस्मिन्कालेतिविक्रांतस्तुहंडो नाम दानवः ।। १७ ।।
तेन सर्वं वशं नीतं चरा चरमिदंजगत् ।।
घोरं तप्त्वा तपः पुण्यं ब्रह्मलब्धवरः खलः ।। १८ ।।
नैव देवा न यज्ञाश्च वेदमार्गविवर्जिताः ।।
देवतापूजनं नास्ति स्वधा स्वाहा न दृश्यते ।। १९ ।।
उत्सन्नो धर्ममार्गोऽयं शाश्वतो वै दुरात्मना ।।
नष्टप्रायाः सुरास्तेन कृताः सर्वे द्विजोत्तमाः ।।5.1.57.२०।।
ब्रह्माणं शरणं जग्मुः पितृभिः सह साधुभिः ।।
किं कुर्मो वा क्व गच्छाम तुहंडेन पराजिताः ।। २१ ।।
इति श्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः ।।
समुत्थाय ततः सर्वैर्विष्णुलोकं जगाम ह ।। २२ ।।
तत्र गत्वा समाराध्य विष्णुं देवगणैः सह ।।
स्तुतिं पुरुषसूक्तेन विष्णोरतुलतेजसः ।। २३।।
प्रचक्रुः सर्व एवैते ह्यात्मनोभ्युदयाय च ।।
तदा तेषां शमिच्छन्ती वागुवाचाशरीरिणी ।। २४ ।।
श्रूयतां भोः सुरश्रेष्ठा भवतां श्रेय उत्तमम् ।।
यूयं यात क्षितौ क्षिप्रं महाकालवनं प्रति ।। २५ ।।
गुह्याद्गुह्यतरं पुण्यं पवित्रं पापनाशनम् ।।
नो यत्र मायिनां माया प्रकाशयति भूतले ।। २६ ।।
सर्वतीर्थमयं तीर्थं कोटितीर्थवरप्रदम् ।।
यत्र शिप्रा सरिच्छ्रेष्ठा सर्वकामफलप्रदा ।। २७ ।।
दैत्यांतकारिणी दिव्या महाकाली कुलेश्वरी ।।
कोटिकोटिगणाकीर्णा मातॄ णां शक्तिवर्धिनी ।। २८ ।।
यत्र गया महापुण्या फल्गुश्चैव महानदी ।।
पुरुषोत्तमगिरिश्रेष्ठो यत्र बुद्धगया स्मृता ।। २९ ।।
तथैवाद्यगया ख्याता त्रिषु लोकेषु विश्रुता ।।
विष्णोः षोडशपदीतीर्थं गदाधरविनिर्मितम् ।। 5.1.57.३० ।।
सर्वपापहरा पुण्या यत्र प्राची सरस्वती ।।
महासुरनदी प्रोक्ता यत्र तिष्ठति पुण्यदा ।। ३१ ।।
न्यग्रोधश्चाक्षयो नित्यः पुरा प्रोक्तो महर्षिणा।।
तत्रैव सा शिला प्रोक्ता प्रेतमोक्षकरी शुभा ।। ३२।।
तत्रैव संति ताः सर्वा देवताः पितृकल्पजाः ।।
सर्वाक्षरमयोंकारः सर्वदेवमयो हरिः ।। ३३ ।।
सर्वतीर्थमया देवा गयातीर्थमनुत्तमम्।।
शीघ्रं गच्छत तत्रैव परां सिद्धि मवाप्स्यथ ।। ३४ ।।
यत्र प्रविष्टमात्रेण पितरो निरयस्थिताः ।।
ते सर्वे स्वर्गमायांति ब्रह्मभूयाय कल्पते ।। ३५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गयातीर्थमाहात्म्ये गयातीर्थप्रशंसावर्णनं नाम सप्तपञ्चा शत्तमोऽध्यायः ।। ५७ ।। ।। छ ।।