स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः १४
।। श्रीमहादेव उवाच ।। ।।
कुटुंबेश्वरसंज्ञं तु देवं विद्धि चतुर्दशम् ।।
यस्य दर्शनमात्रेण गोत्रवृद्धिश्च जायते ।। १ ।।
यदा देवासुरैः पूर्वं मथितः क्षीरसागरः ।।
तदा च निर्गतं देवि दुर्द्धरं दुःसहं विषम् ।। २ ।।
कालकूटमयं रौद्रं विषं ज्वालाविभीषणम् ।।
दह्यते च जगत्तेन सदेवासुरमानुषम् ।। ३ ।।
ततो देवगणाः सर्वे सासुरा यक्षराक्षसाः ।।
विषज्वालातिभीताश्च मामेव शरणं गताः ।। ४ ।।
स्तुतोहं विविधैः स्तोत्रैरिदमुक्तं वरानने ।।
अमृतार्थे कृतो यत्नः संप्राप्तं मरणं विभो ।। ५ ।।
अन्यथा चिंतितं कार्यं दैवेन कृतमन्यथा ।।
अतिमथितुमारब्धे लोभाद्वै क्षीरसागरम् ।।६।।
उत्पन्नं कालकूटं तु येन दग्धं चराचरम् ।।
ततोऽस्माकं भयं जातं कालकूटोद्भवं प्रभो ।। ।।७।।
रक्षां कुरु जगन्नाथ शरणागतवत्सल ।।
हितार्थं सर्वलोकानां यथा न प्रलयो भवेत् ।। ८ ।।
मया तेषां वचः श्रुत्वा त्रिदशानां यशस्विनि ।।
मायूरं रूपमास्थाय देवानामनुकंपया ।।
कंठे धृतं महारौद्रं कालकूटाह्वयं तदा ।। ९ ।।
त्वं भीता सहसा नष्टा रूपं दृष्ट्वा तु मामकम् ।।
विषवृक्षमसेव्यं तु ततोऽहं दुःखितोऽभवम् ।।5.2.14.१ ०।।
नदीसंघसमायुक्ता गंगा दृष्टा च पार्श्वतः ।।
सा च प्रोक्ता मया देवि सादरं स्तुतिपूर्वकम् ।। ११ ।।
कालकूटविषं गंगे वेगान्नय महोदधिम् ।।
नान्या शक्ता समानेतुं त्वां विना लोकपावनि ।। १२ ।।
।। गंगोवाच ।। ।।
नास्ति मे भगवञ्छक्तिर्विवोढुं च जगत्पते ।।
रौद्ररूपी च दुःसेव्यो दहत्येव न संशयः ।। १३ ।।
ततस्तु यमुना प्रोक्ता न समर्था सरस्वती ।।
अन्याश्च विविधा नद्यो मयाहूताः पृथ क्पृथक् ।। १४ ।।
अशक्तास्ताः समानेतुं कालकूटाह्वयं विषम् ।।
तदाहूता मया देवि शिप्रा ब्रह्मसमुद्भवा ।। १५ ।।
शिप्रे पुत्रि ममादेशान्महाकाल वनं व्रज ।।
गृहीत्वा कालकूटं तु पुरः कामेश्वरस्य हि ।।१६।।
विद्यते परमं लिंगं तस्मिंल्लिंगे नियोजय ।।
मया प्रोक्ता तदा प्राह ब्रह्मणः परमा कला ।। १७ ।।
एषास्मि प्रस्थिता देव तव वाक्यादसंशयम् ।।
दुःस्पर्शः कालकूटोऽयं नूनं मां भक्षयिष्यति ।। १८ ।।
असेव्याहं भविष्यामि दुष्टसंपर्क योगतः ।।
ततो मया पुनः प्रोक्ता शिप्रा पातकनाशिनी ।। १९ ।।
यानि तीर्थानि भूलोके पाताले यानि संति वै ।।
स्वर्गलोके ह्यंतरिक्षे पुण्यानि चारुहासिनि ।। 5.2.14.२० ।।
तानि सर्वाणि सेवार्थमागत्य मम वाक्यतः ।।
आज्ञां तव करिष्यंति गच्छ पुत्रि ममाज्ञया ।। २१ ।।
एवमुक्ता तदा शिप्रा गृहीत्वा कालकूटकम् ।।
समायाता वरारोहे यत्र लिंगमनुत्तमम् ।। २२ ।।
तद्विषं कालकूटाह्वं निक्षिप्तं लिंगमूर्द्धनि ।।
विषलिंगस्ततो जातो दृष्टो मृत्युप्रदायकः ।। २३ ।।
पशुः पक्षी नरो वापि यो हि पश्यति तं शिवम् ।।
म्रियते स तदा देवि तस्य देवस्य दर्शनात् ।। २४ ।।
तीर्थयात्रां ततः कर्तुं तत्रायातांस्तपोधनाः ।।
तं च देवं ततो दृष्ट्वा मृताः सर्वे च तत्क्षणात् ।। २५ ।।
ततो हाहाकृतं देवि त्रैलोक्यं सचराचरम्।।
हाहाकारं महच्छ्रुत्वा मया ते द्विजसत्तमाः ।।
संजीविताश्च वै सर्वे दृष्टिपातेन पार्वति ।। २६ ।।
तुष्टुवुः प्रणता विप्रा मामतो विविधैः स्तवैः ।।
मया प्रोक्तास्तु ते विप्रा वृणुध्वं वरमुत्तमम् ।। २७ ।।
तैरुक्तं प्रणतैर्देवि लोकानां च हितार्थतः ।।
संम्रियंते प्रजा देव लिंगेनानेन शंकर ।। २८ ।।
ताः संरक्ष जगन्नाथ ह्येषोऽस्माकं वरः प्रभो ।।
प्रतिज्ञातं मया देवि लोकानामनुकंपया ।। २९ ।।
क्षेमारोग्यकरं लिंगं भविष्यति न संशयः ।।
कायावरोहणाद्विप्राः स्वयमत्रागमिष्यति ।। 5.2.14.३० ।।
लकुलीशस्तदा चायं देवः स्पृश्यो भविष्यति ।।
वृद्धिकारी कुटुम्बस्य भविष्यति न संशयः ।।३१।।
कुटुंबेश्वर इति नाम्ना लोके ख्यातिं गमिष्यति ।।
इत्युक्तास्ते मया विप्रास्तत्रैव तपसि स्थिताः ।। ३२ ।।
लकुलीशोऽथ तल्लिंगमारुरोह ममाज्ञया ।।
जनयन्विस्मयं लोके कीर्तिं जनपदे तथा ।। ३३ ।।
कुटुम्बेश्वरसंज्ञं तु ये पश्यंति यशस्विनि ।।
तेषां कुले तु वृद्धिः स्यात्कुटुंबस्य न संशयः ।। ३४ ।।
आश्विनासितपंचम्यां दर्श नं यः करिष्यति ।।
बहुपुत्रो बहुधनो भविष्यति न संशयः ।। ३५ ।।
महतीं श्रियमाप्नोति रोगैश्चापि प्रमुच्यते ।।
सर्वकामसमृद्धोऽसौ मम लोके स मोदते ।।३६ ।।
दर्शनं ये करिष्यंति स्पर्शनं यजनं तथा ।।
ते सर्वे कामसंपूर्णाः प्रयांति मम मंदिरम् ।। ३७ ।।
समीपे तु सरिच्छिप्रा वापीकूपेन संयुता ।।
यस्या दर्शनमात्रेण नरः पापात्प्रमुच्यते ।।३८।।
सोमवारेर्कवारे च स्नात्वा तस्यां समाहितः।।
अष्टम्यां वा चतुर्दश्यां यः पश्येत्कुटुंबेश्वरम् ।। ।। ३९ ।।
राजसूयसहस्रस्य वाजपेयशतस्य च ।।
फलं स लभते देवि सत्यमेतन्मयोदितम् ।। 5.2.14.४० ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
कुटुंबेश्वरदेवस्य त्विंद्रद्युम्नेश्वरं शृणु ।। ४१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कुटुंबेश्वरमाहात्म्यवर्णनंनाम चतुर्दशोऽध्यायः ।।१४।।