स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः २३
।। श्रीहर उवाच ।। ।।
मेघनादेश्वरं देवि त्रयोविंशतिमं शृणु ।।
यस्य दर्शनमात्रेण प्राप्यते सर्वसिद्धयः ।।१।।
राजमूला महादेवि योगक्षेमाः सुवृष्टयः।।
प्रजाश्च व्याधयश्चैव मरणं च भयानि च ।।२।।
राजा कृतं तथा त्रेता द्वापरश्च तथा कलिः ।।
राजमूलानि सर्वाणि राजाधर्मस्य कारणम् ।। ३ ।।
राजा बभूव लोकेऽस्मिन्मदांधोनाम पार्वति ।।
अहंकारावृतो दुष्टो देवब्राह्मणकंटकः ।। ४ ।।
कलि द्वापरयोः संधौ तस्य दोषाच्च भामिनि ।।
अनावृष्टिरभूद्धोरा लोके द्वादशवार्षिकी ।। ५ ।।
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवत्प्रभुः ।।
नादृश्यन्तापि रात्र्यंते कुत एवाभ्रजातयः ।। ६ ।।
नद्यः संक्षिप्ततोयौघाः क्वचिदंतर्हितास्तदा ।।
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमंगलाः ।। ७ ।।
उच्छिन्नकृषि गोरक्षा निवृत्तविपणास्तथा ।।
अस्थिकंकालसंकीर्णा हाहाभूतनराकुलाः ।। ८ ।।
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशिनः ।।
गोजाश्वमहिषैर्हीना भक्ष्यमाणाः परस्परम् ।। ९ ।।
आश्रमान्संपरित्यज्य पर्यधावन्नितस्ततः ।।
ब्राह्मणा दुःखबहुला मृता नष्टाश्च पार्वति ।। 5.2.23.१० ।।
सूष्टिरुन्मूलिता सर्वा जंगमा स्थावराखिला ।।
एतस्मिन्नंतरे देवाः शक्राद्या भयविह्वलाः ।। ११ ।।
शरण्यं शरणं जग्मुर्देवदेवं जनार्दनम् ।।
क्षीरोदस्योत्तरे कूले श्वेतद्वीपं मनोरमम् ।। १२ ।।
ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणं शुभम् ।।
सदानंदकरं शांतं सूर्यकोटिसमप्रभम् ।। १३ ।।
स्वेच्छाकल्पितवि न्यासप्रासादशयनासनम् ।।
वज्रेंद्रनीलवैडूर्यचंद्रकांतादिदीपितम् ।। १४ ।।
जरामृत्युभयोपेतसर्वव्याधिविवर्जितम् ।।
तस्मिन्द्वीपे ततो देवि सूर्य कोटिसमप्रभम् ।।
साष्टांगां प्रणतिं कृत्वा ते देवाः स्तुतिमब्रुवन् ।। १५ ।।
भवान्ब्रह्मा च रुद्रश्च महेंद्रो देवसत्तमः ।।
भवान्कर्त्ता विकर्त्ता च लोकानां प्रभवोऽव्ययः ।। १६ ।।
एवं च सत्यं परमं तपश्च परमं तथा ।।
पवित्रं परममार्गं यज्ञस्त्वं परमः प्रभो ।। १७ [।।
परं हौत्रं परं धाम त्वामाहुः पुरुषं परम् ।।
एवं स्तुतस्तदा तैस्तु देवदेवो वरानने ।। १८ ।।
प्राह देवांस्ततः कृष्णः किं करोम्यद्य वः सुराः ।।
विज्ञप्तस्तैर्हरिर्देवो ह्यनावृष्ट्या प्रपीडितैः ।। १९ ।।
उपायः कथ्यतां देव तुष्टिः धुष्टिर्यथा भवेत् ।।
ध्यानेन चिंतयित्वा च कथयामास केशवः ।। 5.2.23.२० ।।
गच्छध्वं त्रिदशाः सर्वे महाकालवने शुभे ।।
लिंगं वृष्टिकरं तत्र पुरा मेघैः प्रतिष्ठितम् ।। २१ ।।
मेघा वृष्टिकराः सर्वे तस्मिँल्लिंगे च संति वै ।।
तस्य लिंगस्य माहात्म्याद्वृष्टिरेव भविष्यति ।। २२ ।।
प्रतीहारेश्वराद्देवादीशाने विद्यते सुराः ।।
तस्य तद्वचनं श्रुत्वा वासुदेवस्य पार्वति ।।२३।।
महाकालवने प्राप्ता यत्रास्ते लिंगमुत्तमम् ।।
तुष्टुवुः परया भक्त्या दृष्ट्वा देवं मनोरमम् ।। २४ ।।
नमस्तेऽस्तु महेशाय नमोऽनंताय मालिने ।।
नमस्तैजसमूर्त्ताय नमः सौंदर्यशालिने ।। २५ ।।
नमो योगाय वेदाय नमः पिंगजटाय ते ।।
अनंतज्ञानदेहाय नम ईश्वरमूर्त्तये ।। २६ ।।
नमः शुभ्राट्टहासाय नमस्तेऽस्तु शिखंडिने ।।
शंकराय नमस्तेऽस्तु नमस्तेस्तु पिनाकिने ।। २७ ।।
नमोंऽतकाय भव्याय त्र्यंबकायास्तु ते नमः ।।
नमस्ते बहुरूपाय नमस्तेऽचिंत्यमूर्त्तये ।। २८ ।।
नमो योगशरीराय नमस्ते सर्व सर्वदा ।।
नष्टं देव जगत्सर्वमनावृष्ट्या प्रपीडितम् ।। २९ ।।
सुवृष्ट्या देवदेवेश पाहि नः शरणागतान् ।।
एतस्मिन्नंतरे मेघा पार्वणांगारवर्चसः ।। 5.2.23.३० ।।
लिंगमध्यात्समुत्तस्थुर्वादयंतो नभस्तलम् ।।
अन्योन्यवेगाभिहता ववृषुर्भूतले तदा ।। ३१ ।।
जातं विनिष्प्रभं सर्वं न प्राज्ञायत किंचन ।।
तिमिरौघपरिक्षिप्ता रेजुश्चाथ दिशो दश ।। ३२ ।।
ते तस्य देवदेवस्य माहात्म्येन प्रतोषिताः ।।
देवाः प्रीतिं परां जग्मुः सर्वेऽमृतमिवोत्तमाः ।। ३३ ।।
ततस्तमः संहरतो विनेशुश्च बलाहका ।।
प्रववुः शीतला वाताः प्रशांताश्च दिशो दश ।। ३४ ।।
शुद्धप्रभाणि ज्योतींषि सोमं चक्रुः प्रदक्षिणाम् ।।
अविग्रहं ग्रहाश्चक्रुः प्रशांताश्चापि सिन्धवः ।। ३५ ।।
महर्षयो विशोकाश्च गंधर्वाश्च कलं जगुः ।।
अभूत्सृष्टिः पुनः सर्वा लिंगस्यास्य प्रभावतः ।। ३६ ।।
सुरैः संपूज्य भक्त्या ते चक्रुर्नाम यथार्थतः ।।
अस्य लिंगस्य माहात्म्यं दृष्ट्वा प्रीताः सुरा बहु ।। ३७ ।।
मेघनादेश्वरं नाम भविष्यत्यस्य सर्वतः ।।
मेघनादेश्वराख्यानं मया ते कथितं प्रिये ।। ३८ ।।
भविष्यंति नरा भूमौ कृतार्थास्तत्प्रभावतः ।।
दर्शनादस्य लिंगस्य कामवृष्टिर्भविष्यति ।। ३९ ।।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।
कुर्वंल्लिंगस्य स्नपनं रुद्रलोके महीयते ।। ४० ।।
प्रभावः पठ्यते यत्र मेघनादस्य पार्वति ।।
अतिवृष्टिश्चैव ततो भविष्यति च भूतले ।। ४१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमआवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये मेघनादेश्वरमाहात्म्यवर्णनंनाम त्रयोविंशो ऽध्यायः ।। २३ ।। ।। अ ।। ।।