स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः २४

।। ईश्वर उवाच ।। ।।
महालयं महाभागे चतुर्विंशतिकं शुभम् ।।
ब्रह्मादिस्तंबपर्यंतं त्रैलोक्यं सचरा चरम् ।। १ ।।
उत्पादितं धृतं व्याप्तं त्वया देव मया श्रुतम् ।।
त्वयैकेन विशुद्धेन सर्वगेन महात्मना ।। २ ।।
अत्यर्थं मुनयः सर्वे मुदिता मौनिनो ऽव्ययाः ।।
वदंति कारणं चास्य त्रैलोक्यस्य महेश्वर ।। ३ ।।
त्वया सर्वमिदं सृष्टं त्रैलोक्यं भूर्भुवादिकम् ।।
उत्पाद्यमानमुत्पन्नं प्रलीयच्च सहस्रशः ।। ४ ।।
देवदानवगंधर्वमुनिचारणभोगिनाम् ।।
उत्पत्तिस्थितिसंहारास्त्वया दृष्टा मुहुर्मुहुः ।। ५ ।।
जगच्चराचरं देव कुत्र स्थित्वासृजस्य लम् ।।
लीलया संहरस्येतत्प्रसादाद्वक्तुमर्हसि ।। ६ ।।
कोऽसौ महालयो रौद्रग्रहरूपी व्यवस्थितः ।।
यस्मिन्धृतं त्वया सर्वं त्रैलोक्यं भूर्भुवादिकम् ।। ।। ७ ।।
इति पृष्टस्त्वया देवि मया ते कथितं पुरा ।।
इदानीं कथयिष्यामि शृणुष्वैकाग्रमानसा ।। ८ ।।
पृथिव्यादीनि भूतानि महाकालवने प्रिये ।।
धृतानि प्रलयस्यांते एकोद्देशे महालये ।। ९ ।।
ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणं शुभम् ।।
स्थानं महालयं तत्र ममानंदकरं परम् ।। 5.2.24.१० ।।
परं ब्रह्ममयं लिंगं तत्र तिष्ठति सर्वदा ।।
तस्य लिंगस्य मध्ये तु धृतं कृत्स्नं चराचरम् ।। ११ ।।
तत्र ब्रह्मादयो देवा विष्णुस्तत्रैव संस्थितः ।।
लिंगस्याभ्यंतरे देवि सर्वमेवाधितिष्ठति ।।
तस्माल्लिंगात्समुत्पन्नो महानात्मा महामतिः ।। १२ ।।
भूतादिश्चाप्यहंकारो विष्णुः शंभुश्च पार्वति ।।
बुद्धिः प्रज्ञा धृतिः ख्यातिः स्मृतिर्लज्जा सरस्वती ।।१३।।
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।।१४।।
अस्माद्भूतानि लिंगानि महाभूतानि पञ्च वै ।।
पृथिवी वायुराकाशमापो ज्योतिः प्रलीयते ।। १५ ।।
स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम्।।
अण्डजोद्भिज्जं च सस्वेदं जरायुजमथापि वा ।। १६ ।।
चतुर्द्धा जन्मचिह्नं यल्लिंगेस्मिन्नेव लक्ष्यते ।।
तपः कर्म च पुण्यं च व्रतं दानं तथैव च ।। १७ ।।
रजःसत्त्वं तमोभावस्तस्माल्लिंगाच्च जायते ।।
तस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ।। १८ ।।
अव्यक्तकारणं सूक्ष्मं यत्तत्सदसदात्मकम् ।।
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।। १९ ।।
विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ।।
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितर स्तथा ।। 5.2.24.२० ।।
आपो द्यौः पृथिवी वायुरंतरिक्षं दिशस्तथा ।।
संवत्सरर्तवो मासाः पक्षाहोरात्रयस्तथा ।। २१ ।।
यच्चान्यदपि तत्सर्वं संभूतं लोक साक्षिकम् ।।
यदिदं दृश्यते किंचित्तस्यांते च प्रलीयते ।। २२ ।।
अतो महालयोनाम विख्यातो भुवनत्रये ।।
मुक्तीश्वरस्य देवस्य दक्षिणे संव्यव स्थितः ।। २३ ।।
यः पूजयति तल्लिंगं रुद्रमूर्त्या महालयम् ।।
त्रैलोक्यविजयी नित्यं कीर्त्तिमान्स नरो भवेत् ।। २४ ।।
महालयेश्वरे पुण्ये पूजिते परमेश्वरे ।।
भक्त्या परमया चैव सर्वे देवाः सुपूजिताः ।।
भवंतीह महाभागे यतस्तैरपि पूज्यते ।। २५ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये महालयेश्वरमाहात्म्यवर्णनंनाम चतुर्विंशोऽध्यायः ।। २४ ।।