स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ३२
।। ईश्वर उवाच ।। ।।
त्रिषु लोकेषु विख्यातं द्वात्रिंशत्तममुत्तमम् ।।
विद्धि सिद्धिप्रदं पुंसां पत्तनेश्वरमीश्वरम् ।। १ ।।
पुराऽहं पर्वते देवि मंदरे चारुकन्दर् ।।
क्रीडन्सार्द्धं त्वया पृष्टः कदाचिद्रहसि स्थितः ।। २ ।।
किमर्थं पर्वतं त्यक्त्वा कैलासं रमणीयकम् ।।
मुक्ता फलशिलाशुभ्रं शङ्खचन्द्रांशुनिर्मलम् ।। ३ ।।
सिद्धचारणगन्धर्वकिंनरोद्गीतनादितम् ।।
सदा पुष्पद्रुमच्छन्नं कदलीवनराजितम् ।। ४ ।।
अथ कोकिलचक्राह्वचकोरकुरराकुलम् ।।
पुऽण्यलोकोपमं स्थानं त्रिविष्टपविभूषणम् ।। ५ ।।
महाकालवने शून्ये नानागुल्मलतावृते ।।
गजेंद्रगजशार्दूल सिंहशम्बरसंकुले ।। ६ ।।
ऋक्षवानरगोमायुजन्तुकादिविराजिते ।।
मयूरसर्पमार्जारमूषिकादिविराजिते ।। ७ ।।
कथं वासः कृतो देव कौतूहलमिदं मम ।। ८ ।।
इति पृष्टस्त्वया देवि मंदरे चारुकन्दरे ।।
मया प्रोक्तं प्रसन्नेन पत्तनं च मम प्रिये ।। ९ ।।
महाकालवनं रम्यं स्वर्गात्सुखकरं परम् ।।.
स्मशानपीठसत्क्षेत्रवनोपरसमाश्रितम् ।। 5.2.32.१० ।।
अनौपम्यगुणं विद्धि पत्तनं पर्वतात्मजे ।।
एवं पत्तनदेवो वै न दृष्टो भुवनत्रये ।।
गीतवादित्रचातुर्यैः स्पर्द्धते यः सुरालयम् ।। ११ ।।
एतस्मिन्नंतरे देवि देवर्षिर्नारदो मुनिः ।।
द्रष्टुकामः समायातो मन्दरे मां यशस्विनि ।। १२ ।।
विनोदार्थं मया पृष्टस्त्वत्प्रियार्थं कुतूहलात् ।।
क्व त्वया गमितः कालः कल्पसंख्यो महामुने ।। १३ ।।
कस्मिन्नाश्रमसंस्थाने तपसः संचयः कृतः ।।
तीर्थानि कानि भ्रांतानि क्व ते रतिरभूच्चिरम् ।। १४ ।।
कौतुकं दृष्टपूर्वं तु वद मे मुनिसत्तम ।।
इति पृष्टो मया देवि ब्रह्मपुत्रो महामुनिः ।।
कथयामास वृत्तांतं पत्तनस्य प्रयत्नतः ।। १५ ।।
बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ।।
पत्तनानि विचित्राणि देशाश्च नगराणि च ।। १६ ।।
अटनार्थं महादेव जंबूद्वीपे मनोरमे ।।
दृष्टः पत्तनराजश्च सदानंदकरः परः ।। १७ ।।
स्वेच्छाकल्पितविन्यासः प्रासादशतकल्पितः ।।
इच्छाकामफलावाप्तिर निर्देश्यसुखावहः ।। १८ ।।
सर्वर्तुकुसुमामोदसुखस्पर्शानिलावृतः ।।
वीणावेणुरवैर्घुष्टो मनःप्रह्लादकारकः ।। १९ ।।
वज्रेंद्रनीलवैडूर्यचन्द्रकांतादिदी पितः ।।
जरामृत्युभयोपेतः सर्वव्याधिविवर्जितः ।। 5.2.32.२० ।।
शक्राग्नियमरक्षोब्धिवायुसोमेशसेवितः ।।
ऊर्द्धाधः सप्तलोकेषु पुण्येषु निवसंति हि ।। ।। २१ ।।
सदा प्रमुदिता देवास्तेऽपि कांक्षंति पत्तनन्न् ।।
तत्र शांता महात्मानो निवसंते महेश्वर ।। २२ ।।
विद्योतितदिशो दांताः सूर्य वैश्वानरप्रभाः ।।
दिव्यांबरधरा धीरा जगमुकुटधारिणः ।। २३ ।।
विप्रा माहेश्वराः पुण्याः क्षत्रिया हरतत्पराः ।।
मुमुक्षवस्तपोनिष्ठा वैश्या शूद्राश्चिरायुपः ।। २४ ।।
स शुभ्ररूपः स च लोहिताकृतिः स चापि पीतः ससितेतरः क्वचित् ।।
स नामधेयः स च नामवर्ज्यः सोऽदृ श्यरूपः स च दृष्टरूपः ।। २५ ।।
क्वचिद्रविसहस्राक्षः क्वचिदेकरविप्रभः ।।
क्वचिच्चन्द्राद्विशिष्येत क्वचिदंगुलिकांतिमान् ।। २६ ।।
जन्म मृत्युजरारोगैर्दुःखानि विविधानि च ।।
प्रयाति विलयं तानि प्रसन्ने पत्तनेश्वरे ।। २७ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
पत्तनेशस्य देवस्य आनंदेशमतः शृणु ।। २८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये पत्तनेश्वर माहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः ।। ३२ ।।