स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ३७
।। श्रीहर उवाच ।। ।।
सप्तत्रिंशत्तमं विद्धि शिवेश्वरमनंतकम् ।।
यस्य दर्शनमात्रेण जायंते सर्वसंपदः ।। १ ।।
राजा रिपुंजयोनाम ब्रह्मकल्पे पुराभवत् ।।
महाकालवने रम्ये प्रजापालनतत्परः ।। २ ।।
देवपूजां व्रतं दानं ध्यानं स्वाध्यायसत्क्रियाम् ।।
प्रजापालनकं कृत्वा न स जानाति किंचन ।। ३ ।।
स प्रजाः पालयामास पुत्रवत्परिपालिताः ।।
प्रजास्ताः सुखसंवृद्धा जरामृत्युविवर्जिताः ।। ४ ।।
पुत्रिणो धनधान्याढ्याः सर्वकामसमन्विताः ।।
तस्यैव तेजसा व्याप्तं महाकालपुरं प्रिये ।। ५ ।।
एतस्मिन्नंतरे पृथ्वीं तस्मिञ्छासति पार्वति ।।
महाकालवनं देवि स्वपुरं चिह्नितं मया ।।
विना चोज्जयिनीं गंतुं न रतिं प्राप कुत्रचित् ।। ६ ।।
तदा मया गणेशस्तु शिवसंज्ञो गणाग्रणीः ।।
चिंतितस्तत्क्षणात्प्राप्तः किं करोमीत्युवाच ह ।। ७ ।।
मयाप्युक्तो गणेशो हि गच्छ पुत्र मम प्रियम् ।।
महाकालपुरं व्याप्तं राजा रिपुञ्जयेन हि ।। ८ ।।
इत्युक्तः स मया देवि तथेत्युक्ता कृतांजलिः ।।
गतोऽसौ मानुषे लोके ममाज्ञाहर्षिताननः ।। ९।।
गते शिवगणे देवि संतुष्टोऽहं शुचिस्मिते ।।
युक्तिज्ञानवृतो दक्षः प्रभोर्भृत्यो हि दुर्लभः ।। 5.2.37.१० ।।
ततः स भिक्षु रूपेण बह्वोषधिपरिग्रहः ।।
गृहीत्वा दुंदुभिं स्कंधे वचनं चेदमब्रवीत् ।। ११ ।।
कश्च भूतविषग्रस्तो नानादोषैः समाश्रितः ।।
कस्य को व्याधिरत्युग्रो यमहं प्रशमं नये ।। १२ ।।
कोऽपुत्रः पुत्रवानस्तु मन्मंत्रबलमाश्रितः ।।
वैद्योऽस्मि सर्वयुक्तिज्ञः सर्वकामप्रदायकः ।। १३ ।।
तस्य वाक्यं समाकर्ण्य कौतूहलसमन्वितः ।।
सवृद्धबालनारीको जनस्तमभिजग्मिवान् ।। १४ ।।
तेषां स नाशयामास व्याधिं दुर्जयमप्यति ।।
ते च तस्मै सुमहतीं पूजां चक्रुः सुहर्षिताः ।।
हेमरत्नांबरधनैर्धान्यग्रामपुरादिभिः ।। १५ ।।
एवं स न्यवसत्तत्र वर्षाणि च चतुर्द्दश ।।
नृपतेरंतरप्रेक्षी न चांतर मवाप सः ।। १६ ।।
अहोऽतिदुष्करो राजा अहो लोकपरायणः ।।
अहो तेजोनिधिर्वीरो दुर्जयोऽसौ महामतिः ।। १७ ।।
एवं स चिंतयंस्तत्र भिक्षु रूपी शिवो गणः ।।
जीर्णोद्यानलताजालगहने संवृतः स्थितः ।। १८ ।।
अत्रांतरे तु नृपतेस्तस्य लोकव्रतस्य तु ।।
महिषी निर्जरा राज्ञः प्राणेभ्योपि गरीयसी ।। १९ ।।
रूपेणाप्रतिमा लोके सा चापुत्रा सुतार्थिनी ।।
सपत्नीबहुला देवी श्रुत्वा भिक्षुं समाश्रिता।। 5.2.37.२० ।।
सर्वकामप्रदं ज्ञात्वा नाग राणां सकौतुकम्।।
स्वां सखीं प्रेषयामास सुनंदांनाम भामिनी ।। २१ ।।
भिक्षोरायतने गुप्तमंतःपुरमतंद्रिता ।।
तया चासादितो भिक्षुर्विचिंत्य नगरं तदा ।।
उवाच चिंतापरमं भिक्षुं भिक्षासमन्वितम् ।। २२ ।।
प्रणम्य प्रांजलिर्भूत्वा कार्यार्थं विगतव्यथा ।।
भगवन्महिषी राज्ञः प्राणेभ्योऽपि गरीयसी ।।
वंध्या पुत्रार्थिनी देवी गुप्तं त्वां द्रष्टुमिच्छति ।। २३ ।।
भवान्कृपाकरः प्रायः प्रजानामीहितप्रदः ।।
एवं श्रुत्वा शिवगणो लब्ध्वा रन्ध्र मुवाच ह ।। २४ ।।
।। भिक्षुरुवाच ।। ।।
भद्रे केयं तव मतिर्विपरीतप्रलापिनी ।।
अविज्ञातो नरपतेर्गृहमेहीति भाषसे ।।
अविज्ञातः पुरे दृष्टः साहसी पुरुषो भवेत् ।। २५ ।।
एवं मत्वा व्रज क्षिप्रं स्वमेवांतःपुरं शुभे ।।
नाहं तत्रागमिष्यामि यावन्न नृपतेर्वचः ।। २६ ।।
सा तु तस्य वचः श्रुत्वा भिक्षोः क्षुभितमानसा ।।
जगामान्तःपुरं तूर्णं देव्यै तच्च न्यवेदयत् ।। २७ ।।
सखीवचस्तु सा श्रुत्वा देवी दीना उवाच ताम् ।।
सुनन्दे क उपायोस्ति राजा येन प्रवर्त्तते ।।
भिक्षोरानयने क्षिप्रं यावन्नासौ व्रजेत्क्वचित् ।। २८ ।।
उवाच सा तां युक्त्यैव सुनंदा युक्तभाषिणी ।।
त्वं तस्य वल्लभा राज्ञः प्राणेभ्योपि गरीयसी ।। २९ ।।
तस्मादस्वस्थचित्तत्वं राज्ञः स्वं संप्रदर्शय ।।
हेतुना तेन राजा च वाक्यं तव करिष्यति ।। 5.2.37.३० ।।
एतस्मिन्नेव काले तु देव्या दर्शनलालसः ।।
जगामांतःपुरं राजा प्रियां दीनां ददर्श ह ।।
तामपृच्छत्ततो राजा स्नेहार्द्रीकृतमानसः ।। ३१ ।। ।।
।। राजोवाच ।। ।।
किमिदं देवि ते रूपं विमनस्केव भाषसे ।।
भग्नासि केन दुःखेन कस्यापकृतमीदृशम् ।। ३२ ।।
नृपस्य वचनं श्रुत्वा राज्ञी वचनमब्रवीत् ।।
न पुत्रा नृप मे संति तेन मे नास्ति निर्वृतिः ।। ३३ ।।
क्रीडनं पीडनायैव तेषां ये पुत्रवर्जिताः ।।
अपुत्रा जगतो दीना दुःखिताः पुत्रवर्जिताः ।।
अपुत्रे च गतिर्नास्ति सुतापुत्रविवर्जिते ।। ३४ ।।
सुखिनस्ते जना लोके ये बालं पांसुभूषितम् ।।
परिष्वजंति स्वसुतमस्फुटाक्षरभाषकम् ।। ३५ ।।
अनेन कारणेनास्मि निर्वेदं परमं गता ।।
उपायो हि मया दृष्टः पुत्रार्थे मम सांप्रतम् ।। ३६ ।।
इह भिक्षुः समायातो देवरूपी सनातनः ।।
तस्य चाव्याहता शक्तिः श्रूयते सर्ववस्तुषु ।। ३७ ।।
सस्त्रीबालो जनश्चात्र शरणं यस्य गच्छति ।।
तस्य भिक्षोः प्रसादेन सुतवत्यो वयं नृप ।।
भविष्यामोऽत्र संदेहो न मे मनसि वर्त्तते ।। ३८ ।।
तस्याः स वचनं श्रुत्वा जीर्णोद्यानं जगाम ह ।।
प्रियया सहितो राजा तं च भिक्षुं ददर्श ह ।। ३९ ।।
दृष्टमात्रो नृपतिना भिक्षुर्लिगत्वमागतः ।।
दृष्ट्वा सुमहदाश्चर्यं भक्तिनम्रो महीपतिः ।।
पूजयामास विधिवत्तल्लिंगं भिक्षु रूपकम् ।। 5.2.37.४० ।।
अपुत्रोऽस्मीत्युवाचेदं धन्येयं महिषी मम ।।
देहि मे तनयं देव शिवो भवान्महेश्वरः ।। ४१ ।।
इत्युक्तो राजसिंहेन भिक्षुर्लिंगा कृतिस्तदा ।।
प्रत्युवाच महीपालं पुत्रस्ते भविता नृप ।। ४२ ।।
ततःप्रभृति राजासौ सकलत्रो महामतिः ।।
सर्वभावेन तं देवं जगाम शरणं मुदा ।। ४३ ।।
देवदेवस्य माहात्म्यात्पुत्रो जातो महाबलः ।।
धर्मात्मा च यशस्वी च सार्वभौमो गुणाधिकः ।। ४४ ।।
अथाहं मन्दराद्देवि कौतु- कात्तु समागतः ।।
लिंगाकारं गणं दृष्ट्वा राजानं सेवकं तथा ।।४५।।
योगैश्वर्येण च मया कृतं वै पुरमात्मनः ।।
नानारत्नप्रभोद्द्योतं नानासिद्धिनि षेवितम् ।।
तच्छिवं शाश्वतं स्थानं दत्तं देवि तदा मया ।। ४६ ।।
मार्कंडेयेश्वराद्देवादुत्तरे वरवर्णिनि ।।
तदाप्रभृति देवोऽसौ शिवेश्वर इति स्मृतः ।।. ।। ४७ ।।
येऽर्चयिष्यन्ति सततं शिवेश्वरमनुत्तमम्।।
निर्धूतसर्वपापास्ते भविष्यंति गणोत्तमाः ।। ४८ ।।
विदित्वार्भगुरुं लोकं ये द्रक्ष्यंति शिवेश्व रम् ।।
अन्तकाले प्रदास्यामि तेषां ज्ञानमनुत्तमम् ।।४९।।
मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् ।।
अपुनर्भवहेतुत्वात्संसेव्योऽसौ शिवेश्वरः ।। ।। 5.2.37.५० ।।
सर्वावस्थोऽपि यो मर्त्यः संश्रयेत्तं शिवेश्वरम् ।।
स तां गतिमवाप्नोति यज्ञैर्दानैर्हि या गतिः ।। ५१ ।।
आख्यानं प्रयतो मर्त्त्यो य इदं श्रावयेच्छुचिः ।।
पठेद्वा वाचयेद्वापि स मुच्येत्सर्वकिल्विषैः ।। ५२ ।।
एष ते कथिता देवि प्रभावः पापनाशनः ।।
शिवेश्वरस्य देवस्य कुसुमेश मतः शृणु ।। ५३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये शिवेश्वरमाहात्म्यवर्णनंनाम सप्तत्रिंशोऽध्यायः ।।३७।।