स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ३८
।। ईश्वर उवाच ।। ।।
अष्टात्रिंशत्तमं विद्धि कुसुमेश्वरसंज्ञकम् ।।
देवं स्वर्गप्रदं देवि महापातकना शनम् ।।१।।
पुरा वैवस्वते कल्पे प्राप्ते वाराहसंज्ञके ।।
प्रादुर्भूते विशालाक्षि कैलासादहमागतः ।। २।।
महाकालवने रम्ये रममाणस्य पार्वति ।।
त्वया सार्द्धं ममाक्षैश्च प्रादुरासीन्महास्वनः ।। ३ ।।
पृष्टोऽहं च तदा श्रुत्वा शब्दं चातीव दुःसहम् ।।
शब्दोत्पत्तिर्मया देवि कथिता सा त्वदग्रतः ।।४।।
एते गणेशाः क्रीडंति मध्ये वै वीरको गणः ।।
कुसुमैर्भूषितोऽत्यर्थं ममातीव सुवल्लभः ।।५।।
कुसुमैर्हन्यतेऽप्यर्थं पूज्यते कुसुमोत्करैः ।।
स एव वीरको देवि सदा मे हर्षदायकः ।।६।।
नानाश्चर्यगुणाधारो गणेश्वरशतार्चितः ।।
मदीयं वचनं श्रुत्वा त्वयाप्युक्तं वरानने ।।७।।
न दृश्यते विना पुण्यैः पुत्रस्याननपंकजम् ।।
ईदृशस्य सुतस्यापि ममोत्कण्ठा महेश्वर ।। ८ ।।
कदाहमीदृशं पुत्रं द्रक्ष्याम्यानन्ददायकम् ।।
मया तव वचः श्रुत्वा हसित्वा च पुनःपुनः ।।
प्रोक्तं पार्वति पुत्रोऽयं प्रदत्तो वीरकोऽधुना ।। ९ ।।
एष एव सुतस्तेस्तु नयनानन्ददायकः ।।
त्वया मात्रा कृतार्थस्तु वीरकः कुसुमार्चितः ।। 5.2.38.१० ।।
मदीयं वचनं श्रुत्वा प्रेषिता विजया त्वया ।।
दत्तो हरेण मे पुत्रो विजये शीघ्रमानय ।। ११ ।।
विजयोवाच गणपं गणमध्ये च वर्त्तिनम् ।।
एहि वीरक चापल्यात्त्वया देवः प्रकोपितः ।।
किमुन्मत्तवदत्यर्थं नृत्यरागेण मोहितः ।। १२ ।।
इत्युक्तो भयसंत्रस्तः कुसुमैर्भूषितस्तदा ।।
त्वत्समीपं समायातो विजयानुगतः शनैः ।। १३ ।।
भूषितं कुसुमैर्दृष्ट्वा भयत्रस्तं च वीरकम् ।।
त्वया चाकारितो देवि गिरा मधुरवर्णया ।।१४।।
एह्येहि जातोऽसि मे पुत्रकस्त्वं देवेन दत्तोऽधुना वीरकोसि ।।
उक्तवत्येवमंके निधायाथ तं पर्यचुम्बः कपोले कलंवादिनम् ।। १५ ।।
मूर्धन्युपाघ्राय सम्मार्ज्य गात्राणि सा भूषयामास दिव्यैः स्वयं भूषणैः ।।
किंकिणीमेखलानूपुरैः सन्मणीनिष्ककेयूरहारोत्करैः सद्गुणैः ।। १६ ।।
कोमलैः पल्लवैश्चित्रितैश्चारुभिर्दिव्य मन्त्रोद्भवैस्तस्य शुभ्रैस्ततः ।।
भूतिभिश्चाकरोर्मिश्रसिद्धार्थकैरंगरक्षाविधींस्तस्यतुष्टा सती ।। १७ ।।
एवमाधाय चोवक्थ कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभंगोज्वलैः ।।
वत्स गच्छाधुना क्रीड सार्द्धं गणैरप्रमत्तो यथा बालचर्यां शनैः ।। १८ ।।
सोऽपि सिद्ध्याकुले गण्डशैले मिलद्रत्नजाले वृहच्छा लतालाकुले ।।
क्षणं फुल्लमालातमालालिमाले क्षणं वृक्षमूले विलोलालिमाले ।। १९ ।।
क्षणं स्वल्पपंके जले पंकजाले क्षणं वृक्षखण्डे शुभे निष्कलंके ।।
परिक्रीडते बालको वै विहारी गणेशाधिपो देवतानन्दकारी ।। 5.2.38.२० ।।
एवं विक्रीडतस्तस्य वीरकस्य गणस्य च ।।
संध्या तमो मयी प्राप्ता विज्ञप्तोऽहं त्वया प्रिये ।।२१।।
ऐश्वर्यं दीयतामस्य मम पुत्रस्य शंकर ।।
शरीरार्द्धं गणेशत्वं लोकपालत्वमग्रतः ।। २२ ।।
लिंगत्वमक्षयत्वं च स्थानं दिव्यं सुदुर्ल्लभम् ।।
वंद्यमानं यथा देव सिद्धगन्धर्वकिंनरैः ।।
ब्रह्मेन्द्रवरुणादित्यलोकपालेश्वरेश्वरैः ।। २३ ।।
एतैरेव गणैः सार्द्धं स्तूय मानं महात्मभिः ।।
अलंकृतो मया यस्मात्कुसुमैर्विविधैः शुभैः ।। २४ ।।
कुसुमेश्वरसंज्ञस्तु तस्मात्ख्यातो भवत्विति ।।
मयाप्युक्तं विशालाक्षि वीरकं दयितं मम ।। २५ ।।
मत्प्रभावसमं दिव्यं सेवितं गणपैः सदा ।।
शृणु गन्धर्वगीतानां माधुर्यममृतोपमम् ।। २६ ।।
पश्य किन्नरनारीणां गायन्तीनां मनोरमम् ।।
पश्याप्सरःसमूहस्यनृत्यमेतन्निरन्तरम् ।। २७ ।।
विद्याधरैः परिवृतः कुसुमेशो वरानने ।।
विशेषतो मया देवि प्रथमं प्रमथे श्वरः ।।
कुसुमेश्वरतां नीतो यदा कुसुममंडितः ।। २८ ।।
स्थानं दत्तं विशालाक्षि शिवलिंगस्य चोत्तरे ।।
वरो दत्तो बहुमतो दुष्प्राप्यस्त्रिदशैरपि ।। २९ ।।
ये त्वां द्रक्ष्यंति गणप कुसुमेश्वरसंज्ञकम् ।।
न तेषां जायते पापं पद्मपत्रे यथा जलम् ।। 5.2.38.३० ।।
कुसुमैरर्चयिष्यंति ये नराः कुसुमेश्वरम् ।।
मत्स्थानं ते समासाद्य मोदिष्यंति गतव्यथाः ।। ३१ ।।
योऽप्येकं दिवसं मर्त्त्यस्त्वां पश्यति समाहितः ।।
स मुक्तः पातकैः सर्वैर्मम लोकं गमिष्यति ।। ३२ ।।
यः पूजयति भावेन कुसुमैः कुसुमेश्वरम् ।।
स प्राप्स्यति परं स्थानं पुनरावृत्तिदुर्लभम् ।। ३३ ।।
एवमादिवरैः पुष्टः कृतोयं कुसु मेश्वरः ।।
कृतकृत्यो गणो देवि लिंगेनेश्वरतां गतः ।। ३४ ।।
कुसुमेश्वरदेवस्य प्रभावः कथितस्त्वयम् ।।
अक्रूरेशस्य देवस्य श्रूयतां तदनन्तरम् ।। ३५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे कुसुमेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशोऽध्यायः ।। ३८ ।। ।। छ ।।