स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ६८


।। ईश्वर उवाच ।। ।।
अष्टषष्टिकसंख्याकं पिशाचाख्यमथेश्वरम्।।
शृणु देवि प्रयत्नेन दर्शनात्पापनाशनम् ।। १ ।।
आदौ कलियुगे देवि शूद्रो बहुधनोऽभवत्।।
सोमो नाम सुविख्यातो नास्तिको वेदनिंदकः ।।२।।
अब्रह्मण्यो नृशंसश्च कदर्यो निरपत्रपः ।।
विश्वासघातकश्चैव परस्वहरणे रतः।। ।।३।।
त्रिवर्गहंता चान्येषामात्मकामानुवर्त्तकः ।।
स कदाचिन्मृतो देवि कष्टेन परमेण च ।। ४ ।।
मरुदेशे पिशाचोऽभून्नग्नो दीनो भयावहः ।।
नाशकृत्स पिशाचानां स्वपक्षोच्छेदकारकः ।।५।।
बहवो मर्द्दितास्तेन पिशाचा बलवत्तराः ।।६।।
अथ तेनैव मार्गेण कदाचिच्छाकटायनः ।।
स्वाध्यायनिरतो विद्वान्वाग्ग्मी शमपरायणः ।। ७ ।।
उदयादित्यसंकाशो विभावसुसमद्युतिः ।।
शकटेन सदा याति स पश्यन्पर्वतात्मजे ।। ८ ।।
गतो ददर्श तं रौद्रं पिशाचं च भयावहम्।।
स पिशाचः क्षुधाविष्टो भोक्तुकामोऽभ्यधावत ।। ९ ।।
दृष्ट्वा तं शकटारूढं ब्राह्मणं शाकटायनम् ।।.
शकटस्य ध्वनिं श्रुत्वा रूपं दृष्ट्वा द्विजस्य च ।। 5.2.68.१० ।।
तथारूपः पिशाचस्तु कर्णाभ्यां बधिरीकृतः ।।
आत्मत्राणपरो भूत्वा नष्टः कष्टेन पार्वति ।।
तं धावंतं समालोक्य पिशाचं ब्राह्मणोऽब्रवीत्।। ११ ।।
पिशाच त्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे ।।
क्व धावसि समाचक्ष्व कुतस्ते भयमागतम् ।। १२ ।। ।।
।। पिशाच उवाच ।। ।।
शकटस्यास्य महतो घोषं श्रुत्वा भयंकरम् ।।
कर्णाभ्यां बधिरो जातो विसंज्ञस्तव दर्शनात् ।। १३ ।। ।।
।।ब्राह्मण उवाच ।। ।।
पिशाचानां बलिष्ठाश्च श्रूयंते ब्रह्मराक्षसाः ।।
स त्वं मां भोक्तुकामोऽसि विख्यातो ब्रह्मराक्षसः ।।१४ ।। ।।
।।पिशाच उवाच ।।
पिशाचानां समर्थोऽस्मि नष्टोऽहं तव दर्शनात् ।।
दुःखं हि मृत्युः सर्वेषां जीवितं च सुदुर्ल्लभम् ।।
अतो भीतः पलायामि जीवहेतोः सुखार्थतः ।। १५ ।।
।। ब्राह्मण उवाच ।। ।।
कुतः पिशाच सौख्यं ते मरणं श्रेय एव ते ।।
पैशाची कुत्सिता योनिः पापिनामेव जायते।।१६।।
।।पिशाच उवाच।। ।।
सर्वत्र हि गतो जीवो भवत्येव सुखाश्रयः।।
तस्माज्जीवितुमिच्छामि प्रसीद ब्रह्मराक्षस।। ।।१७।।
।। ब्राह्मण उवाच।। ।।
नाहं त्वां भोक्तुकामोऽस्मि ब्राह्मणोऽहं न राक्षसः।।
सर्वभूतहितार्थाय विचरामि महीतले।।१८।।
सर्वेषामेव जंतूनां मैत्रो ब्राह्मण उच्यते ।।
मा कुरुष्व भयं मत्तो मित्रभावगतो ह्यहम् ।। १९ ।।
तस्य तद्वचनं श्रुत्वा पिशाचः स्वस्थमानसः ।।
प्रणम्य प्रत्युवाचेदं ब्राह्मणं शाकटायनम् ।। 5.2.68.२० ।।
यदि ते सर्वभूतानां दत्ता ह्यभयदक्षिणा ।।
कर्मणा मनसा वाचा मित्रभावं गतो यदि ।। २१ ।।
पृच्छामि त्वां महाभाग संशयो हृदये स्थितः ।।
श्रुत्वानुकंपया सम्यक्तन्मे व्याख्यातुमर्हसि ।। २२ ।।
केन कर्मविपाकेन पैशाचं याति मानवः ।।
पिशाचत्वात्कथं मुक्तिः प्राप्यते पापकर्मभिः ।।२३।।
इति तस्य वचः श्रुत्वा पिशाचस्य वरानने ।।
ममत्वेनावृतस्तस्मै प्रावोचच्छाकटायनः ।।२४।।
अपहृत्य च विप्रस्वं देवस्वं च विशेषतः ।।
तेन पापेन पापिष्ठाः पिशाचत्वं प्रयांति च ।। २५ ।।
पितरं मातरं चैव स्त्रियं बालं द्विजं तथा ।।
वंचयित्वा हरत्यर्थं स पिशाचो भवेन्नरः ।। २६ ।।
राजद्रव्यं गृहीत्वा तु न यजेन्न ददाति यः ।।
आत्मानमेव पुष्णाति पिशाचत्वं स गच्छति ।। २७ ।।
विश्वासघातका ये च परदाररताश्च ये ।।
प्राप्नुवंति पिशाचत्वं तथा ये वेदनिंदकाः ।। २८ ।।
निंदंति ये पुराणानि धर्मशास्त्राणि सर्वदा ।।
ते भवंति पिशाचाश्च ये सदा पिशुना नराः ।। २९ ।।
इति ते कथितं सर्वं वेदप्रामाण्यतोऽधुना ।।
इदानीं कथयिष्यामि यस्त्वं जातोसि तच्छृणु ।। ।। 5.2.68.३० ।।
सोमको नाम शूद्रस्त्वं परमर्मप्रकाशकः ।।
विश्वासघातको जातो देवब्राह्मणदूषकः ।। ३१ ।।
नास्तिको भिन्नमर्यादो जन्मन्यत्रापि सप्तमे ।।
सकुलं पातयित्वात्र नरके दारुणे भृशम् ।। ३२ ।।
पिशाचयोनिं संप्राप्तः पुनः प्राप्स्यसि रौरवम् ।।
महारौरवसंज्ञं तु क्रकचं कालसूत्रकम्।।
यंत्रपीडनकं रौद्रं मथनं कुम्भवालुकम् ।। ३३ ।।
इत्येवं वदतस्तस्य ब्राह्मणस्य यशस्विनि ।।
सस्मार प्राक्तनं जन्म सत्संगात्कुत्सितं स्वकम् ।। ।। ३४ ।।
दुःखाभिभूतो निश्चेष्टो धिग्धिगित्यसकृद्ब्रुवन् ।।
पतितो भूतले देवि इदं वाक्यमथाब्रवीत् ।। ३५ ।।
अहो केनापि पुण्येन भवता सह दर्शनम् ।।
जातं ममाल्पपुण्यस्य दीनस्य कृपणस्य च ।। ३६ ।।
नास्ति धर्मसमं मित्रं नास्ति धर्मसमा गतिः ।।
नास्ति धर्मसम्ं त्राणं स च नास्ति मम प्रभो ।। ३७ ।।
मग्नोऽहं दुःखजलधौ मग्नोऽहं पापकर्दमे ।।
भ्रांतोऽहमंधतमसि ततस्त्वां शरणं गतः ।। ३८ ।।
नमस्तेऽस्तु महाभाग किं करोमि प्रशाधि माम् ।।
तत्तपोबलनिर्दिष्टमिदं प्राप्तं मयाऽधुना ।। ३९ ।।
एवं निगदतस्तस्य पिशाचस्य वरानने ।।
कथयामास माहात्म्यं स विप्रः शाकटायनः ।। 5.2.68.४० ।।
पृथिव्यां यानि तीर्थानि आसमुद्रगतानि वै ।।
क्षेत्राणि यानि संतीह तेषां क्षेत्रं सुपुण्यदम् ।।४१।।
महाकालवनं क्षेत्रं प्रलयेऽप्यक्षयं गतम् ।।
लिंगं तत्र महाक्षेत्रे पिशाचत्वविनाशनम् ।। ४२ ।।
ढुंढेश्वरस्य देवस्य दक्षिणे त्रिदशार्चितम् ।।
पैशाचं विद्यते भूयः पिशाचयोनिनाशनम् ॥
तस्य दर्शनमात्रेण पिशाचत्वात्प्रमोक्ष्यसे ॥ ४३ ।
तस्य तद्वचनं श्रुत्वा स पिशाचो वरानने ॥
आजगाम त्वरायुक्तो नमस्कृत्य द्विजं तदा ॥४४॥
महाकालवने पुण्ये समीहितफलप्रदे॥
ददर्श तत्र तल्लिंगं स्नात्वा शिप्राजले शुभे॥४५॥
दर्शनात्तस्य लिंगस्य स पिशाचो वरानने ॥
तत्क्षणाद्दिव्यदेहस्तु दिव्याभरणभूषितः ॥ ४६ ॥
दिव्यं विमानमारूढो गतो लोके सनातने ॥
उद्धृत्य सकलं गोत्रं मातृकं पैतृकं तथा॥४७॥
दृष्ट्वा तन्महदाश्चर्यं माहात्म्यातिशयं श्रिये ॥
प्रोक्तं देवैर्विमानस्थैः सिद्धैराकाशगैस्तथा ॥ ४८॥
पिशाचोपि गतः स्वर्गमस्य लिंगस्य दर्शनात्।
अतो देवः स विख्यातो भविष्यति महीतले॥
पिशाचेश्वरसंज्ञस्तु सर्वपापप्रणाशनः ॥ ४९ ॥
ये पश्यंति नरा देवि पिशाचेश्वरसंज्ञकम् ।
तेषां हि पितरः सद्यो ये चापि निरये स्थिताः ॥
पिशाचत्वाद्विमुच्यंते स्वर्गं यांति न संशयः ॥ 5.2.68.५० ॥
अश्वमेधस्य यज्ञस्य सम्यगिष्टस्य यत्फलम् ॥
तत्फलं लभते सोऽपि पिशाचेश्वरदर्शनात् ॥ ५१ ।
गयायां पिंडदानेन यत्पुण्यं समुदाहृतम्॥
तत्पुण्यमधिकं ज्ञेयं पिशाचेश्वरदर्शनात् ॥ ५२॥
ये पश्यंति चतुर्दश्यां पिशाचेश्वरसंज्ञकम् ॥
प्रेतत्वं च पिशाचत्वं कुले तेषां न जायते ॥ ५३॥
न वियोनिं नरो याति नरकं च न पश्यति ॥
प्रसंगेनापि यः पश्येत्पिशाचेश्वरसंज्ञकम् ॥ ५४ ॥
सर्वैश्वर्यसमायुक्तः सर्वबन्धुसमन्वितः ॥
मोदते पितृलोके स पिशाचेश्वरदर्शनात् ॥ ५५ ॥
कीर्तनान्मुच्यते पापाद्दृष्ट्वा स्वर्गं च गच्छति ॥
स्पर्शनादस्य लिंगस्य पुनात्यासप्तमं कुलम्॥ ५६ ॥
तदैव स नरो मुक्तः संसारनिगडादिभिः ॥
यदैव वीक्षते लिंगं पिशाचेश्वरसंज्ञकम् ॥ ५७ ॥
यज्ञानां तपसां चैव दानानां चैव यत्फलम् ॥
तत्फलं कोटिगुणितं जायते तस्य दर्शनात् ॥ ५८॥
यदि पश्येच्चतुर्दश्यां वैशाखे कार्त्तिके तथा ।
तस्य पुण्यमसंख्यातं जायते नात्र संशयः॥ ५९ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
पिशाचेश्वरदेवस्य श्रूयतां संगमेश्वरम् ॥ 5.2.68.६० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे पिशाचेश्वरमाहात्म्यवर्णनंनामाष्टषष्टितमोऽध्यायः ॥ ६८ । ।॥छ॥. ॥