स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ७७
।। श्रीमहादेव उवाच ।। ।।
सप्तसप्ततिकं देवि पुष्पदंतेश्वरं शृणु ।।
यस्य दर्शनमात्रेण गर्भवासो न जायते ।। १ ।।
शिनिर्नाम द्विजो देवि स चापुत्रोऽभवत्पुरा ।।
पुत्रार्थं चिंतयामास स तपांसि बहूनि ह ।। २ ।।
वायुभक्षोंऽबुभक्षश्च निराहारोर्ध्वबाहुकः ।।
शाकमूलफलाहारः पर्णाश्येकद्वि पर्णभुक् ।। ३ ।।
एवमादीनि चान्यानि तपांसि श्रेयसे परम् ।।
एतेषां तपसां मध्ये तप एकं समाश्रये ।। ४ ।।
परं विघ्नोपशांत्यर्थं तोषयिष्येऽहमी श्वरम् ।।
एवं संचिंत्य मनसा ऊर्ध्वबाहूर्ध्वपादकः ।।
आभ्यां न स दुरासाद्यो नापराधो भविष्यति ।। ५ ।।
तथा चकार स मुनिर्वर्षाणां द्वादशैव हि ।।
तपस्यंतं च तं दृष्ट्वा नियमे परमे स्थितम् ।। ६ ।।
विज्ञप्तोहं त्वया देवि मंदरे चारुकंदरे ।।
करोत्येष तपः क्रूरं पुत्रहेतोर्मुनिर्म हान् ।। ७ ।।
तेजसा दीपयच्छैलं शोषयन्सलिलाशयान् ।।
तपसा दुष्करेणैव क्षुभिता नाकवासिनः ।। ८ ।।
व्यालेंद्रा व्याकुलीभूता लुलिताश्चाचलेश्वराः ।।
मुनयो विस्मृतिं प्राप्ताः कंपेते चापि रोदसी ।। ९ ।।
अयोनिजः शिनिर्विप्रः पुत्रमिच्छत्ययोनिजम् ।।
त्वं योनिर्गुणसंघानां त्वं योनिस्तपसामपि ।। 5.2.77.१० ।।
त्वं तपस्त्वं परं धाम शिखिचंद्रार्कलोचन ।।
सर्वेश्वर सुतोऽभीष्टः किं न विप्राय दीयते ।। ११ ।।
सुरासुरगुरो किं न पुत्रमस्मै प्रयच्छसि ।।
तपसा क्षीणदोषस्य ब्रह्मत्वे भावितात्मनः ।। १२ ।।
शिनेः पुत्रप्रदानं त्वं कुरु मद्वचनाच्छिव ।।
तपसा दुष्करेणैव गाढं क्लिष्टो महामुनिः ।। १३ ।।
तेजांसि ज्योतिषामेव महतां च विधिस्थितः ।।
अहरत्तेजसा स्वेन तमांसीव दिवाकरः ।। १४ ।।
त्वद्भक्तस्य च देवेश व्यर्थः कस्मात्परिश्रमः ।।
उदितेऽर्के तमांसीह न भवंति कदाचन ।। १५ ।।
त्वत्परस्य न देवश युक्ता दुःखविभीषिका ।।
इत्यहं प्रार्थितो देवि त्वया पर्वतपुत्रिके ।। १६ ।।
विप्रार्थमनुकंपार्थं पुत्रार्थं च विशेषतः ।।
आकारिता मया देवि गणास्त्व द्गौरवेण तु ।। १७ ।।
रुद्राश्च हरभक्ताश्च कूष्मांडा गगनेचराः ।।
रोमरौद्रा महानीलाः शिखावंतः सकोकिलाः ।। १८ ।।
अन्ये च विविधाकाराः कालास्या हरिपिंगलाः ।।
जटाजूटधराश्चित्रा वीथिनक्षत्रचारिणः ।। १९ ।।
नीलग्रीवा कृष्णमुखाः पिंगधौतजटासटाः ।।
ज्वरो डिंडिर्महाकालो लांगुलिश्च महेश्वरः ।। 5.2.77.२० ।।
घंटाकर्णो विशाखश्च परिशेषा गणाश्च ये ।।
वृषारूढाः कामतुल्याः कामरूपबलास्तथा ।। २१ ।।
शूलचंद्रधराः सर्वे सर्वे तुल्यपराक्रमाः ।।
ममादेशात्समायाताः कृतांजलिपुटाः स्थिताः ।। २२ ।।
स्तुवंतो विविधैः स्तोत्रैरूचुरेवं समाहिताः ।।
किं कर्त्तव्यमिहास्माभिरादेशो दीयतां प्रभो ।। २३ ।।
गणानां वचनं श्रुत्वा ज्ञात्वा भक्तिं च तादृशीम् ।।
महातपःप्रभावोऽयं शिनिविप्रस्य कीर्त्तितः ।। २४ ।।
पुत्रार्थं तप्यति तपः शिनिर्ब्राह्मणसत्तमः ।।
मद्वाक्यात्को नु विप्रस्य पुत्रत्वं संप्रदास्यति ।। २५ ।।
तस्याहं संप्रदास्यामि सर्वान्कामा न्यथेप्सितान् ।।
अमरं चाजरं पुत्रं मुनिर्वांछति सांप्रतम् ।। २६ ।।
मद्वाक्यं क्रियतां सद्यो विप्रः क्लेशाद्विमुच्यताम्।।
मद्भक्तस्य न संकल्पो मिथ्या भवितुमर्हति।। २७ ।।
मदीयं वचनं श्रुत्वा सर्वे कंपितकंधराः ।।
सर्वे चावाङ्मुखा जाताः सर्वे ध्यानपरायणाः ।। २८ ।।
न कश्चिद्भाषते किंचिन्न कश्चिद्वीक्षते तदा ।।
अथोक्तं पुष्पदंतेन रभसान्मानितेन तु ।। २९ ।।
मम चित्तमविज्ञाय गणानामनुकंपया ।।
न यास्यंति गणा देव त्वां विहाय महीतलम् ।। 5.2.77.३० ।।
इह स्थास्यंति सततं त्वत्समीपे न संशयः ।।
कथं योनिं प्रयास्यंति संप्राप्य मुदमुत्तमाम् ।। ३१ ।।
हीनां रजोऽधिकां दीनां तमोबहुलधारिणीम् ।।
कथं स्वर्गं परित्यज्य यास्यामो नरकं परम् ।। ३२ ।।
ब्रुवन्नेवं भ्रमेणैव भाव्यर्थेन प्रणोदितः ।।
उक्तो मया विशालाक्षि पुष्पदंतो गणाग्रणीः ।। ३३ ।।
पत त्वं मानुषे लोके यस्मान्मे विप्रियं कृतम् ।।
शप्त्वा तं पुष्पदंतं तु वीरकः प्रेरितो मया ।। ।। ३४ ।।
विप्रस्य पुत्रतां तूर्णं पुत्र गच्छ ममाज्ञया ।।
ततस्ते संप्रदास्यामि सर्वान्कामान्यथेप्सितान् ।। ३५ ।।
इत्युक्तो वीरको देवि गतो विप्रस्य पुत्रताम् ।।
पुष्पदंतोऽपि करुणं विललाप सुदुःखितः ।। ३६ ।।
पश्चात्तापेन संयुक्तो निश्वस्य च पुनःपुनः ।।
अहो तत्सफलं जन्म यदाज्ञा क्रियते नरैः ।। ३७ ।।
प्रभूणामेकचित्तेन ते भृत्या दुर्लभाः स्मृताः ।।
तेषामर्थश्च धर्मश्च कुलं चैव च तारितम् ।। ३८ ।।
प्रसन्नास्त्रिदशास्तेषां प्रभु भक्ताश्च ये नराः ।।
सेवाधर्मो हि गहनो योगिनामपि दुष्करः ।। ३९ ।।
न ज्ञेयः केन तत्त्वेन दुराराध्यः प्रभुर्भवेत् ।।
एकेनाप्यपराधेन प्रकोपं कुरुते प्रभुः ।। 5.2.77.४० ।।
विनश्यंत्युपकाराणि तस्मात्सेवा सुदुष्करा ।।
स्वामी सर्पश्च वह्निश्च तप्तभावं व्रजंति हि ।। ४१ ।।
तस्माद्यत्नेन संसेव्या आत्मरक्षणतत्परैः ।।
सोऽहं भूमौ निपतितः प्रभोरादेशभंजकः ।। ४२ ।।
कांस्तु लोकान्गमिष्यामि कलुषी भूणहा इव ।।
एवं विलप्य बहुशो मामेव शरणं गतः ।।
उवाच दीनया वाचा प्रणिपत्य पुनःपुनः ।। ४३ ।।
दीनोऽस्मि ज्ञानहीनोऽस्मि प्रणतोऽस्मि च शंकर ।।
कुरु प्रसादं देवेश अपराधं क्षमस्व मे ।। ४४ ।।
न हि निर्वहणं यांति प्रभूणामाश्रिता रुषः ।।
प्रसीद देवदेवेश दीनस्य कृपणस्य च ।। ४५ ।।
अपि कीट पतंगत्वं गच्छेयं तव शासनात ।।
भक्तोहं सर्वदा देव पुत्रत्वे हि प्रतिष्ठितः ।। ४६ ।।
इति तस्य वचः श्रुत्वा पुष्पदंतस्य पार्वति ।।
ममत्वेन तदा देवि प्रोक्तमित्थं त्वया वचः ।। ४७ ।।
गच्छ पुत्र ममादेशान्महाकालवनं शुभम् ।।
लिंगमाराधय क्षिप्रं तत्त्वन्नाम्ना भविष्यति ।। ४८ ।।
कीर्त्तिस्ते भविता पुत्र यावदाभूतसंप्लवम् ।।
इत्युक्ते तु त्वया देवि मयाप्युक्तं वरानने।४९।।
न मे मिथ्या वचः पुत्र भविष्यति कथंचन ।।
दर्शनादेव लिंगस्य ममाभीष्टो भविष्यसि ।। 5.2.77.५० ।।
विमाने पुष्पपादे तु समारूढो भविष्यसि ।।
पुष्पैः संपूज्यमानस्तु पदं प्राप्स्यसि शाश्वतम् ।। ५१ ।।
गणैः सार्द्धं मया चैव मुदितो विचरिष्यसि ।।
ममापि न रतिर्वत्स भविष्यति त्वया विना ।। ५२ ।।
अहं तत्रागमिष्यामि महाकालवने शुभे ।।
तुष्टोऽहं सर्वदा वत्स गणानामग्रणीः कृतः ।।५३।।
अनया शुद्धया भक्त्या लोकानामुपकारकः ।।
भविष्यसि न संदेहस्तस्मिन्क्षेत्रे गतो ध्रुवम्।।५४।।
इत्युक्तो हि मया देवि पुष्पदंतो गणाग्रणीः ।।
मानी ममाज्ञया मौनी महाकालवने शुभम् ।। ५५ ।।
लिंगमाराधयामास दुर्वासेशादथोत्तरे ।।
लिंगेनोक्तस्तु सहसा तुष्टोऽहं गणसत्तम ।।
त्वन्नाम्ना ख्यातिमेष्यामि प्रसादस्ते कृतोऽधुना ।। ५६ ।।
एतस्मिन्नन्तरे देवि त्वया सार्द्धमहं गतः ।।
शक्राद्यैस्त्रिदशैः सार्द्धं गणैर्नानाविधैस्तथा ।। ५७ ।।
हृष्टस्तु पुष्पदंतोऽपि पुष्पपट्टासने शुभे ।।
पुष्पैः प्रकीर्यमाणोऽपि पुनः प्राप्तो ममांतिकम् ।। ५८ ।।
मया संश्लेषितः स्नेहादुत्संगेऽप्यधिरोपितः ।।
स्थानं दत्तं विशालाक्षि इदमुक्तं मया तदा ।। ५९ ।।
ये पश्यंति नरा लिंगं त्वया संपूजितं भुवि ।।
ते यास्यंति पुष्पकेण क्रीडन्तो वै त्रिविष्टपम् ।। 5.2.77.६० ।।
गणाध्यक्षा भविष्यंति सर्वकामैरलंकृताः ।।
मम लोके गणाध्यक्षा यावदिंद्राश्चतुर्दश ।। ६१ ।।
दर्शनात्क्षीयते पापमैहिकं पूर्वकं तथा ।।
ततः प्रसादान्मे सर्वं ज्ञानं सम्यग्भविष्यति ।। ६२ ।।
यः पूजयेच्चतुर्द्दश्यामष्टम्यां सोमवासरे ।।
अमरैः सह संहृष्टो मोदते दिवि सर्वदा ।। ६३ ।।
पैतृकैर्मातृकैः सार्द्धं कुलैस्तु सप्तभिर्युतः ।।
न वदेत्केनचित्सार्द्धं नरो यः प्रातरुत्थितः ।। ६४ ।।
पुष्पदंतेश्वरं दृष्ट्वा सोऽश्वमेधफलंलभेत् ।।
मुच्यते पातकाद्यैश्च यः शाठ्येनापि पश्यति ।। ६५ ।।
मृतो गांधर्वलोके तु याति विद्याधरैर्वृतः ।।
न तस्य संतति च्छेदो यः पश्यति दिनेदिने ।।
नियमेन गणाध्यक्ष जायते ब्रह्मणो दिनम्।। ६६ ।।
ऐश्वर्यं सप्तलोकेषु भुक्त्वा भोगान्यथाक्रमम्।।
पृथिव्यामेकराड्भूत्वा ममांगे संभविष्यति ।। ६७ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
पुष्पदन्तेश्वरेशस्य अविमुक्तेश्वरं शृणु ।। ६८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम् आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे पुष्पदन्तेश्वरमाहात्म्यवर्णनंनाम सप्त सप्ततितमोऽध्यायः ।। ७७ ।। ।। छ ।।