स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ७९

।। श्रीमहादेव उवाच ।। ।।
एकोनाशीतिकं विद्धि हनुमत्केश्वरं प्रिये ।।
यस्य दर्शनमात्रेण समीहितफलं लभेत् ।। १ ।।
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ।।
आगता मुनयो देवि राघवं प्रतिनंदितुम् ।। २ ।।
रामेण पूजिताः सर्वे ह्यगस्तिप्रमुखा द्विजाः ।।
प्रहृष्टमनसो विप्रा रामं वचनमब्रुवन् ।। ३ ।।
दिष्ट्या तु निहतो राम रावणः पुत्रपौत्रवान् ।।
दिष्ट्या विजयिनं त्वाऽद्य पश्यामः सह भार्यया ।। ४ ।।
हनूमता च सहितं वानरेण महात्मना ।।
दिष्ट्या पवनपुत्रेण राक्षसांतकरेण च ।। ५ ।।
चिरं जीवतु दीर्घायुर्वानरो हनुमान्सदा ।।
अंजनीगर्भसंभूतो रुद्रांशो हि धरातले ।। ६ ।।
आखंडलोऽग्निर्भगवान्यमो वै निऋतिस्तथा ।।
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।।
ब्रह्मणा सहिताश्चैव दिक्पालाः पातु सर्वदा ।। ७ ।।
श्रुत्वा तेषां तु वचनं मुनीनां भावितात्मनाम् ।।
विस्मयं परमं गत्वा रामः प्रांजलिरब्रवीत् ।। ८ ।।
किमर्थं लक्ष्मणं त्यक्त्वा वानरोऽयं प्रशंसितः ।।
कीदृशः किंप्रभावो वा किंवीर्यः किंपराक्रमः ।। ९ ।।
अथोचुः सत्यमेवैतत्कारणं वानरोत्तमे ।।
न त्वस्य सदृशो वीर्ये विद्यते भुवनत्रये ।। 5.2.79.१० ।।
एष देव महाप्राज्ञो योजनानां शतं प्लुतः ।।
धर्षयित्वा पुरीं लंकां रावणांतःपुरं गतः ।। ११ ।।
प्रादेशमात्रप्रतिमं कृतं रूपमनेन वै ।।
दृष्टा संभाषिता सीता पृष्टा विश्वासिता तथा ।। १२ ।।
सेनाग्रगा मंत्रिपुत्राः किंकरा रावणात्मजाः ।।
हता हनुमता तत्र ताडिता रावणालये ।। १३ ।।
भूयो बन्धविमुक्तेन संभाष्य तु दशाननम् ।।
लंका भस्मीकृता तेन पातकेनेव मेदिनी ।। १४ ।।
न कालस्य न शक्रस्य न विष्णोर्वेधसोऽपि वा ।।
श्रूयंते तानि कर्माणि यादृशानि हनूमतः ।। १५ ।। ।।।
।। राम उवाच ।। ।।
एतस्य बाहुवीर्येण लंका सीता च लक्ष्मणः ।।
प्राप्तो मम जयश्चैव राज्यं मित्राणि बान्धवाः ।। १६ ।।
सखायं वानरपतिर्मुक्त्वैनं हरिपुंगवम् ।।
प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ।। १७ ।।
वाली किमर्थमेतेन सुग्रीवप्रियकाम्यया ।।
तदा वैरे समुत्पन्ने न दग्धस्तृणवत्कथम् ।। १८ ।।
नायं विदितवान्मन्ये हनुमानात्मनो बलम् ।।
उपेक्षितः क्लिश्यिमाने किमर्थं वानराधिपे ।। १९ ।।
एवं ब्रुवाणं रामं तु मुनयो वाक्यमब्रुवन् ।।
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ।। 5.2.79.२० ।।
न बले विद्यते तुल्यो न गतौ न मतावपि ।।
अमोघवाक्यैः शापस्तु दत्तोऽस्य मुनिभिः पुरा ।। २१ ।।
न ज्ञातं हि बलं येन बलिना वालिमर्दने ।।
बाल्येऽप्यनेन यत्कर्म कृतं नाम महात्मना ।। २२ ।।
तन्न वर्णयितुं शक्यमेतस्य तु बलं महत् ।।
यदि श्रोतुं तवेच्छास्ति निशामय वदामहे ।। २३ ।।
असौ हि जातमात्रोऽपि बालार्क इव मूर्त्तिमान् ।।
ग्रहीतुकामो बालार्कं पुप्लावांबरमध्यतः ।। २४ ।।
तूर्णमाधावतो राम शक्रेण विदितात्मना ।।
हनुस्तेनास्य सहसा कुलिशेनैव ताडितः ।। २५ ।।
ततो गिरौ पपातैष शक्रवज्राभिताडितः ।।
पततोस्य महावेगाद्वामो हनुरभज्यत ।।
अस्मिंस्तु पतिते बाले मृतकल्पेऽशनिक्षतात् ।। २६ ।।
ततो वायुः समादाय महा कालवनं गतः ।।
लिंगमाराधयामास पुत्रार्थं पवनस्तदा ।। २७ ।।
स्पृष्टमात्रस्तु लिंगेन समुत्तस्थौ प्लवंगमः ।।
जलसिक्तं यथा सस्यं पुनर्जीवि तमाप्तवान् ।। २८ ।।
प्राणवंतमिमं दृष्ट्वा पवनो हर्षितस्तदा ।।
प्रत्युवाच प्रसन्नात्मा पुत्रमादाय सत्वरम् ।। २९ ।।
स्पर्शनादस्य लिंगस्य मम पुत्रः समुत्थितः ।।
हनुमत्केश्वरो देवो विख्यातोऽयं भविष्यति ।। 5.2.79.३० ।।
एतस्मिन्नंतरे शक्रः समायातः सुरैर्वृतः ।।
नीलोत्पलमयीं मालां संप्रगृह्येदमब्रवीत् ।। ३१ ।।
मत्करोत्सृष्टवज्रेण यस्मादस्यहनुर्हतः ।।
तदेष कपिशार्दूलो हनुमांस्तु भविष्यति ।। ३२ ।।
वरुणोऽस्व वरं प्रादान्नास्य मृत्युर्भविष्यति ।।
यमो दंडादवध्यत्वमारोग्यं धनदो ददौ ।। ३३ ।।
सूर्येण च प्रभा दत्ता पवनेन गतिर्द्रुता ।।
लिंगेन च वरो दत्तो देवानां संनिधौ तदा ।। ३४ ।।
आयुधानां हि सर्वेषामवध्योऽयं भविष्यति ।।
अजरश्चामरश्चैव भविष्यति न संशयः ।। ३५ ।।
अमित्रभयदो ह्येष मित्राणामभय प्रदः ।।
अजेयो भविता युद्धे लिंगेनोक्तं पुनःपुनः ।। ३६ ।।
शत्रोर्बलोत्सादनाय राघवप्रीतये सदा ।।
कियत्कालं बलं स्वीयं न स्मरिष्यति शापतः ।। ३७ ।।
हते तु रावणे भूयो रामस्यानुमते स्थितः ।।
विभीषणं प्रार्थयित्वा मामत्र स्थापयिष्यति ।। ३८ ।।
ततो मां त्रिदशाः सर्वे पूजयिष्यंति भाविताः ।।
तेनैव नाम्ना विख्यातिं पुनर्यास्यामि भूतले ।। ३९ ।।
अथ गंधवहः पुत्रं प्रगृह्य गृहमानयत् ।।
अंजनायै तदाचख्यौ वरलब्धिं च लिंगतः ।। 5.2.79.४० ।।
एवं लिंगप्रभावाच्च बलवान्मारुतात्मजः ।।
स जातस्त्रिषुलोकेषु राम तस्मात्प्रशस्यते ।। ४१ ।।
पराक्रमोत्साहमति प्रतापैः सौशील्यमाधुर्यनयादिकैश्च ।।
गांभीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽभ्यधिकोऽस्ति लोके ।। ४२ ।।
ममेव विक्षोभितसागरस्य लोकान्दि धक्षोरिव पावकस्य ।।
प्रजा जिहीर्षोरिव चातकस्य हनूमतः स्थास्यति कः पुरस्तात् ।। ४३ ।।
एतद्वै कथित तुभ्यं यन्मां त्वं परि पृच्छसि ।।
हनूमतोऽस्य बालस्य कर्माण्यद्भुतविक्रम ।। ४४ ।।
दृष्टः सभाजितश्चापि राम गच्छामहे वयम् ।।
एवमुक्त्वा गताः सर्वे मुनयोऽवंतिमण्डलम् ।।
पूजयामासुरीशानं हनुमत्केश्वरं शिवम् ।। ।।
समर्चयंति ये भक्त्या लिंगं त्रिदशपूजितम् ।।
हनुमत्केश्वरं देवं ते कृतार्थाः कलौ युगे ।। ४६ ।।
व्रजंत्येव सुदुष्प्राप्यं ब्रह्मसायुज्यमव्ययम्।
संप्राप्य तु पुनर्जन्म लभंते मोक्षमव्ययम् ।। ४७ ।।
यः पश्यति नरो लिंगं हनुमत्केश्वरॆ प्रिय ।।
सोऽधिकं फलमाप्नोति सर्वदुःखविवर्जितः ।। ४८ ।।
सर्वलोकेषु तस्यैव गतिर्न प्रतिहन्यते ।।
दिव्येनैश्वर्ययोगेन युज्यते नात्र संशयः ।। ४९ ।।
बालसूर्यप्रतीकाशविमानेन सुवर्चसा ।।
वृतः स्त्रीणां सहस्रैस्तु स्वच्छदगमनागमः ।। 5.2.79.५० ।।
विचरत्यविचारेण सर्वलोकान्दिवौकसाम् ।।
स्पृहणीयतमः पुंसां सर्ववर्णोत्तमोधुना ।। ५१ ।।
स्वर्गाच्च्युतः प्रजायेत कुले महति रूपवान् ।।
धर्मज्ञो रुद्रभक्तश्च सर्वविद्यार्थपारगः ।।५२।।
राजा वा राजतुल्यो वा दर्शनादस्य जायते ।।
स्पर्शनात्परमं पुण्यं यजनात्परमं पदम् ।।५३।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
हनुमत्केश्वरेशस्य स्वप्नेश्वरमथो शृणु ।। ५४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्य उमामहेश्वरसंवादे हनुमत्केश्वरमाहात्म्यवर्णनंनामैकोनाशीतितमोऽध्यायः ।। ७९ ।। ।। छ ।।