स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ८०

।। ईश्वर उवाच ।।
आशीतिकं विजानीहि देवं स्वप्नेश्वरं प्रिये ।।
यस्य दर्शनमात्रेण दुःस्वप्नं नश्यति ध्रुवम् ।। १ ।।
कल्माषपादेति ख्यातो लोके राजा बभूव ह ।।
इक्ष्वाकुवंशजो देवि तेजसा सूर्यवद्भुवि ।। २ ।।
स कदाचिद्वने राजा वशिष्ठसुतमौरसम् ।।
शक्तिं परमधर्मज्ञं ददर्श विजितेंद्रियम् ।।
मार्गस्थितं तपोनिष्ठमपगच्छेति चाब्रवीत् ।। ३ ।।
अमुंचंतं तु पंथानं तमृषिं नृपसत्तमः ।।
जघान कशया मोहात्तदा राक्षसवन्मुनिम् ।। ४ ।।
कशाप्रहाराभिहतस्ततः स मुनिपुंगवः ।।
तं शशाप रुषाविष्टो वाशिष्ठः क्रोधमूर्छितः ।। ५ ।।
हंसि राक्षसवद्यस्माद्राजापसद तापसम् ।।
तस्मात्त्वमद्यप्रभृति पुरुषादो भविष्यति।।६।।
सततं पिशितासक्तश्चरिष्यसि महीमिमाम्।।
स तु शप्तस्तदा तेन तत्क्षणाद्वै नृपोत्तमः ।।७।।
जगाम शरणं शक्तिं प्रसादयितुम र्हयत्।।
यदा न तुष्टो विप्रर्षिः शक्तिः परमकोपनः ।।
प्रसाद्यमानो भूपेन तदा तेनापि भक्षितः ।। ८ ।।
शक्तिं तं भक्षयित्वा तु वशिष्ठस्यापरान्तु तान् ।।
भक्षयामास सहसा सिंहः क्षुद्रमृगानिव ।। ९ ।।
तदाप्रभृति संजातः पुरुषादो नृपोत्तमः ।।
रात्रौ पश्यति दुःस्वप्नान्पापसंघेन मोहितः ।। ।। 5.2.80.१० ।।
दृष्ट्वा भयानकान्स्वप्नान्स राजा पर्य्यतप्यत ।।
पश्चात्तापेन संयुक्तो विललाप सुदुःखितः ।। ११ ।।
अथाप्युक्तममात्यैश्च किं करोषि महीपते ।।
कस्मात्ते निष्प्रभा कांतिर्विवर्णो हरिणः कृशः ।। १२ ।।
स राजा कथयामास दुःस्वप्नाननुपूर्वशः ।।
स्वप्नेऽहं सागरं शुष्कं चन्द्रं च पतितं भुवि ।। १३ ।।
उपरुद्धां च जगतीं घनेन तमसा वृताम्।।
आत्मानं चाहमद्राक्षं मलिनं मुक्तमूर्द्धजम् ।। १४ ।।
पतंतमद्रिशिखरात्कलुषे गोमये ह्रदे ।।
पिबन्नंजलिना तैलं हसन्निव मुहुर्मुहुः ।। १५ ।।
तैलेनाभ्यक्तसर्वांगस्तैलमेवावगाहयन् ।।
पीठे कार्ष्णायसे चैव निषण्णोऽहमधो मुखः ।। १६ ।।
गायंति प्रमदा रक्ता रक्तमाल्यानुलेपनाः ।।
कृष्णांबरधराश्चान्याः कृष्णमाल्यानुलेपनाः ।। १७ ।।
ताभिराकृष्यमाणोऽपि नीतोऽहं दक्षिणां दिशम् ।।
बद्ध्वा रज्ज्वा सुवर्णस्य लोहस्य रजतस्य च ।। १८ ।।
पांसुकर्दमयोर्मध्ये मग्नोहं लोहयंत्रितः ।।
कपोतैस्तुद्यमानोऽहं गृध्रैः काकैश्च दारुणैः ।। १९ ।।
सृगालैर्भक्ष्यमाणश्च स्थितो मद्गुरमस्तके ।।
ऋक्षवानरयानस्थो गतोऽहं दक्षिणां दिशम् ।। 5.2.80.२० ।।
नदीं निमग्नो निश्चेष्टो जलहीनां महीसमाम्।।
दंतैर्विदारितो रात्रौ रासभेनाहमर्द्दितः ।। २१ ।।
ताडितो हदयेत्यर्थं चरणैर्वज्रसंनिभैः ।।
दृष्टिश्च हन्यतेऽत्यर्थं वेतालैर्लोहशं कुभिः ।।२२।।
करालैः कंटकैः कृष्णैः पुरुषैरुद्यतायुधैः।।
स्वप्नेहं ताडितोत्यर्थमप्रमाणैः शितैः शरैः ।।२३।।
एवमेतन्मया दृष्टमिमांरात्रिं भयावहाम्।।
संख्यां कर्तुं न शक्येत दुःस्वप्नानपरान्बहून् ।।२४।।
इमां तु दुःस्वप्नगतिं निरीक्ष्य वै ह्यनेकरूपामविचिंतितां पुरा ।।
भयं महन्मे हृदयं न शुद्ध्यति प्रगृह्य बाहू विलपाम्यनाथवत् ।। २५ ।।
नृपस्य वचनं श्रुत्वा अमात्या भृशदुःखिताः ।।
पश्यंतो दुर्निमित्ताश्च उल्कापातादिकास्तदा ।। २६ ।।
सौरि सूर्यकुजाक्रांतं नगरं दृश्यतेऽधुना।।
 नागं चतुष्पदं विष्टिं किंस्तुघ्नं शकुनिं तथा ।।२७।।
करणानि न शस्यंते मुहूर्त्ता दारुणाभवन् ।।
विदित्वा नृपभंगं तु देशभंगकुलक्षयम्।।२८।।
आश्वासयंतो राजानमिदं वचनमब्रुवन् ।।
अलं शोकेन काकुत्स्थ सत्यासत्या हि विभ्रमाः ।।२९।।
दृश्यंते भाविताः पुंसि स्वप्ने धातुवशेन हि ।।
तथा पित्रादिदेवांश्च पूजय ब्राह्मणांस्तथा ।। 5.2.80.३० ।।
एभिस्ततो मोक्ष्यसे त्वं मानसादधिविभ्रमात् ।।
यस्माद्दैवोपघातानां दैवमेव हि रक्षणम्।।३१।।
एवमाश्वासितो भूपो ह्यमात्यैर्धर्मकोविदैः ।।
तत्पापं कथयामास गुरुपुत्रवधादिकम् ।।३२।।
वशिष्ठस्य सुतो ज्येष्ठः शक्ति र्वै भक्षितो मया ।।
नृशंसेन तथामात्या एकोनं भक्षितं शतम् ।। ३३ ।।
तेन पापेन संतप्तः कथं स्वस्थो भवामि वै ।।
एकापि ब्रह्महत्याया सापि दैवात्सुदुष्करा ।। ३४ ।।
मया पुनर्नृशंसेन सा तथा न तु वर्जिता ।।
कांस्तु लोकान्गमिष्यामि कृत्वा कर्म सुदारुणम् ।।
राक्षसोऽहमनेनैव शरीरेण कुलांतकृत्।। ३५ ।।
जातः कुले रघूणां वै पापात्मा पापसंभवः ।।
सोऽहमत्र मरिष्यामि साधयित्वा हुताशनम् ।। ३६ ।।
इति तस्य वचः श्रुत्वा सौदासस्य सुविस्मिताः ।।
अमात्या वेदतत्त्वज्ञाः सर्वशास्त्रविशारदाः ।। ३७।।
अहो पापमिदं भूरि कृतं पापेन सर्वथा ।।
प्रायश्चित्तं न जानीमो वशिष्ठेन विनाऽधुना ।। ३८ ।।
तस्मादद्यैव गंतव्यमस्य भूपस्य कारणात् ।।
यत्र तिष्ठति विप्रर्षिर्वशिष्ठो भगवान्मुनिः ।। ३९ ।।
इत्युक्त्वा सहितास्तेन तेऽमात्या भृशदुःखिताः ।।
गत्वा यत्राश्रमे विप्रो वशिष्ठो भगवानृषिः ।। 5.2.80.४० ।।
अदृश्यंतीं वधूं दीनां यत्राश्वासयति प्रभुः ।।
अदृश्यंती तु तं दृष्ट्वा कूरकर्माणमग्रतः ।।
भयसंविग्नया वाचा वशिष्ठमिदमब्रवीत् ।। ४१ ।।
असौ मृत्युरिवोग्रेण दण्डेन वहुगर्वितः ।।
प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः ।।४२।।
तन्निवारयितुं शक्तो नान्यो वै भुवि कश्चन ।।
त्वामृतेऽद्य महाभाग सर्ववेदविदां वर ।। ४३ ।।
त्राहि मां भग वन्पापादस्माद्दारुणदर्शनात् ।।
राक्षसोऽयमिहागत्य नूनमावां समीहते ।। ४४ ।।
।। वशिष्ठ उवाच ।। ।।
मा भैः पुत्रि न भेतव्यं राक्षसात्ते कथंचन ।।
नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम्।।
राजा कल्माषपादोऽयममात्यैः सहितो विभुः ।। ४५ ।।
स एषोऽस्मिन्वनोद्देशे समा यातो ममांतिकम् ।।
तमायांतमथालक्ष्य वशिष्ठो भगवानृषिः ।।
वारयामास तेजस्वी हुंकारेण नृपोत्तमम् ।।४६।।
मन्त्रपूतेन च ततः समभ्युक्ष्य च वारिणा ।।
मोक्षयामास वै भावाद्राक्षसाद्राजसत्तमम्।। ४७ ।।
प्रतिलभ्य ततः संज्ञामभिवाद्य कृतांजलिः।।
उवाच नृपतिः काले वशिष्ठमृषिसत्त मम् ।। ४८ ।।
सौदासोऽहं महाभाग दासोऽहं तव सुव्रत ।।
अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ।। ४९ ।।
तस्य तद्वचनं श्रुत्वा नृपस्य द्विजसत्तमः ।।
ज्ञात्वा तपोबलेनैव विश्वामित्रस्य चेष्टितम् ।।
राजानं प्रत्युवाचेदं विनयावनतं तथा ।। 5.2.80.५० ।।
ज्ञातमेव यथाकालं गच्छ राजन्कुश स्थलीम्।।
महाकालसमीपे तु लिंगं दुःस्वप्ननाशनम्।। ५१ ।।
राजसंपत्करं दिव्यं पुत्रपौत्रविवर्द्धनम् ।।
ब्रह्महत्यासहस्राणां स्फोटनं पापनाश नम् ।।
तस्य दर्शनमात्रेण विपाप्मा च भविष्यसि ।। ५२ ।।
दुःस्वप्नजं भयं घोरं विनंक्ष्यति न संशयः ।।
ग्रहाश्च सानुकूलास्ते भविष्यन्ति नृपो त्तम ।।५३।।
इत्युक्तो गुरुणा भूयो वशिष्ठेन महात्मना ।।
जगाम त्वरितो देवि महाकालवनं शुभम् ।।
ददर्श तत्र तल्लिंगं दुष्टदुःस्वप्ननाशनम् ।।५४।।
नष्टाः सर्वेपि दुःस्वप्नाः सुस्वप्नाश्चाभवंस्तदा ।।
राजा निष्कल्मषो भूत्वा पुनः प्राप्नोन्निजं पदम् ।।
अयोध्यायां गतो राज्यं चकार मुदितस्तदा ।। ।। ५५ ।।
तदाप्रभृति देवोऽयं सुस्वप्नेश्वरसंज्ञकः ।।
बभूव भुवने ख्यातः सर्वदुःस्वप्ननाशनः ।।५६।।
अष्टम्यां च चतुर्दश्यां देवं स्वप्नेश्वरं शिवम् ।।
दर्शनं ये करिष्यंति स्नात्वा शिप्राजले शुभे।।
आजन्मप्रभवं तेषां दुःस्वप्नं च विनश्यति।।५७।।
स एव सर्वदा पूज्य इह लोके परत्र च ।।
यः पश्यति नरो भक्त्या देवं स्वप्नेश्वरं शिवम् ।। ५८ ।।
यं यं काममभिध्याय मनसाभिमतं नरः ।।
तं तं दुर्ल्लभमाप्नोति सुस्वप्नेश्वरदर्शनात् ।। ५९ ।।
नियमेन प्रपश्यंति देवं स्वप्नेश्वरं सदा ।।
ते प्रयांति तनुं त्यक्त्वा मदीयं भवनं प्रिये ।। 5.2.80.६० ।।
भक्तिहीनः क्रियाहीनो यः पश्यति प्रसंगतः ।।
सुपुण्यां गतिमाप्नोति योगिगम्यां यशस्विनि ।। ६१ ।।
ये च पुष्पैर्विचित्रैश्च पूजयन्ति च पर्वसु ।।
ते सर्वकामसंपन्नाः श्रीबलारोग्यसंयुताः ।।
दीर्घायुषः शुभाचारा जायन्ते देहिनोऽमलाः ।। ६२ ।।
एते च ब्रह्मविष्ण्विंद्रकुबेरदहनादयः ।।
सुस्वप्नं परमं प्राप्ताः श्रीस्वप्नेश्वरदर्शनात् ।।६३।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
स्वप्नेश्वरस्य देवस्य शृणु लिंगचतुष्टयम् ।। ६४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे उमामहेश्वरसंवादे स्वप्नेश्वरमाहात्म्यवर्णनं नामाशीतितमोऽध्यायः ।। ८० ।।