स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/विषयानुक्रमणिका


अथावन्त्यखण्डे द्वितीयमवन्तीस्थचतुरशीतिलिंगमाहात्म्यम् ।। ( ५-२) ।।

१ अथ चतुरशीतिलिंगमाहात्म्यप्रस्ताव उमामहेश्वरसंवादारम्भः, तत्र प्रथममगस्त्येश्वररलिंगमाहात्म्यवर्णनम्, तत्प्रसंगेन पूर्वेतिहासवर्णनम्, तत्र देवानां सुखप्राप्त्यर्थं कुंभयोनिना दैत्यान्हत्वा पश्चात्तापेन हत्यादोषभीतेनेश्वराराधना कृत्वा शिवानुज्ञया स्वनाम्ना शिवलिंगस्थापनम्, तस्यागस्त्येश्वरलिंगस्य माहात्म्ययवर्णनम् ७९ ५

२ अथ गुहेश्वरलिंगमाहात्म्यवर्णनम्, तत्र मंकणकऋषिणा तपस्तप्त्वा कस्मिंश्चित्समये कराच्छाकरसनिर्गमनेनाश्चर्यं प्राप्य नर्तनकरणम्, तेन सर्वेषां स्थावरजंगमानां संजातं नृत्यं दृष्ट्वा देवानां शिवलोकेगमनम्, शिवेन तस्य मंकणकस्य शंकानिरासकरण, शिवाज्ञया महाकालवने लिंगस्थापनम, मंकणकर्षेर्मुक्तिप्राप्तिवर्णनम्, गुहेश्वरमाहात्म्यवर्णनम्...... ८० २

३ अथ ढुंढेश्वरमाहात्म्यवर्णनम्, तत्र ढुंढनामकशैवगणस्येन्द्रसभायां गमनम्,
नृत्यमानां रंभां दृष्ट्वा काममोहितस्य ढुंढस्येन्द्रेण शापप्रदानम्, ततो मानुष्यं
प्राप्य ढुंढेन महाकालवने शिवमाराध्य स्वनाम्ना लिंगस्थापनम्, ढुंढेश्वरतीर्थलिंगमाहात्म्यवर्णनम्

४ अथ डमरुकेश्वरमाहात्म्यवर्णनम्, तत्र रुरुपुत्रेण वज्रदैत्येन सह युद्धे पराजयं
प्राप्तानां सेन्द्रादिदेवानां ब्रह्मलोके गमनम्, ब्रह्मणः शरीरतो निर्गतायाः सक-
न्यकायाः कृत्याया वज्रेण समं युद्धवर्णनम्, वज्रकृतकृत्यापराभववर्णनम्,
कृत्यादिभिरीश्वराराधनाकरणम्, ईश्वरवज्रयोर्युद्धवर्णनम्, ईश्वरप्रेरितडमरुणा
वज्रनाशकरणम्, ततस्तत्र डमरुकेश्वरेतिलिंगस्थापनम्, डमरुकेश्वरलिंगमाहा-
त्म्यवर्णनम् .. .... ... - ... ८२ १

५ अथानादिकल्पेश्वरलिंगमाहात्म्यवर्णनम्... ८३ १

६ अथ स्वर्णजालेश्वरमाहात्म्यवर्णनम्, तत्र पार्वत्या सह क्रीडतः शंकरस्य वीर्यप्राशनेन वह्निना तद्दाहशमनार्थं गंगायामवलोडनकरणम्, ततो वह्नेः काञ्चननामकप्रथमापत्यस्य दर्शनेन सर्वत्र वादप्रचलनम्, तमनर्थं दृष्ट्वा वह्निना शंकराय कांचनपुत्रस्य समर्पणम्, शंकराज्ञया काञ्चनस्य महाकालवने गमनम्, काञ्चनेन तपस्तप्त्वा ईश्वरवचनात्स्वनाम्ना लिंगस्थापनम्, स्वर्णजालेश्वरलिंग माहात्म्यवर्णनम् .... .. ... ८४ १

७ अथ त्रिविष्टपेश्वरलिंगमाहात्म्यवर्णनम्, तत्र नारदवचनान्महाकालवने त्रिविष्टपैर्लिंगस्थापनम्, त्रिविष्टपेश्वरलिंगमाहात्म्यवर्णनम्- .. ... ८५ १

८ अथ कपालेश्वरलिंगमाहात्म्यवर्णनम्, तत्र महाकालवने पैतामहयज्ञे हस्ते कपालं धृत्वा शंकरस्यागमनम्, शंकरस्य कुचेलवेषं दृष्ट्वा ब्राह्मणैरपमानकरणम्, ततः शिवेन तत्र यज्ञमण्डपे कपालं निधाय गमनम्, तदसहमानैर्ब्राह्मणैर्मण्डपाद्बहिः कपालप्रक्षेपणम्, ततः सहस्रावधिकपालानां दर्शनम्, तदद्भुतं दृष्ट्वा सविस्मयैर्ब्राह्मणैः शिवस्तवनकरणम्, कपालेश्वरनाम्ना लिंगस्थापनम्, कपालेश्वरलिंगदर्शनेन ब्रह्महत्यादिमहापातकविनाशकमाहात्म्यवर्णनम् ... . ८६ १

९ अथ स्वर्गद्वारलिंगमाहात्म्यवर्णनम्, तत्र दक्षयज्ञे दक्षकृतेनापमानेन संक्रुद्धस्य शिवस्याज्ञया वीरभद्रादिशैवगणानां विष्ण्वादिदेवैः सह युद्धवर्णनम्, तत्र विष्ण्वादिदेवानां पराभवः, शैवगणैः स्वर्गद्वारनिर्बन्धनकरणम्, देवैः स्वर्गप्रवेशाभावं समवलोक्य विष्ण्वाज्ञया शिवाराधनार्थमहाकालवने गमनम्, तत्र स्वर्गद्वारनामक लिंगस्थापनम्, स्वर्गद्वारलिंगमाहात्म्यवर्णनम्........ ८७ १

१० अथ कर्कोटकेश्वरलिंगमाहात्म्यवर्णनम्, तत्र मातृदत्तशापविनाशार्थ कर्कोटकनागेन महाकालवने तपश्चरणम्, तत्तपःप्रसन्नेन शिवेन तस्मै वरप्रदानम्, शिवलिंगस्य स्वनाम्ना स्थापनम्, कर्कोटकेश्वरलिंगमाहात्म्यवर्णनम्... ८८ १

११ अथ सिद्धेश्वरलिंगमाहात्म्यवर्णनम, तत्र सिद्धिप्राप्त्यर्थ देवदारुवने तपः कुर्वाणे विप्रैराकाशवाणीश्रवणान्महाकालवने गमनम्, तत्र तपस्तप्त्वा सिद्धिप्राप्तिदलिंगस्थापनम्, सिद्धेश्वरलिंगमाहात्म्यवर्णनम ... ८८

१२ अथ लोकपालेश्वरलिंगमाहात्म्यवर्णनम्, तत्र हिरण्यकशिपोः सकाशात्सञ्जातपराभवैर्लोकपालैर्विष्ण्वाज्ञया तपश्चरणाय महाकालवने गमनम्, तपःप्रभावेन दैत्याञ्जित्वा स्वस्वस्थाने प्रति गमनम्, लोकपालेतिनाम्ना महाकालवने लिंगस्थापनम्, लोकपालेश्वरलिंगमाहात्म्यवर्णनम् -... ....... ८९

१३ अथ कामेश्वरमाहात्म्यवर्णनम, तत्र ब्रह्मणा मुष्टिनिर्मापणार्थं काममुत्पाद्य तस्य द्वादशस्थानानि दत्त्वा शिवोपरि कामोद्दीपनार्थं प्रेषणम्, शिवेन स्वतपसो विघ्नकारिणः कन्दर्पस्य भस्मकरणम्, पतिनाशं ज्ञात्वा रत्या शोककरणम्, ततः शिवाज्ञया अनंगीभूतस्य कामस्य महाकालवने गमनम्, तत्र तपस्तप्त्वा लिंगस्थापनम्, कामेश्वरलिंगमाहात्म्यवर्णनम ८९. २

१४ अथ कुटुम्बकेश्वरलिंगमाहात्म्यवर्णनम्, तत्र क्षीराब्धिमन्थनसमये निर्गतं कालकूटं पीत्वा तदुत्थं दाहमसहमानेन शंकरेण शिप्रायै तस्य कालकूटस्य प्रदानम्, तद्गृहीत्वा शिप्राया महाकालवने गमनम्, शिप्रया कामेश्वरलिंगसमीपस्थलिंगोपरि तस्य कालकूटविषस्य निक्षेपणम्, कालकूटविषलेपनात्तद्दर्शनार्थमागतानां विप्राणां मरणप्राप्तिवर्णनम्, शिवेन तत्रागत्य विप्राणां पुनरुज्जीवनकरणम्, शिवेन तल्लिंगस्य कुटुंवकेश्वरेति नामकरणम्, कुटुंबकेश्वरलिंगमाहात्म्यवर्णनम्... ९१ १

१५ अथेन्द्रद्युम्नेश्वरलिंगमाहात्म्यवर्णनम्, तत्र पुण्यभ्रंशादिन्द्रद्युम्नस्य स्वर्गतः पतनम्, पश्चात्तापेनाक्षयां कीर्तिं सम्पादयितुं हिमवन्नगे मार्कण्डेयदर्शनं गृहीत्वा तदाज्ञया महाकालवने गत्वा शिवलिंगार्चनकरणम्, तेनाक्षयां कीर्तिं लब्ध्वा स्वनाम्ना लिंगस्थापनम्, इन्द्रद्युम्नेश्वरलिंगमाहात्म्यवर्णनम्. ९१ २

१६ अथेशानेश्वरलिंगमाहात्म्यवर्णनम्, तत्र मुंडपुत्रेण तुहुण्डेन जितैर्देवैः शिवाज्ञया महाकालवने गत्वा शिवलिंगार्चनकरणम्, ईश्वरेण प्रसन्नेन स्वनाम्ना तस्य लिंगस्येशानेश्वरेति नामकरणम्, ईशानेश्वरस्य देवैः स्तोत्रकरणम्, ईशानेश्वरलिंगमाहात्म्यवर्णनम्... ..... ....... ९२

१७ अथाप्सरसेश्वरलिंगमाहात्म्यवर्णनम्, तत्र शक्रसभायां नृत्यमानाया रंभायास्तालादिभिर्विकलत्वं प्राप्तं नृत्यं दृष्ट्वा शक्रेण क्रुधा रंभायै शापदानम्, तया शापनिवृत्त्यर्थं नारदवचनात्स्वनाम्ना महाकालवने लिंगं संस्थाप्य नित्यपूजनेन शिवं सन्तोष्य तस्माद्वरं लब्ध्वा स्वर्लोकं प्रति गमनम्, अप्सरसेश्वरलिंगमाहात्म्यवर्णनम्. ९३ १

१८ अथ कलकलेश्वरलिंगमाहात्म्यवर्णनम्, तत्रोमामहेश्वरविवादप्रसंगे त्रिभुवने कम्पिते सति तत्र सर्वतः समुत्पन्नेन कलकलेतिशब्देन लिंगप्रादुर्भावोऽतस्तस्य लिंगस्य कलकलेति नामकरणम्, कलकलेश्वरलिंगमाहात्म्यवर्णनम्. ... ९३ २

१९ अथ नागचंडेश्वरलिङ्गमाहात्म्ययवर्णनम्, तत्र नागचंडेन स्थापितस्य लिंगस्य दर्शनार्थं देवानामागमनम्, तल्लिंगसंपूजने निर्माल्यलंघनादिदोषे प्राप्ते तस्य नागचण्डेश्वरलिंगस्य समीपे लिङ्गस्थापनम्, तेन देवानां निर्माल्यलंघनादिदोषान्निवृत्तिः, नागचंडेश्वरलिंगमाहात्म्यवर्णनम्.. .. ... ९४

२० अथ प्रतीहारेश्वरलिङ्गमाहात्म्यवर्णनम्, तत्र रममाणयोरुमामहेश्वरयोर्द्वारि स्थितेन प्रतिहारेण नन्दिनाऽज्ञातेन वह्निनाऽन्तःपुरे प्रवेशकरणम्, तेन रुष्टेन शिवेन नन्दिने शापप्रदानम्, तेन शापेन नंदिना पृथिव्यां महाकालवने गत्वा प्रतिहारेश्वरेति नाम्ना शिवलिंगस्थापनम्, तत्प्रसादेन नंदिनः पुनः शिवलोकं प्रति गमनम्, प्रतिहारेश्वरलिंगमाहात्म्यवर्णनम्....... ९५ १

२१ अथ कुक्कुटेश्वरलिंगमाहात्म्यवर्णनम्, तत्र कौशिकाख्यस्य भूपस्य प्राग्जन्मनि नित्यं कुक्कुटभक्षणात्ताम्रचूडदत्तशापेन प्रतिनिशि कुक्कुटत्वप्राप्तिः, तच्छापनाशार्थं महाकालवने पक्षियोनिविमोचनाख्यलिंगपूजनम्, तेन तस्य कुक्कुटत्वप्राप्तिनिवृत्तिः, कुक्कुटेश्वरलिंगस्थापनम्, कुक्कुटेश्वरलिंगमाहात्म्यवर्णनम् ९५ २

२२ अथ कर्कटेश्वरलिंगमाहात्म्यवर्णनम्, तत्र धर्ममूर्त्याख्यनृपतिवसिष्ठसंवादप्रसंगेनैश्वर्यप्राप्तिकारणं जिज्ञासमानेन तेन पृष्टेन वसिष्ठेन 'तव प्राग्जन्मनि कृतेन पातकेन कर्कटत्वप्राप्तौ केनचिद्वायसेन कर्कटशरीरं धृत्वा शिवाग्रे पातितं ततोऽन्तकाले
शिवदर्शनप्रभावेनैतस्मिञ्जन्मन्यैश्वर्यप्राप्तिः' इति वृत्तान्तकथनम्, कर्कटेश्वरलिंगमाहात्म्यवर्णनम् ..... .... ...... .. ९७ १

२३ अथ मेघनादेश्वरलिङ्गमाहात्म्यवर्णनम्, तत्र मदांधाख्येन राज्ञा दौर्जन्याद्यज्ञक्रियाणामकरणेन भूतले वृष्ट्यभावाद्देवानां ब्रह्मलोके गमनम्, ततो ब्रह्माज्ञया देवानां महाकालवने गमनम्, तत्र देवैर्मेघप्रतिष्ठापितलिङ्गस्तवनम्, तस्य लिंगस्य पूजनेन वृष्टिप्राप्तिवर्णनम्, अतस्तस्य मेघस्थापितस्य लिंगस्य मेघनादेश्वरेतिनामक-
रणम्, मेघनादेश्वरलिंगमाहात्म्यवर्णनम्..... .... ... ९७ २

२४ अथ महालयेश्वरलिंगमाहात्म्यवर्णनम्..... ... - ९८ २

२५ अथ मुक्तीश्वरलिंगमाहात्म्यवर्णनम्, तत्र महाकालसमीपस्थे मुक्तिलिंगे त्रयोदशवर्षपर्यंतं नारायणं ध्यायतो मुक्तिनामकविप्रस्याग्रेऽकस्मात्कस्यचिद्व्याधस्यागमनम्,
विप्रदर्शनेन लिंगदर्शनेन च व्याधस्य दौर्जन्यं गत्वा सौष्ठवप्राप्तिवर्णनम्, व्याधेन जले स्थित्वा तपश्चरणम्, अष्टाक्षरमंत्रजपेन तस्य मुक्तिः, तत्स्थाने प्राप्तस्य कस्यचिद्व्याघ्रस्यापि तन्मंत्रश्रवणेन मोक्षवर्णनम्, व्याघ्रेण पूर्वजन्मकथानककथनपूर्वकमात्मनः शापकारणकथनम, तयोर्व्याघ्र-मुक्तिद्विजयोर्महाकालवने गमनम्, तत्र लिंगस्थापनम्, मुक्तीश्वरलिंगमाहात्म्यवर्णनमम, ...... ९५ १

२६ अथ सोमेश्वरलिंगमाहात्म्यवर्णनम्, तत्र रोहिणीं विनाऽन्यासु चन्द्रस्याप्रीतिं दृष्ट्वा क्रोधेन दक्षेण दत्तस्य शापस्य निवृत्त्यर्थं सोमस्य सत्यलोके गमनम्, तेन ब्रह्मणा सह वैकुंठं गत्वा विष्णोःस्तवकरणम्, विप्ण्वाज्ञया सोमस्य महाकालवने गमनम्, तत्र लिंगस्थापनम्, तेन सोमस्य यक्ष्मरोगशान्तिवर्णनम्, सोमेश्वरलिंगमाहात्म्यवर्णनम्..... .. .. १००

२७ अथानरकेश्वरलिंगमाहात्म्यवर्णनम्, तत्र नरकयातनाक्रमवर्णनपुरःसरं निमिना पुण्यबाहुल्येऽपि किञ्चित्पापेन यमलोकगमनम्, पुनरनरकेश्वरदर्शनेन सर्वपापक्षये जाते विमानमारुह्येन्द्रलोके गमनम्, यमयातनोपभोगकारिणा प्राणिनां दुःखेन दुःखितस्य निमेर्यमकृतं सान्वनम्, अनरकेश्वरलिंगमाहात्म्यवर्णनम् ... १०२ १

२८ अथ जटेश्वरमाहात्म्यवर्णनम, तत्र वीरधन्वनो राज्ञः कथाकथनपूर्वकं जटेश्वरमाहात्म्यवर्णनम्, जटेश्वरलिंगस्थापनादिवर्णनम्.. .. ... १०४ १

२९ अथ रामेश्वरलिंगमाहात्म्यवर्णनम्, तत्रैकविंशतिवारान्निःक्षत्रियां पृथिवीं कृत्वा शत्रुहत्यादोषनिबर्हणार्थं नानातीर्थक्षेत्राणि भ्रान्त्वा दोषाभावमदृष्ट्वा नारदोपदेशाज्जामदग्ने रामस्य महाकालवने जटेश्वरसमीपे गमनम्, तत्र तपस्तप्त्वा दोषनाशं दृष्ट्वा स्वनाम्ना लिंगस्थापनम्, रामेश्वरलिंगमाहात्म्यवर्णनम् ... -. १०५ २

३० अथ च्यवनेश्वरलिंगमाहात्म्यवर्णनम्, तत्र च्यवननामकर्षिणा शर्यातिराजकन्यां वृत्वा ततो महाकालवने तपस्तप्त्वा स्वनाम्ना लिंगस्थापनम्, च्यवनेश्वरलिंगमाहात्म्यवर्णनम्- . ... १०६ २

३१ अथ खण्डेश्वरलिंगमाहात्म्यवर्णनम्, तत्र प्रियव्रतपुत्रस्य भद्राश्वराजस्य कुंभयोनि-
वचनान्महाकालवने गमनम्, तत्र खण्डितव्रतपूर्णतायै लिंगस्थापनम्, खण्डेश्व-
रलिंगमाहात्म्यवर्णनम्..... -. ........ १०८ १

३२ अथ पत्तनेश्वरलिंगमाहात्म्यवर्णनम्...... १०८ २

३३ अथानन्देश्वरलिङ्गमाहात्म्यवर्णनम्, तत्रानमित्रसुतेनानंदेन केनचित्कारणेन महाकालवने गत्वा स्वनाम्ना लिंगस्थापनम, आनंदेश्वरलिंगमाहात्म्यवर्णनम्... १०९ २

३४ अथ कंथडेश्वरलिंगमाहात्म्यवर्णनम्, तत्र पाण्डवनामकब्राह्मणस्य कन्थानिमित्तकं तपस्तप्त्वा कन्थानाम्ना लिंगस्थापनम्, कन्थडेश्वरलिंगमाहात्म्यवर्णनम्.... ११० १

३५ अथेन्द्रेश्वरलिङ्गमाहात्म्यवर्णनम्, तत्र ब्रह्मपुत्रस्य कुशध्वजस्य स्वर्गतः पातनात्क्रुद्धेन ब्रह्मणा स्वजटामुत्पाट्य भूमौ पातनाद्वृत्रासुरोत्पत्तिस्ततो वृत्रासुरेन्द्रयोर्युद्ध इन्द्रस्य पराभवः, वृत्रं जेतुं बृहस्पतेराज्ञया शक्रस्य महाकालवने गमनम्, तपःप्रभावेन वृत्रासुरं हत्वा तद्धत्यादोषनिवृत्तये तत्र लिंगस्थापनम्, इन्द्रेश्वरमाहात्म्यवर्णनम् १११ १

३६ अथ मार्कण्डेयेश्वरमाहात्म्यवर्णनम्, तत्र मार्कण्डेयजन्मकथावर्णनपूर्वकं महाकालवने मार्कण्डेयेन स्वनाम्ना लिङ्गस्थापनम, मार्कंडेयेश्वरलिंगमाहात्म्यवर्णनम्- ११२ १

३७ अथ शिवेश्वरलिंगमाहात्म्यवर्णनम्, तत्र रिपुञ्जयकथानकवर्णनम्, शिवेश्वरमाहात्म्यवर्णनम्.. ...... ... ... ११३ १

३८ अथ कुसुमेश्वरलिंगमाहात्म्यवर्णनम्, तत्र कुसुमक्रीडाविहारत्वात्कुसुमेश्वरेतिनामकर-
णम्, कुसुमेश्वरलिंगमाहात्म्यवर्णनम् ....... .. ... ११४ १

३९ अथाक्रूरेश्वरलिंगमाहात्म्यवर्णनम्, तत्र भृंगिरिट्टिना निजक्रूरबुद्धिविनाशाय महाकालवने लिंगं स्थापयित्वा तस्य पूजाकरणम्, तेन तस्य कूरभावनिवृत्तिः, तस्य लिंगस्याक्रूरेश्वरनाम्ना प्रसिद्धिः, अक्रूरेश्वरलिंगमाहात्म्यवर्णनम् ... .. ११५ १

४० अथ कुण्डेश्वरलिंगमाहात्म्यवर्णनम्, तत्र शिवपार्वत्योर्वृषारूढयोर्मार्गे केनचिन्निमित्तेन शिवान्तर्धानं दृष्ट्वा पार्वत्या शिवदर्शनोत्सुकयाऽन्तर्विघ्नकारिणं कुण्डनाम-कगणं प्रति शापदानम्, तेन कुण्डेन शापनिवृत्त्यर्थ महाकालवने स्वनाम्ना लिंग-
स्थापनम्, कुण्डेश्वरलिंगमाहात्म्यवर्णनम्- -... - ... ११६ १

४१ अथ लुम्पेश्वरलिंगमाहात्म्यवर्णनम्, तत्र सामगब्राह्मणवधात्तत्पुत्रदत्तशापेन कुष्ठित्वं प्राप्तेन लुंपराजेन नारदोपदेशान्महाकालवने गमनम्, तत्र कुष्ठनाशनाय लिंगस्थापनम्, सैकतेश्वरापरनाम्नो लुम्पेश्वरस्य लिंगस्य माहात्म्यवर्णनम् .. ११७ १

४२ अथ गङ्गेश्वरलिंगमाहात्म्यवर्णनम्, तत्र शिवजटाजूटतो भूम्यां गङ्गाप्रपातेन शिप्रातटे गङ्गेश्वरेतिनाम्ना भगीरथस्थापितलिंगमाहात्म्यम्, गङ्गेश्वरपूजनादिविधिमाहात्म्यवर्णनम् -.. -. -.. -. -. ... -.. ११७ २

४३ अथांगारकेश्वरलिंगमाहात्म्यवर्णनम्, तत्र शिवगात्रादंगारकपुत्रोत्पत्तिवर्णनम्, अङ्गारकेश्वरमाहात्म्यवर्णनम् .. - ......... - - ११८ २

४४ अथोत्तरेश्वरलिंगमाहात्म्यवर्णनम्, तत्र नवग्रहपीडितानामिंद्रादीनां शिवादेशाच्छिप्रायां गमनम्, उत्तरमेघकृतं शिवलिंगस्थापनम्, उत्तरेश्वरलिंगमाहात्म्यवर्णनम् ११९

४५ अथ त्रिलोचनेश्वरलिंगमाहात्म्यवर्णनम् - -. ... -.. ... १२१ १

४६ अथ वीरेश्वरलिंगमाहात्म्यवर्णनम्. ... ......... .. १२४ १

४७ अथ नूपुरेश्वरलिंगमाहात्म्यवर्णनम् ... .... .. -.. - -. १२७ २

४८ अथाभयेश्वरलिंगमाहात्म्यवर्णनम्. ... ... ... -. -. .. १२८ ५

४९ अथ पृथुकेश्वरलिंगमाहात्म्यवर्णनम्. -. ... ... ... -.. १२९ १

५० अथ स्थावरेश्वरलिंगमाहात्म्यवर्णनम्. - -. .. - -. ... १३० १

५१ अथ शूलेश्वरलिङ्गमाहात्म्यवर्णनम्, तत्र देव्यांऽधकासुरस्य शूलेन नाशं विधाय शूलनाम्ना लिंगस्थापनम्, शूलेश्वरलिंगमाहात्म्यवर्णनम् ... .. . १३१ १

५२ अथोंकारेश्वरलिङ्गमाहात्म्यवर्णनम्, तत्र शिववक्त्रान्निर्गतेनोंकारेण शिववाक्यात्स्थापितस्योंकारेश्वरलिंगस्य माहात्म्यवर्णनम् ... -.- १३२ १

५३ अथ विश्वेश्वरलिंगमाहात्म्यवर्णनम् ,तत्र विदूरथस्य राज्ञो ब्रह्मवधजनितदोषेण दुष्टद्वादशजन्मानि गृहीत्वा त्रयोदशे चण्डालत्वं प्राप्य शिवसंनिधौ मृतत्वाद्विश्वेशनाम्ना पुना राजकुले समुत्पत्तिवर्णनम्, पूर्वजन्मनि संस्मृत्य महाकालवने तेन लिंगस्थापनम्, विश्वेश्वरलिंगमाहात्म्यवर्णनम्-......,.. १३२ २

५४ अथ कंटेश्वरलिंगमाहात्म्यवर्णनम्, तत्र कस्यचिच्छत्रुभिः पराजितस्य राज्ञो वसिष्ठाश्रमे गमनम्, तस्य वचनान्महाकालवने गत्वा राज्ञा लिंगस्थापनपूर्वकं पूजाकरणम्, तेन निष्कंटकराज्यप्राप्तिरतः कंटेश्वरनाम्ना तस्य लिङ्गस्य प्रसिद्धिः, कंटेश्वरलिंगमाहात्म्यवर्णनम्... ........ १३३ २

५५ अथ सिंहेश्वरलिंगमाहात्म्यवर्णनम्, तत्र शिवप्राप्त्यर्थं गौर्या तपसि क्रियमाणे ब्रह्मण आगमनम्, ब्रह्मवचनात्कुद्धाया देव्या मुखतः सिंहस्योत्पत्तिस्तत्पोषार्थं देव्याः स्तनाभ्यां दुग्धस्राववर्णनम्, पार्वत्याज्ञया सिंहस्य महाकालवने गमनम्, तस्य गौरीवाहनत्वप्राप्तिवर्णनम्, तेन सिंहेन स्वनाम्ना लिंगस्थापनम्, सिंहेश्वरलिंगमाहात्म्यवर्णनम् ...... .. १३५ १

५६ अथ रेवंतेश्वरलिङ्गमाहात्म्यवर्णनम् ,तत्र सूर्यपुत्रेण रेवंतेन देवाञ्जित्वा कैलासे गमनम्, शिववचनेन महाकालवनमागत्य तत्र स्वनाम्ना शिवलिंगस्थापनम्, रेवंतेश्वरलिंगमाहात्म्यवर्णनम्.... ...... .... १३५ २

५७ अथ घण्टेश्वरलिङ्गमाहात्म्यवर्णनम्, तत्र शैवगणेन घंटेन शिवं त्यक्त्वा स्वगायनकौशलं दर्शयितुं ब्रह्मलोके गमनम्, नारदेन तत्र गतं तं दृष्ट्वा शिवाय कथनम्, तेन रुष्टेन शिवेन घंटाख्यगणाय शापदानम्, तच्छापनिवृत्त्यै नारदादेशान्महाकालवनं गत्वा शिवलिंगस्थापनम्, घंटेश्वरलिंगमाहात्म्यवर्णनम् ...... १३६ २

५८ अथ प्रयागेश्वरलिङ्गमाहात्म्यवर्णनम्, तत्र प्रियव्रतनारदसंवादे नारदस्य सावित्र्या दर्शनम्, सावित्रीदर्शनेन नारदस्य वेदनाशः, तद्दृष्ट्वाऽऽश्चर्येण पृष्टया सावित्र्या सर्ववृत्तकथनम्, सावित्रीवचनान्नारदस्य प्रयागगमने निष्ठाप्रापणम्, प्रियव्रतेन समं नारदस्यावन्तीस्थप्रयागे गमनम्, तत्र गत्वा लिंगस्य स्थापनं पूजनं च, प्रयागेश्वरलिंगमाहात्म्यवर्णनम्.. ... - .. .. ... १३७ २

५९ अथ सिद्धेश्वरलिङ्गमाहात्म्यवर्णनम्, तत्राश्वशिरसो राज्ञो जैगीषव्यकपिलमहामुन्योर्दर्शनम्, ताभ्यां दर्शितया मायया भगवत्स्वरूपं दृष्ट्वा आश्चर्येण शरणगमनम्, तयोराज्ञया तेन राज्ञा महाकालवने गत्वा सिद्धिप्राप्त्यर्थं लिंगपूजनम्, सिद्धेश्वर लिंगमाहात्म्यवर्णनम् ..... ............ १३८ २

६० अथ मतंगेश्वरलिंगमाहात्म्यवर्णनम्, तत्र सुगतिविप्रपुत्रेण मतंगेन लिंगस्य स्थापनं पूजनं च, मतंगेश्वरलिङ्गमाहात्म्यवर्णनम् - -. ........ १३९ २

६१ अथ सौभाग्येश्वरलिंगमाहात्म्यवर्णनम्, तत्राश्ववाहननृपभार्यया सुमत्या पतिवियोगादतिदुःखितया निजपतिप्राप्त्यर्थमृष्यादेशाल्लिंगपूजनम्, तत्प्रसादात्तस्याः पत्युरागमनेन सौभाग्यप्राप्तिः, सौभाग्येश्वरलिंगमाहात्म्यवर्णनम्..... १४० २

६२ अथ रूपेश्वरलिंगमाहात्म्यवर्णनम्, तत्र पद्मराजस्य कण्वाश्रमे गमनम्, तत्र तेन कण्वमदृष्ट्वा तत्कन्याया दर्शनम्, काममोहितेन तेन तया सह व्यभिचरणम्, तत्कण्वेन ज्ञानचक्षुषा दृष्ट्वा तयोः कुरूपभवनरूपशापप्रदानम्, .ततः कण्वाज्ञया तयोर्महाकालवने गमनम्, तत्र लिंगपूजनेन सुस्वरूपप्राप्तिवर्णनम्, रूपेश्वरलिंगमाहात्म्यवर्णनम्........ ... ... १४२ १

६३ अथ धनुःसाहस्रेश्वरलिंगमाहात्म्यवर्णनम्, तत्र विदूरथराजस्य कन्यायाः कुसुंभदैत्येन हरणम्, ततो विदूरथपुत्राभ्यां साकं तस्य दैत्यस्य युद्धम्, तत्र राज्ञा विदूरथेन स्वपुत्रयोः पराभवं बन्धनत्वप्राप्तिं च ज्ञात्वा तत्पराजयार्थमृष्यनुज्ञया महाकालवनं गत्वा लिंगपूजनम्, तेन पूजनप्रभावेण तस्य धनुःसहस्रतुल्यधनुष्यप्राप्तिः, तेन धनुःसहायेन दैत्यस्य पराभवः, तस्य राज्ञः पुत्रकन्यादिसहितस्य सुखप्राप्तिपूर्वकमन्ते मोक्षप्राप्तिवर्णनम्, धनुःसाहस्रेश्वरलिंगमाहात्म्यवर्णनम्- .. ... ... ... ... १४३ १

६४ अथ पशुपतीश्वरलिंगमाहात्म्यवर्णनम्, तत्र पशुपालराजेन लिंगम्य स्थापनम्, तस्य पूजनं च, पशुपतीश्वरलिंगस्य माहात्म्यवर्णनम् .. १४४ १

६५ अथ ब्रह्मेश्वरलिंगमाहात्म्यवर्णनम्, तत्र पुलोमदैत्येन म्वसैन्येन सह विप्णुं जेतुं क्षीराब्धौ गमनम्, तद्दृष्ट्वा ब्रह्मणो दैत्यजयार्थं महाकालवने गमनम्, तत्र तपस्तप्त्वा प्रसन्नेन शिवेन दैत्यपराजयकरणवर्णनम्, ब्रह्मणा स्वनाम्ना लिंगस्थापनम्, ब्रह्मेश्वरलिंगस्य माहात्म्यवर्णनम्.-........ -..... १४५ ५

६६ अथ जल्पेश्वरलिंगमाहात्म्यवर्णनम्, तत्र जल्पनामकेन राज्ञा पञ्चपुत्रान्राज्ये संस्थाप्य वने गमनम् ततः परस्परबन्धुविरोधेन मृतान्पञ्चपुत्राञ्ज्ञात्वा तद्वियोगेन दुःखितस्य जल्पस्य राज्ञो वसिष्ठाज्ञया महाकालवने गमनम्, तत्र स्वनाम्ना लिंगस्थापनम्, जल्पेश्वरलिंगमाहात्म्यवर्णनम्....... -. ... १४६ १

६७ अथ केदारेश्वरलिंगमाहात्म्यवर्णनम्, तत्र हिमपीडितानां सब्रह्मकानां देवानां कैलासे गमनम्, तत्र शिवं ध्यात्वा तदादेशात्केदारेश्वरे गमनम, तत्पुण्यप्रभावेन हिमपीडानिवृत्तिवर्णनम्, केदारेश्वरलिङ्गमाहात्म्यवर्णनम्- ... ... .. १४७ १

६८ अथ पिशाचेश्वरलिंगमाहात्म्यवर्णनम्, सोमनामकस्य शूद्रस्य दुराचारत्वात्पिशाचत्वप्राप्तिवर्णनम्, तत्र पिशाचस्य शाकटायनस्य व्राह्मणस्य च संवादवर्णनम्, शाकटायनवचनात्पिशाचत्वतो मुक्तिहेतोर्महाकालवने गमनम, तत्र लिंगं संपूज्य तस्य पिशाचस्य मोक्षप्राप्तिः, पिशाचेश्वरलिंगमाहात्म्यवर्णनम.. १४८

६०. अथ सङ्गमेश्वरलिंगमाहात्म्यवर्णनम्, तत्र पत्नीवचनात्सुबाहुना प्राग्जन्मकथानककथनम्, ततः सङ्गमेश्वरकृपया राज्यमुपभुज्यान्ते मोक्षप्राप्तिवर्णनम्, संगमेश्वर-लिंगमाहात्म्यवर्णनम् ... . .. ... .. ... १४९ २

७० अथ दुर्धषेश्वरलिंगमाहाम्यवर्णनम्, दुर्धर्षनाम्नो राज्ञो मृगयायै वने गमनम्, तत्र कल्पाख्यस्यर्षेः कन्यां दृष्ट्वा तया मोहितेन तत्र वासकरणम्, राज्यस्य नाशे तत्प्राप्त्यै महाकालवने शिवपूजनेन तस्य राज्यप्राप्तिः सर्वसुखोपभोगानन्तरमन्ते मोक्षप्राप्तिश्च, दुर्धर्षेश्वरलिंगमाहात्म्यवर्णनम्. .. .... .१५१ १

७१ अथ प्रयागेश्वरलिंगमाहात्म्यवर्णनम्, तत्र शंतनुना वृताया गंगाया अष्टपुत्रप्राप्तिवर्णनम् गंगाया मनुष्ययोनितो मुक्तिप्राप्त्यर्थं नारदवचनात्प्रयागेश्वरे गमनम्, लिंगपूजनेन पापान्निवृत्तिः प्रयागेश्वरलिंगमाहात्म्यवर्णनम् ... ... १५२ २

७२ अथ चन्द्रादित्येश्वरमाहात्म्यवर्णनम्, तत्र शबरेण पराभूतान्देवान्दृष्ट्वा चन्द्रसूर्ययोर्वैकुंठे गमनम्, विष्ण्वाज्ञया तयोर्महाकालवने गत्वा शिवपूजने कृते शिवलिंगतो ज्योतिर्निर्गत्य तेन ज्योतिषा शंबरस्य पराजयकरणवर्णनम्, चन्द्रादित्येश्वरलिंगमाहात्म्यवर्णनम् १५४ १

७३ अथ करभेश्वरलिंगमाहात्म्यवर्णनम्, मृगयां कर्तुं गतस्य राज्ञो वीरकेतोः करभस्यानुधावनम्, महारण्ये करभस्यान्तर्धानम्, ततः कस्यचिदृषेरनुज्ञया महाकालवने करभेश्वरपूजनेन कैलासपदप्राप्तिवर्णनम्, करभेश्वरलिंगमाहात्म्यवर्णनम् १५५ २

७४ अथ राजस्थलेश्वरलिंगमाहात्म्यवर्णनम् - तत्र ब्रह्मणा सृष्टिं विधाय अराजकां दृष्ट्वा रिपुंजयाय राजदानम् , तेन रिपुंजयेन राज्ञा पुत्रवत्प्रजापालनं कुर्वता देवदत्तातिवृष्ट्यनावृष्ट्यादित्रासं निराकर्तुं महाकालवने गत्वा शिवं संपूज्य तत्कृपया प्रजानां सुखप्राप्तिकरणवर्णनम्, राजस्थलेश्वरलिंगमाहात्म्यवर्णनम..... १५७ १

७५ अथ वडलेश्वरमाहात्म्यवर्णनम्, तत्र मणिभद्रपुत्रेण वडलसंज्ञकेन भार्यया साकं क्रीडितुं वने गमनम, तत्र क्रीङावनरक्षितृभी राक्षसैः समं वडलस्य युद्धम्, तत्र राक्षसपराजयः तेन म्वपुत्रस्य कर्मणा क्रुद्धेन मणिभद्रेण यक्षेण स्वपुत्राय वडलाय शापदानम्, शापनिवृत्त्यर्थं वडलस्य महाकालवने गमनम, शिवपूजनेन तस्य मोक्षप्राप्तिवर्णनम्, वडलेश्वरलिंगमाहात्म्यवर्णनम् .. .. १५८ १

७६ अथारुणेश्वरमाहात्म्यवर्णनम्, तत्र कश्यपसंभूतस्य विनतासुतस्यारुणस्य नारदोपदेशान्महाकालवने गत्वा शिवपूजनेन सूर्यसारथित्वप्राप्तिवर्णनम्, अरुणेश्वरलिंगमाहात्म्यवर्णनम्- ... १५९ २

७७ अथ पुष्पदंतेश्वरमाहात्म्यवर्णनम्, तत्र शिनिनामकद्विजेन पुत्रप्राप्त्यर्थमीश्वरस्याराधने कृते सति तत्प्रसादेन तस्य पुष्पदन्तनामकपुत्रप्राप्तिवर्णनम, पुष्पदन्तेन महाकालवने शिवलिंगस्थापनम्, पुष्पदन्तेश्वरलिंगमाहान्त्यवर्णनम्-..... १६० २

७८ चित्रसेननृपतेर्विरक्तायाः कन्यकाया वचनादविमुक्तक्षेत्र आगमनम्, तत्र शिवलिंगपूजनेन तस्य मुक्तिप्राप्तिवर्णनम् अविमुक्तेश्वरलिंगमाहात्म्यवर्णनम्.. ... १६२ १

७९ अथ हनुमत्केश्वरलिंगमाहात्म्यवर्णनम्, तत्र हनुमद्बाललीलावर्णनपुरःसरं लिंगपूजनेन हनुमतो बलप्राप्तिवर्णनम्, रावणवधानंतरं रामराज्याभिषेकोत्तरं रामप्रस्तुतहनुमद्वर्णने केनचिद्द्विजेन हनुमतोऽधिक्षेपे कृते हनुमता महाकालवने गत्वा शिवपूजनम्, हनुमत्केश्वरलिंगमाहात्म्यम्. .... -१६३ २

८० अथ स्वप्नेश्वरलिंगमाहात्म्यवर्णनम्, तत्र कल्माषपादकथावर्णनपूर्वक दुःस्वप्ननाशक स्वप्नेश्वराख्यानवर्णनम् , स्वप्नेश्वरलिंगमाहात्म्यवर्णनम्.... .. १६४ २

८१ अथ पिंगलेश्वरलिंगमाहात्म्यवर्णनम्, तत्र चतुर्दिक्स्थितानां चतुर्लिगानां वर्णनम् ,तत्र पिंगलानाम्न्या पिंगलकन्यकया पितृमातृहीनया प्राग्जन्मदुष्कृतस्मरणं कृत्वा धर्मानुज्ञया महाकालवने गमनम्, तत्र गत्वा स्वनाम्ना लिंगस्थापनम्, पिंगलेश्वरमाहात्म्यवर्णनम् - १६६ १

८२ अथ कायावरोहणेश्वरलिंगमाहात्म्यवर्णनम्, तत्र दक्षयज्ञविध्वंसनसमये वीरभद्र भद्रकाल्यादिभिः पराजितानां दक्षादीनां महाकालवने गमनम्, तत्र लिंगपूजनेन सर्वेषां कायावरोहणात्कायावरोहणेश्वरेतिनामस्थापनम्, कायावरोहणेश्वरलिंग माहात्म्यवर्णनम्...... . ...... . १६८ १

८३ अथ बिल्वेश्वरलिंगमाहात्म्यवर्णनम्, तत्र कपिलेन शिवमाराध्यावध्यत्वसंपादनमक्षयत्वसंपादनं च, तथा बिल्वेन नृपेण .विष्णुमाराध्य कपिलो मां प्रति 'त्वत्तोऽहं बिभेमि' इति यथा वदेत्तथा कुरु इत्यादिवरप्रार्थनाकरणम्, तस्मै 'तथास्तु' इत्युक्त्वा विष्णुना वरप्रदानम्, स्वदत्तं वरं सत्यं कर्तुं विष्णुना कपिलस्य प्रार्थनाकरणम्, स्ववाक्यं तिरस्कुर्वता कपिलेन समं कृष्णस्य युद्धवर्णनम्, तत्र कृष्णपराजयः, ततो बिल्वनृपेण शक्रवचनाद्बिल्वेश्वरमाराध्य कपिलमुखेन 'अहं त्वत्तो बिभेमि' इति भाषाबन्धकरणम्, बिल्वेश्वरमाहात्म्यवर्णनम्... ... १६९ २

८४ अथोत्तरेश्वरलिंगमाहात्म्यवर्णनम्, तत्र परीक्षिन्नामकस्यायोध्याधिपतेर्मृगयार्थमरण्ये गमनम, तत्र कयाचित्कन्यया समं प्रश्नोत्तरगद्यप्रबन्धेन संभाषणम्, तां गृहीत्वा विहरति राजनि तया कन्यया वापीं प्रविश्य पाताले गमनम्, परीक्षिता शोककरणम्, परीक्षिदाज्ञया प्रधानादिभिर्दर्दुरवधकरणम्, तत एकेन वृद्धदर्दुरेण निजपृर्वजन्मकथानककथनपूर्वकं गालवशापेन दर्दुरत्वप्राप्तिकथनम्, दर्दुरेण
कन्यास्मरणे कृते सति स्मरणोत्तरमागतायाः कन्यायास्तस्मै परीक्षिते समर्पणम्, उत्तरेश्वरपूजनेन दर्दुरस्य गालवदत्तशापनिवृत्तिः, उत्तरेश्वरलिंगमाहात्म्यवर्णनम्, इत्थमवन्तीक्षेत्रस्थितचतुरशीतिलिंगमाहात्म्यकथाफलश्रुतिवर्णनम्, आवन्त्यखण्डस्थित चतुरशीतिलिंगमाहात्म्योपसंहारवर्णनम् . .. - ... १७१ १