स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ००६

← अध्यायः ५ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्
अध्यायः ६
वेदव्यासः
अध्यायः ७ →


अध्याय ६

मार्कण्डेय उवाच -
पुनर्युगान्ते सम्प्राप्ते तृतीये नृपसत्तम ।
दादशार्कवपुर्भूत्वा भगवान्नीललोहितः ॥ ६.१ ॥
सप्तद्वीपसमुद्रान्तां सशैलवनकाननाम् ।
निर्दग्धां तु महीं कृत्स्नां कालो भूत्वा महेश्वरः ॥ ६.२ ॥
ततो महाघनो भूत्वा प्लावयामास वारिणा ।
कृष्णं कृष्णवपुस्त्वेनां विद्युच्चन्द्रायुधाङ्किताम् ॥ ६.३ ॥
प्लावयित्वा जगत्सर्वं तस्मिन्नेकार्णवीकृते ।
सुष्वाप विमले तोये जगत्संक्षिप्य मायया ॥ ६.४ ॥
ततोऽहं भ्रममास्तु तमोभूते महार्णवे ।
दिव्यं वर्षसहस्रं तु वायुभूते महेश्वरे ॥ ६.५ ॥
ओंकृत्वा देवदेवेशं येनेदं गहनीकृतम् ।
ध्यायमानस्ततो देवं राजेन्द्र विमले जले ॥ ६.६ ॥
तस्मिन्महार्णवे घोरे नष्टे स्थावरजङ्गमे ।
मयूरं स्वर्णपत्राढ्यमपश्यंसहसा जले ।
विचित्रचन्द्रकोपेतं नीलकंठं सुलोचनम् ॥ ६.७ ॥
ततो मयूरः स महार्णवान्ते विक्षोभयित्वा हि महास्वेण ।
चचार देवस्त्रिशिखी शिखण्डी त्रैलोक्यगोप्ता स महानुभावः ॥ ६.८ ॥
शिवश्च रौद्रेण मयूररूपिणा विक्षोभ्यमाणे सलिलेऽपि तस्मिन् ।
सह भ्रमन्तीं च महार्णवान्ते सरिन्महौघां सुमहान्ददर्श ॥ ६.९ ॥
स तां महादेवमयूररूपो दृष्ट्वा भ्रमन्तीं सहसोर्मिजालैः ।
का त्वं शुभे शाश्वतदेहभूता क्षयं न यातासि महाक्षयान्ते ॥ ६.१० ॥
देवासुरगणे नष्टे सरित्सरमहार्णवे ।
का त्वं भ्रमसि पद्माक्षि क्व गतासि च न क्षयम् ॥ ६.११ ॥

नर्मदोवाच -
तव प्रसादाद्देवेश मृत्युर्मम न विद्यते ।
सृज देव पुनर्विश्वं शर्वरी क्षयमागता ॥ ६.१२ ॥
एवमुक्तो महादेवो व्यधुनोत्पक्षपञ्जरम् ।
तावत्पञ्जरमध्यान्ते तस्य पक्षाद्विनिःसृताः ॥ ६.१३ ॥
तावन्तो देवदैत्येन्द्राः पक्षाभ्यां तस्य जज्ञिरे ।
तेषां मध्ये पुनः सा तु नर्मदा भ्रमते सरित् ॥ ६.१४ ॥
ततश्चान्यो महाशैलो दृश्यते भरतर्षभ ।
त्रिभिः कूटैः सुविस्तीर्णैः शृङ्गवानिव गोवृषः ॥ ६.१५ ॥
त्रिकूटस्तु इति ख्यातः सर्वरत्नैर्विभूषितः ।
ततस्तस्मात्त्रिकूटाच्च प्लावयन्ती महीं ययौ ॥ ६.१६ ॥
त्रिकूटी तेन विख्याता पितॄणां त्रायणी परा ।
द्वितीयाच्च ततो गङ्गा विस्तीर्णा धरणीतले ॥ ६.१७ ॥
तृतीयं च ततः शृङ्गं सप्तधा खण्डशो गतम् ।
जम्बूद्वीपे तु संजाताः सप्त ते कुलपर्वताः ॥ ६.१८ ॥
चन्द्रनक्षत्रसहिता ग्रहग्रामनदीनदाः ।
अण्डजं स्वेदजं जातमुद्भिज्जं च जरायुजम् ॥ ६.१९ ॥
एवं जगदिदं सर्वं मयूरादभवत्पुरा ।
समस्तं नरशार्दूल महादेवसमुद्भवम् ॥ ६.२० ॥
ततो नदीः समुद्रांश्च संविभज्य पृथक्पृथक् ।
नर्मदामाह देवेशो गच्छ त्वं दक्षिणां दिशम् ॥ ६.२१ ॥
एवं सा दक्षिणा गंगा महापातकनाशिनी ।
उत्तरे जाह्नवी देशे पुण्या त्वं दक्षिणे शुभा ॥ ६.२२ ॥
यथा गंगा महापुण्या मम मस्तकसंभवा ।
तद्विशिष्टा महाभागे त्वं चैवेति न संशयः ॥ ६.२३ ॥
त्वया सह भविष्यामि एकेनांशेन सुव्रते ।
महापातकयुक्तानामौषधं त्वं भविष्यसि ॥ ६.२४ ॥
एवमुक्ता तु देवेन महापातकनाशिनी ।
दक्षिणं दिग्विभागं तु सा जगामाशु विक्रमा ॥ ६.२५ ॥
ऋक्षशैलेन्द्रमासाद्य चन्द्रमौलेरनुग्रहात् ।
वार्यौघैः प्रस्थिता यस्मान्महादेवप्रणोदिता ॥ ६.२६ ॥
महता चापि वेगेन यस्मादेषा समुच्छ्रिता ।
महती तेन सा प्रोक्ता महादेवान्महीपते ॥ ६.२७ ॥
तपतस्तस्य देवस्य शूलाग्राद्बिन्दवोऽपतन् ।
तेनैषा शोणसंज्ञा तु दश सप्त च ताः स्मृताः ॥ ६.२८ ॥
सर्वेषां नर्मदा पुण्या रुद्रदेहाद्विनिःसृता ।
सर्वाभ्यश्च सरिद्भ्यश्च वरदानान्महात्मनः ॥ ६.२९ ॥
शंकरानुप्रहाद्देवी महापातकनाशिनी ।
यस्मान्महार्णवे घोरे दृश्यते महती च सा ॥ ६.३० ॥
सुव्यक्ताङ्गी महाकाया महती तेन सा स्मृता ।
तस्माद्विक्षोभ्यमाणा हि दिग्गजैरम्बुदोपमैः ॥ ६.३१ ॥
कलुषत्वं नयत्येव रसेन सुरसा तथा ।
कृपां करोति सा यस्माल्लोकानामभयप्रदा ॥ ६.३२ ॥
संसारार्णवमग्नानां तेन चैषा कृपा स्मृता ।
पुरा कृतयुगे पुण्ये दिव्यमन्दारभूषिता ॥ ६.३३ ॥
कल्पवृक्षसमाकीर्णा रोहीतकसमाकुला ।
वहत्येषा च मन्देन तेन मन्दाकिनी स्मृता ॥ ६.३४ ॥
भित्त्वा महार्णवं क्षिप्रं यस्माल्लोकमिहागता ।
पूज्या सुरैश्च सिद्धैश्च तस्मादेषा महार्णवा ॥ ६.३५ ॥
विचित्रोत्पलसंघातैरृक्षद्विपसमाकुला ॥ ६.३६ ॥
भित्त्वा शैलं च विपुलं प्रयात्येवं महार्णवम् ।
भ्रामयन्ती दिशः सर्वा रवेण महता पुरा ॥ ६.३७ ॥
प्लावयन्ती विराजन्ती तेन रेवा इति स्मृता ।
भार्यापुत्रसुदुःखाढ्यान्नराञ्छापैः समावृतान् ॥ ६.३८ ॥
विपापान्कुरुते यस्माद्विपापा तेन सा स्मृता ।
विण्मूत्रनिचयां घोरां पांशुशोणितकर्दमाम् ॥ ६.३९ ॥
पाशैर्नित्यं तु सम्बाधां यस्मान्मोचयते भृशम् ।
विपाशेति च सा प्रोक्ता संसारार्णवतारिणी ॥ ६.४० ॥
नर्मदा विमलाम्भा च विमलेन्दुशुभानना ।
तमोभूते महाघोरे यस्मादेषा महाप्रभा ॥ ६.४१ ॥
विमला तेन सा प्रोक्ता विद्वद्भिर्नृपसत्तम ।
करैरिन्दुकरप्रख्यैः सूर्यरश्मिसमप्रभा ॥ ६.४२ ॥
क्षरन्ती मोदते विश्वं करभा तेन चोच्यते ।
यस्माद्रञ्जयते लोकान्दर्शनादेव भारत ॥ ६.४३ ॥
रञ्जनाद्रञ्जना प्रोक्ता धात्वर्थे राजसत्तम ।
तृणवीरुधगुल्माद्यास्तिर्यञ्चः पक्षिणस्तथा ।
तानुद्भूतान्नयेत्स्वर्गं तेनोक्ता वायुवाहिनी ॥ ६.४४ ॥
एवं यो वेत्ति नामानि निर्गमं च विशेषतः ।
स याति पापविर्मुक्तो रुद्रलोकं न संशयः ॥ ६.४५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये सहैतुकरेवानाममाहात्म्यवर्णने मयूरकल्पसमुद्भवो नाम षष्ठोऽध्यायः ॥