स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ००८

← अध्यायः ७ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्
अध्यायः ८
वेदव्यासः
अध्यायः ९ →


अध्याय ८

मार्कण्डेय उवाच -
नष्टे लोके पुनश्चान्ये सलिलेन समावृते ।
महार्णवस्य मध्यस्थो बाहुभ्यामतरं जलम् ॥ ८.१ ॥
दिव्ये वर्षशते पूर्णे श्रान्तोऽहं नृपसत्तम ।
ध्यातुं समारभं देवं महदर्णवतारणम् ॥ ८.२ ॥
ध्यायमानस्ततः काले अपश्यं पक्षिणं परम् ।
हारकुन्देन्दुसंकाशं बकं गोक्षीरपाण्डुरम् ॥ ८.३ ॥
ततोऽहं विस्मयाविष्टस्तं बकं समुदीक्ष्य वै ।
अस्मिन्महार्णवे घोरे कुतोऽयं पक्षिसंभवः ॥ ८.४ ॥
तरन्बाहुभिरश्रान्तस्तं बकं प्रत्यभाषिषि ।
पाक्षरूपं समास्थाय कस्त्वमेकार्णवीकृते ॥ ८.५ ॥
भ्रमसे दिव्ययोगात्मन्मोहयन्निव मां प्रभो ।
एतत्कथय मे सर्वं योऽसि सोऽसि नमोऽस्तु ते ॥ ८.६ ॥
सोऽब्रवीन्मां महादेवो ब्रह्माहं विष्णुरेव च ।
जगत्सर्वं मया वत्स संहृतं किं न बुध्यसे ॥ ८.७ ॥
तव माता पिताहं वै विश्वस्य च महामुने ।
कारुण्यं मम संजातं दृष्ट्वा मग्नं महार्णवे ॥ ८.८ ॥
पक्षिरूपं समास्थाय अतोऽत्राहं समागतः ।
किमर्थमातुरो भूत्वा भ्रमसीत्थं महार्णवे ॥ ८.९ ॥
शीघ्रं प्रविश मत्पक्षौ येन विश्रमसे द्विज ।
एवमुक्तस्ततस्तेन देवेनाहं नरेश्वर ॥ ८.१० ॥
ततोऽहं तस्य पक्षान्ते प्रलीनस्तु भ्रमञ्जले ।
काले युगसाहस्रान्ते अश्रान्तोऽर्णवमध्यगः ॥ ८.११ ॥
ततः शृणोमि सहसा दिक्षु सर्वासु सुव्रत ।
किंचिन्नूपुरसंमिश्रमद्भुतं शब्दमुत्तमम् ॥ ८.१२ ॥
तदार्णवजलं सर्वं संक्षिप्तं सहसाभवत् ।
किमेतदिति संचिन्त्य दिशः समवलोकयम् ॥ ८.१३ ॥
दश कन्यास्ततो दिक्षु आगताश्च महार्णवे ।
वस्त्रालंकारसहिता दिग्भ्यो नूपुरभूषिताः ॥ ८.१४ ॥
काचिच्चन्द्रसमाभासा काचिदादित्यसप्रभा ।
काचिदंजनपुञ्जाभा काचिद्रक्तोत्पलप्रभा ॥ ८.१५ ॥
नानारूपधरा सौम्या नानाभरणभूषिता ।
अर्घ्यपाद्यादिभिर्माल्यैर्बकमभ्यर्च्य सुव्रताः ॥ ८.१६ ॥
ततस्तं पर्वताकारं गुह्यं पक्षिणमव्ययम् ।
प्रविवेश महाघोरं पर्वतो ह्यर्णवं स्वराट् ॥ ८.१७ ॥
योजनानां सहस्राणि तावन्त्येव शतानि च ।
त्रिंशद्योजनसाहस्रं यावद्भूमण्डलं त्विति ॥ ८.१८ ॥
ततो भूमण्डलं दिव्यं पञ्चरत्नसमाकुलम् ।
दिव्यस्फटिकसोपानं रुक्मस्तंभमनोरमम् ॥ ८.१९ ॥
योजनानां सहस्रं तु विस्तराद्द्विगुणायतम् ।
वापीकूपसमाकीर्णं प्रासादाट्टालकावृतम् ॥ ८.२० ॥
कल्पवृक्षसमाकीर्णं ध्वजषष्टिविभूषितम् ।
तस्मिन्पुरवरे रम्ये नानारत्नोपशोभितम् ॥ ८.२१ ॥
तथान्यच्च पुरं रम्यं पताकोज्ज्वलवेदिकम् ।
शतयोजनविस्तीर्णं तावद्द्विगुणमायतम् ॥ ८.२२ ॥
पुरमध्ये ततस्तस्मिन्नदी परमशोभना ।
महती पुण्यसलिला नानारत्नशिला तथा ॥ ८.२३ ॥
तस्यास्तीरे मया दृष्टं तडित्सूर्यसमप्रभम् ।
इन्द्रनीलमहानीलैश्चितं रत्नैः समन्ततः ॥ ८.२४ ॥
क्वचिद्वह्निसमाकारं क्वचिदिन्द्रायुधप्रभम् ।
क्वचिद्धूम्रं क्वचित्पीतं क्वचिद्रक्तं क्वचित्सितम् ॥ ८.२५ ॥
नानावर्णैः समायुक्तं लिङ्गमद्भुतदर्शनम् ।
ब्रह्मविष्ण्विन्द्रसाध्यैश्च समन्तात्परिवारितम् ॥ ८.२६ ॥
नन्दीश्वरगणाध्यक्षैश्चेन्द्रादित्यैश्च तद्वृतम् ।
पश्यामि लिङ्गमीशानं महालिङ्गं तमेव च ॥ ८.२७ ॥
परिवार्य ततस्तं तु प्रसुप्तान्देवदानवान् ।
निमीलिताक्षान्पश्यामि दिव्याभरणभूषितान् ॥ ८.२८ ॥
ततस्ताः पद्मपत्राक्ष्यो नार्यः परमसंमताः ।
नद्यास्तस्या जले स्नात्वा दिव्यपुष्पैर्मनोरमैः ॥ ८.२९ ॥
दत्त्वार्घपाद्यं विधिवल्लिंगस्य सह पक्षिणा ।
अर्चयन्तीर्वरारोहा दश ताः प्रमदोत्तमाः ॥ ८.३० ॥
ततस्त्वभ्यर्च्य तल्लिङ्गं तस्मिन्नेव पुरोत्तमे ।
सर्वा अदर्शनं जग्मुर्विद्युतोऽभ्रगणेष्विव ॥ ८.३१ ॥
न चासौ पक्षिराट्तस्मिन्न स्त्रियो न च देवताः ।
तदेवैकं स्थितं लिङ्गमर्चयन्विस्मयान्वितः ॥ ८.३२ ॥
ततोऽहं दुःखमूढात्मा रुद्रमायेति चिन्तयन् ।
ततः कन्याः समुत्तीर्य दिव्यांबरविभूषणाः ॥ ८.३३ ॥
भासयन्त्यो जगत्सर्वं विद्युतोऽभ्रगणानिव ।
पद्मैर्हिरण्मयैर्दिव्यैरर्चयित्वा शुभाननाः ॥ ८.३४ ॥
विविशुस्तज्जलं क्षिप्रं समंताद्वरभूषणाः ।
तस्मिन्पुरवरे चान्ये तामेवाहं पुनःपुनः ॥ ८.३५ ॥
पश्यामि ह्यमरां कन्यामर्चयन्तीं महेश्वरम् ।
ततोऽहं तां वरारोहामपृच्छं कमलेक्षणाम् ॥ ८.३६ ॥
का त्वमस्मिन्पुरे देवि वससे शिवमर्चती ।
ताश्चागताः स्त्रियः सर्वाः क्व गतास्ते गणेश्वराः ॥ ८.३७ ॥
नमोऽस्तु ते महाभागे ब्रूहि पुण्ये महेश्वरि ।
तव प्रसादाद्विज्ञातुमेतदिच्छामि सुव्रते ।
दयां कृत्वा महादेवि कथयस्व ममानघे ॥ ८.३८ ॥

श्र्युवाच -
विस्मृताहं कथं विप्र दृष्ट्वा कल्पे पुरातने ।
मा तेऽभूत्स्मृतिविभ्रंशः सा चाहं कल्पवाहिनी ॥ ८.३९ ॥
नर्मदा नाम विख्याता रुद्रदेहाद्विनिःसृता ।
यास्ताः कन्यास्त्वया दृष्टा ह्यर्चयन्त्यो महेश्वरम् ॥ ८.४० ॥
याभिस्त्विह समानीतः पक्षिराजसमन्विताः ।
दिशस्ता विद्धि सर्वेशाः सर्वास्त्वं मुनिसत्तम ॥ ८.४१ ॥
तिर्यक्पक्षिस्वरूपेण महायोगी महेश्वरः ।
एभिः शिवपुराद्विप्र आनीतः स महेश्वरः ॥ ८.४२ ॥
सैष देवो महादेवो लिङ्गमूर्तिर्व्यवस्थितः ।
अर्च्यते ब्रह्मविष्ण्विन्द्रैः सुरासुरजगद्गुरुः ॥ ८.४३ ॥
लयमायाति यस्माद्धि जगत्सर्वं चराचरम् ।
तेन लिङ्गमिति प्रोक्तं पुराणज्ञैर्महर्षिभिः ॥ ८.४४ ॥
तेन देवगणाः सर्वे संक्षिप्ता मायया पुरा ।
प्रलीनाश्चैव लोकेश न दृश्यन्ते हि सांप्रतम् ॥ ८.४५ ॥
पुनर्दृश्या भविष्यन्ति सृजमानाः स्वयंभुवा ।
साहं लिङ्गार्चनपरा नर्मदा नाम नामतः ॥ ८.४६ ॥
कालं युगसहस्रस्य रुद्रस्य परिचारिका ।
अस्य प्रसादादमरस्तथा त्वं द्विजपुंगव ॥ ८.४७ ॥
सत्यार्जवदयायुक्तः सिद्धोऽसि त्वं शिवार्चनात् ।
एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ॥ ८.४८ ॥
ताः स्त्रियः स च देवेशो बकरूपो महेश्वरः ।
तस्यास्तद्वचनं श्रुत्वा अवतीर्य महानदीम् ॥ ८.४९ ॥
स्नात्वा समर्चय त्वं हि विधिना मन्त्रपूर्वकम् ।
ततोऽहं सहसा तस्मात्समुत्तीर्य जलाशयात् ॥ ८.५० ॥
न च पश्यामि तल्लिङ्गं न च तां निम्नगां नृप ।
तदैव लोकाः संजाताः क्षितिश्चैव सकानना ॥ ८.५१ ॥
ऋक्षचन्द्रार्कविततं तदेव च नभस्तलम् ।
यथापूर्वमदृष्टं तु तथैव च पुनः कृतम् ।
नतोऽहं मनसा देवमपूजयं महेश्वरम् ॥ ८.५२ ॥
एवं बके पुरा कल्पे मया दृष्टेयमव्यया ।
नर्मदा मर्त्यलोकस्य महापातकनाशिनी ॥ ८.५३ ॥
तस्माद्धर्मपरैर्विप्रैः क्षत्रशूद्रविशादिभिः ।
सदा सेव्या महाभागा धर्मवृद्ध्यर्थकारिभिः ॥ ८.५४ ॥
येऽपि भक्तया सकृत्तोये नर्मदाया महेश्वरम् ।
स्नात्वा ते सर्वं पापं नाशयन्त्यसंशयम् ॥ ८.५५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये बककल्पसमुद्भवो नामाष्टमोऽध्यायः ॥