स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०१६
अध्याय १६
श्रीमार्कण्डेय उवाच -
समातृभिर्भूतगणश्च घोरैर्वृतः समन्तात्स ननर्त शूली ।
गजेन्द्रचर्मावरणे वसानः संहर्तुकामश्च जगत्समस्तम् ॥ १६.१ ॥
महेश्वरः सर्वसुरेश्वराणां मन्त्रैरनेकेखबद्धमाली ।
मेदोवसारक्तविचर्चिताङ्गस्त्रैलोक्यदाहे प्रणनर्त शम्भुः ॥ १६.२ ॥
स कालरात्र्या सहितो महात्मा काले त्रिलोकीं सकलां जहार ।
संवर्तकाख्यः सहभानुभावः शम्भुर्महात्मा जगतो वरिष्ठः ॥ १६.३ ॥
स विस्फुलिङ्गोत्करधूममिश्रं महोल्कवज्राशनिवाततुल्यम् ।
ततोऽट्टहासं प्रमुमोच घोरं विवृत्य वक्त्रं वडवामुखाभम् ॥ १६.४ ॥
सहस्रवज्राशनिसंनिभेन तेनाट्टहासेन हरोद्गतेन ।
आपूरितास्तत्र दिशो दशैव संक्षोभिताः सर्वमहार्णवाश्च ॥ १६.५ ॥
स ब्रह्मलोकं प्रजगाम शब्दो ब्रह्माण्डभाण्डं प्रचचाल सर्वम् ।
किमेतदित्याकुलचेतनास्ते वित्रस्तरूपा ऋषयो बभूवुः ॥ १६.६ ॥
प्रणम्य सर्वे सहसैव भीता ब्रह्माणमूचुः परमेश्वरेशम् ।
भीताश्च सर्वे ऋषयस्ततस्ते सुरासुरैश्चैव महोरगैश्च ॥ १६.७ ॥
विद्युत्प्रभाभासुरभीषणाङ्गः क एष चिक्रीडति भूतलस्थः ।
कालानलं गात्रमिदं दधानो यस्याट्टहासेन जगद्विमूढम् ॥ १६.८ ॥
वित्रस्तरूपं प्रबभौ क्षणेन संहर्तुमिच्छेत्किमयं त्रिलोकीम् ।
सार्धं त्वया सप्तभिरर्णकैश्च जनस्तपः सत्यमभिप्रयाति ॥ १६.९ ॥
संहर्तुकामो हि क एष देव एतत्समस्तं कथयाप्रमेय ।
न दृष्टमेतद्विषमं कदापि जानासि तत्त्वं परमो मतो नः ॥ १६.१० ॥
निशम्य तद्वाक्यमथाबभाषे ब्रह्मा समाश्वास्य सुरादिसङ्घान् ॥ १६.११ ॥
श्रीब्रह्मोवाच -
स एष कालस्त्रिदिवं त्वशेषं संहर्तुकामो जगदक्षयात्मा ।
पूर्णे च शेते परिवत्सराणां भविष्यतीशानविभुर्न चित्रम् ॥ १६.१२ ॥
संवत्सरोऽयं परिवत्सरश्च उद्वत्सरो वत्सर एष देवः ।
दृष्टोऽप्यदृष्टः प्रहुतः प्रकाशी स्थूलश्च सूक्ष्मः परमाणुरेषः ॥ १६.१३ ॥
नातः परं किंचिदिहास्ति लोके परापरोऽयं प्रभुरात्मवादी ।
तुष्येत मे कालसमानरूप इत्येवमुक्त्वा भगवान्सुरेशः ॥ १६.१४ ॥
सनत्कुमारप्रमुखैः समेतः संतोषयामास ततो यतात्मा ॥ १६.१५ ॥
ब्रह्मोवाच -
नमोऽस्तु सर्वाय सुशान्तमूर्ताये ह्यघोररूपाय नमोनमस्ते ।
सर्वात्मने सर्व नमोनमस्ते महात्मने भूतपते नमस्ते ॥ १६.१६ ॥
ओङ्कार हुङ्कारपरिष्कृताय स्वधावषट्कार नमोनमस्ते ।
गुणत्रयेशाय महेश्वराय ते त्रयीमयाय त्रिगुणात्मने नमः ॥ १६.१७ ॥
त्वं शङ्करत्वं हि महेश्वरोऽसि प्रधानमग्र्यं त्वमसि प्रविष्टः ।
त्वं विष्णुरीशः प्रपितामहश्च त्वं सप्तजिह्वस्त्वमनन्तजिह्वः ॥ १६.१८ ॥
स्रष्टासि सृष्टिश्च विभो त्वमेव विश्वस्य वेद्यं च परं निधानम् ।
आहुर्द्विजा वेदविदो वरेण्यं परात्परस्त्वं परतः परोऽसि ॥ १६.१९ ॥
सूक्ष्मातिसूक्ष्मं प्रवदन्ति यच्च वाचो निवर्तन्ति मनो यतश्च ॥ १६.२० ॥
श्रीमहादेव उवाच -
त्वया स्तुतोऽहं विविधैश्च मन्त्रैः पुष्णामि शान्तिं तव पद्मयोने ।
ईक्षस्व मां लोकमिमं ज्वलन्तं वक्त्रैरनेकैः प्रसभं हरन्तम् ॥ १६.२१ ॥
एवमुक्त्वा स देवेशो देव्या सह जगत्पतिः ।
पितामहं समाश्वास्य तत्रैवान्तरधीयत ॥ १६.२२ ॥
इदं महत्पुण्यतमं वरिष्ठं स्तोत्रं निशम्येह गतिं लभन्ते ।
पापैरनेकैः परिवेष्टिता ये प्रयान्ति रुद्रं विमलैर्विमानैः ॥ १६.२३ ॥
भयं च तेषां न भवेत्कदाचित्पठन्ति ये तात इदं द्विजाग्र्याः ।
सङ्ग्रामचौराग्निवने तथाब्धौ तेषां शिवस्त्राति न संशयोऽत्र ॥ १६.२४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये ब्रह्मकृतशिवस्तुतिवर्णनं नाम षोडशोऽध्यायः ॥