स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०१८


अध्याय १८

श्रीमार्कण्डेय उवाच -
निर्दग्धेऽस्मिंस्ततो लोके सूर्यैरीश्वरसम्भवैः ।
सप्तभिश्चार्णवैः शुष्कैर्द्वीपैः सप्तभिरेव च ॥ १८.१ ॥
ततो मुखात्तस्य घना महोल्बणा निश्चेरुरिन्द्रायुधतुल्यरूपाः ।
घोराः पयोदा जगदन्धकारं कुर्वन्त ईशानवरप्रयुक्ताः ॥ १८.२ ॥
नीलोत्पलाभाः क्वचिदंजनाभा गोक्षीरकुन्देन्दुनिभाश्च केचित् ।
मयूरचन्द्राकृतयस्तथाऽन्ये केचिद्विधूमानलसप्रभाश्च ॥ १८.३ ॥
केचिन्महापर्वतकल्परूपाः केचिन्महामीनकुलोपमाश्च ।
केचिद्गजेन्द्राकृतयः सुरूपाः केचिन्महाकूटनिभाः पयोदाः ॥ १८.४ ॥
चलत्तरङ्गोर्मिसमानरूपा महापुरोधाननिभाश्च केचित् ।
सगोपुराट्टालकसंनिकाशाः सविद्युदुल्काशनिमण्डितान्ताः ॥ १८.५ ॥
समावृताङ्गः स बभूव देवः संवर्तकोनाम गणः स रौद्रः ।
प्रवर्षमाणो जगदप्रमाणमेकार्णवं सर्वमिदं चकार ॥ १८.६ ॥
ततो महामेघविवर्धमानमीशानमिन्द्राशनिभिर्वृताङ्गम् ।
ददर्श नाहं भयविह्वलाङ्गो गङ्गाजलौघैश्च समावृताङ्गः ॥ १८.७ ॥
गजाः पुनश्चैव पुनः पिबन्तो जगत्समन्तात्परिदह्यमानम् ।
आपूरितं चैव जगत्समन्तात्सर्वैश्च तैर्जग्मुरदर्शनं च ते ॥ १८.८ ॥
महार्णवाः सप्त सरांसि द्वीपा नद्योऽथ सर्वा अथ भूर्भुवश्च ।
आपूर्यमाणाः सलिलौघजालैरेकार्णवं सर्वमिदं बभूव ॥ १८.९ ॥
न दृश्यते किंचिदहो चराचरं निरग्निचन्द्रार्कमयेऽपि लोके ।
प्रणष्टनक्षत्रतमोऽन्धकारे प्रशान्तवातास्तमितैकनीडेः ॥ १८.१० ॥
महाजलौघेऽस्य विशुद्धसत्त्वा स्तुतिर्मया भूप कृता तदानीम् ।
ततोऽहमित्येव विचिन्तयानः शरण्यमेकं क्व नु यामि शान्तम् ॥ १८.११ ॥
स्मरामि देवं हृदि चिन्तयित्वा प्रभुं शरण्यं जलसंनिविष्टः ।
नमामि देवं शरणं प्रपद्ये ध्यानं च तस्येति कृतं मया च ॥ १८.१२ ॥
ध्यात्वा ततोऽहं सलिलं ततार तस्य प्रसादादविमूढचेताः ।
ग्लानिः श्रमश्चैव मम प्रणष्टौ देव्याः प्रसादेन नरेन्द्रपुत्र ॥ १८.१३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्यवर्णनं नामाष्टादशोऽध्यायः ॥