स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०२४


अध्याय २४

श्रीमार्कण्डेय उवाच -
सङ्गमः करनर्मदयोः पुरे मान्धातृसंज्ञिते ।
गत्वा स्नात्वा तपयित्वा पित्ःन्विष्णुपुरं नयेत् ॥ २४.१ ॥
मर्दयित्वा करौ पूर्वं विष्णुर्दैत्यजिघांसया ।
चक्रं जग्राह तत्रैव स्वेदाज्जाता सरिद्वरा ॥ २४.२ ॥
संगता रेवया तत्र स्नात्वा पापैः प्रमुच्यते ॥ २४.३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये करनर्मदासङ्गममाहात्म्यवर्णनं नाम चतुर्विंशोऽध्यायः ॥