स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०२५


अध्याय २५

श्रीमार्कण्डेय उवाच -
ओंकारात्पूर्वभागे वै सङ्गमो लोकविश्रुतः ।
रेवया संगता यत्र नीलगङ्गा नृपोत्तम ॥ २५.१ ॥
तत्र स्नात्वा जपित्वा च कोऽर्थोऽलभ्यो भवेद्भुवि ।
षष्टिर्वर्षसहस्राणि नीलकण्ठपुरे वसेत् ॥ २५.२ ॥
तर्पयित्वा पितॄञ्श्राद्धे तिलमिश्रैर्जलैरपि ।
उद्धरेदात्मना सार्धं पुरुषानेकविंशतिम् ॥ २५.३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नीलगङ्गायाः सङ्गममाहात्म्यवर्णनंनाम पञ्चविंशोऽध्यायः ॥