स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०३७
अध्याय ३७
श्रीमार्कण्डेय उवाच -
ततो गच्छेत राजेन्द्र देवतीर्थमनुत्तमम् ।
येन देवास्त्रयस्त्रिंशत्स्नात्वा सिद्धिं परां गताः ॥ ३७.१ ॥
युधिष्ठिर उवाच -
कथं तात सुराः सर्वे दानवैर्बलवत्तरैः ।
निर्जितास्तत्र तीर्थे च स्नात्वा सिद्धिं परां गताः ॥ ३७.२ ॥
मार्कण्डेय उवाच -
पुरा दैत्यगणैरुग्रैर्युद्धेऽतिबलवत्तरैः ।
इन्द्रो देवगणैः सार्द्धं स्वराज्याच्च्यावितो नृप ॥ ३७.३ ॥
हस्त्यश्वरथयानौघैर्मर्दयित्वा वरूथिनीम् ।
विध्वस्ता भेजिरे मार्गं प्रहारैर्जर्जरीकृताः ॥ ३७.४ ॥
जम्भशुम्भैश्च कूष्माण्डकुहकादिभिः ।
वेपमानार्दिताः सर्वे ब्रह्माणमुपतस्थिरे ॥ ३७.५ ॥
प्रणम्य शिरसा देवं ब्रह्माणं परमेष्ठिनम् ।
तदा विज्ञापयामासुर्देवा वह्निपुरोगमाः ॥ ३७.६ ॥
पश्य पश्य महाभाग दानवैः शकलीकृताः ।
वियोजिताः पुत्रदारैस्त्वामेव शरणं गताः ॥ ३७.७ ॥
परित्रायस्व देवेश सर्वलोकपितामह ।
नान्या गतिः सुरेशान त्वां मुक्त्वा परमेश्वर ॥ ३७.८ ॥
ब्रह्मोवाच -
दानवानां विघातार्थं नर्मदातटमास्थिताः ।
तपः कुरुध्वं स्वस्थाः स्थ तपो हि परमं बलम् ॥ ३७.९ ॥
नान्योपायो न वै मन्त्रो विद्यते न च मे क्रिया ।
विना रेवाजलं पुण्यं सर्वपापक्षयंकरम् ॥ ३७.१० ॥
दारिद्र्यव्याधिमरणबन्धनव्यसनानि च ।
एतानि चैव पापस्य फलानीति मतिर्मम ॥ ३७.११ ॥
एवं ज्ञात्वा ततश्चैव तपः कुरुत दुष्करम् ।
तथा चैव सुराः सर्वे देवा ह्यग्निपुरोगमाः ॥ ३७.१२ ॥
तच्छ्रुत्वा वचनं तथ्यं ब्रह्मणः परमेष्ठिनः ।
नर्मदामागताः सर्वे देवा ह्यग्निपुरोगमाः ॥ ३७.१३ ॥
चेरुर्वै तत्र विपुलं तपः सिद्धिमवाप्नुवन् ।
तदाप्रभृति तत्तीर्थं देवतीर्थमनुत्तमम् ॥ ३७.१४ ॥
गीयते त्रिषु लोकेषु सर्वपापक्षयंकरम् ।
तत्र गत्वा च यो मर्त्यो विधिना संयतेन्द्रियः ॥ ३७.१५ ॥
स्नानं समाचरेद्भक्त्या स लभेन्मौक्तिकं फलम् ।
यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप ॥ ३७.१६ ॥
स लभेन्मुख्यविप्राणां फलं साहस्रिकं नृप ।
तत्र देवशिला रम्या महापुण्यविवर्धिनी ॥ ३७.१७ ॥
संन्यासेन मृता ये तु तेषां स्यादक्षया गतिः ।
अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप ॥ ३७.१८ ॥
रुद्रलोके वसेत्तावद्यावदाभूतसंप्लवम् ।
एवं स्नानं जपो होमः स्वाध्यायो देवतार्चनम् ॥ ३७.१९ ॥
सुकृतं दुष्कृतं वाऽपि तत्र तीर्थेऽक्षयं भवेत् ।
एष ते विधिरुद्दिष्ट उत्पत्तिश्चैव भारत ॥ ३७.२० ॥
देवतीर्थस्य निखिला यथा वै शङ्कराच्छ्रुता ।
पठन्ति ये पापहरं सर्वदुःखविमोचनम् ॥ ३७.२१ ॥
देवतीर्थस्य चरितं देवलोकं व्रजन्ति ते ॥ ३७.२२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥