स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०४२


अध्याय ४२

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र पिप्पलेश्वरमुत्तमम् ।
यत्र सिद्धो महायोगी पिप्पलादो महातपाः ॥ ४२.१ ॥

युधिष्ठिर उवाच -
पिप्पलादस्य चरितं श्रोतुमिच्छाम्यहं विभो ।
माहात्म्यं तस्य तीर्थस्य यत्र सिद्धो महातपाः ॥ ४२.२ ॥
कस्य पुत्रो महाभाग किमर्थं कृतवांस्तपः ।
एतद्विस्तरतः सर्वं कथयस्व ममानघ ॥ ४२.३ ॥

मार्कण्डेय उवाच -
मिथिलास्थो महाभागो वेदवेदाङ्गपारगः ।
याज्ञवल्क्यः पुरा तात चचार विपुलं तपः ॥ ४२.४ ॥
तापसी तस्य भगिनी याज्ञवल्क्यस्य धीमतः ।
सा सप्तमेऽपि वर्षे च वैधव्यं प्राप दैवतः ॥ ४२.५ ॥
पूर्वकर्मविपाकेन हीनाभूत्पितृमातृतः ।
नाभूत्तत्पतिपक्षेऽपि कोऽपीत्येकाकिनी स्थिता ॥ ४२.६ ॥
भूमौ भ्रमन्ती भ्रातुः सा समीपमगमच्छनैः ।
चचार च तपः सोऽपि परलोकसुखेप्सया ॥ ४२.७ ॥
चचार सापि तत्रस्था शुश्रूषन्ती महत्तपः ।
कस्मिंश्चित्समये साथ स्नाताहनि रजस्वला ॥ ४२.८ ॥
अन्तर्वासो धृतवती दृष्ट्वा कर्पटकं रहः ।
याज्ञवल्क्योऽपि तद्रात्रौ सुप्तो यत्र सुसंवृतः ॥ ४२.९ ॥
स्वप्नं दृष्ट्वात्यजच्छुक्रं कौपीने रक्तबिन्दुवत् ।
विराजितेन तपसा सिद्धं तदनलप्रभम् ॥ ४२.१० ॥
यावत्प्रबुद्धो विप्रोऽसौ वीक्ष्योच्छिष्टं तदंशुकम् ।
चिक्षेप दूरतोऽस्पृश्यं शौचं कृत्वा विधानतः ॥ ४२.११ ॥
निषिद्धं तु निशि स्नानमिति सुष्वाप स द्विजः ।
निशीथे सापि तद्वस्त्रं भगस्यावरणं व्यधात् ॥ ४२.१२ ॥
प्रातरन्वेषयामास मुनिर्वस्त्रमितस्ततः ।
ततः सा ब्राह्मणी प्राह किं अन्वेषयसे प्रभो ।
केन कार्यं तव तथा वदस्व मम तत्त्वतः ॥ ४२.१३ ॥

याज्ञवल्क्य उवाच -
अपवित्रो मया भद्रे स्वप्नो दृष्टोऽद्य वै निशि ।
सक्लेदं तत्र मे वस्त्रं निक्षिप्तं तन्न दृश्यते ॥ ४२.१४ ॥
तच्छ्रुत्वा ब्राह्मणी वाक्यं भीतभीतावदन्नृप ।
तद्वस्त्रं तु मया विप्र स्नात्वा ह्यन्तः कृतं महत् ॥ ४२.१५ ॥
तस्यास्तद्वचनं श्रुत्वा हाहेत्युक्त्वा महामुनिः ।
निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ ४२.१६ ॥
किमेतदिति सेत्युक्त्वा ह्याकाशमिव निर्मला ।
आश्वासयन्ती तं विप्रं प्रोवाच वचनं तदा ॥ ४२.१७ ॥
वदस्व कारणं तात गुह्याद्गुह्यतरं यदि ।
प्रतीकारोऽस्य येनैव विमृश्य क्रियते त्वरा ॥ ४२.१८ ॥
ततः स सुचिरं ध्यात्वा लब्धवाग्वै ततः क्षणम् ।
प्रोवाच साध्वसमना यत्तच्छृणु नरेश्वर ॥ ४२.१९ ॥
नात्र दोषोऽस्ति ते कश्चिन्मम चैव शुभव्रते ।
तवोदरे तु गर्भो यस्तत्र दैवं परायणम् ॥ ४२.२० ॥
तस्य तत्त्वेन रक्षा च त्वया कार्या सदैव हि ।
विनाशी नैव कर्तव्यो यावत्कालस्य पर्ययः ॥ ४२.२१ ॥
तथेति व्रीडिता साध्वी दूयमानेन चेतसा ।
अपालयच्च तं गर्भं यावत्पुत्रो ह्यजायत ॥ ४२.२२ ॥
जातमात्रं च तं गर्भं गृहीत्वा ब्राह्मणी च सा ।
अश्वत्थच्छायामाश्रित्य तमुत्सृज्य वचोऽब्रवीत् ॥ ४२.२३ ॥
यानि सत्त्वानि लोकेषु स्थावराणि चराणि च ।
तानि सर्वाणि रक्षन्तु त्यक्तं वै बालकं मया ॥ ४२.२४ ॥
एवमुक्त्वा गता सा तु ब्राह्मणी नृपसत्तम ।
तथागतः स तु शिशुस्तत्र स्थित्वा मुहूर्तकम् ॥ ४२.२५ ॥
पाणिपादौ विनिक्षिप्य निकुञ्च्य नयने शुभे ।
आस्यं तु विकृतं कृत्वा रुरोद विकृतैः स्वरैः ॥ ४२.२६ ॥
तेन शब्देन वित्रस्ताः स्थावरा जङ्गमाश्च ये ।
आकम्पिता महोत्पातैः सशैलवनकानना ॥ ४२.२७ ॥
ततो ज्ञात्वा महद्भूतं क्षुधाविष्टं द्विजर्षभम् ।
न जहाति नगश्छायां पानार्थाय ततः परम् ।
अपिबच्च सुतं तस्मादभृतं चैव भारत ॥ ४२.२८ ॥
एवं स वर्धितस्तत्र कुमारो निजचेतसि ।
चिन्तयामास विश्रब्धः किं मम ग्रहगोचरम् ॥ ४२.२९ ॥
ततः क्रूरसभाचारः क्रूरं दृष्ट्वा निरीक्षितः ।
पपात सहसा भूमौ शनैश्चारी शनैश्चरः ॥ ४२.३० ॥
उवाच च भयत्रस्तः कृताञ्जलिपुटस्तदा ।
किं मयापकृतं विप्र पिप्पलाद महामुने ॥ ४२.३१ ॥
चरन्वै गगनाद्येन पातितो धरणीतले ।
सौरिणा ह्येवमुक्तस्तु पिप्पलादो महामुनिः ॥ ४२.३२ ॥
क्रोधरूपोऽब्रवीद्वाक्यं तच्छृणुष्व नराधिप ।
पितृमातृविहीनस्य मम बालस्य दुर्मते ।
पीडां करोषि कस्मात्त्वं सौरे ब्रूहि ह्यशेषतः ॥ ४२.३३ ॥

शनैश्चर उवाच -
क्रूरस्वभावः सहजो मम दृष्टिस्तथेदृशी ।
मुञ्चस्व मां तथा कर्ता यद्ब्रवीषि न संशयः ॥ ४२.३४ ॥

पिप्पलाद उवाच -
अद्यप्रभृति बालानां वर्षादा षोडशाद्ग्रह ।
पीडा त्वया न कर्तव्या एष ते समयः कृतः ॥ ४२.३५ ॥
एवमस्त्विति चोक्त्वा स जगाम पुनरागतः ।
देवमार्गं शनैश्चारी प्रणम्य ऋषिसत्तमम् ॥ ४२.३६ ॥
गते चादर्शनं तत्र सोऽपि बालो महाग्रहः ।
विचिन्तयन्वै पितरं क्रोधेन कलुषीकृतः ॥ ४२.३७ ॥
आग्नेयीं धारणां ध्यात्वा जनयामास पावकम् ।
कृत्यामन्त्रैर्जुहावाग्नौ कृत्या वै संभवत्विति ॥ ४२.३८ ॥
तावज्झटिति सा कन्या ज्वालामालाविभूषिता ।
हुतभुक्सदृशाकारा किं करोमीति चाब्रवीत् ॥ ४२.३९ ॥
शोषयामि समुद्रान् किं चूर्णयामि च पर्वतान् ।
अवनिं वेष्टयामीति पातये किं नभस्तलम् ॥ ४२.४० ॥
कस्य मूर्ध्नि पतिष्यामि घातयामि च कं द्विज ।
शीघ्रमादिश्यतां कार्यं मा मे कालात्ययो भवेत् ॥ ४२.४१ ॥
तस्यास्तद्वचनं श्रुत्वा पिप्पलादो महातपाः ।
क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥ ४२.४२ ॥
महता क्रोधवेगेन मया त्वं चिन्तिता शुभे ।
पिता मे याज्ञवल्क्यश्च तस्य त्वं पत माचिरम् ॥ ४२.४३ ॥
एवमुक्त्वागमच्छीघ्रं स्फोटयन्ती नभस्तलम् ।
मिथिलास्थो महाप्राज्ञस्तपस्तेपे महामनाः ॥ ४२.४४ ॥
यावत्पश्यति दिग्भागं ज्वलनार्कसमप्रभम् ।
याज्ञवल्क्यो महातेजा महद्भूतमुपस्थितम् ॥ ४२.४५ ॥
तद्दृष्ट्वा सहसायान्तं भीतभीतो महामुनिः ।
अनुयुक्तोऽथ भूतेन जनकं नृपतिं ययौ ॥ ४२.४६ ॥
शरण्यं मामनुप्राप्तं विद्धि त्वं नृपसत्तम ।
महद्भूतभयाद्रक्ष यदि शक्नोषि पार्थिव ॥ ४२.४७ ॥
ब्रह्मतेजोभवं भूतमनिवार्यं दुरासदम् ।
न च शक्नोम्यहं त्रातुं राजा वचनमब्रवीत् ॥ ४२.४८ ॥
ततश्चान्यं नृपश्रेष्ठं शरणार्थी महातपाः ।
जगाम तेन मुक्तोऽसौ चेन्द्रस्य सदनं भयात् ॥ ४२.४९ ॥
देवराज नमस्तेऽस्तु महाभूतभयान्नृप ।
कम्पमानोऽब्रवीद्विप्रो रक्षस्वेति पुनःपुनः ॥ ४२.५० ॥
तस्य तद्वचनं श्रुत्वा देवराजोऽब्रवीदिदम् ।
न शक्नोमि परित्रातुं ब्रह्मकोपादहं मुने ॥ ४२.५१ ॥
ततः स ब्रह्मभवनं ब्राह्मणो ब्रह्मवित्तमः ।
जगाम विष्णुलोकं च तेनापीत्युक्त एव सः ॥ ४२.५२ ॥
ततः स मुनिरुद्विग्नो निराशो जीविते नृप ।
अनुगम्यमानो भूतेन अगच्छच्छङ्करालयम् ॥ ४२.५३ ॥
तस्य योगबलोपेतो महादेवस्य पाण्डव ।
नखमांसान्तरे गुप्तो यथा देवो न पश्यति ॥ ४२.५४ ॥
तदन्ते चागमद्भूतं ज्वलनार्कसमप्रभम् ।
मुञ्च मुञ्चेति पुरुषं देवदेवं महेश्वरम् ॥ ४२.५५ ॥
एवमुक्तो महादेवस्तेन भूतेन भारत ।
योगीन्द्रं दर्शयामास नखमांसान्तरे तदा ॥ ४२.५६ ॥
संस्थाप्य भूतं भूतेशः परमापद्गतं मुनिम् ।
उवाच मा भैस्त्वं विप्र निर्गच्छस्व महामुने ॥ ४२.५७ ॥
ततः सुसूक्ष्मदेहस्थं भूतं दृष्ट्वाब्रवीदिदम् ।
किमस्य त्वं महाभूत करिष्यसि वदस्व मे ॥ ४२.५८ ॥

कृत्योवाच -
क्रोधाविष्टेन देवेश पिप्पलादेन चिन्तिता ।
अस्य देहं हनिष्यामि हिंसार्थं विद्धि मां प्रभो ॥ ४२.५९ ॥
एतच्छ्रुत्वा महादेवो भूतस्य वदनाच्च्युतम् ।
कटिस्थं याज्ञवल्क्यं च मन्त्रयामास मन्त्रवित् ॥ ४२.६० ॥
योगीश्वरेति विप्रस्य कृत्वा नाम युधिष्ठिर ।
विसर्जयित्वा देवेशस्तत्रैवान्तरधीयत ॥ ४२.६१ ॥
प्रेषयित्वा तु तं भूतं पिप्पलादोऽपि दुर्मनाः ।
पितृमातृसमुद्विग्नो नर्मदातटमाश्रितः ॥ ४२.६२ ॥
एकाङ्गुष्ठो निराहारो वर्षादा षोडशान्नृप ।
तोषयामास देवेशमुमया सह शङ्करम् ॥ ४२.६३ ॥
ततस्तत्तपसा तुष्टः शङ्करो वाक्यमब्रवीत् ॥ ४२.६४ ॥

ईश्वर उवाच -
परितुष्टोऽस्मि ते विप्र तपसानेन सुव्रत ।
वरं वृणीष्व ते दद्मि मनसा चेप्सितं शुभम् ॥ ४२.६५ ॥

पिप्पलाद उवाच -
यदि मे भगवांस्तुष्टो यदि देयो वरो मम ।
अत्र संनिहितो देव तीर्थे भव महेश्वर ॥ ४२.६६ ॥
एवमुक्तस्तथेत्युक्त्वा पिप्पलादं महामुनिम् ।
जगामादर्शनं देवो भूतसङ्घसमन्वितः ॥ ४२.६७ ॥
पिप्पलादो गते देवे स्नात्वा तत्र महाम्भसि ।
स्थापयित्वा महादेवं जगामोत्तरपर्वतम् ॥ ४२.६८ ॥
तत्र तीर्थे नरो भक्त्या स्नात्वा मन्त्रयुतं नृप ।
तर्पयित्वा पित्ःन् देवान् पूजयेच्च महेश्वरम् ॥ ४२.६९ ॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।
मृतो रुद्रपुरं याति नात्र कार्या विचारणा ॥ ४२.७० ॥
अथ यो भोजयेद्विप्रान् पित्ःनुद्दिश्य भारत ।
तस्य ते द्वादशाब्दानि मोदन्ते दिवि तर्पिताः ॥ ४२.७१ ॥
संन्यासेन तु यः कश्चित्तत्र तीर्थे तनुं त्यजेत् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकात्कदाचन ॥ ४२.७२ ॥
एतत्सर्वं समाख्यातं यत्पृष्ठे हि त्वयानघ ।
माहात्म्यं पिप्पलादस्य तीर्थस्योत्पत्तिरेव च ॥ ४२.७३ ॥
एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ।
पठतां शृण्वतां चैव सर्वपापक्षयो भवेत् ॥ ४२.७४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये पिप्पलादतीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥