स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०५३

← अध्यायः ५२ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्
अध्यायः ५३
वेदव्यासः
अध्यायः ५४ →


 अध्याय ५३

उत्तानपाद उवाच -
आश्रमे वसतस्तस्य स दीर्घतपसो मुनेः ।
कनीयांस्तनयो देव कथं मृत्युमुपागतः ॥ ५३.१ ॥

ईश्वर उवाच -
शृणुष्वैकमना भूत्वा कथां दिव्यां महीपते ।
श्रवणादेव यस्यास्तु मुच्यते सर्वकिल्बिषैः ॥ ५३.२ ॥
काशीराजो महावीर्यो महाबलपराक्रमः ।
चित्रसेन इति ख्यातां धरण्यां स नराधिप ॥ ५३.३ ॥
तस्य राज्ये सदा धर्मो नाधर्मो विद्यते क्वचित् ।
वेदधर्मरतो नित्यं प्रजा धर्मेण पालयन् ॥ ५३.४ ॥
स्वधर्मनिरतश्चैव युद्धातिथ्यप्रियः सदा ।
क्षत्रधर्मं समाश्रित्य भोगान्भुङ्क्ते स कामतः ॥ ५३.५ ॥
कोशस्यान्तो न विद्येत हस्त्यश्वरथपत्तिमान् ।
इतिहासपुराणज्ञैः पण्डितैः सह संकथाम् ॥ ५३.६ ॥
कथयन्राजते राजा कैलास इव शङ्करः ।
एवं स पालयन्राज्यं राजा मन्त्रिणमब्रवीत् ॥ ५३.७ ॥
मृगयायां गमिष्यामि तिष्ठध्वं राज्यपालने ।
गम्यतां सचिवैः प्रोक्ते गतोऽसौ वसुधाधिपः ॥ ५३.८ ॥
अश्वारूढाश्च धावन्तो राजानो मण्डलाधिपाः ।
छत्रैश्छत्राणि घृष्यन्तोऽनुजग्मुः काननं प्रति ॥ ५३.९ ॥
रजस्तत्रोत्थितं भौमं गजवाजिपदाहतम् ।
तेनैतच्छादितं सर्वं सदिङ्मार्तण्डमंलम् ॥ ५३.१० ॥
न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः ।
पादपाश्च न दृश्यन्ते गिरिशृङ्गाणि सर्वतः ॥ ५३.११ ॥
परस्परं न पश्यन्ति निशार्द्धे वार्षिके यथा ।
तत्रासौ सुमहद्यूथं मृगाणां समलक्ष्यत ॥ ५३.१२ ॥
अधावत्सहितः सर्वैः स राजा राजपुत्रकैः ।
वृन्दास्फोटोऽभवत्तेषां शीघ्रं जग्मुर्दिशो दश ॥ ५३.१३ ॥
एकमार्गगतो राजा चित्रसेनो महीपतिः ।
एकाकी स गतस्तत्र यत्र यत्र च ते मृगाः ॥ ५३.१४ ॥
प्रविष्टोऽसौ ततो दुर्गं काननं गिरिगह्वरम् ।
वल्लीगुल्मसमाकीर्णं स्थितो यत्र न लक्ष्यते ॥ ५३.१५ ॥
अदृश्यांस्तु मृगान्मत्वा दिशो राजा व्यलोकयत् ।
कां दिशं नु गमिष्यामि क्व मे सैन्यसमागमः ॥ ५३.१६ ॥
एवं कष्टं गतो राजा चित्रसेनो नराधिपः ।
वृक्षच्छायां समाश्रित्य विश्राममकरोन्नृपः ॥ ५३.१७ ॥
क्षुत्तृषार्तो भ्रमन्दुर्गे कानने गिरिगह्वरे ।
ततोऽपश्यत्सरो दिव्यं पद्मिनीखण्डमण्डितम् ॥ ५३.१८ ॥
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।
ततो दृष्ट्वा स राजेन्द्रः सम्प्रहृष्टतनूरुहः ॥ ५३.१९ ॥
कमलानि गृहीत्वा तु ततः स्नानं समाचरत् ।
तर्पयित्वा पितृदेवान्मनुष्यांश्च यथाविधि ॥ ५३.२० ॥
आच्छाद्य शतपत्रैश्च पूजयामास शङ्करम् ।
ययौ पानीयममलं यथावत्स समाहितः ॥ ५३.२१ ॥
उत्तीर्य सलिलात्तीरे दृष्ट्वा वृक्षं समीपगम् ।
उत्तरीयमधः कृत्वोपविष्टो धरणीतले ॥ ५३.२२ ॥
चिन्तयन्नुपविष्टोऽसौ किमद्य प्रकरोम्यहम् ।
तत्रासीनो ददर्शाथ वनोद्देशे मृगान्बहून् ॥ ५३.२३ ॥
केचित्पूर्वमुखास्तत्र चापरे दक्षिणामुखाः ।
वारुण्यमिमुखाः केचित्केचित्कौबेरदिङ्मुखाः ॥ ५३.२४ ॥
केचिन्निद्रापराः केचिदूर्ध्वकर्णाः स्थिताः परे ।
मृगमध्ये स्थितो योगी ऋक्षशृङ्गो महातपाः ॥ ५३.२५ ॥
मृगान्दृष्ट्वा ततो राजा आहारार्थमचिन्तयत् ।
हत्वैतेषु मृगं कंचिद्भक्षयामि यदृच्छया ॥ ५३.२६ ॥
स्वस्थावस्थो भविष्यामि मृगमांसस्य भक्षणात् ।
काशीं प्रति गमिष्यामि मार्गमन्विष्य यत्नतः ॥ ५३.२७ ॥
विचिन्त्यैवं ततो राजा वृक्षमूलमुपाश्रितः ।
चापं गृह्य कराग्रेण स शरं संदधे ततः ॥ ५३.२८ ॥
विचिक्षेप शरं तत्र यत्र ते बहवो मृगाः ।
तेषां मध्ये स वै विद्ध ऋक्षशृङ्गो महातपाः ॥ ५३.२९ ॥
जग्मुस्त्रस्तास्तु ते सर्वे शब्दं कृत्वा वनौकसः ।
स ऋषिः पतितस्तत्र कृष्ण कृष्णेति चाब्रवीत् ॥ ५३.३० ॥
हाहा कष्टं कृतं तेन येनाहं घातितोऽधुना ।
कस्यैषा दुर्मतिर्जाता पापबुद्धेर्ममोपरि ॥ ५३.३१ ॥
मृगमध्ये स्थितश्चाहं न कंचिदुपरोधये ।
तां वाचं मानुषीं श्रुत्वा स राजा विस्मयान्वितः ॥ ५३.३२ ॥
शीघ्रं गत्वा ततोऽपश्यद्ब्राह्मणं ब्रह्मतेजसा ।
हाहा कष्टं कृतं मेऽद्य येनासौ घातितो द्विजः ॥ ५३.३३ ॥

चित्रसेन उवाच -
अकामाद्घातितस्त्वं तु मृगभ्रान्त्या मयानघ ।
गृहीत्वा बहुदारूणि स्वतनुं दाहयाम्यहम् ॥ ५३.३४ ॥
दृष्टादृष्टं तु यत्किंचिन्न समं ब्रह्महत्यया ।
अन्यथा ब्रह्महत्यायाः शुद्धिर्मे न भविष्यति ॥ ५३.३५ ॥

ऋक्षशृङ्ग उवाच -
न ते सिद्धिर्भवेत्काचिन्मयि पञ्चत्वमागते ।
बह्व्यो हत्या भविष्यन्ति विनाशे मम साम्प्रतम् ॥ ५३.३६ ॥
जननी मे पिता वृद्धो भ्रातरश्च तपस्विनः ।
भ्रातृजाया मरिष्यन्ति मयि पञ्चत्वमागते ॥ ५३.३७ ॥
एता हत्या भविष्यन्ति कथं शुद्धिर्भवेत्तव ।
उपायं कथयिष्यामि तं कर्तुं यदि मन्यसे ॥ ५३.३८ ॥

चित्रसेन उवाच -
उपायः कथ्यतां मेऽद्य यस्ते मनसि वर्तते ।
करिष्ये तमहं सर्वं यत्नेनापि महामुने ॥ ५३.३९ ॥

ऋक्षशृङ्ग उवाच -
पृच्छामि त्वां कथं को वा कुतस्त्वमिह चागतः ।
ब्रह्मक्षत्रविशां मध्ये को भवानुत शूद्रजः ॥ ५३.४० ॥

चित्रसेन उवाच -
नाहं शूद्रोऽस्मि भोस्तात न वैश्यो ब्राह्मणो न वा ।
न चान्त्यजोऽस्मि विप्रेन्द्र क्षत्रियोऽस्मि महामुने ॥ ५३.४१ ॥
धर्मज्ञश्च कृतज्ञश्च सर्वसत्त्वहिते रतः ।
अकामात्पातकं जातं कथं शुद्धिर्भविष्यति ॥ ५३.४२ ॥

ऋक्षशृङ्ग उवाच -
मां गृहीत्वा आश्रमं गच्छ यत्र तौ पितरौ मम ।
आवेदयस्व चात्मानं पुत्रघातिनमातुरम् ॥ ५३.४३ ॥
ते दृष्ट्वा मां करिष्यन्ति कारुण्यं च तवोपरि ।
उपायं कथयिष्यन्ति येन शान्तिर्भविष्यति ॥ ५३.४४ ॥
तस्य तद्वचनं श्रुत्वा चित्रसेनो नृपोत्तम ।
स्कन्धे कृत्वा तु तं विप्रं जगामाश्रमसन्निधौ ॥ ५३.४५ ॥
न शक्नोति यदा वोढुं विश्राम्यति पुनःपुनः ।
तावत्पश्यति तं विप्रं मूर्छितं विकलेन्द्रियम् ॥ ५३.४६ ॥
मुमोच चित्रसेनस्तं छायायां वटभूरुहः ।
वस्त्रं चतुर्गुणं कृत्वा चक्रे वातं मुहुर्मुहुः ॥ ५३.४७ ॥
पश्यतस्तस्य राजेन्द्र ऋक्षशृङ्गो महातपाः ।
पञ्चत्वमगमच्छीघ्रं ध्यानयोगेन योगवित् ॥ ५३.४८ ॥
दाहयामास तं विप्रं विधिदृष्टेन कर्मणा ।
स्नानं कृत्वा स शोकार्तो विललाप मुहुर्मुहुः ॥ ५३.४९ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये ऋक्षशृङ्गस्वर्गगमनवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥