स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०५९

← अध्यायः ५८ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्
अध्यायः ५९
वेदव्यासः
अध्यायः ६० →


अध्याय ५९

श्रीमार्कण्डेय उवाच -
ततः पुष्करिणीं गच्छेत्सर्वपापप्रणाशिनीम् ।
श्रुते यस्याः प्रभावे तु सर्वपापैः प्रमुच्यते ॥ ५९.१ ॥
रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।
यत्रास्ते सर्वदा देवो वेदमूर्तिर्दिवाकरः ॥ ५९.२ ॥
कुरुक्षेत्रं यथा पुण्यं सार्वकामिकमुत्तमम् ।
इदं तीर्थं तथा पुण्यं सर्वकामफलप्रदम् ॥ ५९.३ ॥
कुरुक्षेत्रे यथा वृद्धिर्दानस्य जगतीपते ।
पुष्करिण्यां तथा दानं वर्धते नात्र संशयः ॥ ५९.४ ॥
यवमेकं तु यो दद्यात्सौवर्णं मस्तके नृप ।
पुष्करिण्यां तथा स्थानं यथा स्थानं नरे स्मृतम् ॥ ५९.५ ॥
सूर्यग्रहे तु यः स्नात्वा दद्याद्दानं यथाविधि ।
हस्त्यश्वरथरत्नादि गृहं गाश्च युगंधरान् ॥ ५९.६ ॥
सुवर्णं रजतं वापि ब्राह्मणेभ्यो ददाति यः ।
त्रयोदश दिनं यावत्त्रयोदशगुणं भवेत् ॥ ५९.७ ॥
तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः ।
द्वादशाब्दे भवेत्प्रीतिस्तत्र तीर्थे महीपते ॥ ५९.८ ॥
यस्तत्र कुरुते श्राद्धं पायसैर्मधुसर्पिषा ।
श्राद्धदो लभते स्वर्गं पित्ःणां दत्तमक्षयम् ॥ ५९.९ ॥
अक्षतैर्बदरैर्बिल्वैरिङ्गुदैर्वा तिलैः सह ।
अक्षयं फलमाप्नोति तस्मिंस्तीर्थे न संशयः ॥ ५९.१० ॥
तत्र स्नात्वा तु यो देवं पूजयेच्च दिवाकरम् ।
आदित्यहृदयं जप्त्वा पुनरादित्यमर्चयेत् ।
स गच्छेत्परमं लोकं त्रिदशैरपि वन्दितम् ॥ ५९.११ ॥
ऋचमेकां जपेद्यस्तु यजुर्वा साम एव च ।
स समग्रस्य वेदस्य फलमाप्नोति वै नृप ॥ ५९.१२ ॥
यस्त्र्यक्षरं जपेन्मन्त्रं ध्यायमानो दिवाकरम् ।
आदित्यहृदयं जप्त्वा मुच्यते सर्वपातकैः ॥ ५९.१३ ॥
यस्तत्र विधिवत्प्राणांस्त्यजते नृपसत्तम ।
स गच्छेत्परमं स्थानं यत्र देवो दिवाकरः ॥ ५९.१४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुष्करिण्यामादित्यतीर्थमाहात्म्यवर्णनं नामैकोनषष्टितमोऽध्यायः ॥