स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०६१


अध्याय ६१

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्परं पुण्यं नर्मदादक्षिणे तटे ।
शक्रतीर्थं सुविख्यातमशेषाघविनाशनम् ॥ ६१.१ ॥
पुरा शक्रेण तत्रैव तपो वै दुरतिक्रमम् ।
प्रारब्धं परया भक्त्या देवं प्रति महेश्वरम् ॥ ६१.२ ॥
ततः संतोषितो देव उमापतिर्नराधिप ।
देवेन्द्रत्वं वरं राज्यं दानवानां वधं ददौ ॥ ६१.३ ॥
लब्धं शक्रेण नृपते नर्मदातीर्थभावतः ।
ततः पुण्यतमं तीर्थं संजातं वसुधातले ॥ ६१.४ ॥
कार्त्तिकस्य तु मासस्य कृष्णपक्षे त्रयोदशीम् ।
उपोष्य वै नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ६१.५ ॥
दुःस्वप्नसम्भवैः पापैर्दुर्निमित्तसमुद्भवैः ।
ग्रहशाकिनिसम्भूतैर्मुच्यते पाण्डुनन्दन ॥ ६१.६ ॥
शक्रेश्वरं नृपश्रेष्ठ ये प्रपश्यन्ति भक्तितः ।
तेषां जन्मकृतं पापं नश्यते नात्र संशयः ॥ ६१.७ ॥
अगम्यागमने चैव अवाह्ये चैव वाहिते ।
स्वामिमित्रविघाते यन्नश्यते नात्र संशयः ॥ ६१.८ ॥
गोप्रदानं प्रकर्तव्यं शुभं ब्राह्मणपुंगवे ।
धुर्यं वा दापयेत्तस्मिन् सर्वाङ्गरुचिरं नृप ॥ ६१.९ ॥
दातव्यं परया भक्त्या स्वर्गे वासमभीप्सता ।
एतत्ते सर्वमाख्यातं शक्रेश्वरफलं नृप ॥ ६१.१० ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शक्रेश्वरतीर्थमाहात्म्यवर्णनं नामैकषष्टितमोऽध्यायः ॥