स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०६८


अध्याय ६८

श्रीमार्कण्डेय उवाच -
धनदस्य तु तत्तीर्थं ततो गच्छेद्युधिष्ठिर ।
नर्मदादक्षिणे कूले सर्वपापक्षयंकरम् ॥ ६८.१ ॥
सर्वतीर्थफलं तत्र प्राप्यते नात्र संशयः ।
चैत्रमासत्रयोदश्यां शुक्लपक्षे जितेन्द्रियः ॥ ६८.२ ॥
उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम् ।
पञ्चामृतेन राजेन्द्र स्नापयेद्धनदं बुधः ॥ ६८.३ ॥
दीपं घृतेन दातव्यं गीतं वाद्यं च कारयेत् ।
प्रभाते पूजयेद्विप्रानात्मनः श्रेय इच्छति ॥ ६८.४ ॥
प्रतिग्रहसमर्थांश्च विद्यासिद्धान्तवादिनः ।
श्रौतस्मार्तक्रियायुक्तान् परदारपराङ्मुखान् ॥ ६८.५ ॥
पूजयेद्गोहिरण्येन वस्त्रोपानहभोजनैः ।
छत्रशय्याप्रदानेन सर्वपापक्षयो भवेत् ॥ ६८.६ ॥
त्रिजन्मजनितं पापं वरदस्य प्रभावतः ।
स्वर्गदं दुर्विनीतानां विनीतानां च मोक्षदम् ॥ ६८.७ ॥
अन्नदं च दरिद्राणां भवेज्जन्मनिजन्मनि ।
कुलीनत्वं दुःखहानिः स्वभावाजायते नरे ॥ ६८.८ ॥
व्याधिध्वंसो भवेत्तेषां नर्मदोदकसेवनात् ।
धनदस्य तु यस्तीर्थे विद्यादानं प्रयच्छति ॥ ६८.९ ॥
स याति भास्करे लोके सर्वव्याधिविवर्जिते ।
देवद्रोणीं च तत्रैव स्वशक्त्या पाण्डुनन्दन ॥ ६८.१० ॥
ये प्रकुर्वन्ति भूयिष्ठां रेवाया दक्षिणे तटे ।
ते यान्ति शांकरे लोके सर्वदुःखविवर्जिते ॥ ६८.११ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धनदतीर्थमाहात्म्यवर्णनं नामाष्टषष्टितमोऽध्यायः ॥