स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०६९


अध्याय ६९

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र मङ्गलेश्वरमुत्तमम् ।
स्थापितं भूमिपुत्रेण लोकानां हितकाम्यया ॥ ६९.१ ॥
तोषितः परया भक्त्या शङ्करः शशिशेखरः ।
चतुर्दश्यां गुरुर्देवः प्रत्यक्षो मङ्गलेश्वरः ॥ ६९.२ ॥
ब्रूहि पुत्र वरं शुभ्रं तं ते दास्यामि मङ्गल ॥ ६९.३ ॥

मङ्गल उवाच -
प्रसादं कुरु मे शम्भो प्रतिजन्मनि शङ्कर ।
त्वदङ्गस्वेदसम्भूतो ग्रहमध्ये वसाम्यहम् ॥ ६९.४ ॥
त्वत्प्रसादेन ईशान पूज्योऽहं सर्वदैवतैः ।
कृतार्थो ह्यद्य संजातस्तव दर्शनभाषणात् ॥ ६९.५ ॥
स्थानेऽस्मिन् देवदेवेश मम नाम्ना महेश्वरः ।
एवं भवतु ते पुत्रेत्युक्त्वा चान्तरधीयत ॥ ६९.६ ॥
मङ्गलोऽपि महात्मा वै स्थापयित्वा महेश्वरम् ।
आत्मयोगबलेनैव शूलिनापूजयत्ततः ॥ ६९.७ ॥
सर्वदुःखहरं लिङ्गं नाम्ना वै मङ्गलेश्वरम् ।
तत्र तीर्थे तु वै राजन्ब्राह्मणान्प्रीणयेत्सुधीः ॥ ६९.८ ॥
सपत्नीकान्नृपश्रेष्ठ चतुर्थ्यङ्गारके व्रते ।
पत्नीभर्तारसंयुक्तं विद्वांसं श्रोत्रियं द्विजम् ॥ ६९.९ ॥
व्रतान्ते चैव गौर्धुर्यैः शिवमुद्दिश्य दीयते ।
प्रीयतां मे महादेवः सपत्नीको वृषध्वजः ॥ ६९.१० ॥
वस्त्रयुग्मं प्रदातव्यं लोहितं पाण्डुनन्दन ।
धूर्वहौ रक्तवर्णौ च शुभ्रं कृष्णं तथैव च ॥ ६९.११ ॥
छत्रं शय्यां शुभां चैव रक्तमाल्यानुलेपनम् ।
दातव्यं पाण्डवश्रेष्ठ विशुद्धेनान्तरात्मना ॥ ६९.१२ ॥
चतुर्थ्यां तु तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ।
श्राद्धं तत्रैव कर्तव्यं वित्तशाठ्येन वर्जितः ॥ ६९.१३ ॥
प्रेता भवन्ति सुप्रीता युगमेकं महीपते ।
सपुत्रो जायते मर्त्यः प्रतिजन्म नृपोत्तम ॥ ६९.१४ ॥
तस्य तीर्थस्य भावेन सर्वाङ्गरुचिरो नृप ।
मङ्गलं भवते वंशो नाशुभं विद्यते क्वचित् ॥ ६९.१५ ॥
भक्त्या यः कीर्तयेन्नित्यं तस्य पापं व्यपोहति ॥ ६९.१६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनसप्ततितमोऽध्यायः ॥