स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०७०


अध्याय ७०

श्रीमार्कण्डेय उवाच -
रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।
रविणा निर्मितं पार्थ सर्वपापक्षयंकरम् ॥ ७०.१ ॥
स्वांशेन भास्करस्तत्र तिष्ठते चोत्तरे तटे ।
सर्वव्याधिहरः पुंसां नर्मदायां व्यवस्थितः ॥ ७०.२ ॥
षष्ठ्यांषष्ठ्यां नृपश्रेष्ठ ह्यष्टम्यां च चतुर्दशीम् ।
स्नानं यः कारयेन्मर्त्यः श्राद्धं प्रेतेषु भक्तितः ।
तस्य पापक्षयः पार्थ सूर्यलोके महीयते ॥ ७०.३ ॥
ततः स्वर्गाच्च्युतः सोऽपि जायते विमले कुले ।
धनाढ्यो व्याधिनिर्मुक्तो जीवेज्जन्मनिजन्मनि ॥ ७०.४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थमाहात्म्यवर्णनं नाम सप्ततितमोऽध्यायः ॥